एतेन योगः प्रत्युक्तः । अत्र विषयसंशयहेतू पूर्ववत्, ब्रह्मकारणत्वं विचाल्यम् ? उत नेति विचारः । तदर्थमीश्वराधिष्ठितं प्रधानं कारणम्, उत बह्मेति । किं योगस्मृतिविरोधेन वेदान्तानामन्यपरत्वमापाद्यम्, उत नेति । किं तया वेदान्तोपबृंहणं कार्यम्, उत न? इति । किं सा भ्रान्तिमूला ? उत न ? इति । किं हिरण्यगर्भस्य भ्रमः सम्भवति, न ? इति । यदा न सम्भवति तदा तदुपबृंहणीयतया वेदान्तानां तद्विरोधेऽन्यपरत्वादीश्वराधिष्ठितं प्रधानं कारणमिति ब्रह्मकारणत्वं विचाल्यमिति । यदा भ्रमस्सम्भवति तदा तयोपबृंहणीयत्वाभावाद्वेदान्तवाक्यानां तद्विरोधेऽन्यपरत्वाभावादीश्वराधिष्ठितप्रधानस्य जगत्कारणत्वाभावात् ब्रह्मकारणत्वमविचाल्यमिति । सूत्रस्याक्षरार्थमाह- एतेनेति । वैदिकतत्त्वाभ्युपगममनुष्ठानाभ्युपगमं चाह - ईश्वराभ्युपगमात् योगस्य चाभिधानादिति । परिहारे तत्त्ववैषम्यमाह- अब्रह्मात्मकेति । अनुष्ठानवैषम्यं चाह - ध्यानात्मकस्येति । न हि ध्यानस्य ध्यानत्वान्मोक्षोपायत्वम्, गर्दभध्यानादिषु व्यभिचारात्; तस्मात् ध्येयविशेषविषयमेव ध्यानं मोक्षसाधनमिति ध्येयवैषम्यात्तदेकनिरूपणीयध्यानवैषम्यादित्यर्थः । आत्मेश्वरयोरिति - ब्रह्मात्मकत्वं जीवस्य, जगदुपादानतादिकल्याणगुणयोग ईश्वरस्य । क्षेत्रज्ञभूतस्येति - “यो ब्रह्माणं विदधाती “ति सृज्यत्वश्रुतिरवतारश्रुत्यनपोदिता ब्रह्मणः क्षेत्रज्ञत्वे प्रमाणम्, यथेन्द्रवरुणादीनाम् । कर्मकर्तृनामरूपाभ्यां योजनीयत्वं हि चेतनस्य सृज्यत्वमिति भावः । कदाचिद्रजस्तमोऽभिभवसम्भवादिति - कल्पविशेषेषु गुणविशेषोन्मेषविषयपुराणवचनार्थोऽभिप्रेतः । ननु शौनकेनैव ब्रह्मणो भगवदंशत्वं भगवद्वचनेनैव प्रदर्श्यते “त्वमप्यत्र महाभाग! मदंशः कमलोदरात् । मन्नाभिसम्भवाज्जातः प्रजासृष्टिकरः परः” इति । तस्मात् “आब्रह्मस्तम्बपर्यन्ता” इति नाभिविधिर्विवक्षितः, किन्तु मर्यादेति । नैवम्; स्तम्बस्याप्यकर्मवश्यत्वप्रसङ्गात् । स्थावरदेहस्य कर्मनिबन्धनत्वं च स्मर्यते “पुमान्न देवो न नरो न पशुर्न च पादपः । शरीराकृतिभेदास्तु भूपैते कर्मयोनयः” इति भगवदंशत्वव्यपदेशस्तत्तदनुप्रवेशनिबन्धन इति तत्रैवोक्तम् “यदि तेऽनुग्रहकृता मयि बुद्धिर्जनार्द्दन । तन्मां भक्त इति ज्ञात्वा
कथमात्मानमुच्यत” इति ब्रह्मणः प्रागविदितभगवत्स्वरूपजिज्ञासया प्रार्थनमुक्तम् । अनुग्रहकृता- अनुग्रहरूपेण कृता, अनुग्रहाय कृता वा । “कथयामि तवात्मानमनाख्यागोचरं परम् । न वाचां विषयो योऽसावविशेषस्वलक्षणः । प्रसादसुमुखः सोऽहमिमं यच्छामि ते वरम् । अनाख्यातस्वरूपं मां भवान् ज्ञास्यति योगतः । भक्तो मां तत्त्वतो
