04 शिष्टापरिग्रहाधिकरणम्

॥एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ किं ब्रह्मकारणत्वं विचाल्यम्? उत न इति किं वेदान्तवाक्यानां कणादाक्षपादादितर्कविरोधोऽन्यपरत्वमापादयति नेति किं बहुवादिसम्मतपरमाणुकारणवादनिरसने तर्काप्रतिष्ठानहेतुः प्रभवति न? इति । यदा न प्रभवति तदा कणादाद्युक्ततर्कविरोधेन श्रुतीनामन्यपरत्वात् ब्रह्मकारणत्वं विचाल्यं भवति, यदा प्रभवति तदा तदुक्तविरोधस्य श्रुतीनामन्यपरताहेतुत्वाभावात् ब्रह्मकारणत्वमविचाल्यं भवति, शिष्टशब्दपरिग्रहशब्दं समासं च व्याचष्टे - शिष्टा इत्यादिना । अनेन शिष्टैरपरिगृहीता इति परोक्तव्याख्यानव्यावृत्तिः, तथा सति हि प्रधानकारणवादस्यापि शिष्टरपरिगृहीतत्वासिद्धिः । ननु कथं मोक्षधर्मादिषु परिगृहीतस्य साङ्खयस्य शिष्टापरिगृहीतत्वम् कथं धर्मशास्त्रपरिगृहीतस्य न्यायवैशेषिकादिपदस्य शिष्टापरिगृहीतत्वम्? स्मर्यते हि “अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश” इति “अङ्गानि चतुरो वेदा मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश” इति पराशरः । तत्प्रणीता प्रमाणप्रमेयव्यवहारमर्यादा सर्वाङ्गीकायर्ा ।

वेदप्रामाण्यमीश्वरस्तदुपासनान्मोक्ष इत्यादि च तैरभ्युपेतम्, तत्कथं तस्यापरिग्रहः? नैयायिको वैशेषिकश्चेति नातीव भेद इति । कारणतत्त्वस्य प्रधानप्रतिपाद्यत्वात् परमाणुकारणवादस्यौपनिषदब्रह्मकारणत्वविरोधात् विरुद्धांशस्यापरिगृहीतत्वात्तदभिप्रायो वैशेषिकादीनां शिष्टापरिग्रहव्यपदेश इति चेत् स्वतन्त्रप्रधानकारणवादस्यापि ब्रह्मकारणवादविरुद्धत्वादुपनिषद्विरुद्धे प्रधानप्रतिपाद्ये परिग्रहाभावाच्च साङ्खयपक्षस्यापि शिष्टापरिग्रहव्यपदेशस्तुल्यतया प्राप्तः, एकदेशाविरोधेऽपि प्रधानप्रतिपाद्यांशविरोधस्याविशिष्टत्वात् । सूत्राभिप्रेतार्थमाह - परमाण्वित्यादिना । माध्यमिकमतं शून्यात्मकत्वम्, योगाचारमतं ज्ञानात्मकत्वम्, क्षणिकत्वं बौद्धत्रयाभिमतम्, एकान्तत्वमार्हतव्यतिरिक्तानामभिमतम्, सत्यत्वं वैशेषिकादिमतम् असत्यत्वं योगाचारमतम्, आदिशब्देनैकविधत्वचतुर्विधत्वं विवक्षितम्, एकविधत्वमार्हमते । परैस्तु सौगतवैशेषिकादीनां तर्ककुशलताप्रसिद्धेरधिका शङ्का, तर्कमूलत्वाविशेषात्परिहार इत्युक्तम् । तर्कमूलत्वाविशेषेऽपि परमाणुकारणवादे सर्वसंवादात्प्रतिष्ठितत्वमिति शङ्का त्ववतिष्ठते, अस्यां तु परिहृतायां तार्किकत्वप्रसिद्धिरकिञ्चित्करी; अतः प्रबलशङ्कापरिहारावेव सूत्राभिप्रेताविति युक्तम् ॥ इति शिष्टापरिग्रहाधिकरणं समाप्तम् ॥