06 आरम्भणाधिकरणम्

॥ तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ सङ्गतिमाह - असदितीति । इत्यादिषुसूत्रेष्वित्यर्थः । ब्रह्मणो जगत्कारणत्वं सम्भवति नेति । किं ब्रह्म कार्यत्वे जगतः श्रुतिसिद्धं ब्रह्मणोऽनन्यत्वं सम्भवति, नेति । किं “वाचारम्भण"मित्यादिवाक्यानि कारणस्यैवावस्थान्तरापत्त्या कार्यत्वं बोधयितुं प्रभवन्ति नेति । किं बुद्धिशब्दान्तरादयोऽवस्थाभेदनिबन्धनाः उत द्रव्यभेदनिबन्धनाः? इति । यदा बुद्धिभेदादयः स्वरूपान्यत्वनिबन्धनाः तदा कार्यस्य कारणादन्यतया जगतो ब्रह्मान्यत्वांपत्तेस्तदनन्यतया व्यपदिश्यमानं ब्रह्म न कारणं भवतीति स्यात् । यदा बुद्धिभेदादीनामवस्थान्तरनिबन्धनत्वं तदा कार्यस्य कारणादनन्यत्वेन जगतो ब्रह्मानन्यत्वसिद्धेस्तदनन्यतया व्यपदिश्यमानस्य ब्रह्मणो जगत्कारणत्वं सम्भवतीति सिध्यति । अत्र केचित्तदनन्यत्वं वर्णयन्ति, तस्मात्कारणाद्ब्रह्मणः कार्यस्यानन्यत्वम्, परमार्थतो व्यतिरेकेणाभाव इति । जडाजडयोरेकत्वायोगादनन्यत्वं नाम नैक्यम्, किन्तु भेदाभावः । भेदस्य प्रतीयमानत्वादसत्त्वस्य दुर्वचत्वात् परमार्थतो व्यतिरेकेणाभाव इत्युक्तम्; तत्तावन्निरूप्यम् । यद्यनन्यशब्दो बहुव्रीहिरभिमतः तदाऽन्यशून्यत्वमनन्यत्वम्, तेन कार्यधर्मिनिषेधात् प्रपञ्चमिथ्यात्वं सिध्यति, यथा निर्धनत्वमिति धनाभावः, तथा सति तस्यानन्यत्वमिति योजनीयम्, न तु तस्मादिति, पुरुषस्य निर्धनत्वमिति हि व्यपदेशः, न तु पुरुषान्निर्धनत्वमिति; तस्मात्कारणात् परमार्थतोऽनन्यत्वं व्यतिरेकेणाभावः कार्यस्यावगम्यत इति हि तेषां योजना, अतस्तत्पुरुषसामर्थ्यादनन्यत्वमन्यत्वाभावः स्यात्, ततश्चैक्यं विहितं स्यात्, न तु मिथ्यात्वम्, यथा मनुष्यादनन्यत्वं ब्राह्मणस्य वृक्षादनन्यत्वं पलाशस्येति । न हि ब्राह्मणपलाशयोर्मिथ्यात्वमुच्यते, अतोऽनन्यत्वशब्देन न कायर्मिथ्यात्वसिद्धिः। परमार्थत इत्यध्याहारश्च तन्निरपेक्षार्थे सम्भवत्यनुपपन्नः । यदि परमार्थव्यतिरेकाभावशब्द ऐक्यपरो न भवेत् तदा व्यतिरेकशब्दवैयर्थ्यञ्च, परमार्थतोऽभाव इत्येतावता कार्यमिथ्यात्वसिद्धेः, अतस्तदसत्त्वमिति सूत्रं शिक्षणीयम् । “मृत्तिकेत्येवे"ति विषयवाक्यस्थ इतिशब्दश्च वृथा स्यात् । ननु तत्पुरुषपक्षेऽपि चन्द्रादनन्यो द्वितीयश्चन्द्र इत्यत्र द्वितीयचन्द्रस्येव कार्यस्य मिथ्यात्वसिद्धिरिति चेन्न; तत्रापि द्वित्वस्यैव मिथ्यात्वाच्चन्द्रैकत्वसिद्धेः । रज्जोरनन्यः सर्प इत्यत्र सर्पमिथ्यात्ववत्कार्यमिथ्यात्वमिति चेन्न; मातुरनन्या वन्ध्येतिवद्वाक्यस्य व्याहतार्थत्वात् । न व्याहतिः, सर्पमिथ्यात्वस्य विवक्षितत्वादिति चेन्न; अशाब्दत्वात्मिथ्यात्वस्य । ननु अग्निना सिञ्चेदित्यत्र सेचनवाचिशब्दस्य दाहवाचित्वाभावाद्धि व्याघातः, अत्र त्वमुख्यवृत्त्या व्याहतिपरिहार इति चेत्, अनन्यसर्पशब्दयोः कस्यामुख्यता मता? यद्यनन्यशब्दस्यारोपितपरत्वमाश्रित्य सर्पो रज्ज्वारोपित इत्यर्थो विवक्षितः स्यात् तर्हि तद्वदेव तदनन्यत्वमिति सौत्रं पदमप्यारोपितपरं स्यात्, तदानीं “सत्त्वाच्चापरस्ये"ति सूत्रवैघट्यं स्यात्, तद्धि कारणदशायामपि कार्यस्य कारणे सत्त्वं ब्रूते, न ह्यारोपः पाश्चात्यः, आरोपितवस्तु प्रागपि सदिति युज्यते । प्रागपि कारणात्मना सत्त्वं युक्तमिति चेन्न; असतः कार्यस्य परमार्थभूतकारणात्मना सत्त्वायोगात् । यदि सर्पशब्देनाधिष्ठानं लक्ष्यते, एवमेव कार्यशब्दोपलक्षितस्य सन्मात्रस्य कारणादनन्यत्वं स्यात्; तथा सति कार्यस्य कारणादनन्यत्वं न सिध्यति, सन्मात्रस्यापरिणामिनो निर्दोषस्य कारणत्वाभावादविकारस्याकल्पितस्य कार्यत्वाभावाच्च । ननु सन्मात्रमेव कारणाविद्याशबलं कारणं, कल्पिताकारोपहितं घटस्सन् पटस्सन् इत्यवभासमानं तदेव कार्यमित्यनन्यत्वमिति चेत्, अवि

द्याशबलत्वं नाम किमविद्योपलक्षितत्वम्, उताविद्याविशिष्टत्वम् ? प्रथमे ब्रह्मकारणत्वासिद्धिरेव, न हि शाखोपलक्षितस्य चन्द्रस्यपत्रपुष्पाद्युपादानत्वम् नापि सारसोपलक्षितकेदारस्य सारसगतगतिशब्दाद्युपादानत्वम्; यदि कारणाविद्याविशिष्टं सन्मात्रमेव कल्पिताकारविशिष्टं कार्यमित्यनन्यत्वम् ततोऽपि कारणावस्थप्रकृतिशरीरकमेव ब्रह्म कार्यावस्थप्रकृतिशरीरकमित्यनन्यत्वोपपादनं वरम्, “यस्याव्यक्तं शरीरम्” “यस्य पृथिवी शरीर"मिति श्रुतानुगुणनिर्वाहे सम्भवत्यश्रुतकल्पनानुपपत्तेः सकलप्रमाणबाधाभावात् परमार्थत इत्यध्याहारनैरपेक्ष्यात् श्रुतावितिशब्दवैयर्थ्याभावाच्च । यद्य्वतिरेकेण यस्य नोपलभ्भसद्भावौ स तस्मादनतिरिक्तः, यथा मृदो घट इत्यनुमानपरं “भावे चोपलब्धेः” इति सूत्रं व्याख्यातम्, उपलम्भसद्भावयोः समुच्चयात् धूमाग्न्योरालोकचाक्षुषरूपयोश्चानन्यत्वव्युदास इति । अत्रोच्यते, न तावत्कार्यावस्थायाः कारणे नैकत्वं साध्यम्, अनुवृत्तसत्यनित्याजडस्य तस्य व्यावृत्तासत्यानित्यजडावस्थायाश्चैकत्वव्याघातात् जातिव्यक्त्योरनेकान्तत्वाच्च । तत्राप्यभेदेऽभिमते गुणगुणिनोरनैकान्त्यम् तत्राप्यभिन्नत्वं दुर्वचम्, जातिगुणयोरैक्यप्रसङ्गात् । जात्यभिन्नं हि वस्तु जातिरेव, तस्यैव गुणाभिन्नत्वे जातिरेव गुणः स्यात् । अस्त्विति न वाच्यम्; अयं नीलः पटः नायं नील इति जातिसद्भावेऽपि गुणाभावव्यवहारदर्शनात् । कार्यमिथ्यात्वे साध्ये दृष्टान्तः साध्यविकलः, मृत्कार्यस्य घटस्य बाधादर्शनात् । शुक्तिरूप्यदृष्टान्तपरिग्रहेऽप्यनैकान्त्यम्, हेतोर्घटेऽपि वृत्तेः । प्रतिपन्नोपाधौ बाधितत्वेन सोपाधिकं च, कार्यग्राहिप्रमाणबाधितत्वञ्च । तृतीये च सूत्रे यस्य कारणे पूर्वं सत्त्वं नास्ति न तत्ततो जायते, यथा सिकतासु तैलमित्यनन्यत्वे युक्तिरुक्ता इयं च कार्यमिथ्यात्ववादिनोऽनुपपन्ना, रज्जौ प्रागसतः काल्पनिकसर्पस्यारोपदर्शनात् । प्रागपि सोऽस्ति चेत् प्रतीयते, काल्पनिकानामर्थानां प्रतीयमानतयैव हि सत्त्वम् । ननु कल्पिनाकारोपहितमधिष्ठानं कार्यम्, तत्राधिष्ठानस्वरूपं प्राङ्नास्ति चेत् न तत्र कार्यकल्पना भवतीति सूत्रार्थ इति चेत्, तत्तु निरधिष्ठानभ्रमासम्भवनिराकरणेन दतोत्तरं भवति । यदुक्तं कारणस्य सत्त्वं प्रामाणिकं कार्यं च सदेवावभासते तत्र सत्त्वद्वयानुपलम्भात्सन्मात्रातिरिक्तः कार्याकारो मिथ्येति । तदयुक्तम्; सामान्यरूपमुपाधिरूपमसद्व्यावृत्तिरूपं वा सत्त्वं विशेषणविशेष्ययोः साधारणं दृष्टमिति तावता विशेषणमिथ्यात्वासिद्धेः । न हि दण्डिनि स्पन्दमने स्पन्दमानत्वमेकं दृष्टमिति दण्डदेवदत्तयोरनन्यत्वम्; अतो मृषावाद्यभिमतमनन्यत्वमनुपपन्नम् । औपाधिकभेदाभेदवादेऽपि परिणामास्पदस्योपाधेश्च ब्रह्मणश्च भिन्नाभिन्नतयाऽनन्यत्वं वाच्यम्; तत्र खण्डगतृंङ्गलोमा

