॥ न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ सङ्गतिमाह- पुनरपीति । मन्वादिस्मृतिभिरुपबृंहणं कायर्मित्युक्तम्, मन्वादिस्मृतयस्तर्कविरुद्धाः, साङ्खयस्मृतिस्तर्कानुगृहीता, अतस्तयोपबृंहणं कार्यमिति प्रत्यवस्थानात्सङ्गतिरित्यर्थः । प्रथमविचारः पूर्ववत् । तदर्थं किं चेतनाद्ब्रह्मणोऽचेतनजगदुत्पत्तिः सम्भवति, नेतिविचारः । तदर्थं किं जगत्कारणस्य जगत्सालक्षण्यानुमितिहेतुरनैकान्तिकः, नेति । यदा नानैकान्तिकः तदा चेतनात् ब्रह्मणोऽचेतनजगदुत्पत्तेरसम्भवात् ब्रह्मकारणवादश्चाल्यः । यदा त्वनैकान्तिकस्तदा ब्रह्मणो विलक्षणजगदुत्पत्तिसम्भवात् ब्रह्मकारणत्वमविचाल्यमिति । सौत्रं नेतिपदं व्याचष्टे- यदिति । अस्येति व्याख्येयम् । तद्व्याचष्टे - प्रत्यक्षादिभिरिति अस्येतिपदं लौकिकप्रमाणसिद्धाकारविशिष्टपरामर्शीति भावः । विलक्षणत्वादितिपदं व्याचष्टे- भवदभ्युपेतादिति । अचेतनत्वेनेत्यादिविशेषणचतुष्टयप्रतियोगित्वेन सर्वज्ञादित्यादिविशेषणचतुष्टयमुक्तम् । तथात्वमित्यादिकं सूत्रखण्डं व्याचष्टे - न केवलमिति । तथात्वपदव्याख्यानं विलक्षणत्वमिति । विलक्षणत्वोपलम्भकं शब्दमुदाहरति -विज्ञानमिति । ततः किमित्यत्राह- यद्धि यत्कार्यमिति । अपौरुषेयस्य शास्त्रस्य मानान्तरागोचरार्थविषयत्वात् प्रत्यक्षादिदृष्टव्याप्तिमूलस्तर्कश्शास्त्रसिद्धर्मथं न गोचरयतीत्यत्राह - अवश्यं चेति । अनन्यापेक्षस्य- प्रमाणान्तरानपेक्षस्य । प्रमाणान्तरनैरपेक्ष्येऽपि प्रमाणाङ्गभूतस्तर्कोऽनुसरणीय इत्यर्थः । कुत इत्यत्राह - यत इति । क्वचित्क्वचिद्विषयेस्वत एवास्पष्टार्थे । प्रामाण्यस्य परानपेक्षत्वं नाम प्रमित्यन्तरनैरपेक्ष्यम्, न त्वितिकर्तव्यतानैरपेक्ष्यमित्यभिप्रायः । तर्केन प्रमा
णस्य किञ्चित्कारं दर्शयति - तर्को हि नामेति । यन्नभसो नीरूपत्वादचाक्षुषत्वमुच्यते तत् अर्थस्वभावविषय-
निरूपणेनार्थविशेषे प्रमाणव्यवस्थापनम् । वैधहिंसायाः श्रेयस्करत्वप्रमितिजनकवाक्यनिरूपणेन “न हिंस्या"दितिवाक्यस्य वैधहिंसाव्यतिरिक्तविषयत्वं यदुच्यते तत् सामग्रीविषयनिरूपणेनार्थविशेषे प्रमाणव्यवस्थापनम् । प्रत्यक्षस्य ज्वालैक्यविषयत्वं विना ज्वालोत्पत्तिनिरूपणेन तत्स्वरूपमात्रविषयत्वनिर्णयश्च । यद्वा अर्थस्वभावविषयनिरूपणं नाम बाध्यत्वाबाध्यत्वनिरूपणम्, कारणदोषस्य बाधकप्रत्ययस्य वा भावाभावनिरूपणेन प्रमाणस्य विषयविशेषपरि च्छेदकत्वनिश्चयो विवक्षितः । शास्त्रस्य त्विति - तुशब्दः साध्यवैषम्यं द्योतयति । विशेषेणेतिशब्दस्साधनवैषम्यम् आकाङ्क्षासन्निधियोग्यतासापेक्षत्वं साधनवैषम्यम्, तेन सर्वत्र तर्कसापेक्षत्वं साध्यवैषम्यमित्यभिप्रायः । यादवप्रकाशमतेन चोद्यं शङ्कते - अथेति । चैतन्यानुपलम्भः कथमित्यत्राह - यथा चेतनस्येति । वेदान्तिभिर्नित्यस्यात्मस्वरूपा वभासरूपस्य चैतन्यस्य विद्यमानस्यापि सुषुप्तौ स्फुटतरोपलम्भाभावाभ्युपगमात्त प्रतिबन्दीकृत्य परिहार उक्तः । सर्वत्र चैतन्यस्य सद्भावे चेतनाचेतनव्यवस्था कथमित्यत्राह - अत एवेति । परिहरति - नैतदिति । इतरवादिभिः सुषुप्तौ चैतन्योत्पत्तिशक्तियोगस्याभ्युपगतत्वात् तत्प्रतिबन्दीकारेण घटादीनां चैतन्यानुपलम्भेऽपि चैतन्यशक्तियोगात्कारणसालक्षण्यसिद्धिरित्याशङ्कयाह - अत एव चैतन्येति । वेदान्तप्रामाण्यमभ्युपगच्छता त्वयाप्येवमङ्गीकार्यमित्याशङ्कयाह - किञ्चेति । ब्रह्मोपादानप्रतिपादनस्य कथं घटादिषुं चैतन्यनिश्चयसापेक्षत्वमित्यत्राह - विलक्षणयोर्हीति । न हि “आदित्यो यूपः” इत्यादिवाक्यमभोग्यार्थप्रतिपादनक्षमम् तस्माद्योग्यत्वनिश्चये सति ब्रह्मोपादानताप्रतिपादनसम्भव इत्यन्योन्याश्रय इत्यर्थः । सिद्धान्तिच्छायया चोदयति - किं पुनरिति । सत्तादीत्यादिशब्देन द्रव्यत्वं विवक्षितम् । परिहरति - तदुच्यत इति - सालक्ष्ण्यमेव स्यात्, ततः किमित्यत्राह - ब्रह्म चेति । ब्रह्मणो जगतश्च द्रव्यत्वावान्तरजातिविशेषः सालक्षण्यमिति फलितम्; तच्चात्र चेतनत्वम्, तेन च सालक्षण्यं नास्तीत्यर्थः । एवं वैलक्षण्यस्यासिद्धिराशङ्कय परिहृता, अथानैकान्त्यमाशङ्कय परिहरति - ननु चेति । उत्तरसूत्रमवतारयति - अथ स्यादिति
। अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् । तुशब्दस्य पूर्वपक्षव्यावृत्त्यर्थता माभूदिति व्याचष्टे - तुशब्द इति । “हन्ताऽहमिमाः” इत्यादिवाक्ये पृथिव्यादीनामस्पष्टत्वादाह - तेजोऽबन्नानीति ।
दृश्यते तु । किं येन केनचिदाकारेण कार्यकारणयोः सालक्षण्यं विवक्षितम् तदस्मत्पक्षेऽप्यस्ति । सर्वधर्मसादृश्यं चेत् मृद्धटादिष्वपि नास्तिः । द्रव्यत्वावान्तरचेतनत्वजात्यनुवृत्तिश्चेत् ब्रह्मकारणत्ववादिबहुश्रुतिस्मृतिविरोधात् बाह्यस्तर्क इति “तर्काप्रतिष्ठाना"दितिसूत्रेण परिहरिष्यते । चेतनत्वानुपपत्तिरप्यस्ति, विशिष्टस्य कारणत्वात् । कार्येप्यचिदंशे अचेतनत्वानुवृत्तिवच्चिदंशे चेतनत्वानुवृत्तिरपि विद्यते इति साक्षात्परिहार उपरितनाधिकरणेषु वक्ष्यते, कारणं येना
कारेण वस्त्वन्ताद्य्वावृत्तं तेनाकारेण कार्यस्य सालक्षण्यं चेत्तस्य व्यभिचारोऽस्मिन् सूत्रे विवक्षितः । माक्षिकस्य वस्त्वन्तराकाराद्य्वावर्तकाकारो माक्षिकत्वम्, तत्तु क्रिम्यादौ नास्तीत्यर्थः । न दृश्यत इत्येतद्विवृणोति - न हीति ॥ असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ आरम्भणाधिकरणार्थः प्रसङ्गादनेन सूत्रेण स्मारितिः । यदीति - विलक्षणत्वकथनेन द्रव्यान्तरत्वमुक्तं भवति, ततोऽसत्कार्यवादः स्यादिति पूर्वपक्षिणोऽभिप्रायः । नैतदेवमित्यादि - कार्यकारणयोः सजातीयत्वमेव । अस्येदमिति प्रत्यभिज्ञानार्हावान्तरजात्या सालक्षण्यनियमः प्रतिषिद्धः, न त्वेकद्रव्यत्वमित्यर्थः । उत्तरसूत्रमवतारयति - अत्रेति ॥ अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ सृष्टयादेरिति - आदिशब्देन स्थिति
रुच्यते । अपीतेस्सृष्टयादिप्रदर्शनार्थत्वं कथमित्यत्राह - सदेवेति । सुवर्णकुण्डलादिदृष्टान्तस्य बुद्धिस्थत्वात् तद्वदित्युक्तम् । यद्वा ब्रह्मणि जगद्वदपुरुषार्थादिप्रसङ्गादित्यर्थः । यद्वा तद्वदिति मत्वर्थीयप्रत्ययः, जगद्गतापुरुषार्थादिमत्त्वप्रसङ्गादित्यर्थः । असमञ्जसत्वं दर्शयति । यः सर्वज्ञ इत्यादिना परस्परविरुद्धानां विरुद्धार्थानां वाक्यानामित्यर्थः । सिद्धान्ती शङ्कते- अथोच्येतेति । शरीरसम्बन्धनिबन्धनदोषाणामिति- रुमागतवस्त्वन्तराणां लवणत्वापत्तिर्दृश्यते “तत्संयोगी च पञ्चमः” इत्युच्यते चेत्यभिप्रायः । शरीरत्वासम्भवमुपपादयितुं शरीरस्वभावमाह - शरीरं हीति । व्यापकनिवृत्त्या व्याप्यशरीरत्वनिवृत्तिं दर्शयितुं शरीरत्वव्यापकाकारान् दर्शयति- कर्मफलेति । अत्र परोक्तं लक्षणमप्यन्तर्गतम् सुखदुःखेति भोगाश्रयत्वेन्द्रियाश्रयत्वोक्तिः । कर्मफलभोगसाधनत्वं मुक्तेश्वरशरीरस्थेन्द्रियव्यावर्तकम्,
