॥ स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न अन्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ प्रथमद्वितीयाध्याययोः सङ्गतिज्ञापनार्थं प्रथमाध्यायपादचतुष्टर्यार्थस्य सङ्ग्रहेण ज्ञापनार्थं च प्रथमाध्यायार्थं सङ्ग्रहेणाह - प्रथमेऽध्याय इत्यादिना । प्रत्यक्षादिप्रमाणगोचरादित्यनेनर्शक्षत्यानन्दमयाधिकरणयोः पौर्वापर्यहेतुर्विवक्षितः । आदिशब्दोऽनुमानपरः, प्रत्यक्षपृथिव्यादीनामनुरूपं कारणं ह्यनुमीयते, तस्मादचेतनस्य प्रथमं बुद्धिस्थतया तन्निरास इत्यर्थः । अर्थान्तरत्वमुपपादयति - निरस्तेति । मुक्तव्यावृत्त्यर्थं निरस्तनिखिलाविद्याद्यपुरुषार्थगन्धमित्युक्तम् । धर्मिस्वरूपमाह - अनन्तेति । सागरशब्देन समूहो विवक्षितः । अपरिमितः उदारगुणसागरो यस्येति बहुव्रीहिः । निखिलजगदेककारणम्- आकाशादेरपि कारणम्, निमित्तोपादानरूपोभयविधकारणं चेत्यर्थः । जगत्कारणत्वे पूर्वोक्तहेयप्रत्यनीकत्वानुपपत्तिमाशङ्क्याह- सर्वान्तरात्मभूतमिति । एवं प्रथमाध्यायार्थमुक्तवा द्वितीयाध्यायार्थमाह - अनन्तरमिति । प्रसक्तविरोधो हि परिहार्यः, अतो विरोधप्रसङ्गमाह - सम्भावनीयेति । समस्तप्रकारशब्देन पादचतुष्टयेऽपि ये विरोधावतरणमुखभेदाः ते विवक्षिताः । प्रथमेऽध्यायेऽयोगान्ययोगव्यवच्छेदमुखेन वेदान्तवाक्यानां ब्रह्मैककारणतापरत्वं वाक्यतात्पर्यपर्यालोचनया समर्थितम् । अथ द्वितीयेऽध्याये बाह्यतर्कविरोधपरिहार उच्यत इत्यर्थः । पादार्थो द्वितीयपादसङ्गत्यर्थं वक्ष्यते, तस्मात् प्रथमाधिकरणकृत्यमाह - प्रथमं तावदिति । प्रथमाध्यायनिरूपितं कारणत्वं विषयः, कपिलमन्वादिस्मृतिविप्रतिपत्तेः संशयः, अत्रैवं विचारः, किं ब्रह्मणो जगत्कारणत्वं चालयितुं शक्यते, न वा? इति । तदर्थं किं वेदान्तवाक्यानि ब्रह्मकारणत्वपराणि, उतान्यपराणि ? इति ।
तदर्थं साङ्खयस्मृतिविरोधो वेदान्तवाक्यानां अतत्परत्वमा
पादयति, नेति । तदर्थं साङ्खयस्मृत्या वेदान्तोपबृह्मणं कायर्म्, उत मन्वादिस्मृत्या ? इति । तदर्थं किं साङ्खयस्मृतिः किं भ्रान्तिमूला, उत न? इति । यदा न भ्रान्तिमूला तदा तया वेदान्तानामुपबृह्मणीयत्वेन तद्विरोधात्तेषामन्यपरत्वात् ब्रह्मकारणत्वं चालयितुं शक्यमिति । यदा भ्रान्तिमूला तदा तया तेषामनुपबृह्मणीयत्वात्तद्विरोधे तेषामन्यपरत्वाभावात् ब्रह्मकारणत्वमविचाल्यमिति । अधिकरणारम्भमाक्षिपति - कथमिति । कथंशब्दः क्षेपे, हेतुमाह - उक्तमिति । हिर्हेतौ । “विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमान"मिति सूत्रम् प्रत्यक्षश्रुतिविरुद्धं स्मृतिवचनमनपेक्ष्यम्- अनादरणीयम् स्मृतेरपि श्रुतिमूलत्वानुमानात् आदरणीयत्वमित्यत्राह असति ह्यनुमानमिति । असति प्रत्यक्षश्रुतिविरोधे