वेत्ति मयि भक्तिश्च ते परा । जिज्ञासा परमा ब्रह्मस्तेन जाता मतिस्तव । एवमुक्तस्ततो ब्रह्मा विष्णुना प्रभविष्णुना । विष्णुस्वरूपजिज्ञासुर्युयोजात्मानमात्मना । स ददर्शातिसूक्ष्माणां सूक्ष्म ज्योतिरजं प्रभुम् । निमेषार्धार्धमात्रेण व्याप्ताशेषचराचरम् । आत्मानमिन्द्ररुद्रार्कचन्द्राश्विवसुमारुतान् । स्वादीनपि च शब्दादीन् ददृशे स च तन्मयान्” इति भक्तिप्रीतभगवत्प्रसादलब्धयोगेन ब्रह्मणा युगपद्विश्वव्यापिभगवत्स्वरूपसाक्षात्कारस्तत्र भगवत्स्वरूपे च इन्द्रवस्वादिजीववदाकाशाद्यचेतनवच्च स्वात्मनो रुद्रस्य च दर्शनं चोक्तम् । तत्रावतारप्रश्नानन्तरं भगवता “परित्राणाय साधूना"मित्यारभ्य “पूर्वोत्पन्नेषु भूतेषु नृदेवादिषु चाप्यहम् । अनुप्रविश्य धर्मस्य करोमि परिपालनम् । प्रविश्य च तथाऽपूर्वां तनुं धर्मभृतां वर । जगतोऽस्य जगत्यस्मिन् करोमि परिपालनम्” इत्यवतारद्वैविध्यमुक्तवा । “यद्वै धर्मोपकाराययच्च दुष्टनिबर्हणम् । चरितं मानुषादीनां तद्वै जानीष्व मत्कृतम्” इत्यनेनानुप्रवेशावतारेषु स्वानुप्रविष्टजीवगतप्रकृष्टेचेष्टितानामेव स्वचेष्टितत्वं, न निकृष्टचेष्टितानामिति प्रतिपाद्य “उत्पाद्य पृथिवीं सम्यक् स्थापयित्वा यथापुरा । सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापतिम्” इति चतुर्मुखस्य भगवदंशत्वमनुप्रवेशकृतमिति सुस्पष्टमुक्तम् । तत्र ब्रह्मणो युक्तावस्तायाम् इन्द्रस्येव रुद्रस्य भगवद्-आत्मकत्व-दर्शनस्योपक्रमावगततया “सङ्कर्षणात्मकश्चैव कल्पान्ते च रसातलात् । समुत्पत्स्ये तदा रुद्रः कालाग्निरिति विश्रुतः” इति च सङ्कर्षणानुप्रवेशेन रुद्रस्य भगवतात्मकतायाः प्रतिपादितत्वात् “नृत्यत्यन्ते च यद्रूप"मिति रूपतयोक्तत्वात् “तवान्तरात्मा मम चे"तिभगवदन्तर्यामित्ववचनाच्च रुद्रस्यापि भगवदंशत्वमनुप्रवेशकृतम्; तथा श्रीविष्णुधर्मोत्तरे “ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः । एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा । जगत्कार्यवसाने तु वियुज्यन्ते च तेजसा । वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति च” इति ब्रह्मादीनां भगवत्तेजोवियोगेन प्रलयप्रतिपादनाच्चानुप्रवेशः सिद्धः । तथा मोक्षधर्मे “नारायणो महायोगी शुभाशुभविवर्जितः । ससर्ज नाभिजं पुत्रं ब्रह्माणममितप्रभम् । ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् । मम स्वं नाभितो जातः प्रजासर्गकरः प्रभुः । सृज प्रजास्त्वं विविधा ब्रह्मन् सजडपण्डिताः । स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः । प्रणम्य वरदं देवमुवाच हरिमीश्वरम् । का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तुते । अप्रज्ञावानहं देव विदत्स्व यदनन्तरम् । स एवमुक्तो भगवान् बभूवान्तर्हितस्ततः । चिन्तयामास विश्वेशो बुद्धिं बुद्धिमतां वरः । स्वरूपिणी ततो बुद्धिरुपस्थे हरिं प्रभुम् । योगेन चैनां संयोज्य स स्वयं ययुजे तदा । स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम् । उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः । ब्रह्माणं प्रविशस्वेति लोकसृष्टयर्थसिद्धये । तदर्थमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा । अथैनं बुद्धिसंयुक्तं पुनस्तं ददृशे हरिः । भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः । बाढमित्येव जग्राह यथाज्ञां शिरसा हरेः। तथाऽकरोच्च धर्मात्मा ब्रह्मा लोकपितामहः” इति भगवदनुप्रविष्टया तदाहिशक्तया बुध्द्यानुप्रविष्टत्वात् सृष्टिसामर्थ्यं ब्रह्मण उक्तम् । “स स्वयं युयुज” इति बुद्धेरन्तरनुप्रवेशो ह्युक्तः, अर्थान्तरानुपपत्तेः । अतः चतुर्मुखस्य भगवदवतार
त्वमनुप्रवेशकृतम्, तस्मात् “आब्रह्मस्तम्बपर्यन्ता” इत्यभिविधिरेव विवक्षितः । परैस्त्वाद्ये द्वितीयं सूत्रमेवं व्याख्यातम्, इतरेषां- अहङ्कारादीनां तत्त्वानां श्रुतावनुपलब्धेः, अतः कार्यस्मृत्यनुपपत्त्या च कारणस्मृत्यनुपपत्तिस्तात्पर्यार्थ इति; तदयुक्तम् श्रुतावेवोपलब्धेः “तन्मात्राणि भूतादौ लीयन्ते भूतादिर्महति लीयते
महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसिलीयते” इति, तथा “बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवत"मिति “अहङ्कारोऽध्यात्ममहङ्कर्त्तव्यमधिभूतं रुद्रस्तत्राधिदैवत"मिति, तथा “यस्याहङ्कारः शरीरं यस्य बुद्धिः शरीरं यस्याव्यक्तं शरीर"मिति, तथा “मनो भित्त्वा भूतादिं भिनत्ति भूतादिं भित्त्वा महान्तं भिनत्ति महान्तं भित्त्वाऽव्यक्तं भिनत्ति” इति । एषु वाक्येषु बुद्धि-शब्दो महत्तत्त्वव्यापारपरः “महान् वै बुद्धिलक्षणम्” इति श्रुतेः, अतोऽव्यक्तमहदहङ्काराः श्रुतावुपलभ्यन्ते । स्मर्यन्ते च “यत्तत्कारणमव्यक्तम्” इत्युपक्रम्य “त्रिविधोऽयमहङ्कारो महत्तत्त्वादजायत” इति; अतः स्मृत्युपबृंहिता श्रुतिर्महदादौ प्रमाणम् । सूत्रकारैस्तु “महतः परमव्यक्तम्” इत्यादेः कठवल्लीवाक्यस्यैव महदादितत्त्वपरत्वं प्रतिक्षिप्तम्, अर्थविरोधात् सुबालोपनिषद्वाक्यानां तु विरोधाभावान्न प्रतिक्षिप्तम्; अतः श्रुतावनुलब्धेरिति व्याख्यानमयुक्तम् । अब्रह्मात्मकानां महदादीनां श्रुतावनुपलब्धिर्विवक्षितेति चेत्, अब्रह्मात्मकप्रधानमपि श्रुतिष्वनुपलब्धमिति