पञ्चवृत्तीति चेष्टाश्रयत्वोक्तिः । ततः किमित्यपेक्षायां शरीरतयाऽभिमतपरमात्मस्वभावपर्यालोचनया शरीरत्वासम्भवमाह - परमात्मनश्चेति । कर्मसम्बन्धराहित्यमाह - अपहतेति । तत्फलाभावमाह - अनश्नन्निति । इन्द्रियानपेक्षतामाह - अपाणीति । चेष्टाश्रयत्वाभावमाह - अप्राण इति । शरीरतयाऽभिमतानां शरीरलक्षणविरुद्धस्वभावतां दर्शयति - नचाचेतनेति । भोगायतनत्वं पृथग्दूषयति - न चेति । चेष्टाश्रयत्वेन्द्रियाश्रयत्वयोः पूर्वोक्तं दूषणमेव । भोगायतनम्- भोगसाधनविशेषः, अत एव हि भोगसाधनमात्रस्येत्युक्तम् । सिद्धान्त्यभिमतलक्षणं दूषयति - अथ मतमित्यादिना । अव्याप्तिमाह- शरीरतयेति । अतिव्याप्तिमाह - सालभञ्जिकादिष्विति । असम्भवमाह - चेतनस्येति । न चेत्यादि - आदिशब्देन गुणो विवक्षितः । तद्वैविध्याद्बहुवचनम्, एवं परमात्मनश्चिदचितोश्च स्वभावालोचनया शरीरत्वं प्रतिक्षिप्तम् । अथ परस्य शरीरप्रतिषेधाच्च कस्यचित् तं प्रति शरीरत्वासम्भवमाह - अशरीरमिति । “अपाणी “त्यादिवाक्यं इन्द्रियाभावज्ञापनाय पूर्वमुपात्तम्, इदानीं इन्द्रियाधिष्ठानावयवनिषेधमुखेन शरीराभाव ज्ञापनार्थम् ।
॥ न तु दृष्टान्तभावात् ॥ अक्षरार्थमाह - नैवमिति । नेतिपदेनैव पूर्वपक्षे व्यावर्त्तितेपि तुशब्दः शरीरशरीरिभावसम्भवज्ञापनार्थः । तुशब्दोऽत्रेति - शरीरात्मत्वसम्भवादित्यभिप्रायः । हेयसम्बन्धस्यासम्भावनीयत्वे दृष्टान्तः क इत्यत्राह - एतदुक्तमिति । अमुख्यत्वमाशङ्कयाह - अथ चेति । “पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ती “त्यपामेव देवत्वादिधर्माः, न पुरुषस्येत्यत्राह - भूतसूक्ष्मशरीरस्येति । यद्वा जीवस्य शरीरोत्पत्तेः प्रागप्यचित्सम्बन्धे सति हि ब्रह्मणः कार्यकारणोभयावस्थायामपि चिदचिद्विशिष्टस्य तद्गतदोषराहित्ये दृष्टान्तत्वमित्यत्राह- भूतसूक्ष्मेति । परोक्तं शरीरत्वासम्भवमनुवदति - यत्पुनरिति । सम्यङ्न्यायः- प्रमाणानुगुणन्यायः । कुतर्कः- प्रमाणविरुद्धस्तर्कः । सर्वत्र व्याप्तं लक्षणं विवक्षुश्चिदचितोर्ब्रह्मशरीरत्वेन वेदे प्रयोगं दर्शयति - सर्व एव हीति । “सोऽभिध्याय शरीरत्स्वात्” इत्यत्र चिदचितोश्शरीरत्वमस्पष्टमिति तद्य्वाचष्टे - भूतसूक्ष्मादिति । “आसीदिदं तमोभूत” मिति प्रकृतमेव शरीरत्वेनोच्यत इत्यर्थः । लोके चेत्यादि - घटादिशब्दवत् । यथा घटादिशब्दाः एकाकारवस्तुषु
मुख्याः प्रयुज्यन्ते, न तथा शरीरशब्दः, अपि त्वनेकाकारवस्तुषु मुख्यः प्रयुक्तः, अतोऽनुगतत्वाय हि क्रिमिकीटादिव्यापकं लक्षणमुक्तम्, तस्याप्यव्याप्तत्वात् सार्वत्रिकं लक्षणान्तरं स्वीकार्यमिति भावः । अगौणः प्रयुज्यमानो दृश्यत इति - अस्यायमभिप्रायः, द्विपात्त्वं मनुष्यत्वं ब्राह्मणत्वं वा शरीरलक्षणत्वेन किमिति नोच्यते ? अन्यत्रापि मुख्यप्रयोगदशर्नादिति चेत्तर्हि लोकवेदयोर्यत्र यत्र प्रयोगो दृश्यते तदनुयायिलक्षणं वाच्यम्; न त्वननुयायिलक्षणमुक्तवाऽन्यत्र गौणत्वं कल्पनीयमिति । ततः किमित्यत्राह - तेन तस्येति । अनुगुणं निमित्तं ह्युक्तमित्यत्राह - त्वदुक्तं चेति । प्रवृत्तिनिमित्तलक्षणमिति - प्रवृत्तिनिमित्तम्- समुदायशक्तिनिमित्तम् वाच्यभूतम् तच्च तत् लक्षणम् तेन व्युत्पत्तिनिमित्तभूतस्योपलक्षणभूतस्य च लक्षणस्य व्यावृत्तिः, गोशब्दस्य गमिधात्वर्थो व्युत्पत्तिनिमित्तम्, पृथिवीशब्दवाच्यस्य पृथिवीत्वस्योपलक्षणभूतं गन्धवत्त्वम्, तदुभयमपि न प्रवृत्तिनिमित्तम्; अयमर्थः शरीरदेहादिव्युत्पत्तिनिमित्तभूता विशरणापचयादयो नानुगताः, गन्धोपलक्ष्यपृथिवीत्ववच्छब्दप्रवृत्तिनिमित्तभूतमुपलक्षणान्तरोपलक्ष्यं जात्यादिकमपि न दृश्यते, अतो लक्षणतयाऽभिमतमिदमेव प्रवृत्तिनिमित्तमेष्टव्यम् । तच्चायुक्तम्; अननुगतत्वादिति । पाणिपादादिमच्छरीरेष्वव्याप्तिमाह - किञ्चेति । तल्लक्षणमिति - प्रथमोपात्तं कर्मफलोपभोगहेतुत्वं विवक्षितम् । भूतसङ्घातरूपत्वस्याव्याप्ति दशर्यितुमाह - परमपुरुषेच्छेति । पञ्चवृत्तीति - प्राणसद्भावमात्रविवक्षायां चेतनेष्वव्यक्तादिषु चेश्वरशरीरभूतेष्वव्याप्तिरभिप्रेता । अहल्यादीनामिति - इन्द्रियाश्रयत्वम्- ज्ञानप्रवृत्तिजननपटुतरेन्द्रियाश्रयत्वम् । इन्द्रियसद्भावमात्रविवक्षायां पूर्ववदव्याप्तिरभिप्रेता । अत इति- अतः अनुयायिनो लक्षणत्वात् त्वदुक्तस्य चाननुयायित्वादित्यर्थः । “चेष्टेन्द्रियार्थाश्रयः शरीरम्” इति न्यायसूत्रे शरीरस्य लक्षणत्रयमुक्तम् “चेष्टाभोगेन्द्रियाश्रम” इति हि न्यायविदः । अस्य लक्षणत्रयस्याव्याप्तत्वाद्वयापिलक्षणत्रयमाह - यस्येत्यादिना । यस्य चेतनस्य
यद्द्रव्यं सर्वात्मना स्वार्थे नियन्तुं शक्यं तत्तस्य शरीरम्, यस्य चेतनस्य यद्द्रव्यं सर्वात्मना स्वार्थे धारयतुं शक्यं तत्तस्य शरीरम्, यस्य चेतनस्य यद्द्रव्यं शेषतैकस्वरूपं तत्तस्य शरीरमिति लक्षणत्रयम् । तच्छेषतैकस्वरूपमिति - अत्र एकशब्दप्रयोगः सर्वात्मनेतिपदस्य स्थाने द्रष्टव्यः । सवर्ात्मनेतिपदेन यावद्द्रव्यभावित्वं विवक्षितम् । तच्छेषतैकस्वरूपमिति पृथगुक्तिः स्वार्थशक्यशब्दप्रयोगानपेक्षणात् । यस्येतिपदेन शरीरस्य न घटपटादिवदप्रतियोगिपदार्थत्वम्, अपि तु पितृपुत्रादिवत् सप्रतियोगिकपदार्थत्वमिति दर्शितम्, सप्रतियोगिकपित्रादीनां
शरीरत्वव्यावृत्त्यर्थं नियाम्यमित्युक्तम् । नियाम्यमित्युक्ते भृत्यादीनामपि शरीरत्वं स्यादिति तद्य्वावृत्त्यर्थं
सर्वात्मनेतिपदम्, यावद्द्रव्यभावीत्यर्थः । क्रियागुणादिव्यावृत्त्यर्थं द्रव्यमित्युक्तम् । आकाशादिप्रदेशगमनादिषु अशक्येष्यर्थेषु शरीरस्य नियमनासम्भवात्तद्व्यावृत्त्यर्थं स्वार्थ इत्युक्तम्, स्वविषय इत्यर्थः । “अर्थः स्याद्विषये मोक्षे” इत्यभिधानविदः । स्वशब्दः शरीरपरः, तत्तच्छरीरसम्पाद्येषु कार्येष्विति यावत् । रुग्णशरीरेषु व्यभिचारो माभूदिति शक्यमित्युक्तम् । तत्र शक्तेः प्रतिबन्ध एव न शक्तयभावः, अग्न्यादावौष्ण्यादिवत् । ज्ञानव्यावृत्त्यर्थं चेतनस्येत्युक्तम् । न हि ज्ञानं ज्ञानविशिष्टेन नियाम्यम्, अपि तु स्वाश्रयेण, तस्माच्चेतननियाम्यत्वाभावेन न तत्रानैकान्त्यम्, एवं लक्षणान्तरद्वयेऽपि व्यावर्त्त्यमुच्यते, यस्य सर्वात्मना द्रव्यं शक्यमितिपदानां पूर्ववद्य्वावृत्तिः, चेतनस्येतिपदेन प्रभाव्यावृत्तिः । शरीरत्वप्रयुक्तदोषादिशङ्काव्यावृत्त्यर्थमाह - उपरितनाधिकरणेष्विति ।