दीनां खण्डादभिन्नेन मुण्डेनानन्यत्ववज्जगद्ब्रह्मणोरनन्यत्वममुख्यम् । ननु न केवलं खण्डमुण्डयोरिव भिन्नाभिन्नत्वमात्रभचिद्ब्रह्मणोः, किन्तु ब्रह्मणः शक्तिरूपत्वादुपाधेः, यथाऽग्नेरौष्ण्यादिः, अतः शक्तिशक्तिमद्रूपेणोपाधिब्रह्मणोर्भिन्नाभिन्नत्वाज्जगतो ब्रह्मानन्यत्वमिति । उच्यते; शक्तिर्नाम किं सामर्थ्यपर्यायो ब्रह्मधर्मविशेषः ? उत सूक्ष्मावस्था प्रकृतिरेव ? आद्ये ब्रह्मणो निर्विकारत्वश्रुतिविरोधः । ब्रह्मणो मृत्पिण्डनिर्विशेषत्वात्, मृत्पिण्डो हि घटादिपरिणामशक्तियुक्तो विकारीत्युच्यते । द्वितीये तु खण्डकार्यस्य शृङ्गादेर्मुण्डादनन्यत्ववदमुख्यत्वम्,अतस्तदनुपपन्नम् । यादवप्रकाशमतेऽपि भोक्तृभोग्यनियन्तॄणां ब्रह्मांशत्वाभ्युपगमान्महदादिकायर्ाणां भोक्तृनियन्तृभ्यामनन्यत्वमयः कार्यस्य रूपस्य सुवर्णरजताभ्यामिवानुपपन्नम्, महदादीनां प्रकृतेरनन्यत्वे ब्रह्मकारणवादासिद्धिः, सन्मात्रब्रह्मणोऽनन्यत्वं सच्छब्दप्रवृत्तिनिमित्तविशेषनिरूपणाच्छिथिलीभवति, अबाध्यत्वादिकं हि प्रवृत्तिनिमित्तत्वेन वर्तते, जगत्सतोऽनन्यदित्युक्ते जगदबाध्यमित्युक्तं भवति, ततश्च ब्रह्मानन्यत्वमनुक्तं स्यात् । यस्य भाव एव यदुपलब्धिस्तत्तस्य कारणम्, तदवस्थतन्त्वादिभाव एव प्रावरणादिकार्यदर्शनात्तन्त्वादिकं प्रावरणादेः कारणम्, एवं तत्कारणभूते तन्तावपि न द्रव्यान्तरं कारणमिति द्रव्यान्तरकल्पकतया पराभिमतस्य कार्यभेदस्यान्यथासिद्धिपरं द्वितीयसूत्रं व्याख्यातम् । तदयुक्तम्; पूर्वपक्षयुक्तीनामन्यथासिद्धेराद्यसूत्र एव विवक्षितत्वात् तद्विषयभूते वाकयैकदेश एव विकारनामधेययोर्वाक्पूर्वकसर्वव्यवहारसिध्द्यर्थतोपपादनात्, अतस्तत्रान्यत्वहेत्वन्यथासिद्धावुक्तायामनन्यत्वनियामकहेतुपरत्वं द्वितीयस्य युक्तम्, इदं सत् इदं सदिति कार्यस्य सर्वस्य सत्त्वविषयप्रतीतिः सर्वैरविभज्यमानं सन्मात्रमुपस्थापयति तदेव सन्मात्रं ब्रह्म, अतो ब्रह्मानन्यत्वमिति प्रत्यक्षादेवानन्यत्वोपपादनपरं सत्त्वाच्चापरस्येति सूत्रं व्याख्यातम् तदत्यन्तानुपपन्नम्; “न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैः” “सहैव सन्तं न विजानन्ति देवाः” “न संदृशे तिष्ठति रूपमस्य” “हृदा मनीषा मनसाऽभिक्लृप्तो य एनं विदुरमृतास्ते भवन्ति” “क इत्था वेद यत्र सः” “तं दुर्दशं गूढमनुप्रविष्टम्” “अध्यात्मयोगाधिगमेन देवं मत्वा” इत्यादिभिः श्रुतिभिः प्रत्यक्षाद्यगोचरत्वाभिधानात्, योगैकदृश्यत्वाभिधानाच्च । अदृश्यत्वादिविषयं शास्त्रमीश्वरविषयम्, न तु सन्मात्रब्रह्मविषयमिति चेन्न, “यत्तदद्रेश्यमग्राह्यं यद्भूतयोनिं परिपश्यन्ति धीराः” “तपसा चीयते ब्रह्म ततोऽन्नमभिजायते” इति कृत्स्नोपादानस्य ब्रह्मण एवादृश्यत्वाद्यभिधानादीश्वरातिरिक्तब्रह्मणो निष्प्रमाणकत्वात् कारणवाक्यानां निर्विषयत्वप्रसङ्गाच्च । सद्द्रव्यं हि प्रत्यक्षसिद्धम् अवस्थाविशेषाच्च द्रव्यानन्यत्वं च अनन्यत्वसाधकयुक्तिभिः सिद्धं किमत्र वेदान्तकृत्यम्, अतः सूत्राणां वक्ष्यमाण एवार्थ उपपन्नः । काणादाः- वैशेषिकाः । विलक्षणबुद्धिबोध्यत्वम्- शब्दभेदः, कार्यभेदः, कालभेदः, आकारभेदः परिणामभेदः, भावाभावविरोधः, सङ्ख्याभेदः, कारकव्यापारवैयर्थ्यम्, नित्यानित्यविभागानुपपत्तिश्चेति हेतवः उच्यन्ते । न कारणादित्यादिना - न स्वल्वित्यादिभिस्तत्तद्धेतुनिर्देशानन्तरभाष्यग्रन्थैर्हेत्वसिद्धिशङ्काव्यावृत्तिः क्रियते - सत्यपीति ।

कार्योपयोगितया- उदकाहरणादिकार्योपयोगितयेत्यर्थः । कार्योपयोगः सामर्थ्योत्पादनद्वारेण वा, साक्षाद्वा? तत्र वैशेषिकैः शक्तयनभ्युपगमात्साक्षादुपयोगः परिशिष्यत इति तत्र दूषणमुक्तम् । तदसदित्यादि - किमभिव्यक्तिरुत्पद्यते, उताभिव्यज्यते ? उताभिव्यक्तयनपेक्षानित्या ? इति विकल्पाभिप्रायेण दूषयति । अभिव्यक्तेरित्यादिना दूषणान्तरमाह - किञ्चेति । न चेति मृत्पिण्डे घटो न विद्यते चेत् असत्त्वाविशेषात्तन्तुरपि घटचिकीर्षुणोपादीयेत, न च तथाक्रियते, अतः कारणविशेषोपादाननियमानुपपत्त्या कार्यं सदेवेत्यर्थः । परिहरति - कारणेति । घटो मृत्पिण्ड एव विद्यते, न तन्तुष्विति नियमः कथम् ? तदेव तत्सद्भावयोग्यमिति चेत्तदुत्पादनयोग्यं तदेवेति तस्यैवोपादाननियमो युक्त इत्यर्थः । एवमुपादानकारणनियमानुपपत्तिरूपं चोद्यं परिहृतम् । अथ कारकव्यापारानुपपत्तिमुखेन चोदयति - नन्विति । परिहरति - नैवमिति । अनन्यत्वश्रुतीनाममुख्यत्वमभिमतम् । अस्मिन् पक्षे सिद्धान्त्येकदेशिमुखेनोत्तरमाह - अत्राहुरिति । वाचारम्भणमित्यादिवाक्यस्यार्थमभिप्रेत्याह - अतो यथेति । विकारेषूपलभ्यमानादिति ।

अनेनानुवर्त्तमानत्वहेतुर्विवक्षितः । एकमेवाद्वितीयमित्यस्यार्थमाह - तथेति । अहङ्कारादिव्यवहारालम्बनः- “अहमिति प्रथमोऽध्यास इति हि तेषां ग्रन्थः, आदिशब्देन ज्ञेयमुच्यते, ब्रह्मव्यतिरिक्तपरमार्थभूतकार्याभावस्तदनन्यत्वशब्दार्थ इति भावः । दृष्टान्तस्य साध्यविकलतां शङ्कते - न च वाच्यमित्यादिना । परिहरति - यत इति । यथा ज्वालावत् क्षणिकमित्युक्ते ज्वालाभेदस्याप्रत्यक्षत्वेन न तत्र साध्यवैकल्यं तद्वदित्यर्थः । का पुनरित्यादि - सदसद्विलक्षणत्वं नाम मिथ्यात्वे हेत्वन्तरमाह - किञ्चेति । कार्यस्य सदसद्विलक्षणत्वे व्यतिरेकिणं हेतुमाह - सत आत्मन इति । सदसद्विलक्षणत्वं मिथ्यात्वेऽन्वयिहेतुरिति दर्शयति - अनिर्वचनीयं चेति । सपक्षस्य शुक्तिरजतादेरनिर्वचनीयत्वं दर्शयति- तस्य चेति । व्यावर्त्तमानत्वहेतोरुपाधिशङ्कापरिहाराय कार्यस्य दुर्निरूपितामनुग्राहकतर्करूपेणाह - किञ्चेति । सत्यं चेत् सुनिरूपं स्यादित्यर्थः । नापीति - विशेषान्तरापत्तिः किं विकृतस्य उत न?

नोचेत्सर्वदा विशेषान्तरापत्तिप्रसङ्गः, विशेषान्तरापत्तिपूर्वकत्वे तस्यापि विशेषान्तरापत्तिपूर्वकत्वम् तस्यापि तथेत्यनवस्थेत्यर्थः । अविकृतमेवेत्यादि - विशेषशब्दो देशकालनिमित्तैः प्रत्येकं सम्बध्यते । अविकृतस्य चेत् सर्वदा देशकालादिसमवधानं स्यात् विकृतस्य चेदनवस्थेत्यर्थः । उक्ततर्कस्य प्रत्यक्षविरोधमाशङ्क्याह - न च वाच्यमिति । परिहरति - विकल्पासहत्वादिति । किं द्रव्यमात्रं कारणम्, उताकारमात्रम्, उताकारविशिष्टं द्रव्यम् ? इति विकल्पाः, तेषु प्रथमं शिरो दूषयति - न तावदित्यादिना । समवायिकारणांशविषयं प्रत्यभिज्ञानमित्याशङ्कयाह - तदतिरिक्तेति । तर्हि तत्र व्यक्तिद्वयमुपलभ्येत, न तथोपलब्धिरित्यर्थः । द्वितीयं शिरो दूषयति - नापीति । कार्ये समवायिकारणानुवृत्त्या तदुपलब्धिः परेणाभ्युपगम्यते, तत्र पटे तन्तव इव स्वस्तिके रुचकमुपलभ्येतेत्यर्थः । तृतीयं शिरो दूषयति - नापीति । रुचकाकारविशिष्टं कारणं चेत् स्वस्तिके रुचकाकारविशिष्टहेमोपलम्भप्रसङ्ग इत्यर्थः । एवमत्र केवलप्रमाणात्तर्कानुगृहीतं प्रमाणं प्रबलमिति प्रत्यक्षविरोधपरिहार इत्युक्तं भवति । अत इति । कारणातिरिक्तवस्त्वनुपलब्ध्या न प्रत्यक्षबाध इत्यर्थः । तत एव न सोपाधिकत्वम्, पक्षेऽपि साधितत्वेनोपाधित्वाभावादितिभावः । ब्रह्मव्यतिरिक्तकृत्स्नमिथ्यात्वे मृत्तिकादीनां सत्यत्वं व्याहतमित्यत्राह - तदिदमिति । न मृत्तिकासत्यत्वे तात्पर्यम्, अपि तु ब्रह्मव्यतिरिक्तमिथ्यात्व एव तात्पर्यमिथ्यर्थः । न केवलं ब्रह्मकार्यत्वेन जगतो मिथ्यात्वं सिध्यति, कण्ठोक्तमपीत्याह - ऐतदात्म्यमिति । “ऐतदात्म्यमिदं सर्व “मिति बाधार्थे सामानाधिकरण्यमिति भावः । “आदि

त्यो यूप” इत्यादिषु प्रत्यक्षेण बाधमभिप्रेत्य इहापि तमाशङ्कयाह - न चागमावगतेति । परिहरति - यथोक्तेति । आदित्यो यूप इत्यादिवाक्यमन्यपरम्, अत्र तूपक्रमोपसंहारादिलिङ्गैस्तात्पर्यमस्त्येवेति न प्रत्यक्षेण बाध इत्यभिप्रायः । अविरोधमाह - प्रत्यक्षस्येति । यद्वा किं शब्दतः प्रतीत्यभावात्, प्रत्यक्षविरोधाद्वाऽन्यपरत्वं शङ्कयत इत्यभिप्रेत्य शब्दतः प्रतिपत्त्यभावं परिहरति - यथोक्तेति । प्रत्यक्षविरोधं परिहरति - प्रत्यक्षस्येति । विरोधमभ्युपगम्याह - विरोधे सत्यपीति । भेदवासनामूलत्वम्- सम्भावितदोषत्वम्, अपच्छेदन्यायाभिप्रायेणाह - चरमभाविन इति । स्वरूपेति आदिशब्देन व्युत्पत्तिरभिप्रेता । प्रमितौ निराकाङ्क्षस्येति । प्रमितौप्रमितिहेतुत्वे; अर्थनिश्चायकत्व इत्यर्थः । शास्त्रस्य शब्दस्वरूपग्रहणव्युत्पत्त्यादिषु प्रत्यक्षाद्यपेक्षा अस्ति, तथापि शास्त्रज्ञानं स्मृतिज्ञानवत् स्वार्थविषयज्ञानान्तरानुभूतत्वेन न स्वविषयं दर्शयति, अपि तु अनन्यगोचरमेव दर्शयतीत्यर्थः । नन्वित्यादि - पादे मे वेदान इत्यादिना जीवेश्वरेत्यादिना च लौकिकवैदिकव्यवस्थानुपपत्तिरुक्ता । एतद्वयवस्थासिद्धयर्थं जीवाज्ञानवादपक्षमुपन्यस्यति अत्र केचिदिति । नन्वित्यादि - सत्यं परमार्थतः । परमार्थतो न भिद्यन्ते इति सत्यम्, वयं त्वौपाधिकभेदमाश्रित्य ब्रूम इत्यर्थः । कस्येत्यादि - अत्रोक्तमितरेतराश्रयं परिहरति - नैतदेवमिति । मुखान्तरेणापि परिहरति - किञ्चेति । अवस्तुभूतायाम्- अपरमार्थभूतायाम् । अनवकॢप्तिः- असिद्धिः । यथा ब्रह्मणः स्वतः शुद्धत्वेन नाविद्याश्रयत्वम् तथा