प्रधानादितरेषां लोके वेदे चानुपलब्देरिति व्याख्यानमनुपपन्नम् । “एतेन योगः प्रत्युक्तः” इत्यत्र अधिकशङ्कापरिहारौ परैरेवमुक्तौ, “त्रिरुन्नतं स्थाप्य समं शरीरम्” तां योगामिति मन्यन्ते स्थिरामिन्द्रियधारणम् । “विद्यामेतां योगविधिं च कृत्स्न"मित्यादिषु श्रुतिषु योगस्मृत्यर्थस्य परिगृहीतत्वाद्योगस्मृतेः प्रामाण्यशङ्का । एकदेशसम्प्रतिपत्तावप्येकदेशान्तरविप्रतिपत्तेरप्रामाण्यमिति परिहार इति । तत्र तावदधिकशङ्कोक्तिरनुपपन्ना आधिक्याभावाच्छङ्कायाः । श्रुतिपरिहारौ हि साङ्खयस्मृतेरपि तुल्यः “तत्कारणं साङ्खययोगाधिगम्यं ज्ञात्वा देवं मुच्यते सर्वपाशैः” “पुरुषं निर्गुणं साङ्खयमर्र्थवशिरसो विदु"रिति श्रुत्यविरुद्धांशस्य श्रुत्या परिग्रह इति निर्वाहश्च द्वयोरपि तुल्यः, अतः शङ्काया अधिकत्वाभावात् परिहारश्चानधिकः, एकदेशसम्प्रतिपत्तावप्येकदेशविप्रतिपत्तेरप्रामाण्यमपि द्वयोस्तुल्यम्, अतः शङ्कापरिहारावनुपपन्नौ । यादवप्रकाशैस्तु द्वितीयं सूत्रमेवं व्याख्यातम्, कायर्ेषु सुखदुःखमोहदर्शनेन कथञ्चित् प्रधानानुमानेऽपि कुण्डलादौ स्वर्णादेरिव कार्येष्वनुपलब्धानां पुरुषमहदहङ्कारादीनां तत्त्वान्तरत्वेन परिकल्पनमयुक्तम्, पृथिव्यादीनामेव कश्चिदंशो हृदयादिस्थानस्थः पुरुषो महदहङ्कारादयश्च स्युरित्युपगमे बाधाभावादिति, अतः कार्यस्मृत्यनुपपत्तेश्च कारणस्मृत्यनुपपत्तिरिति एतेनेति, सूत्रं च कपिलादिस्मृतीनामेव योगिप्रत्यक्षमूलत्वं स्मृत्यनवकाशदोषनिराकरणेन प्रत्युक्तमिति व्याख्यातम् । तत्र तावत् “इतरेषा"मिति सूत्रयोजनाऽनुपपन्ना, भोक्तृत्वाध्यवसायाभिमानादिकार्योपलम्भात् । तानि कार्याणि पृथिव्यादीनामंशविशेषेष्वेव स्युरिति चेत्, सुखदुःखमोहादयश्च तेष्वेव स्युरिति प्रसङ्गस्याविशिष्टत्वात् प्रधानकल्पनमनुमत्य पुरुषमहदादिव्युदासो निर्निबन्धनः, तस्यापि व्युदासोऽभिमतश्चेदितरेषामितिपदवैयथ्यर्म्, तदा हि सर्वेषां चानुपलब्धेरिति वक्तव्यम्; तथा च मन्दफलम्, युक्तिभिस्तत्कल्पनानां तर्कपादे निरसिष्यमाणत्वात्, अतः कपिलस्मृतेर्योगिप्रत्यक्षमूलत्वव्युदसनमपेक्षितमिति तदेव विवक्षितम् । एतेनेति सूत्रेण तह्युदस्यत इति चेन्न; साङ्खयस्मृतेरिव योगस्मृतेः श्रुतिविरुद्धांशव्युदासनस्यापेक्षितत्वात्, तस्य च शब्दानुकूलत्वात् अपेक्षितसिद्धयनुगुणनिर्वाहे सम्भवति तदननुगुणनिर्वाहाश्रयणस्यानुपपन्नत्वात् स्मृत्यनवकाशसूत्रेणेव योगस्मृतिव्युदासोऽपि सिद्धेः, तुल्यन्यायत्वादिति चेन्न; अधिकशङ्कायाः सम्भवात्, अतो योगस्मृतिविषयमतिदेशाधिकरणम् एतेनेति सूत्रितमिति युक्तम् ॥ इति योगप्रत्युक्तयधिकरणम् ॥