स्वपक्षदोषाच्च । या तु परेण पूर्वं निर्दोषत्वजगदुपादानत्वादिव्याहतिरुक्ता सैव व्याहतिरनेन सूत्रेण परस्यापादिता । अनभ्युपगमात् - नित्यनिर्विकारत्वादिति भावः ॥
तर्काप्रतिष्ठानादपि । तर्कस्येति - केवलतर्कस्येत्यर्थः
॥ अन्यथाऽनुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥ “तर्काप्रतिष्ठाना"दित्यादिकम् “अनिर्मोक्षप्रसङ्ग” इत्यन्तं नैकं सूत्रम् सूत्रकारशैलीविरोधात् प्रयुक्तहेतुशैथिल्याशङ्कापरिहारौ हि सूत्रान्तरकृतौ दृष्टौ, यथा “ईक्षतेर्नाशब्दम्” “गौणश्चेन्नात्मशब्दात्, आनन्दमयोऽभ्यासात्, विकारशब्दान्नेति चेन्न प्राचुर्यात्, ज्ञेयत्वावचनाच्च, वदतीति चेन्न प्राज्ञो हि प्रकरणात्” इति च । ननु “व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय” इत्यत्र कथं सूत्रैक्यम्? उक्तहेतुदौस्थ्यशङ्कापरिहारपरत्वाभावात् साध्याभावेऽनिष्टप्रसञ्जनमुखेन हेतुदार्ढ्यपरो हि न चेदित्यादिकः सूत्रांशः । न तूक्तहेतुदौःस्थ्यशङ्कापरिहारपरः । इदानीमित्यादि भूततर्कस्य भूततर्कान्तरप्रतिहतिवत् भावितर्कस्यापि भावितर्कान्तरप्रतिहतिः सम्भवतीत्यर्थः । वेदशास्त्रविरोधिनेत्यत्र वेदशास्त्रशब्दयोर्वैयधिकरण्ये साङ्खयशास्त्रस्याप्यनुरोधः स्यादिति तद्य्वावृत्त्यर्थं व्याचष्टे - वेदेति । यथा “पितृदेवमनुष्याणां वेदश्चक्षुस्सनातनम् । अतर्क्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः” इति । अतर्क्यम्- बाधकगोचरभूतम् । अप्रमेयम् साधकाविषयभूतम् । अपीतावित्यादिसूत्रत्रयं परैस्त्वेवं व्याख्यातम्, अपीतौ लीयमानं कार्यं स्वाकारेण कारणं दूषयेत्, लवणमिव मधुरोदकम्, ततश्च स्थौल्यसावयवत्वाचेतनत्वपरिच्छित्त्यादिधर्मकत्वं ब्रह्मणः स्यात् । समस्तस्य ब्रह्मण्यविभागे सति नियामकाभावात् पुनर्भोक्तृविभागस्तेषां भोग्यनियमश्चानुपपन्नः । प्रलयेऽपि ब्रह्मणि विभक्तं चेदपीतिरेव न सम्भवति, ब्रह्मणि प्रलीनानां पुनरुत्पत्तौ मुक्तानामप्युत्पत्तिप्रसङ्ग इत्यसामञ्जस्यपरमपीताविति सूत्रम्
तत्र दृष्टान्तेन परिहरति- न तु दृष्टान्तेति । घटशरावादय उच्चावचाः सन्तोऽपि स्वाकारप्रहाणेन प्रलीनत्वान्नोच्चावचाकारेण कारणं दूषयन्ति, एवं जगदपि स्थूलत्वाद्याकारप्रहाणेन लीनत्वादविभागदशायामपि न ब्रह्म दूषयति, स्वप्नदर्शी च पुरुषः स्वमायया न स्पृश्यते, सुप्तप्रबुद्धपुरुषाणामिव पुनर्विभागेन निष्क्रमणोपपत्तिः, मिथ्याज्ञानस्यानपोदित्वात्; तस्यापोदितत्वादेव मुक्तानां न पुनरुत्पत्तिः, जगतो ब्रह्मणि विभागेन स्थित्यभावादप्ययोपपत्तिरिति, शब्दादिहीनात् प्रधानात् तद्युक्तविलक्षणकार्योदयानुपपत्तिः सर्वविकारप्रलये पुनः सृष्टाविदमस्योपादानम्, न त्विदमिति नियामकाभावात् । भोक्तॄणां भोग्याव्यवस्थितिः नियामकाभावेऽपि नियमाभ्युपगमे कारणभावसाम्यान्मुक्तानां पुनर्बन्धप्रसङ्गः कतिपयविभागस्थितौ तेषां प्रधानकार्यत्वाभाव इति दोषसाधारण्यापादनं “स्वपक्षदोषाच्चे” ति सूत्रितमिति । तदिदमनुपपन्नं, तथा हि स्थूलत्वह्रस्वाद्याकारे परित्यक्तेऽपि जडत्वानृतत्वपरित्यागाभावात् अविद्याकर्मवासनाप्रहाणाभावाच्च ब्रह्मण्यविभक्तं जगत्तेनाकारेण ब्रह्म दूषयेत् । यदि जडत्वानृतत्वकर्मवासनादिप्रहाणेन प्रपञ्चलयः तर्ह्यविद्यातत्कृतजीवभेदश्च निवृत्तः स्यात् । न हि जडत्वानृतत्वविरहे निःस्वभावायाः अविद्याया अवस्थानमुपपद्यते । सवासनकर्मप्रहाणात्तन्मूलाविद्यानिवृत्त्या च जीवाश्च मुक्ताः स्युः, ततश्च पुनजर्गदुत्पत्तिर्न सम्भवेत् । अविद्यान्तरेण सर्वसम्भवे तस्यास्तत्कल्पितजीवानां चादिमत्त्वं स्यात् वैषम्यनैर्घृण्यादि च प्रसजेत्, मोक्षोपायनिष्पादनवैयर्थ्यं च; प्राकृतप्रलयादेवाविद्यानिवृत्तेस्तस्यास्मदादियत्ननिरपेक्षत्वाच्च; अतोऽप्ययदशायामपि जडत्वानृतत्वादिप्रहाणाभावात्तेनाकारेण ब्रह्मणो दूष्यत्वं दुस्तरम् । जडत्वाद्याकारोऽपरमार्थ इति चेत्तर्ह्यपरमार्थत्वं ब्रह्मास्त्रं विहाय किमर्थं स्वाकारप्रहाणदुर्बलयष्टिग्रहणे प्रयस्यते, अपरमार्थत्वापाश्रयणमपि विपलम् मिथ्यात्वमपि हि प्रपञ्चाकारः, न हि मिथ्यात्वस्य मिथ्यात्वम्; अतो न मिथ्यात्वप्रहाणमिति मिथ्याभूतं जगदविभक्तं स्वाकारेण मिथ्यात्वेन ब्रह्म दूषयत्येव मिथ्याभूतेनापि जडत्वाद्याकारेण च दूषयेत् । ननु न मिथ्यात्वेन मिथ्याभूतजडत्वादिना च दूषितत्वप्रसङ्गः, शुक्तिरूप्यस्य मिथ्यात्वेऽपि मिथ्यात्वेन मिथ्याभूतरजताकारेण च शुक्तेर्दूषितत्वाभावादिति चेन्न, शुक्तेरपि त्वन्मते मिथ्यात्वात्; पातकिसंसर्गेण पुरुषस्य रुमासंसर्गेण तद्गतवस्तुनश्च मिथ्याभूतपातकित्वलवणत्वाकारापत्त्या
दूषितत्वदर्शनाच्च, पातकिरुमादयो हि पदार्थास्त्वन्मते मिथ्याभूताः, तेषां व्यावहारिकसत्यत्वाद्दूषकत्वमिति चेत्तर्हि जगतश्च व्यावहारिकसत्यत्वात् ब्रह्माविभक्तं जगद्दूषकं स्यात् स्वप्नदृक्पुरुषो मायया न स्पृश्यत इतीदमपि निरूपणीयम् । अस्पर्शो न तावदज्ञानस्य पुरुषानाश्रितत्वम्, आरोप्यग्राहिपुरुषाश्रयत्वात्तत्कल्पकाज्ञानस्य । नाप्यकार्यकारित्वम्, हस्तिशस्त्रादिकार्यकल्पकत्वात् । नापि कार्यस्य देशविप्रकषर्ः, हस्तिशस्त्रादेरविप्रकर्षात् । नापि कार्यस्यापुरुषार्थत्वविरहः, स्वप्ने भयशोकव्यथादर्शनात् । नापि दुःखस्यापरमार्थत्वम्, शस्त्रादिदुःखहेतोरिव दुःखस्य प्रबोधे बाधाभावात् अपरमार्थभूतस्यापि तस्य निरसनीयतया पुरुषं प्रत्यवभासमानत्वात् । जाग्रद्दशायामपि स्वगतत्वेन दुःखसाक्षात्कर्तृत्वमेव हि दुःखित्वम्, अवभासप्रतिसम्बन्धित्वमप्यपरमार्थ इति चेन्न; बाधकप्रत्ययाभावात् । हस्तिशस्त्रादिविषयस्यैव प्रबोधे बाधः, न तु शस्त्रादिज्ञानस्य भयादेश्च । भोक्तृभेदानियमप्रसङ्गस्य साङ्खयपक्षे तुल्यत्वापादनमप्ययुक्तम्, आत्मनां स्वतो भिन्नत्वात् तत्पक्षे कृत्स्नविकारप्रलयेऽपि तेषां तत्कर्मानुगुणभोग्यविशेषे पुनरपि भोक्तृत्वव्यवस्थोपपत्तेः, त्वन्मते त्वात्मभेदस्यान्तः करणभेदकल्पितत्वान्मनोबुध्द्यहङ्काराणां प्रलयेऽप्ययश्रवणादात्मभेदाभावेन पुनः सृष्टावन्येनान्तःकरणेनोपहितस्यात्मन इदमदृष्टमिदं शरीरमिदं भोग्यमिति नियमानुपपत्तेश्च । प्रलयेऽप्यन्तःकरणस्थित्यभ्युपगमे तेषामन्तःकरणानामनादितया ब्रह्मकार्यत्वं न स्यात् । साङ्खयपक्षे तु तेषां न प्रधानकार्यत्वहानिः, अन्तःकरणप्रलयेऽपि स्वत आत्मभेदसद्भावेनान्तःकरणस्थितेरनपेक्षितत्वात् । आत्मभेदस्य तत्तत्कर्मविशेषाणां च सद्भावान्नियामकहेत्वभावसाम्यं दुर्वचम्, साङ्खयपक्षे मुक्तानां पुनर्बन्धप्रसङ्गोऽपि दुर्वचः, यस्य सम्यग्ज्ञानेन निश्शेषकर्मक्षयः, तस्य हेत्वभावेन पुनः शरीरयोगाभावादक्षीणकर्मणां पुनर्बन्ध इति पुनर्द्देहसम्बन्धोपपत्तेश्च । त्वन्मते मूलभूताविद्याया