05 भोक्त्रापत्त्यधिकरणम्

॥ भोक्त्रापत्तेरविभागश्चेत् स्याल्लोकवत् ॥ सङ्गतिमाह - पुनरपीति । “न तु दृष्टान्तभावा” दित्यत्र शरीरगतबालत्वयुवत्वादिधर्माणां शरीरिण्यप्रसङ्गं दृष्टान्तीकृत्य परमात्मनि शरीरभूतचिदचिद्गतदोषाप्रसक्तिरुक्ता; अत्र शरीरसंसर्गप्रयुक्तभोक्तृत्वप्रसङ्गः परिह्रियते, पूर्ववदेव प्रथमो विचारः, तदर्थं किं भोक्तृजीवशरीरकस्य ब्रह्मणस्स्वशरीरभूताज्जीवान्निरतिशयानन्दस्वभावतया विलक्षणत्वमस्ति? न? इति तदर्थं किं ब्रह्मणः सशरीरत्वे जीववत्सुखदुःखभोक्तृत्वं प्रसज्यते ? उत न? इति । दुःखादिभोक्तृत्वं किं शरीरप्रयुक्तम्? उतान्यप्रयुक्तम्? इति । “न ह वै सशरीरस्ये"तिश्रुतौ शरीरशब्दः किं शरीरमात्रपरः? उत

पुण्यापुण्यनिमित्तशरीरपरः? इति । अत्र चरमो विचारः प्रस्तुतोपयोगेन बुद्धिस्थतया कृतः, न त्वसाधारणतया कर्त्तव्यत्वात् । यदा शरीरमात्रपरः तदा दुःखादिभोगस्य शरीरत्वप्रयुक्तत्वात् ब्रह्मणोऽपि तद्भोगप्रसङ्गेन शरीरभूताज्जीवान्निरतिशयानन्दतया विलक्षणत्वं नास्तीति स्यात्, यदा

तस्मिन् वाक्ये शरीरशब्दः कर्मकर्तृशरीरपरः तदा दुःखादिभोगस्य शरीरत्वप्रयुक्तत्वाभावात् ब्रह्मणः तद्भोगाप्रसङ्गेन शरीरभूताज्जीवान्निरतिशयानन्दतया वैलक्षण्यमस्तीति सिध्यति । कथं शरीरित्वे भोक्तृत्वमिति शङ्कायां विवृणोति -सशरीरत्व इति । अधिकरणारम्भमाक्षिपति - ननु चेति । परिहरति - नैवमिति । शरीरान्तर्वर्तित्वमात्रेणेति - मात्रशब्देन शरीरं प्रति स्वाम्यव्यावृत्तिः जीववत्सशरीरत्व इत्यनेन शरीरस्वाम्यमभिप्रेतम्, एवं शङ्काया मुखभेदो दर्शितः । यथा कायर्वशात्परगृहं प्रविष्टस्य गृहसन्निधिमात्रेण गृहपतित्वप्रयुक्तानर्थाभ्युदयभाक्त्वं न भवति तथोपास्यत्वाय हृदयस्थस्य शरीरसन्निधिमात्रेण शरीरत्वप्रयुक्तभोक्तृत्वापत्तिर्नास्तीति “सम्भोगप्राप्तिरितिचे"दित्यत्रोक्तम्, अत्र तु शरीरस्वामित्वप्रयुक्तभोक्तृत्वमाशङ्कयमितिभेद इत्यर्थः । तथापि परिहारैक्याच्छङ्कानुदय इति न वाच्यम्; अत्रैव वक्तव्यं दुःखादेः कर्मोपाधिकत्वमुपजीव्य सन्निधिमात्रप्रसक्तायाः भोक्तृत्वशङ्कायास्तत्र परिहृतत्वात् । सूत्रभेदस्तु भोक्तृत्वाशङ्काद्वारभेदनिबन्धनः । असम्भवेऽपीति - अनेन “न तु दृष्टान्तभावा"दित्यत्र परिहृतांश उक्तः । अपरिहृतांशमाह अत इति । परिहरति - अत्रोत्तरमिति । अत्र व्युत्पाद्यन्यायं दर्शयति - अपि त्विति । न ह वै सशरीरस्येत्यपीति - मुक्तिपादे वक्ष्यमाणमर्थमुपजीव्यात्र निर्वाहः कृतः । नत्वत्रैव निर्वाह्यत्वाच्छ्रुतेः व्यजनादीति -

आदिशब्देन तत्तदनिष्टनिवारणसाधनानि विवक्षितानि । भ्रमत्स्वसामर्थ्यचामर इति । अत्र चामरग्रहणमनिष्टनिवारणानुरूपवस्तूनामुपलक्षणम् सशरीरब्रह्मकारणत्वे जीवेश्वरविभागाभावः परिहृतः, केवलब्रह्मकारणवादे पूर्वोक्तजगद्गतापुरुषार्थादिप्रसङ्गमनभ्युपगमेन परिहरति - मृत्सुवर्णादीति । अस्य सूत्रस्य परैः कृतमन्यथाव्याख्यानमनुवदति - यत्त्विति । भोक्तृशब्दो भोक्तृत्वपर इति तैरप्युक्तम् भोग्यस्य भोक्तृत्वापत्तिं भोक्तृर्भोग्यत्वापत्तिं चाशङ्कय परैः परिहृतम् तद्दूषयति - तदयुक्तमिति । आक्षेपपरिहारयोरसङ्गतत्वमुपपादयति - कारणान्तर्गतेति । उपाधेश्च भोग्यत्वादिति । अत्रोपाधिशब्दः शक्तयविद्योपाधीनां त्रयाणामपि वाचकः, यथा वादशब्दः कथासामान्यवाची कथाविशेषवाची च तद्वत् । यद्वा उपाधिशब्देनाचिदंशो विवक्षितः, उपहितब्रह्मणो भोक्तृत्वमुपाधेर्भोग्यत्वं चास्तु, तथापि तयोरुपाधिब्रह्मणोरविभाग आशङ्कय परिह्रियत इत्यत्राह - विलक्षणयोरिति । स्वरूपस्यैव परिणामे शङ्कापरिहारावुपपद्येते इत्यत्राह - स्वरूपेति । कुत इत्यत्राह - न कर्मेति । क्षेत्रज्ञानादित्वाभ्युपगमे उपहितस्य ब्रह्मणः क्षेत्रज्ञत्वेनोपाधेश्च भोग्यत्वरूपेण नित्यत्वाभ्युपगमान्नित्यत्वेनाभ्युपगतयोस्तयोरविभागाभावः सिद्धः एवेत्यर्थः । अभ्युपगम्य दूषणमाह स्वरूपपरिणामाभ्युपगमेऽपीति । दृष्टान्तमाह - मृत्सुवर्णादीति । कटकमुकुटादीनां कालभेदेन अविभाग उपपद्यत इति चेत् तत्फेनतरङ्गदृष्टान्तेपि समानम् । यस्तु विभागः फेनतरङ्गदृष्टान्तेन साध्यते स स्वरूपपरिणामाभ्युपगमेऽपि स्वयमेव सिध्यतीति भावः । स्वरूपपरिणामाभ्युपगमे “अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्” “न तु दृष्टान्तभावात्” इति विकारापुरुषार्थापातान्निर्विकारत्वादिश्रुतीनामसामञ्जस्यमुक्तं परिहृतम्, तच्च दूषणमपरिहृतं स्यादित्याह - स्वरूपपरिणामे चेति ।