ब्रह्माव्यतिरिक्तस्यापि जीवस्य स्वतःशुद्धत्वेनाविद्याश्रयत्वानुपपत्त्या तत्कार्यजन्मजरामरणादिभ्रमानुपपत्तिरित्यत्राह - वस्तुतो ब्रह्मेति । यथौपाधिकाशुद्धिर्वस्तुतो मुखाव्यतिरिक्तत्वेपि मुखप्रतिबिम्बे सम्भवति तथा वस्तुतो ब्रह्माव्यतिरिक्तत्वेन स्वतःशुद्धत्वे सत्यप्यौपाधिकाशुद्धिसम्भवादविद्याश्रयत्वेन काल्पनिकत्वमित्यर्थः । अशुद्धिर्नाम स्वतः शुद्धत्वप्रतियोग्याकारः, अविद्यासम्बन्धयोयतेत्यर्थः । काल्पनिकत्वोपपत्तिः- जन्मजरामरणादेः काल्पनिकत्वोपपत्तिरित्यर्थः । औपाधिकाशुद्धेरपि ज्ञानानिवर्त्यत्वं स्यादित्यत्राह - प्रतिबिम्बगतेति । अशुद्धिविषयभ्रमेणोत्तरोत्तराविद्याश्रयत्वम्, अविद्याश्रयत्वेनोत्तरोत्तराशुद्धिविषयभ्रम इत्यन्योन्याश्रयत्वमाशङ्कयाह - जीवानां भ्रमस्येति । जीवाज्ञानपक्षसमाप्तिद्योतनार्थमितिकरणम् । दूषयति - तदेतदिति । अविदिताद्वैतयाथात्म्यानाम्- अद्वैतानिपुणानाम् । श्रद्धालुशब्देन भेदवादेऽप्यकौशलं विवक्षितम् , उभयतोपि भ्रष्टैरेव मुक्तमिति भावः । किमकल्पितस्वाभाविकरूपेणाविद्याश्रयत्वम्, उत कल्पिताकारेण, अथ कल्पिताकारविशिष्टरूपेण? इति विकल्पत्रयमभिप्रेत्य प्रथमं शिरो दूषयति जीवस्येति । द्वितीयं दूषयति - तदतिरिक्तेनेति । कथं जडस्याविद्याश्रयत्वमुक्तं स्यात् ? जीवो ह्यविद्याश्रय इत्यत्राह न खल्विति । ब्रह्म चिद्रूपम्, कल्पितं तु जडम् तदुभयातिरिक्तनभ्युपगमात् कल्पिताकारेण अविद्याश्रयत्वे जडस्येवाविद्याश्रयत्वमुक्तं स्यादित्यर्थः । तृतीयं शिरः शङ्कते - कल्पितेति । दूषयति - तन्नेति । ततः किमित्यत्राह - अविद्याश्रयाकार इति । अविद्याश्रयत्वे सति विशिष्टत्वम्, विशिष्टाकार एव अविद्याश्रय इत्यात्माश्रयणमित्यर्थः ।

किञ्चेत्यादि - अविद्या किमेका, उत वह्नी ? इति विकल्पमभिप्रेत्य एकत्वपक्षे दूषणमाह - तत्रेकस्मिन्निति । तत्रापि किमविद्या नश्यति, उत न नश्यति ? इति विकल्पमभिप्रेत्य नाशपक्षे दूषणमुक्तम्- तत्रेति । अविनाशपक्षं दूषयति - अन्यस्येति । अथाविद्याबहुत्वपक्षमनुवदति - प्रतिजीवमिति । बन्त्स्यते- बद्धो भविष्यतीत्यर्थः । दूषयति - तन्नेति । अत्रापि विकल्पयति - स जीवभेद इति । अनभ्युपगमात् अद्वैतहानिप्रसङ्गेनानभ्युपगमात् । द्वितीयं शिरो विकल्पयति - किमिति । प्रथमपक्षस्योत्तरमाह - ब्रह्मण इति चेदिति । द्वितीयं शिरो दूषयति - अथेति । किमस्या जीवभेदकॢप्तिसिद्धयर्थतां विस्मरसीति - जीवभेदकल्पकाऽविद्या जीवकल्पनात् प्रागेव न जीवानाश्रयितुं क्षमा, जीवासिद्धेरित्यर्थः । या जीवभेदकल्पका अविद्यास्ता एव जीवाश्रयाः बद्धमुक्तादिव्यवस्थाहेतव इति पक्षमनूद्य दूषयति । अथ प्रतिजीवमिति - बीजाङ्कुरन्यायेन परिहारस्यानुपपत्तिमाह - नचेति । बीजाङ्कुरेषूत्पादकबीजस्योत्पाद्याङ्कुरापेक्षा नास्ति, उत्पादकाङ्कुरमन्यत् उत्पाद्यं चान्यत्, अत्र तु जीवभेदकल्पकाविद्यायाः कल्पनीयजीवाश्रयापेक्षाऽस्ति कल्पकाविद्याश्रयो जीवः, स एव कल्प्यश्चेति वैषम्यम् । अशकनीयतासाधयितुमशक्यतेत्यर्थः । उत्पाद्योत्पादकाङ्कुरव्यक्तिभेदवत् कल्पकाविद्याश्रयकल्प्यजीवव्यक्तिभेदार्थं प्रवाहानादित्वाभ्युपगमे दूषणमाह - अथेति । अकृताभ्यागमकृतनाशः श्रुत्यर्थापत्तिः । आदिशब्देन जीवस्वरूपनित्यत्वादिश्रुतिविरोधो विवक्षितः । एवं जीवाख्यधर्मिणः प्रवाहानादित्वकल्पने दूषणमुक्तम्, जीवत्वधर्मतत्कल्पकाविद्ययोः प्रवाहानादित्वेऽप्युक्तं दूषणमतिदिशति - अत एवेति । पूर्वपूर्वजीवाश्रयाविद्ययोत्तरोत्तरजीवभावकल्पनम्, तत्तदाश्रयाविद्यया तदुत्तरोत्तरजीवभावकल्पनमित्यर्थः । अस्य पक्षस्य निरस्ततां विवृणोति - अविद्याप्रवाह इति । धर्मिधर्मकल्पनपक्षयोरुभयोरपि तुल्यं दूषणमाह - आमो

क्षाच्चेति । जीवस्य- जीवभावविशिष्टस्येत्यर्थः । अविद्यायाः दुघर्टत्वेन परिहारं दूषयति- यच्चोक्तमिति । शुद्धविद्यास्वरूपत्वात्- शुद्धज्ञप्तिरूपत्वात् । उक्ताभिरुपपत्तिभिः- अन्योन्याश्रयादिभिः । मोक्षानुपपत्त्या दूषयति - किञ्चेति । नोचेदिति - अविद्याकार्यस्य जीवत्वस्यावस्थानादनिर्मोक्ष इत्यर्थः । दार्ष्टान्तिकपर्यालोचनया दूषणमुक्तम्; अथ दृष्टान्तालोचनया दूषयति - यच्चोक्तमिति । अपुरुषार्थप्रतिभासानुपपत्तिमुखेन दूषयिष्यन् दोषप्रतिभासस्यावश्यम्भावितामाह - किञ्च यस्य हीति । अपुरुषार्थदोषप्रतिभासस्य निरसयनीयत्वात्तन्निरासाय हि वेदान्तारम्भः, बिम्बप्रतिबिम्बस्थानीययोर्जीवब्रह्मणोर्दोषप्रतिभासायोगात्तन्निरासार्थो वेदान्तोऽनारभ्य इति दूषणं दर्शयितुं यस्य हीत्याद्युक्तम् । दृष्टान्ते मुखतत्प्रतिबिम्बतद्य्वतिरिक्तचेतनसद्भावात्तदभिप्रायेण विकल्पयति - उतान्यस्य कस्यचिदिति । न हि मुखं तत्प्रतिबिम्बं वा चेतयत इति - रूपवदचेतनविशेषस्यैवं प्रतिबिम्बं दृष्टम्; तस्माद्ब्रह्मजीवयोर्बिम्बप्रतिबिम्बभावाभ्युपगमे तयोरचेतनत्वमापततीति भावः । ब्रह्मणो दोषप्रतिभासपक्षेऽधिकं दूषणमाह - ब्रह्मण इति । अन्यस्येति पक्षं दूषयति - तृतीयोऽपीति । पूर्वमविद्याश्रयानुपपत्तिरुक्ता, इदानीमविद्याकार्यभ्रमाश्रयो निरूप्यते - किञ्चेति । कः कल्पकः- को भ्रमाश्रय इत्यर्थः । नापि जीव इति - कल्पकत्वात्सिद्धिः कल्प्यत्वादसिद्धिश्चेति स्वसिद्धेः स्वापेक्षा,

जीवविषयभ्रमाश्रये सिद्धे हि जीवक२प्तिः, जीवसिद्धेः स्वविषयभ्रमाश्रयभूतेन स्वेनैव सापेक्षत्वादात्माश्रयत्वमित्यर्थः । अनुपपत्त्यन्तरमाह - शुक्तिकेति । कल्पकत्वाच्च भ्रमाश्रयत्वमनुपपन्नम्, न हि दोषकल्प्यं रजतमर्थान्तरविषयभ्रमाश्रय इत्यर्थः । किञ्चेत्यादि - अथ पश्यतीति । अपरमार्थजीवप्रतीतिरविद्यया विना न सम्भवतीत्यर्थः । अत एव- ईक्षापूर्वकसृष्ट्याद्यर्थं ब्रह्मणोऽपरमार्थजीवदर्शनार्थं चाविद्यान्वयाभ्युपगमादेवेत्यर्थः । मायापरभ्रमहेतुः, अविद्या स्वभ्रमहेतुरिति हि तन्मतम् । मायिनं तु महेश्वरमिति श्रुतिरेतद्विभागहेतुः । अपरमार्थजीवदर्शनमज्ञानेनैव सम्भवतीत्येतदेवोपपादयति - अज्ञानमित्यादिना । किमविद्यया विना जीवदर्शित्वम् ? उत जीवदर्शनेन विना तन्मोहनम् ? इतिपक्षयोः प्रथमं दूषितम् अज्ञानमिति । अनन्तरं शिरो दूषयति - न चेति । मायैव जीवदर्शनहेतुरित्यत्राह - नापीति न हि परमोहनहेतुरेव माया मोहयितुर्मोहनीयदर्शनहेतुः । अस्यास्तु मायाया अयं विशेष इत्याशङ्कते - अथेति । प्रतिवदति - तर्हीति । नामनिविवाद आवयोरित्यर्थः । शङ्कते - अथेति । परिहरति - नैवमिति । न केवलं सत्यत्वेन दर्शनहेतुरेव दोषः, अपरमार्थप्रतिभासमात्रहेतुर्दोष इत्यभिप्रायेणाह - चन्द्रैकत्व इति । अपुरुषार्थदर्शनहेतुत्वतदभावरूपं वैषम्यं शङ्कते - अथेति । परिहरति - तन्नेति । अपरिच्छिन्नेति - स्वरूपस्यैवापरिच्छिन्नानन्दत्वादिच्छया मायादर्शनमनुपपन्नम्, तस्याश्चापरमार्थत्वादविद्याकृतमेव तद्दर्शनमित्यर्थः । तद्वत्ता - तत्सम्बन्धः । किञ्चेति - अपुरुषार्थत्वाभावेन निरसनीयत्वाभावाभिप्रायेणाह - नित्ययेति । आश्रयविभागानुपपत्त्या - निरसनीयत्वाभावानुप