एकत्वादात्मन एकत्वादिदानीमपि बन्धानुवृत्तेश्चेतःपूर्वं न कश्चिन्मुक्तः सम्भवति, अस्ति चेत्स एवात्मा पुनरपि देहयोगमनुभवतीति मुक्तस्य पुनरुत्पत्तिप्रसङ्गो दुर्वारः, वर्तमानाविद्याया आदिमत्त्वं च भवेत्, जीवाज्ञानपक्षस्य भवद्भिरेव दूषितत्वात्तदवष्टम्भेन बन्धमोक्षव्यवस्थोक्तिरयुक्ता । तत्रापि मुक्तानां पुनरुत्पत्तिप्रसङ्गो दुष्परिहरः, अध्यस्तजीवभावनिवृत्त्या ब्रह्मैकतापत्तिर्हि मोक्षः, तत्रापि ध्वस्तजीवभावोऽयमंशो मुक्तः, अध्यस्तजीवभावमंशान्तरं तु देहभाग् भवतीति न वक्तुं शक्यम्, ब्रह्मणः स्वतो निरंशत्वात्; अतो ब्रह्मैकतापन्नानामेव पुनरुत्पत्तिः स्यात्, उपहितांशभेदाभावात् । नन्वंशभेदस्यापि काल्पनिकतयाभ्युपगमान्नोक्तदोष इति चेत्, मुक्तौ निवृत्तजीवभावेंशे स काल्पनिकभेदोऽस्ति वा, न वा? अस्ति चेन्मुक्त एव न स्यात्, न चेत्पूर्वोक्तदोषः स्यात् । निवृत्तोपाधित्वमेव भेद इति चेत् उपाधिनिवृत्तिः स्वरूपातिरिक्ता, न वा ? न चेत्तत्स्वरूपमेव जीवभावेन पुनरपि संसरतीत्युक्तदोषः स्थितः, अतिरिक्तत्वे स निवृत्तिरूपविशेषः किं कृत्स्नब्रह्मवृत्तिः? उत ब्रह्मैकदेशवृत्तिः? आद्ये पूर्वोक्तदोषः, द्वितीये त्वेकदेशस्यांशान्तराद्भेदो वक्तव्यः, भेदकान्तरयोगेन चेत्तस्य भेदकोपाधेः पारमार्थ्ये अद्वैतहानिः । अपारमार्थ्ये
मुक्तांशस्यैव बद्धत्वं स्यात्, अपरमार्थोपाधिसम्बन्धो हि त्वन्मते बन्धः । न भेदकान्तरयोगापेक्षा, अपि तूपाधिविरह एव भेद इति चेत्, स किं बाध्यः, उताबाध्यः? उपाधिविरहस्य बाध्यत्वे तदवच्छिन्नांशस्य पुनरुपाधिसम्बन्धान्मुक्तोत्पत्तिः स्यात् । अंशभेदस्याबाध्यत्वे तस्य भेदस्याभेदवत् परमार्थत्वात् भेदाभेदपक्ष एवाङ्गीकृतः स्यात्; अथ तत्परिहाराय परमार्थतोंऽशभेदो नाभ्युपगतः तर्हि मुक्तस्य पुनरुत्पत्तिरवर्जनीया स्यात् । यत एवं शरावादीनां पृथिव्यामिव स्थूलत्वादिस्वाकारप्रहाणेन ब्रह्मण्यविभागापन्नस्य जगतस्तद्दूषकत्वाभावः प्रतिक्षिप्तः, अत एव “न तु दृष्टान्तभावात्” इति सूत्रस्य भास्करोक्तयोजनापि व्युदस्ता भवति । तस्यापरमार्थत्वानाश्रयणेन क्षणमात्रमप्यपसरणमशक्यमिति विशेषः । यादवमिश्रास्तु असदिति चेदिति सूत्रमेकमधिकरणान्तरं “नासदासी"दित्यादिविषयं वर्णयन्ति, सत्त्वासत्त्वनिषेधौ न परस्परप्रतिपक्षविधिरूपौ, व्याघातात्; अतोऽनुभयात्मकं निस्स्वभावं शून्यं प्रतीयत इति पूर्वपक्षीकृत्य लोकतः प्राप्तस्य प्रतिषेध्यत्वाल्लोके च कार्यावस्थायामेव घटसंस्थानादिव्याप्तिरूपसत्त्वं तदभावरूपकपालत्वादिव्याप्तिलक्षणमसत्त्वञ्चोपलभ्यत इति कारणदशायां तदुभयं निषिध्यते “आनीदवातम्” इति वाक्यशेषविरोधाच्च; अतो न स्वरूपसत्त्वनिषेधः, अह्लस्वमदीर्थं व्योमेतिवत् । नह्यत्र परस्परप्रतिपक्षविधिः, नापि निःस्वभावत्वोक्तिः, तद्वदिति सिद्धान्तितम् । अपीतावित्यादि चाधिकरणान्तरमाहुः, तत्र भावाभावरूपसर्वावस्थाप्रतिषेधोऽनुपपन्नः, विनाशहेतुवैयर्थ्यप्रसङ्गात् । विनाशहेतुना न कारणमेव निष्पाद्यम् तस्य प्रागपि सत्त्वात् । नापि कार्यान्तरम्, प्रलये सर्वकार्यविनाशानुपपत्तिप्रसङ्गात्, अतोऽवस्थान्तरोत्पादः प्रलयः, अतः पूर्वाधिकरणसिद्धान्तानुपपत्तेः शून्यं तत्त्वमित्याक्षिप्य घटत्वकपालत्वादिस्थानीयभावाभावरूपविकल्पशब्दवाच्यस्थूलावस्थानिषेधेऽपि शक्तिमात्रावशेषसूक्ष्मावस्थाभ्युपगमात्तत्र दृष्टान्तभावान्न तद्वत् प्रसङ्गादसामञ्जस्यमितिसिद्धान्तितम् । दृष्टान्तश्च तप्तलोहसमावर्तितं जलम्, तद्धि जलं जलरूपेणानुपलभ्यम्, सक्तुपिण्डाशैथिल्यहेतुजलवत् खड्गधाराद्यशैथिल्यहेतुसूक्ष्मरूपेण पुनर्जलपरिणामशक्तियुक्तं लोहादन्यत्वबुद्धयविषयस्तिष्ठतीत्युक्तम् । तत्र तावत् “असदिति चे"दितिसूत्रव्याख्यानमयुक्तम्, सूत्राक्षरानुगुण्याभावात् । सदसतोरन्यतरकोटिवाचकोऽसच्छब्दः कथं कोटिद्वयोत्तीर्णतामुपस्थापयेत् ? अन्यतरकोटिसमर्पकतया हि सच्छब्दस्यानुभयात्मकत्वानुपस्थापकत्वम्, निरूपणीयाभावाच्च तदयुक्तम्, “नासदासीन्नो सदासीत्तदानी “मित्यत्र प्रलयदशायां निषिध्यमानं सच्छब्दवाच्यम् कार्यावस्थं किमपीति सिद्धम् । सहप्रयोगान्नञसमाससामर्थ्याच्चासच्छब्दवाच्यमपि सद्य्वतिरिक्तमिति सर्वसम्मतम्; तदुभयं किमित्यपेक्षायां “तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्च त्यच्चाभवत्” “विज्ञानं चाविज्ञानं च” इति वाक्येन चेतनमचेतनं चेति ज्ञायते, इदञ्च गतिसामान्यनयस्थानप्रमाणाभ्यां सिद्धमिति न पूर्वपक्षोत्थानम् । किञ्च यद्यर्थान्तरपरत्वं शङ्कनीयं तर्हि सदसदात्मकत्वं किं न शङ्कयते? एकस्य तथात्वं विरुद्धमिति चेदेकस्यानुभयात्मकत्वमपि विरुद्धम्, अदर्शनात् । अह्रस्वमदीर्घं व्योमेतिवदनुभयात्मकत्वमविरुद्धमिति चेत् दशाङ्गुलं चतुरङ्गुलापेक्षया दीर्घं द्वादशाङ्गुलापेक्षया ह्रस्वमितिवदविरोधादुभयात्मकत्वमपि शङ्कनीयम् । सदसद्रूपेणोभयात्मकत्वं विरुद्धमिति चेत् तदुभयवैलक्षण्यरूपमनुभयात्मकत्वमपि विरुद्धत्वान्न शङ्कयम् । आपाततः शङ्केत्यप्ययुक्तम्, उभयात्मकत्वेऽप्यापाततः शङ्काया निवारकाभावात् । किञ्च उत्तरत्र
“असद्य्वपदेशान्नेति चेन्न धर्मान्तरेणे"ति शङ्कापरिहारयोरुत्थानायोगाच्च नैवमधिकरणद्वयं कल्पनीयम् । तत्र हि कार्यस्यासत्त्वात् कारणादभेदोऽनुपपन्न इत्याक्षिप्य भावविकारषट्कान्तर्गतनामरूपसंयोगलक्षण सत्त्वादर्थान्तरेण शक्तिमात्रावशेषवस्तुमात्रत्वरूपेण धर्मान्तरेणासद्य्वपदेशः, न तु स्वरूपसत्त्वाभावेनेति भवद्भिर्व्याख्यास्यते । इह च विकल्पसंज्ञकभावाभावात्मकस्थूलरूपनामसंयोगलक्षणं सत्त्वं प्रलयदशायां निषेध्यम्, न तु स्वरूपसत्त्वमित्यधिकरणद्वयेन निर्णीयते, कथमसद्य्वपदेशः स्वरूपासत्त्वशङ्कामङ्कुरयेत् ? नन्वत्र सत्त्वासत्त्वयोरुभयोरपि प्रतिषेधो निरूपितः, तत्र तु केवलासत्त्वविधिनिर्रूप्यत इति चेन्न; अपीतावित्यधिकरणे प्रलयदशायां निषेध्यं सत्त्वं स्थूलावस्थायोगलक्षणम्, शक्तिमात्रावशेषवस्तुमात्ररूपेण सत्त्वं तु न निषेध्यमिति शिक्षितत्वादसच्छब्दस्य सत्त्वप्रतिषेधकत्वात्तदभावस्य शक्तिमात्रावशेषसूक्ष्मदशारूपत्वादसच्छब्दस्य तदवस्थवस्तुमात्रोपस्थापकत्वसिद्धेरधिकाशङ्काभावाच्च । परस्परप्रतिपक्षाकारद्वयनिषेधेन व्याकुलत्वाभाव एव “असद्वा इद"मितिवाक्यस्य वैषम्यम्, तत्कथं शिक्षितार्थशैथिल्यशङ्कां जनयेत्? तस्मात्सालक्षण्यनियमनिषेधानन्तरमसतः कार्यत्वशङ्कानिरासपरम् “असदिति चेदि"ति सूत्रम्, कार्यकारणयोरनन्यत्वे कारणस्य ब्रह्मणः परिणामादिदोषशङ्काव्युदासकमपीतावित्यादिसूत्रद्वयमित्येषां सूत्राणां परमप्रकृतसालक्षण्यनियमभङ्गानुबन्धित्वादैकाधिकरण्यं युक्तम् ।