पत्त्या च मायाऽविद्याविभागानुपपत्तिमाह - मायाश्रयतयेति । पूर्ववदेवेति - अन्योन्याश्रयादिभिर्दूषणैरित्यर्थः । मायाऽविद्याविभागानुपपत्त्या ब्रह्मण एवाविद्याश्रयत्वमुपसंहरति - अत इति । बन्धमोक्षादिव्यवस्थानुपपत्तिं जीवज्ञानकल्पनहेतुभूतां पूर्वोक्तामनूद्य परिहरति - यत्त्विति । नेदं चोद्यमनिष्टमित्यर्थः । तर्हि बद्धमुक्तादिव्यवहारः कथमित्यत्राह - व्यवह्रियमाणायाश्चेति । वक्ष्यमाणानुमानगर्भमाह - काल्पनिकत्वादिति । स्वाप्नव्यवस्थाः काल्पनिकत्वाद्यथैकाविद्ययोपपद्यन्ते तथा सर्वासां व्यवस्थानां काल्पनिकत्वादेकाविद्ययैव तत्कल्पनोपपत्तिरित्यर्थः । सर्वकल्पनोपपत्तिरिति - अन्यथाऽनुपपन्नं हि कल्पकम्, अन्यथोपपन्नत्वान्नाविद्याभेदक२प्तिन्यर्ायेत्यर्थः । दृष्टान्तं शिक्षयति - स्वप्नदृशा हीति । अत एव आश्रयैकत्वेऽपि सर्वव्यवस्थोपपत्तिर्येन हेतुना सिद्धा तेनैव काल्पनिकत्वेन हेतुना अविद्याबहुत्वकल्पनमपि न युक्तमित्यर्थः । परमार्थकार्याणां हि बहुहेत्वपेक्षा, अपरमार्थानां त्वेकेनैवालमित्यभिप्रायेणाह - पारमार्थिकीति । ततः किमित्यत्राह - अपारमार्थिकी त्विति । प्रयोगश्चेति - जीवाज्ञानवादिनं प्रति प्रथम तृतीये अनुमाने उच्येते, तञ्च भेदवादिनं च प्रति द्वितीयहेतुः प्रयुज्यते, तृतीयः प्रत्येकनिरपेक्षहेतुचतुष्टयगर्भः, तुरीयं व्यतिरेक्यमनुमानम्, व्यवस्थानुपपत्तिपरिहारमुपसंहरति - अत इति । काणादपक्षेपि स्वपक्षोक्तं दोषमापादयति - द्वैतवादिनापीत्यादि । असङ्खयेयत्वमिति चेदिति - देशकालाद्यपरिच्छेदस्य अनन्तशब्देन विवक्षितत्व

व्यावृत्त्यर्थमसङ्खयेयत्वमित्युक्तम् । भिन्नत्वेन सङ्खयावत्त्वं साधयति - आत्मन इति । माषसर्षषघटपटादिवदिति - सङ्खयावत्तारतम्येपि सङ्खयावत्त्वमविशिष्टमिति भावः । भिन्नत्वे दूषणान्तरं चाह - भिन्नत्वे चेति । अत्र व्यतिरेकित्रयं विवक्षितम्, आत्मा न भिन्नः, आत्मत्वात्, यद्भिन्नं न तदात्मा; यथा घटादि । आत्मा न भिन्नः, अजडत्वात्, यद्भिन्नं न तदजडं, यथा घटादि । आत्मा न भिन्नः, अक्षयित्वात्, यद्भिन्नं न तदक्षयि, यथा घटादिरिति । दूषणान्तरमाह - ब्रह्मणश्चेति । अनन्तत्वं नाम किम्, तस्य भेदवादेऽनुपपन्नत्वं कथम् ? इत्यत्राह - अनन्तत्वं नामेति । वस्त्वन्तरभाव इति - वस्त्वन्तरवत्त्वं वस्तुतः परिच्छेद इत्यर्थः । वस्तुतः परिच्छेदव्याप्त देशकालपरिच्छिन्नत्वमप्यापततीत्याह - वस्तुत इति । व्याप्ति दर्शयति - वस्त्वन्तरादिति । अस्यार्थस्यानिष्टत्वं दर्शयति - एवञ्चेति । निरुपपदमनन्तपदमसङ्कुचितवृत्तित्रिविधपरिच्छेदराहित्यमाहेति भावः । एवमपरिच्छिन्नस्य परिच्छिन्नत्वप्रसङ्ग उक्तः । अथाविकारस्य सविकारत्वप्रसङ्गमाह - उत्पत्तीति । अविकारत्वश्रुतिविरोधश्चेत्यर्थः । एकस्याविद्यया सर्वव्यवस्थोपपत्तिमुपसंहरति - अत इति । ब्रह्माज्ञानवादपक्षमुपसंहरति - तस्मादिति । विवर्त्तते- अध्यासाधिष्ठानं भवति, न तु परिणमतीत्यर्थः । ब्रह्मव्यतिरिक्ताभावात्तदनन्यत्वं जगत इति - ब्रह्मण परमार्थभूतमन्यन्न जगदित्यर्थः । ब्रह्माज्ञानवादिनं वैशेषिकः प्रतिवदति - अत्रोच्यत इति । तिरोधानेऽपि तद्रहितांशस्तिष्ठतीति न वक्तुं युक्तम्, निरंशत्वादित्यभिप्रायेण निरंशस्येत्युक्तम् । स्वरूपनाश प्रसङ्गेनेति - तिरोधानं नाम प्रकाशनिवृत्तिः । तत्र जडस्य प्रकाशव्यतिरिक्तत्वात् प्रकाशनिवृत्तावपि तस्य स्थितिरुपपद्यते, प्रकाशैकरूपस्य ब्रह्मणः प्रकाशनिवृत्तिरूपतिरोधानं नाम स्वरूपनिवृत्तिरेवेत्यर्थः । स्ववचनविरुद्धं चेतीति - नित्यत्वादिसाधकवचनविरुद्धं निर्विशेषत्वम्, ज्ञप्तित्वविरुद्धमस्मत्प्रत्ययगोचरत्वमित्यर्थः । पूर्वमेवोक्तम् - अस्मिन् प्रबन्धे सिद्धान्तिनोक्तमित्यर्थः । यत्पुनरिति - सोपाधि

कत्वकालात्ययापदिष्टत्ववचनव्याहतिभिरनैकान्त्यादिभिश्च पूर्वमेव परिहृतमित्यर्थः । मिथ्यात्वानित्यत्वर्योर्भेदं दर्शयति - यद्देशकालेति । यद्यनित्यत्वमेव मिथ्यात्वमुच्यते तर्हि सिद्धसाधनं मिथ्यात्वानुमानम्, यद्यनित्यत्वविलक्षणं मिथ्यात्वं साध्यते तर्हि सोपाधिकत्वादिदूषणानि स्युरिति भावः । प्रत्यनुमानमाह - प्रतिप्रयोगश्चेति । ननु मिथ्यात्वानुमानं न सोपाधिकम्, उपाधेरभावात् । प्रतिपन्नदेशकालोपाधौ बाधो न साध्यसमव्याप्तः, देशकालभ्रमेषु प्रतिपन्नोपाधौ बाधाभावात् । न हि देशकालभ्रमस्य देशकालान्तरोपाधिप्रतिपत्तिः, तस्मान्न साध्यसमव्याप्तिः । यदि बाधमात्रमेव हेतुः, तन्न; पक्षेऽपि विद्यमानत्वात्, पक्षेष्वविद्यमानः सर्वसपक्षानुयायी ह्युपाधिः, तस्मान्न सोपाधिकत्वमिति । अत्रायं परिहारः, देशकालभ्रमेष्वपि प्रतिपन्नोपाधौ बाधोऽस्ति, न हि देशकालावेव सर्वत्रोपाधिः, तौ तु देशकालव्यतिरिक्तविषयभ्रमेषु । देशकालभ्रमेष्वन्ये पदार्था उपाधयः, यथा दुर्दिने सायङ्कालभ्रमान्वितः पुरुषः पश्चादादित्यदर्शनात् प्रबुद्ध एवं मन्यते, यदाहं सन्ध्यामुपासितवान्न तदा सायमिति, यदा अहं बुद्धः न तदानीं प्रभातमिति च, यत्राहं सुप्तः नायं स देश इत्यादि । किञ्च देशभ्रमे काल उपाधिः स्यात्, कालभ्रमे देश उपाधिः स्यात्, न चान्योन्याश्रयः, भ्रमव्यक्तिभेदात्; तस्मात्प्रतिपन्नोपाधौ बाधस्य साध्यसमव्याप्तिरस्त्येव । इममर्थमभिप्रेत्य देशकालादिप्रतिपन्नोपाधावबाधितत्वादित्यत्रादिशब्दः प्रयुक्तः । देशकालादिप्रतिपन्नोपाधौ बाधार्हत्वं मिथ्यात्वम्, तत्कार्यभूतः- प्रतिपन्नोपाधौ बाधो मिथ्यात्वसाधकः, यथा अग्नेर्दाहार्हस्य दाहकायर्ं दाहार्हत्वे लिङ्गं तद्वत्, अतः साध्याविशिष्टत्वबोध्यमपास्तम् । समवहितात्- समन्वितात् । कारणान्तरम्- कर्मईश्वरसङ्कल्प इत्यादि । एतदायत्तत्वाभावात् विकारायत्तत्वाभावात् । एवमनुग्राहकस्तर्क उक्तः । अथानुग्राह्यं प्रमाणमाह - कारणस्य चेति । पूर्वपक्षिणा कार्यकारण

भावमिथ्यात्वग्राहिप्रमाणनुग्राहकत्वेन हि तर्क उक्तः, तथाऽत्राप्यनुग्राहकतर्कपूर्वकं प्रमाणमुक्तम् । परोक्ततर्कश्च जात्युक्तिः, स्वव्याघातात् । कार्यकारणभावभङ्गवाचि वाक्यं किं परस्य कार्यकारणभावभङ्गविषयप्रमितेः कारणम्, तर्हि न कार्यकारणभावभङ्गः ? उत न । ततोऽपि न तद्भङ्गः, सा प्रतीतिर्मिथ्या चेत्ततोऽपि न भङ्गः, बाधबाधे पूर्वबाधितस्य सत्यत्वात्, एवं कार्यकारणभावस्य प्रामाणिकत्वात्तद्विरुद्धबाह्यतर्कानुदय एवेति स्थितम् ।

यत्त्विति । हेममात्रस्य रुचकादिकायर्मात्रस्य कार्याश्रितद्रव्यमात्रस्य चारम्भकत्वं न सम्भवतीत्युक्तमित्यर्थः । यथोक्तपरिकरः देशकालादिः । अनिरूपितवस्त्ववलम्बनबुद्धिशब्दादीनामसाधकत्वं पूर्वमक्षिणोक्तं प्रतिक्षिपति - न चायमिति । उत्पत्तिविनाशयोरन्तराले उपलभ्यमानस्येति - अनित्यत्वे साध्ये सिद्धसाधनत्वम् । प्रतिपन्नोपाधौ बाधश्चेत्तदनुपलम्भादेव निरस्त इति भावः । हेमप्रत्यभिज्ञा कथं घटत इत्यत्राह - प्रागिति । श्रुतिभिस्त्विति सिद्धान्तिना निरस्तमित्यर्थः । यच्चान्यदिति - प्रत्यक्षं सन्मात्रग्राहि, विरोधे सत्यपि शास्त्रं बलीय इत्यादिकम्, त्वदुक्तं पूर्वमेवानेन ग्रन्थकारेण निरस्तमित्यर्थः । तदुक्तमनुमानगणं दूषयति - यच्चोक्तमिति । व्याप्तिविरोधमाह - एकस्यैवेति । यत्सम्प्रतिपन्नैकात्मकं शरीरम्, तत्र हि सुखादिप्रतिसन्धानं दृष्टमिति भावः । प्रतिसन्धानाभावः शरीरभेदनिबन्धन इत्यत्राह - सौभरिप्रभृतिष्विति । विलक्षणज्ञानानां केषाञ्चिच्छरीरभेदेऽपि पूर्वजन्मसुखादिप्रत्यभिज्ञानादिति प्रभृतिशब्दस्य भावः । किञ्च किमेकशरीरवर्त्यात्मन एकत्वं साध्यते ? उतानेकशरीरवर्तिनः? प्रथमे कल्पे सिद्धसाधनत्वम् । द्वितीये धर्मिग्राहकप्रमाणबाधः, परशरीरे तच्चेष्टादिभिरात्मा ह्यनुमीयते, तच्चानुमानं स्वस्मादन्यत्वेनैवैनं दर्शयति । स्वात्मा ह्यहमित्यपरोक्षमवभासते, न हि परशरीरगत आत्मा अपरोक्ष इति । अन्तःकरणभेदात् प्रतिसन्धानाभाव इत्याशङ्कय दूषयति - न चेति । अन्तःकरणस्य ज्ञातृत्वेऽपि पूर्वपूर्वकल्पेषूत्पन्नविनष्टान्तःकरणानामपि सनकादीनां तत्प्रतिसन्धानसम्भवात् नान्तःकरणभेदः प्रतिसन्धानाभावहेतुः । अन्तःकरणस्य ज्ञातृत्वमेव नास्ति,

तत्त्वात्मन इत्याह - आत्मा ज्ञातैवेति । यच्चेति - शरीराणामविद्याकल्पितत्वे सिद्धे ह्येकाविद्याकल्पितत्वसिद्धिः, तदेव नास्तीति सपक्षभूतशरीरस्याविद्याकल्पितत्वाभावात् दृष्टान्तस्य साध्यविकलत्वमुक्तं भवति, कल्पितत्वहेतोरन्यतरासिद्धिश्च । कल्पितत्वाभावमुपपादयति - तदभावश्चेति । सर्वं चेतनजातमहमेवचेतनत्वादिति यद्य्वतिरेकि पूर्वमुक्तं तदर्थत उदाहृतं भवति यच्चेति । दूषयति - तदपीति । कालात्ययापदिष्टत्वं दूषणमुक्तं भवति । एष्वनुमानेषूक्तिदूषणमाह - यत्त्विति । बद्धमुक्तादिव्यवस्थानामेकविद्याकल्पितत्वं यदुक्तं तत्राप्यपारमार्थिकत्वहेतोरसिद्धिः सोपाधिकत्वं चानुसन्धेयम् । किञ्चेति - अविद्याकार्यत्वादित्यादिहेतुगणैरनिष्टप्रसङ्गमाह - तत्त्वमस्यादीति । अविद्यामूलत्वाश्रयणे तत्त्वमस्यादिवाक्यजन्यज्ञानस्यानिवर्तकत्वप्रसङ्ग इत्यर्थः । यथा संवित्सिद्धौ “अभाविन्येव सा पश्चाद्बाविनीत्युपदिश्यताम् । सन्ति हि स्वप्नदृष्टानि दृष्टान्तवचनानि ते” इति । सामुक्तिः । मृषावादीनां द्विधा प्रक्रिया, ब्रह्म न वेदान्तैः प्रतिपाद्यते, अपि तु भेदनिषेध एव क्रियत इति स्वरूपपरवाक्यैः प्रतिपाद्यत इति च । तत्र स्वरूपपरवाक्यप्रतिपाद्यत्वपक्षेऽनिष्टं प्रसञ्जयति - किञ्च निर्विशेषेति । न चेत्यादि - ज्ञेयविशेषसिद्धिरूपम् । ज्ञेयविशेषव्यवहारानुरूपमित्यर्थः । यानि चेति - अनुमानैः- तर्कैः । तर्कस्यानुमानशब्दवाच्यत्वं व्याप्तिसापेक्षत्वात्, “ऊहस्तर्कोनुमानोक्तिः” इति हलायुधः । निरस्तानीति अविद्याकार्यत्वादिहेतुभिः स्वाभिमतार्थसाधकत्वं निरस्त

मित्यर्थः । उपपाद्यते भवद्भिरिति - स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वादिति हेतोरित्यर्थः । न चेति - अतादृशस्य निर्विशेषत्वात् कर्मकर्तृरहितस्येत्यर्थः । तादृशस्येति पाठेऽयमर्थः, तादृशस्य- कर्मकर्तृसहितो यः प्रकाशते तस्य, निर्विशेषत्वेऽभिमते सा न सिद्धयतीति । पूर्वमपरमार्थहेतोः शुक्तिरजताद्युपादानादिप्रयत्नवन्निष्फलत्वमुक्तम्, तन्न; अपरमार्थादपि परमार्थोत्पत्तेरिति शङ्कते - यः पुनरिति । किमियमपरमार्थात्परमार्थोत्पत्तिर्भवत्पक्षेणोच्यते ? उतास्मत्पक्षेण ? इतिविकल्पमभिप्रेत्याद्यपक्षे तदसिद्धिमाह - सोऽपितानीति । द्वितीयपक्षे दूषणमाह - अस्माभिरिति । विशेषाभावात्- प्रबलविरोधे हि दौर्बल्यमिति भावः । बाधादर्शनाभ्युपगमेन दूषयति - दुष्टकारणेति । तदनभ्युपगमेन दूषयति - किञ्चेति । प्रत्यक्षादिप्रमाणं वेदेऽपि सविशेषपरवाक्यजातं च विहाय निषेधपरवाक्यप्राबल्यं हि त्वदुक्तम्; तत्र विधिरूपत्वात् पूर्वेषां दौर्बल्यम्, निषेधरूपत्वाच्च पश्चात्तनस्य प्राबल्यम्, तच्च सर्वशून्यवादिन एवेत्यर्थः । अतस्सर्वमिति - अत इत्यस्य न सेत्यतीत्यन्वयः । लोकव्यवहारस्यासिद्धिमुपपादयिष्यन्नाह - लोकेति । तामुपपादयति - लोकव्यवहारो हीति । ततः किमित्यत्राह - निर्विशेषेति । निर्विशेषज्ञानस्य ज्ञातृत्वाभावान्न प्रतिभासहेतुत्वम्, ज्ञातैव ह्याश्रयतया प्रतिभासहेतुर्दृष्टः, ज्ञातृगतज्ञानत्वाभावाच्च न व्यवहारहेतुत्वम्, ज्ञातृगतज्ञानं हि स्वपरव्यवहारहेतुतया दृष्टम्यिर्थः । यद्वा निर्विशेषज्ञानस्य ज्ञातृत्वाभावात् प्रतिभासस्याश्रयतया हेतुत्वं नास्ति, निर्वि

शेषत्वादेव कारणतया हेतुत्वमपि नास्तीत्यर्थः । पारमाथिर्कापारमार्थिकशब्दौ परमार्थापरमार्थविषयत्वपरौ । प्रतिभासादेरित्यत्रादिशब्दो व्यवहारपरः । यच्चेत्यादि - न कश्चिद्विशेषोऽन्यत्र तत्संरम्भादिति । अत्रायमभिप्रायः,

अधिष्ठानस्यापारमार्थ्ये तस्याप्यधिष्ठानान्तरापेक्षयाऽनवस्थेति चेन्न, दोषस्यापारमार्थ्ये तस्यापि दोषान्तरमित्यनवस्था स्यात्, तत्र स्वरूपानादित्वेन परिहारस्तुल्यः, प्रवाहानादित्वेन परिहारश्चेत् सोऽपि तुल्यः, दुर्घटत्वेन परिहारश्चेत् सोऽपि तुल्यः । परमार्थत्वप्रयुक्तोपपत्तिरपरमार्थत्वप्रयुक्तोपपत्तिरिति द्विधा; तत्र परमार्थत्वयुक्तोपपत्तिनिरपेक्षत्वं दुर्घटत्वम् । इयं चापरमार्थत्वप्रयुक्तोपपत्तिरधिष्ठानपारमार्थ्यापेक्षेति चेत् दोषपरमार्थत्वमप्यपरमार्थत्वप्रयुक्तोपपत्तिरित्यपि तुल्यमिति । यत्त्वित्यादि - तदात्मानन्त्येन परिहृतम् । यथा माषसर्षपादिष्वेकैकजातीया एवानन्ताः, समुदिताश्चानन्ताः, तथा बद्धाश्चानन्ताः मुक्ताश्च अनन्ताः, समुदिताश्च सर्वे चेतना अनन्ता इत्यर्थः । सर्वेषामात्मनामेकत्वसङ्ख्या प्रत्येकमस्त्येव; अतो न सङ्खयावत्त्वमात्रं निषिध्यते, द्वित्वादिसङ्खयायां अवधिरेव निषिध्यते । अतीतकल्पानामानन्त्यादेकस्मिन् कल्प एकघटसद्भावेपि घटानामानन्त्यं सिद्धमिति साध्यविकलता दृष्टान्तस्य, किं देशकालकर्माद्युपाध्यवच्छिन्नाघटाः सपक्षीकृताः, उत कृत्स्नघटाः ? तत्रानन्तरपक्षे साध्यविकलता । आद्येऽपि देशाद्यवच्छेदप्रयुक्तत्वात् सोपाधिकत्वम् । सपक्षदर्शनानुगुण्येन पक्षेऽपि साध्यधर्मस्य वक्तव्यत्वादुपाध्यवच्छिन्नचेतनानां सङ्ख्यावत्त्वं साध्यं स्यात्तदा सिद्धसाध्यता । किमेतदण्डान्तर्वर्तिनां चेतनानामवधिमत्सङ्खयावत्त्वं साध्यम् ? उत सर्वेषाम् ? प्रथमे सिद्धसाध्यता । अन्यत्र धमिर्ग्राहकप्रमाणबाधः, अतीताण्डानां तदन्तर्वर्तिनां चेतनानां च सद्भावे प्रमाणं वक्तव्यम्, नो चेदाश्रयैकदेशासिद्धिप्रसङ्गात् । प्रमाणं च शास्त्रम्, तच्च ताननन्तत्वेन प्रतिपादयतीति तद्विरुद्धत्वात् कालात्ययापदिष्ट इत्यर्थः । विगीतः कालः सावधिः, कालत्वात्, माससंवत्सरादिवदिति वक्तुं शक्यत्वेऽप्यतीतकल्पानामानन्त्यं हि शास्त्रबलादभ्युपगतम्, तथा सङ्खयावत्त्वसाधकहेतोः शास्त्रबाधाच्चेतनानन्त्यमभ्युपगन्तव्यमित्यर्थः । दृष्टान्तस्य साध्यविकलत्वं कण्ठोक्तम्, विकल्पमुखेन सोपाधिकत्वकालात्ययापदेशसिद्धसाधनता अभिप्रेताः । घटसर्षपादिव्यक्तिबाहुल्यानां परस्परं सङ्खयावधि न्यूनाधिकभावे सत्यपि तथात्वेन तेषामानन्त्यं दर्शयितुं दश घटाः सहस्रं माषा इत्युक्तम् । देशकालाद्युपाधिमदिति - आदिशब्देन कतर्ा विवक्षितः, एतत्कुलानिर्मिता घटा दशेत्यपि वक्तुं

शक्यत्वात् । आत्मस्वरूपानन्त्यादिति - देशाद्युपाधिराहित्ये आत्मस्वरूपमात्रस्यासङ्खयेयत्वादित्यर्थः । यत्त्वि

त्यादिनाभिन्नत्वेन अनात्मत्वादिप्रसङ्गमनूदितं परिहरति- तदयुक्तमिति । न हीति - घटो न भिन्नः घटत्वात्, यद्भिन्नं न तद्घटः, यथा पट इत्युक्ते यथा कालात्ययापदिष्टत्वं तथा त्वदुक्तव्यतिरेकिणामपि कालात्ययापदिष्टत्वमित्यर्थः ।

वस्तुतः परिच्छिन्नत्वे देशकालपरिच्छेदप्रसङ्गं दूषयति - यत्त्विति । भिन्नत्वे वस्तुतः परिच्छेदादिति - इदमिदं न भवतीति सामानाधिकरण्यानर्हत्वं वस्तुतः परिच्छेद इति मृषावाद्यभिमतमिति ज्ञापितम् । सिद्धान्त्यभिमतः

प्रकारान्तरेण वसुतपरिच्छेदस्तु मृषावाद्यनभिमतः, तद्विपरीतरूपस्यापरिच्छेदस्य निर्विशेषत्वविरोधात्; अतो मृषावादिना स्वाभिमतवस्तुतपरिच्छेदस्य देशकालपरिच्छेदप्रयोजकत्वाभिमानेन देशकालपरिच्छेदौ प्रसञ्जितौ । तौ दूषयति - तदयुक्तमिति । कुत इत्यपेक्षायामप्रयोजकत्वं वक्तुं तदुपयोगिनमर्थमाह - वस्तुत इति । ततः किमित्यत्राह देशकालेति । प्रमाणान्तरायत्तनिर्णयत्वेनेति - वस्तुपरिच्छेदोऽप्रयोजक इति भावः । प्रतिबन्द्यभिप्रायेणैवमुक्तम् । अयमर्थः, देशकालपरिच्छेदयोर्न्यूनाधिकभावो दृश्यते, पराभिमतस्य वस्तुपरिच्छेदस्य तु स नास्ति, तथापि परिच्छेदत्वात् सोऽपि न्यूनाधिकभाववानिति प्रसञ्जनस्य प्रमाणबाधितत्वेन परिच्छेदत्वं यथा न्यूनाधिकभाववत्त्वस्याप्रयोजकं तथा वस्तुतः परिच्छिन्नत्मपि देशकालपरिच्छेदयोरप्रयोजकम्, प्रमाणबाधादिति । यद्वा यथा वस्तुतः परिच्छेदो मुहूर्तावधिककालपरिच्छेदविशेषे माषमात्रावधिकदेशपरिच्छेदविशेषे च प्रयोजक इत्यभ्युपगन्तुमयुक्तम्, तयोर्न्यूनाधिकभावग्राहिप्रमाणेन बाधात्, एवं देशकालपरिच्छेदावान्तरविशेषस्येव देशकालपरिच्छेदमात्रस्यापि प्रमाणबाधाद्वस्तुपरिच्छेदो न प्रयोजक इति भावः । अथवा प्रयोज्याकारतारतम्यं प्रयोजकाकारतारतम्यनिबन्धनं दृष्टम्, यथा पतनतारतम्यं गुरुत्वतारतम्यनिबन्धनम्, यथा वा गतिशैर्घ्यतारतम्यं वेगतारतम्यनिबन्धनम्; अतस्तारतम्यवति प्रयोज्यधर्मे प्रयोजकधर्मेण तारतम्यवता भाव्यम्, अतो वस्तुपरिच्छेदस्य देशकालपरिच्छेदप्रयोजकत्वे सति न्यूनाधिकभाववत्त्वप्रसङ्गः । न च वस्तुपरिच्छेदो न्यूनाधिकभाववान् दृश्यते, तस्मात् देशकालपरिच्छेदप्रयोजकत्वं तस्यानुपपन्नम्, अतो वस्तुतः परिच्छिन्नस्यापि ब्रह्मणो देशकालपरिच्छेदाभाव उपपन्न इत्यर्थः । भाष्ये न्यूनाधिकभावेनानियमदर्शनादिति प्रमाणान्तरायत्तनिर्णयत्वेन चेति निर्देशेनायमर्थो विवक्षित इति स्फुटमवगम्यते । अथानन्त्यश्रुतेः सङ्कोचं शङ्कते - वसुतुतः परिच्छेदमात्रादपीति । सङ्कोचस्य परपक्षेऽपि तुल्यतां दर्शयति - तद्भवतोपीति ततः किमित्यत्राह - अतः सतो विद्येति । प्रसङ्गदार्ढ्याय प्रसञ्जकस्य विपर्ययेऽनिष्टमाह - यद्यविद्येति । ततोऽपि किमित्यत्राह - सत्यं

ज्ञानमिति । परमार्थादन्यत्वं वस्तुपरिच्छेदः, स तु ब्रह्मणो नास्तीति चेतदयुक्तम्, परमार्थादन्यत्वं हि मिथ्यात्वम्, तच्च बाध्यत्वम्, बाधफलं च कदाचिन्निवृत्तिरिति तस्य कालपरिच्छेदान्तर्भावात्, अतो विलक्षणत्वमात्रं वस्तुपरिच्छेद इति त्वया वक्तव्यम्, उक्तञ्च; अतोऽविद्याविलक्षणब्रह्मणो वस्तुपरिच्छेदप्रसङ्गो दुर्वारः ।

पूर्वस्मिन् ग्रन्थे अविद्याब्रह्मणोर्भेदानभ्युपगमे दूषणमुक्तम् । अथ सामान्येन भेदो नाम कश्चिदस्तीत्यनभ्युपगमे दूषणमाह - भेदतत्त्वेति । स्वपक्षो निर्दूषणः प्रबलः, परपक्षः सदूषणो दुर्बल इति भेदः किमस्ति वा ? न वा ?अस्ति चेद्भेदाङ्गीकारः, न चेत्परपक्ष एव प्रबलः स्यात्, स्वेनापि स एवाभ्युपगतः स्यात्; स भेदोऽपरमार्थ इति चेत्ततोऽपि परपक्षप्राबल्यं स्यादित्यर्थः । ब्रह्माज्ञानपक्षं खण्डयन् वैशेषिकः स्वाभिमतनिर्वाहमाह - आनन्त्यप्रसिद्धिश्चेति । साक्षात्सिद्धान्तिपक्षे वस्त्वपरिच्छेद उपपन्न इत्याह - भेदवादिनस्त्विति । ब्रह्मणः सर्वप्रकारत्वादित्यनेन सर्ववस्तुसामानाधिकरण्यार्हत्वं वस्त्वपरिच्छेद इति भाष्यकाराभिप्राय इत्यवगम्यते । इदमिदं न भवतीति हि वस्तुपरिच्छेदः, इदमिदं भवतीति निर्देशयोग्यत्वं वस्त्वपरिच्छेदः, सर्ववस्तुसामानाधिकरण्यार्हत्वमित्यर्थः । अनेकविशेषणानामेकविशेष्यपर्यन्तताभिधानं हि सामानाधिकरण्यकृत्यम्, तच्च वस्तुनस्तथाविधत्वात् । यद्वा वस्त्वपरिच्छेदो नाम वस्तुगतस्वभावविशेषो देशकालापरिच्छेदविलक्षणः, यथा देशकालपरिच्छेद साम्येपि षड्वर्ण स्वर्णस्य दशवर्णात्परिच्छेदो देशकालपरिच्छेदविलक्षणो दृश्यते । षड्वर्णतया परिच्छेदो दशवर्णस्य स्वर्णस्य नास्ति, तथा ब्रह्मणोऽपि वस्त्वपरिच्छेदो नाम स्वभावतोऽपरिच्छेदः, गुणानन्त्यमिति फलितम् । उक्तं प्रकारद्वयं साधीयः । वस्त्वन्तराप्रतिहतिर्वस्त्वपरिच्छेद इति केचित् । आलोकादिर्हि सर्वदेशसम्बन्धयोग्योऽपि प्रतिहन्यते, न तथेत्यर्थः । केचिदेवमाहुः- वसुतपरिच्छेदो वस्तुनः परिमितत्वम्, तदभावो वस्त्वपरिच्छेदः । देशापरिच्छेदस्तत्कार्यः, वस्तुनः परिमितत्वाभावाद्धि सकलदेशसम्बन्ध इति । इतोऽपि पूर्वोक्तपक्षद्वयं वरम् । स्वतः परतोऽपि परिच्छेदो न विद्यत इति । स्वत इति घठादिव्यावृत्तिः, घटादयो हि स्वतः परिच्छिन्नाः । परत इति धर्मभूतज्ञानव्यावृत्तिः, तद्धि पराधीनसङ्कोचम्, एवं देशकालपरिच्छेदाभाव उक्तः । यद्वा स्वत इति स्वतः परिमितत्वाभाव उक्तः,अयं वस्त्वपरिच्छेदः तत्कायर्परिमितदेशकालसम्बन्धाभाव उक्तः- परत इति ।

अथ वैशेषिकपक्षमुपसंहरन् सूत्रमवतारयति - तदेवमिति । तदनन्यत्वमारम्भणशब्दादिभ्यः - कस्य कस्मादनन्यत्वमित्यत्राह - तस्मादिति । पूर्ववाक्यखण्डानुपादानेनारम्भणशब्दोपादनस्य हेतुमाह - तदुपपादयद्य्भ इति । पूर्ववाक्ये एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम्, तत्र दृष्टान्तश्चोक्तः, प्रतिज्ञादृष्टान्तवाक्यद्वयं प्रकृत्यधिकरण उपात्तम् । उक्तदृष्टान्तेऽपि वैशेषिकमतेन कारणात् कार्यस्यान्यत्वादेकविज्ञानेन सर्वविज्ञानानुपपत्तिमाशङ्कय तदुपपादयति-

वाचारम्भणमित्यादिवाक्यम्; अतस्तदिदं वाक्यमनेन सूत्रेणोपात्तमित्यर्थः । तर्हि आरम्भणशब्दादिभ्य इति

किमर्थमुक्तम्? न तु वाचादिभ्य इति । उच्यते- केचित् वाचारम्भणमित्येकं पदं व्याचक्षते वागालम्बनमिति, “यथा वाचा दिशानिशे"ति वचनात्, तद्य्वावृत्त्यर्थं वाचेति पदान्तरम्, आरम्भणमित्यपि पदान्तरमिति दर्शयितुम् आरम्भणशब्दादिभ्य इत्युक्तम् । समासस्य षष्ठीतत्पुरुषत्वव्यावृत्त्यर्थं व्याचष्टे- आरम्भणेति । आदिशब्दोपात्तानि वाक्यान्याह - सदेवेति । एतदभिप्रेतान्याह - प्रकरणान्तरेति । एषां वाक्यानामनन्यत्वबोधकतामुपपादयति - तथा हीति । एकविज्ञानेन सर्वविज्ञानं प्रतिजानतोऽभिप्रायमाह - कृत्स्नस्येति । दृष्टान्तवाक्यं व्याचष्टे - यथेति । मृण्मयमितिपदं व्याचष्टे - मृत्पिण्डारब्धानामिति । वाक्याभिप्रेतार्थमाह तस्मादनतिरिक्तद्रव्यतया तज्ज्ञानेनेति । “कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति” “आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदित"मित्यादि श्रुत्यन्तानुगुण्याद्दृष्टान्तसामर्थ्याद् दार्ष्टान्तिकसामर्थ्याच्च तज्ज्ञानेनेति व्याख्यातम् । न हि मृत्पिण्डसत्तया घटशरावादि ज्ञातं भवति, न हि परब्रह्मसद्भावात् सर्वं जगद्विज्ञातं च भवति । वाचारम्भणमित्यादिवाक्यस्य शङ्कामाह - अत्रेति । कायर्मिथ्यात्वपक्षे प्रतीतिमात्रेण सतः कार्यस्य वागारब्धत्वाभावाद्वाचः पूर्वमपि प्रतीयमानत्वात् परिणामपक्षे च ब्रह्मकार्यस्य जगतः शब्दपरिणामत्वाभावाच्चारम्भणशब्दस्योपादानार्थत्वमयुक्तम् । आरभ्यते आलभ्यते स्पृश्यत इत्यारम्भणमिति - “आलम्भः स्पर्शहिंसयोः” इति निघन्टुकाराः । नामधेयस्य मृदारब्धत्वाभावाद्विकारनामधेययोरुभयोरप्यारम्भणशब्दवाच्यत्वसिद्धये स्पर्शार्थत्वेन व्याख्यातम् । “विभ्राजमानः सरिरस्य मध्यात्” इत्यत्र यथा सरिरशब्देन सलिलमुच्यते तद्वदारभ्यत इत्यत्रापि रलयोरभेदो विवक्षित इति भावः । वाचेति तृतीयान्तं पदम्;अजहल्लक्षणेयम् । विकारनामधेययोरुभयोरपि हेतुत्वाय वाक्पूर्वकेण व्यवहारेण हेतुनेति व्याख्यातम् । हेतुत्वं च प्रयोजनतया, न तु

साधनतया हेतुत्वमित्यर्थः । तदाह - तस्य व्यवहारस्य सिद्धय इति । केन स्पृश्यत इत्यपेक्षायां पूर्ववाक्यप्रस्तुतेन मृद्द्रव्येणेत्याह - तेनैवेति । धर्मिपरत्वव्यावृत्त्यर्थं विकारशब्दं व्याचष्टे- संस्थानविशेष इति । स्पर्शशब्दार्थं विवृण्वन्नुक्तमर्थं सङ्ग्रहेणाह - उदकाहरणादीति । व्यावहारपूर्वकव्यवहारसिद्धयर्थं कारणद्रव्यमेवावस्थान्तरनामान्तरभाग्भवतीत्युक्तम् । आस्ते शेत इत्यादिष्ववस्थान्तरेणापि बुद्धिशब्दान्तरादयो दृश्यन्ते, घटः पट इत्यादिषु वस्त्वन्तरत्वेनापि बुद्धिशब्दान्तरादयो दृश्यन्ते, अत्र त्ववस्थान्तरनिबन्धनत्वे किं निश्चायमित्यपेक्षायां प्रत्यभिज्ञाप्रत्यक्षमिति श्रुतिराहेत्याह - अतो घटाद्यपीति । सत्यशब्दं व्याचष्टे- प्रमाणेनोपलभ्यत इति । एवकारं व्याचष्टे - न तु द्रव्यान्तरत्वेनेति । विकारासत्यत्वं विवक्षितं चेत् इतिकरणवैयर्थ्यं स्यात् । द्रव्यान्तरत्वसाधकतया परोक्तानां बुद्धिशब्दान्तरादीनां सामान्येनान्यथासिद्धिमाह - अथ इति । दृष्टान्तमाह - यथैकस्येति । बालयुवशरीराणामपि वस्त्वन्तरत्वं वैशेषिकैरुच्यत इति दृष्टान्तो विप्रतिपन्न

इति चेन्न, बालयुवादिशब्दाः शरीरद्वारा शरीरिणमभिदधते, तस्य च नश्वरत्वाभावाच्चेतनपर्यन्तबुद्धिशब्दान्तरादयोऽवस्थानिबन्धना एवेति । यद्वा आस्ते शेते तिष्ठति गच्छतीत्यादिवत् बुद्धिशब्दान्तरादीनामवस्थाभेदनिबन्धनत्वोपपत्तेर्बालयुवादिशरीरस्याबाधितप्रत्यभिज्ञागोचरस्याभङ्गुरत्वसिद्धवत्कारेण दृष्टान्ततयोपन्यासः । भावाभावविरोधं पृथक् परिहरति - यदुक्तमिति । तस्य परिहृतत्वं दर्शयन् कार्यभेदं परिहरति - तत्तदवस्थस्य तस्यैवेति । कारकव्यापारवैयर्थ्यं परिहरति - द्रव्यस्येति । अभिव्यक्तिरनभ्युपेता चेत् उत्पत्तिः स्वीकृता स्यात्, तदानीमसत्कार्यवादः स्यादित्यत्राह - उत्पत्त्यभ्युपगम इति । अनित्यधर्मोऽवस्था । चोद्यं शङ्कते - संस्थानस्येति । परिहरति - असत्कार्येति । अयमर्थः, यथोत्पत्तेरुत्पत्तिचोद्यधर्मान्तरारोपणेन नित्यसमावज्जात्युक्तिर्हि भवति, तथावस्थायामुत्पत्तिचोद्यमपि जात्युक्तिः । ननु तत्रोत्पत्तेरुत्पत्तिचोद्यं जात्युक्तिभर्वति, न त्ववस्थाया उत्पत्तिकथनं जात्युक्तिरिति चेन्न, अवस्थैवोत्पत्तिरित्यभ्युपगमात् अवस्थाया

उत्पत्तिमत्त्वचोदनमुत्पत्तेरुत्पत्तेमत्त्वचोदनमेवेति जात्युक्तिरिति । तदेतदभिप्रेत्य प्रतिबन्दीमुखेनोक्तमुत्पत्तेरनुत्प

तेजः प्रभृतीति - सङ्कल्पानन्तरं तेजःप्रभृति सृष्टिप्रतिपादनात् बहु स्यामिति बहुशब्दतेजःप्रभृतिरूपेण बहुत्वपर इत्यर्थः । बहुशब्दोक्तनामरूपविभागाभाव एकशब्दोक्त इति गम्यते । ऐक्षतेत्यनेन अद्वितीयपदस्याधिष्ठात्रन्तरनिवारकत्वं ज्ञातम् । कथमसतः सज्जायेते"त्यनेन सदेवेत्यवधारणस्य कदाचिदसत्त्वव्यावृत्तिपरत्वमवगतम् । कारणभूतस्यैव ब्रह्मणो बहुभवनसङ्कल्पाभिधानात्कार्यकारणयोरनन्यत्वं च लब्धमित्याह - तथा तदैक्षतेति । व्यष्टिसृष्टिसङ्कल्पवाक्यस्य शङ्काविशेषव्युदासकत्वात्तद्वयुदसनीयां शङ्कामाह - सच्छब्दवाच्यस्येति । सच्छब्दस्य ब्रह्मपरत्वे इदंशब्दवाच्यजगत्सामानाधिकरण्यमनुपपन्नमित्यभिप्रायेणाह - सच्छब्दवाच्यस्येति । सच्छब्दस्य जगत्परत्वे तदैक्षतेत्यादिभिर्विरोध इत्यभिप्रायेणाह- सच्छब्दवाच्यस्यैव जगत इति । चेतनांशस्यैक्यानुपपत्तिमभिप्रेत्याह - नामरूपविभागाभावेनैकत्वमिति । सेयमित्याद्युदाहृतवाक्यसमुदायस्यार्थोऽन्यत्रोक्तः, तत्र वाक्यैकदेशेनोक्तार्थविरोधशङ्कां

परिहरिष्यन्नुदाहृतवाक्यसमुदायप्रतिपन्नमर्थं साधारण्येन वदति - तिस्र इति । अस्मिन्वाक्ये स्वात्मकजीववाचिपदं दर्शयन्ननुप्रवेशवत् गगनादिव्यावृत्त्यर्थं नियन्तृतयाऽनुप्रवेशं च दर्शयति - अनेनेति । स्वात्मकजीवेनेत्युक्ते मृदात्मक इतिवत्स्यादिति शङ्कायां विवक्षितार्थविशेषमाह- स्वात्मनो जीवस्य चेति । “सिंहेन भूत्वा बहवो मयात्ताः” इतिवज्जीवेनात्मनेत्यस्यार्थ इति भावः । इममर्थं श्रुत्यन्तरेण स्पष्टयति - तत्सृष्ट्वेति । आत्मतयाऽनुप्रविष्टमिति श्रुत्यन्तरेण स्पष्टमित्यन्वयः । बहुत्वे सति ह्यनुप्रवेशः, स तु कारणावस्थायामेकत्वान्नोपपद्यत इत्यत्राह - तदेतदिति । ततः किमित्यत्राह - अनेनेति । पूर्वोक्ताशङ्का इदंशब्दसामानाधिकरण्येन ब्रह्मणि जगद्गतदोषाशङ्केत्यर्थः । तदुपपादयति- अचिद्वस्तुनीत्यादिनाऽनन्तरवाक्येन । उपपन्नतरम् मुख्यमेवेति भावः । अथ प्रकरणान्तरस्थवाक्यानामप्येतत्सूत्राभिप्रेतत्वात्तैरनन्यत्वमुपपादयति - तथा प्रकरणान्तरस्थेष्विति । द्वैतदर्शनस्यातात्त्विकत्वं कदाचिन्निवृत्तिवचनेनापि सिद्धमित्याह - यत्र त्वस्येति । तदेवमित्यादि -ब्रह्मणश्चिदचितोरुत्पत्तिप्रलयश्रवणात् कारणात्कार्यस्यानन्यत्वात्कारणावस्थायां बहुत्वाभावाच्छरीरशरीरिभावस्यानुपपन्नत्वेन स्वभावव्यवस्था न स्यादित्यत्राह । यद्वा भेदव्यपदेशादित्यादिभिः सूत्रैर्भेदोपपादनेनेदमनन्यत्वोपपादनं व्याहतिमित्यत्राह - अत्रेदं तत्त्वमिति । विशिष्टात्कारणाद्विशिष्टं कार्यं जायत इति शरीरशरीरिभावादिरुपपद्यत इत्यर्थः । ब्रह्माज्ञानवादिभिरस्य सूत्रस्योक्तमर्थं दूषयति -

ये त्त्विति । भास्करमतं दूषयति - ये चेति । निरवयवत्वादिविशेषण ब्रह्मणि दोषसमबन्धज्ञापनाय । शक्तिपरिणामाभ्युपगम इति - शक्तेर्ब्रह्मानन्यत्वाभ्युपगमात्तेनापि व्याकुलमेवेत्यर्थः । यादवप्रकाशमतं निरस्यति ये पुनरिति । विप्लवः - विकारः । तेषामित्यादि । सदैव सर्वज्ञमिति - अनेन कारणावस्थायामपि सर्वज्ञत्वादिकं विवक्षितम्, “यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते” इति हि श्रुतिः । महोपनिषद्येव नारायणकारणत्वं श्रूयते, अन्यत्र तु सद्ब्रह्मात्मादीनाम्, तत्कथं सर्वोपनिषत्स्वीश्वरस्य कारणत्वं श्रूयत इत्यत्राह - सद्ब्र्रह्मेति । सद्ब्रह्मशब्दौ दृष्टान्तार्थौ, यथा सद्ब्रह्मशब्दौ सामान्यविशेषशब्दावेकार्थतया स्वीकृतौ तद्वदिति भावः । तमीश्वराणामित्यादि - ईश्वरस्यैवेत्येवकारेण नाचास्यकश्चित् इत्युक्तविरोधः विवक्षितः । ततः स्वयम्भूरिति अत्र भगवच्छब्दः

ईश्वरवाचीति भावः । न्यायविरोधमाह - न चेति । सविशेषत्वाच्च नियन्तृत्वरूपविशेषवत्वात् । सन्मात्रं हि नियन्तृत्वादिविशेषरहितम् । शक्तिः स्वाभाविकीत्यादि - शक्तिविशेषे अघटितघटनासामर्थ्यरूपे शक्तिशब्दो

वर्तते, ज्ञानादिकायर्करत्वे च । तत्रोभयमप्यसङ्कुचितं शक्तिशब्देनोच्यते । तत्सङ्कोचेन पृथङ्निर्देशावैयर्थ्यमाशङ्क्याह - लक्षणाप्रसङ्गाच्चेति । ज्ञानादिशब्दैस्तत्तच्छक्तिः प्रतिपाद्या चेल्लक्षणा, शक्तिशब्दस्य सङ्कोचोऽप्यस्वरसः, असङ्कोचे पृथङ्निर्देशवैयर्थ्यमित्यर्थः, न लक्षणा । शक्तिमात्रेऽपि प्रत्ययविधानादित्यत्राह - न चेति । शक्तौ हस्तिकवाटयोरित्यादिष्विति - अत्रादिशब्देन “शकि लिङ् चे"त्यादिसूत्रं विवक्षितम् । शकि लिङ् चेत्यत्र चशब्दात् कृत्प्रत्ययान्तराणामपि शक्तौ विधानं सूचितम्, तत्र विशेषविधानाभावेऽपि पाचकादिषु शक्तौ कृदन्तत्वेन प्रयोगदर्शनात् कतिपयविधानमुपलक्षणमिति चेन्न, विशेषोपादानान्यथानुपपत्त्या कृन्मात्रस्य शक्तयर्थानुपपत्तेरित्यर्थः । शक्तिविषयप्रत्ययाभावेऽपि पाचकादिषु शक्त्यर्थत्वं दृश्यत इत्यत्राह - पाचकादिष्विति । न च सन्मात्रस्येति - अनुवर्त्तमानं सन्मात्रं किं वस्तुधर्मः ? उत द्रव्यम् ? इति विकल्पमभिप्रेत्य धर्मपक्षे दूषणमाह - न चेति । सत्त्वप्रसङ्गादसत्त्वं शिक्षयति - विरोधीति । द्रव्यपक्षे दूषणमाह - द्रव्यमेवेति । क्रियादिष्विति - काशस्यकुशत्वेन कुशस्थानेऽवलम्बनं काशकुशशावलम्बनम्, अमुख्यमित्यर्थः । स्वोक्तस्यैव सूत्रार्थत्वमुपसंहरति - अत इति । मृत्तिकेत्येव सत्यमिति वाक्योक्तप्रत्यभिज्ञाप्रत्यक्षसिद्धानन्यत्वं वदत उत्तरसूत्रस्य शङ्कामाह - अथोच्येतेति ।

॥ भावे चोपलब्धेः ॥ कस्य भावे कस्योपलब्धेरित्यत्राह - कुण्डलादीति । इदं कुण्डलं हिरण्यमिति सामानाधिकरण्येन प्रत्यभिज्ञानमत्राभिप्रेतम्, समवायिकारणानुवृत्तिं वदतोऽसत्कार्यवादिनोऽप्यभिमताया वैयधिकरण्येन प्रत्यभिज्ञायाः स्वपक्षासाधकत्वात्; तथापि बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरत्वं कल्पयत इत्यत्राह - द्रव्यान्तरवादिनेति । अभनयुपेतेन- असमवायिकारणत्वेनाभ्युपेतेनेत्यर्थः । अनन्यथासिद्धं हि कल्पकम्,- बुद्धिशब्दान्तरादीनामन्यथासिद्धत्वान्न कल्पकत्वमित्यर्थः । न चेति - सोऽयं गौरित्यादिषु जातिनिबन्धनं प्रत्यभिज्ञानं दृष्टम्, तथाऽत्रापि जातिनिबन्धनमित्यर्थः । परिहरति - जात्याश्रयेति । तत्र हि व्यक्तिद्वयोपलब्धिरस्ति, अत्र तु न तथा व्यक्तयन्तरमुपलभ्यत इत्यर्थः । कथमुपलभ्यत इत्यत्राह - एकमेवेति । पुनः शङ्कते - न चेति । परिहरति - द्रव्यान्तरत्वेसतीति । न हि घटस्थ जले घटो जलमिति सामानाधिकरण्येन प्रत्यभिज्ञानं भवतीत्यर्थः । चोद्यं शङ्कते गोयमिति । परिहरति - नेति । अयमर्थः, समवायिकारणानुवृत्तिं वदता त्वयापि प्रतिसन्धानाभावचोद्यं परिहरणीयम्, तत्रादिकारणपृथिवीप्रत्यभिज्ञानमस्तीति वदसि चेत्तस्माकमपि तुल्यमिति । पुनरप्यापातप्रतीतिनिबन्धनं चोद्यं शङ्कते - अग्निकार्य इति । परिहरति - भवत्त्विति । निमित्तकारणाप्रत्यभिज्ञानं न दोषः, उपादानमेव प्रत्यभिज्ञातव्यम्, तच्च धूमे गन्धवत्त्वात् पृथिवीत्वं प्रत्वभिज्ञायत एवेत्यर्थः । सूत्रार्थमुपसंहरति - अत इति । अधिकरणार्थेन सुत्रस्यान्वितत्वमाह - तस्मादिति ।

॥ सत्त्वाच्चापरस्य ॥ कारणे सत्त्वात्- कारणावस्थायां सत्त्वात् । केचिदनयोः सूत्रयोरिमां भिदामाहुः, सोऽयमितिज्ञानं प्रत्यभिज्ञा, सा पूर्वोक्ता; अयं स इति ज्ञानमभिज्ञा, साऽत्रोच्यते इति । अथवा पूर्वत्रैकद्रव्यताविषयबुद्धिरुक्ता, अत्र तु तथा व्यपदेश उच्यत इति भिदा; अत एव ह्युत्तरसूत्रे “असद्य्वपदेशान्नेति चे"दित्युक्तम्; एतदभिप्रायेण भाष्येपि कार्यमेव कारणतया व्यपदिश्यत इत्युक्तम् । श्रुतिसिद्धं प्रत्वभिज्ञानं पूर्वमुक्तम्, लोकवेदयोरुभयत्रापि व्यपदेशस्त्वत्रोक्तः । अत्र कार्ये कारणव्यपदेशो न कथितः, कारणे कार्यव्यपदेश उक्तः, तत्र हेतुः सदेवेदमग्र एकमेवेति श्रुत्यनुसारः । ननु मृदयं घट इति प्रत्यभिज्ञानं ज्वालाप्रत्यभिज्ञानवत् भ्रान्तं स्यात्, बुद्धिशब्दान्तरादिभिर्वस्त्वन्तरस्य साधितत्वात्, नैवम्; ज्वालायां ह्यनन्यथासिद्धहेतुना भेदसिद्धेः प्रत्यभिज्ञानस्य भ्रान्तत्वनिर्णयः, अत्र बुद्धिशब्दान्तरादयोऽन्यथासिद्धाः, ज्ञानं तु स्वतः प्रमाणमिति यथोक्त एवार्थः ॥

॥ असद्य्वपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च ॥ यदुक्तमिति - सत्त्वासत्त्वे हि द्रव्यधर्मावित्युक्तमिति - व्यवहारयोग्यतासत्त्वम्, विरोधिव्यवहारयोग्यता तद्य्ववहारयोग्यस्य असत्त्वमित्युक्तमित्यर्थः । धर्मान्तरेणेत्यत्रान्तरशब्दस्यार्थमाह - तत्रेति । सत्त्वासत्त्वयोरापेक्षिकत्वमभिप्रेत्याह - इदंशब्दनिर्दिष्टस्येति । वाक्यशेषादिति “असद्वा इदमग्र आसी “दित्यत्र “तदात्मानं स्वयमकुरुते"ति वाक्यशेषः । अश्रुतवाक्यशेषेषु प्रदेषेषु निर्वाहमाह - तदैकार्थ्यादिति । युक्तेश्चेति - पिण्डत्वकपालत्वावस्थयोः साधारणमाह - तस्यैव तद्विरोध्यवस्थान्तरयोगो घटो नास्तीति व्यवहारहेतुरिति - एतद्विवृणोति - तत्रेति । न च तद्य्वतिरिक्त इति - अभावान्तरवादिनापि अभावाभावोभाव इत्यभ्युपगतः, अन्यथा अनवस्थाप्रसङ्गात्; तद्वत्सर्वत्राभावव्यवहारस्य विरोध्यवस्थान्तरेणैवोपपन्नत्वान्न तद्य्वतिरिक्तस्य कल्पनमित्यर्थः । पिण्डत्वकपालत्वे घटस्य प्राक्प्रध्वंसाभावौ । घटत्वमेव पटादन्योन्याभावः, कालविशेषविशिष्टदेशविशेषत्वं संसर्गाभावः, यथा मध्याहविशेषितप्राङ्गणत्वम् । यद्वा घटस्याल्पत्वविशेषितदेशान्तरसंसर्गपिण्डत्वकपालत्वेष्वन्यतमस्तद्देशापेक्षया संसर्गाभावः ॥ उत्तरसूत्रद्वयकृत्यमाह - इदानीमिति । निदर्शनत्वेन वक्ष्यमाणस्य पटादेरपि विप्रतिपन्नत्वान्न दृष्टान्तत्वमुपपद्यत इति शङ्काव्युासार्थम् इदानीमित्युक्तं, पूर्वसूत्रेरनन्यत्वे साधिते सतीत्यर्थः । निदर्शनद्वयमिति - लौकिकं वैदिकमिति निदर्शनयोर्विभागः । बहूनामेकावस्थत्वे एकस्य बहुत्वावस्थत्वे च दृष्टान्त इति वा विभागः ।

॥ पटवच्च ॥ इह बहूनामेकावस्थत्वे लौकिकदृष्टान्त उक्तः । व्यतिषङ्गः- मिथः संसर्गः । ननु तन्तुबहुत्वाप्रहाणेन पटैकत्वदर्शनात् द्रव्यभेदाभावाच्च एकस्मिन्नेव द्रव्ये युगपद्बहुत्वैकत्वे वर्तेते इति भिन्नाभिन्नत्वमभ्युपगतं स्यात् । उच्यते; दूप्यभिन्नाभिन्नत्वाविवेकनिबन्धनमिदं परिचोदनम् । न हि

भिन्नाभिन्नशब्दवाच्यं सर्वं दूप्यम्, अपि तु यत्र भावाभावाविरोधः तदेव भिन्नाभिन्नत्वं दूप्यम् । तच्च धर्मधर्मिणोर्धर्मिद्वयस्य च मिथस्तादात्म्यतदभावलक्षणम्, यथा जातिर्व्यक्तिर्भवति न भवति चेति,यथा खण्डो मुण्डो भवति, न भवति चेति; चैवं तन्तुपटेषु भावाभावविरोधः, तनतुभ्यः पटो ह्यभिन्न एवाभ्युपगतः, न तु भिन्नः । तन्तवश्च मिथो भिन्ना एवाभ्युपगताः, न त्वभिन्नाः । तेषां च पटादभिन्नत्वं नाम तस्य परस्परसंसृष्टेभ्यस्तेभ्योऽनन्यत्वम्, न च तेषामन्योन्याभेदः, यद्यभेदो नाम एकस्य तन्तोस्तन्त्वन्तरानतिरेकः तर्हि द्वितीयतन्त्वनुपलम्भप्रसङ्गः परिणामाधिक्यं च न स्यात् । यदि संसर्ग एवाभेदः नाम्नि विवादः स्यात्, यद्येकत्वं सङ्खयोत्पत्तिः सा तर्हीष्टा, पटत्वाप्राप्तावस्थावेवैकत्वोत्पत्त्यभ्युपगमात् । तर्हि भेदाभेदाभ्युपगम इति चेन्न, तस्य भेदप्रतिक्षेपकत्वाभावात्, यथा विशिष्टे वस्तुनि विशेष्यैक्यं न विशेषणभेदप्रतिक्षेपकं तद्वत् । कथं तत्तुल्यत्वम् ? उच्यते तन्तुषु तन्तुत्वस्येव पटत्वस्य प्रत्येकतन्तुपरिसमाप्तत्वाभावात् कृत्स्नतन्तुवृत्तिना पटत्वेन तन्तव एककार्यतां भजन्ते । पृथगवस्थानदशायां कस्यचिदंशभूता अपि तन्तवः पटत्वावस्थायां सङ्घातापेक्षयांऽशत्वं भजन्ते, अतस्तस्तन्तुगताश्च संस्थानवर्णपरिमाणादयः पटस्य प्रादेशिकविशेषणानि भवन्ति, गगनस्य दुनदुभ्यादिशब्दवत् भेदकाकारेण विनांशभेदस्य प्रतिपत्तुं वक्तुं चाशक्यत्वात् । अंशभेदो नाम विशेषणभेदः, अंशिन एकत्वं च विशेष्यैक्यमिति फलितम्, इयान् विशेषः, केचित्प्रादेशिकधर्मा यावद्द्रव्यभाविनः, केचिदयावद्द्रव्यभाविनश्चेति, यतो नभसि प्रादेशिकविशेषाः कादात्चिकाः, अत एव तत्र स्वाभाविकांशभेदवादोऽपि निरस्तः । ननुगगनं घटाद्युपाधिभिः कार्त्स्न्ेन सम्बन्धायोगात्, अंशभेदेन सम्बन्धार्थमुपाध्यन्तरापेक्षायामनवस्था स्यात्; अतो घटादिसंयुक्तगगनांशभेदः, स्वाभाविक इत्यभ्युपगन्तव्यः, नैवम्; गगनादिव्यापकपदार्थानां तत्तत्सूक्ष्मतरोपाध्यन्वितात्यल्पांशभेदानां स्वाभाविकत्वे परमाणुपुञ्जात्मकत्वप्रसङ्गात् क्षणिकत्वप्रसङ्गाच्च गगनादीनां परिमाणविशेषाः क्षणिकाः क्षणिकसंयोगादयश्च गगनादिभिः किं कालानवच्छिन्नैः सम्बध्यन्ते ? उतावच्छिन्नेन ? आद्ये गगदीनां क्षणकालवर्तित्वं परिणामविशेषसंयोगादीनां नित्यत्वादिकं वा स्यात् । द्वितीये च अवच्छेदकोपाधीनां पूर्ववदनवच्छिन्नगगनादिना सम्बन्धायोगेन अवच्छिन्नेन सम्बन्धसिद्धयर्थम् अवच्छेदकोपाध्यन्तरापेक्षया अनवस्था स्यादिति तत्परिहाराय गगनादेः प्रतिक्षणभेदस्य स्वाभाविकत्वमुपगन्तव्यमिति गगनादीनां क्षणिकत्वं स्यात्; एवं ब्रह्मपर्यन्तानां व्यापकपदार्थानां क्षणिकत्वं परमाणुपुञ्जात्कमत्वं स्यात्, त्वया च भिन्नाभिन्नत्वमभ्युपगतम्; अतो भिन्नाभिन्नस्वभावक्षणिकपरमाणुपुञ्जकारणकं जगदिति ब्रह्मकारणवादः परित्यक्तः स्यात्, अतो गगनादिषु प्रदेशभेद औपाधिकोऽभ्युपगन्तव्यः, उपाधिश्च न कृत्स्नाकाशेन सम्बध्यते परिमितत्वात् । नापि स्वतो भिन्नांशेन, स्वतोंऽशभेदे पूर्वोक्तदूषणस्य दुस्तरत्वात् । नाप्युपाध्यन्तरभिन्नेन, तन्नैरपेक्ष्यात् । तन्नैरपेक्ष्यं चोपाधित्वादेव, स्वतस्तदाकाररहिते वस्तुनि तदाकारनिष्पादनसमर्थो ह्युपाधिः । स्वतो निर्दुःखे ह्यात्मनि उपाधिर्दुःखहेतुः, स हि न पूर्वमेवात्मनि सहजदुःखान्तरयोगमपेक्षते, अतः उपाधिः कश्चित् कल्प्याकारकल्पने सहजतज्जतीययोगं नापेक्षते । किञ्च उपाधिसम्बन्ध एव गगनस्य भेदः, अर्थान्तरादर्शनात् तावता भेदव्यवहारे सम्भवत्यर्थान्तरकल्पनायोगाच्च । उपाधिसम्बन्धरूपो भेदश्च स्वावच्छेद्यवस्त्ववच्छेदे भेदान्तरनिरपेक्षः, भेदत्वात् स्वतःसिद्धभेदवत् । न हि देहात्मनोभर्ेदः स्वाश्रयावच्छेदे भेदान्तरमपेक्षते, अतो न स्वतो नभसि भिन्नांशत्वम् पटस्यांशभेदे सत्यपि भावाभावविरोधगभर्ं भिन्नाभिन्नत्वं नास्तीति दर्शितम्, तत्रांशभेदश्च विशेषणभेदे पर्यवस्यतीत्युक्तम्, अतो निर्दोषः सत्कार्यवादः ।

॥ यथा च प्राणादिः ॥ एकस्य बहुत्वावस्थात्वे वैदिकदृष्टान्तोऽत्र प्रदर्श्यते । अधिकरणार्थमुपसंहरति - इतीति ॥ आरम्भणाधिकरणम् ॥