हि स्मृतिमूलश्रुत्यनुमानमित्यर्थः । तदेतदभिप्रेत्याह - उक्तं हीति । परिहरति - सत्यमिति सत्यम् तत्र श्रुतिविरोधात्स्मृतेरनादरणीयत्वमुक्तमेव, अत्र तु विशेषोऽस्तीत्यर्थः । औदुम्बरीमित्यादि - “औदुम्बरीं स्पृष्ट्वोद्गाये"दिति श्रुतिः, “औदुम्बरी सर्वा वेष्टयितव्ये"तिस्मृतिः । अत्रायं विवक्षितो भेदः, औदुम्बरीमित्यादिषु प्रत्यक्षश्रुतेरर्थो न नानाशिरस्कः, अपि तु एकरूप एव प्रतीयते । अतः तत्र प्रत्यक्षश्रुतेरव्याकुलत्वेन स्मृतिन्यायनिरपेक्षं स्वत एवार्थो निश्चेतुं शक्यते, तत्र विरुद्धार्था स्मृतिरुपेक्ष्या । वेदान्तवाक्येषु नानाशिरस्कतयार्थः प्रतीयते । अतो व्याकुलत्वाद्वेदान्तवाक्यानामर्थः स्मृतिन्यायनिरपेक्षं स्वतो निश्चेतुं न शक्यते, श्रुतेरयमर्थ इति निश्चिते सति स्मृतेरनादरणीयत्वम्, स च स्वतो दुर्निश्चय इति तदर्थं स्मृत्यपेक्षा । प्रथमाध्यायोक्ततर्कैः अर्थो निश्चित इति चेन्न; वचनविरोधे न्यायस्य दुर्बलत्वात् । अतः स्मृत्यैवार्थे निश्चिते तद्विरुद्धस्तर्क आभासः स्यात्, अतः स्मृतिवचनविरुद्धन्यायेन श्रुत्यर्थो न निर्णेतव्यः, स्मृतिवचनेनैव तु निर्णेतव्य इतीममर्थभिप्रेत्याह - स्वत एवार्थनिश्चयसम्भवात् वेदान्तवेद्यतत्त्वस्य दुरवबोधत्वेनेति - कपिलस्य परमर्षित्वे किं प्रमाणम्? तथा सत्यपि तादृशबृहस्पत्याद्युक्तलोकायतादिवदनादरणीयम् श्रुतेः स्मृत्यपेक्षा च नास्ति, न्यायेनैव निरपेक्षत्वादित्यत्राह - एतदुक्तमिति । ज्योतिष्टोमादिकर्माणि यथावदभ्युपगच्छतेत्यनेन लोका
यतव्यावृत्तिरुक्ता । “ऋषिं प्रसूतं कपिलम्” इति तस्याप्तत्वे प्रमाणमुक्तम्, परमनिश्श्रेयसेत्यादिना अनन्यपरत्वमुक्तम् स्मृत्युपबृंहणेन स्मृतिरूपोपबृंहणेन । अल्पश्रुतैर्मन्दमतिभिरित्यनेन स्मृतिसापेक्षत्वमुक्तम्, अनन्तशाखानुगतस्य वाक्यार्थस्यैकदेशज्ञैर्दुरवबोधत्वादिति भावः । अन्यथाऽनिष्टमाह - यथाश्रुतेति । सकलाया इति सूचितमर्थं शङ्कोत्तरमुखेन विवृणोति - नचेति । न हि मन्वादिस्मृतेः कर्मपरत्वात्साकल्येनानवकाशत्वम्, साङ्खयस्मृतेर्निरवकाशत्वं न सह्यम्, आप्ततमत्वेन श्रुतिगतत्वात् अनन्तशाखानुगतवाक्यार्थस्य दुर्बोधत्वेनापेक्षितत्वाच्चेति ग्रन्थाभिप्रायः । पूर्वपक्षस्यानुत्सूत्रत्वमाह - तदिदमिति । परिहारखण्डमवतारयति - तत्रोत्तरमिति - काः पुनरन्याः स्मृतयः, कथं तासामनवकाशत्वमित्यत्राह - अन्या हीति । स्मृतिवचनं दर्शयति - यथाह मनुरिति - प्रलयावस्थाज्ञापनार्थमाह - आसीदिदं तमोभूतमित्यारभ्येति । भाष्ये- “ततः स्वम्भूः” “सोऽभिध्याये"तिश्लोकद्वयमुपात्तम्, तयोरर्थवैशद्यायासीदिदमित्यारभ्य सप्तश्लोकी व्याख्यायते; त इमे श्लोकाः “आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रर्तर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः । ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः । योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्बभौ । सोऽभिध्याय शरीरात्स्वात् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पुंसस्तेन नारायणः स्मृतः । यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते” इति । “धर्मान्नो वक्तुमर्हसी"ति मुनिभिः पृष्टो भगवान्मनुर्धर्मान् विक्षन् भगवदाराधनरूपस्य वर्णाश्रयधर्मस्याराध्यज्ञानसापेक्षत्वात् प्रथममाराध्यस्वरूपमाह- आसीदिदमित्यादिभिः श्लोकैः । तत्र परमकारणभूतस्यैव सर्वतादात्म्यसम्भवात् अग्नीन्द्रादिसर्वदेवतातादात्म्योपपत्त्यर्थं
“यतो वा इमानि” इत्याद्यनुसारेण लक्षणं च विवक्षन् भगवतः परमकारणत्वं वक्तुं वेदान्तेषु सृष्टेः प्रलयपूर्वकत्वेन प्रतिपादितत्वात् प्रथमं प्रलयदशामाह- आसीदिति । अत्र सुबालोपनिषदर्थो भगवता मनुना अनुसन्धीयते, अतस्सुबालोपनिषदुक्तप्रकारेणात्र प्रलय उच्यते; तत्र हि “पृथिव्यप्सु प्रलीयते” इत्यादिना पृथिव्यादिक्रमेण तमः पर्यन्तप्रलय उक्तः । तमाह- इदं तमोभूतमासीदिति । तत्र पृथिव्यादीनां स्वकारणेषु लयो वैयधिकरण्येन प्रतिपादितः, “तदेतदक्षयं नित्यं जगत् मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत्” इतिप्रक्रियया सत्कार्यवादकाष्ठामभिप्रेत्यसामानाधिकरण्येन इदं तमोभूतमित्युक्तम् । तमोभूतम्- तमोभाववत्, तमोऽवस्थमासीदित्यर्थः । “तमसि लीयते” इति निर्देशस्यायमर्थ इत्यभिप्रायः, यथाह भगवान् बादरायणपिता पराशरः “अग्न्यवस्थे च सलिले वाय्ववस्थे च तेजसि” इति । तमोऽवस्थस्य कारणस्य योग्यानुपलब्धिनिरस्तत्वशङ्काव्यावृत्त्यर्थमाह- अप्रज्ञातमिति । प्रकृष्टं ज्ञानमपरोक्षज्ञानम्, तेन विषयीकर्त्तुमशक्यमित्यर्थः । अयोग्यत्वादनुपलब्धिः, तस्मान्न योग्यानुपलब्धिरित्यभिप्रायः । अयोग्यत्वमुपपादयति -अलक्षणमिति । “शब्दस्पर्शविहीनं तद्रूपादिभिरसंहित"मित्युक्तप्रकारेण रूपादिलक्षणरहितत्वात्प्रत्यक्षयितमुयोग्यमित्यर्थः । कार्येषु रूपादिमत्त्वदर्शनात्कारणेनापि रूपादिविशेषगुणता भाव्यम्, अतो न यथोक्तकारणमुपपद्यत इत्यत्राह- अप्रतर्क्यमिति । प्रतर्कः- बाह्यतर्कः तदगोचरभूतम्; ते तर्काः कालात्ययापदिष्टा इति भावः । यद्वा अप्रज्ञातमिति प्रत्यक्षगोचरत्वस्योक्तत्वादप्रतर्क्यमित्यनुमानागोचरत्वमुक्तं स्यात् । “तम एकीभवति” इति वाक्योक्तमविभागावस्थत्वं तमसो दर्शयति- अविज्ञेयमिति । विज्ञानम्- विभागेन ज्ञानम् परस्माद्ब्रह्मणः पृथग्व्यपदेशानर्हावस्थां क्षीरे नीरमिव प्राप्तमित्यर्थः । स्वरूपैक्याशङ्कापरिहारार्थमाहप्रसुप्तमिव सर्वत इति । यथा सुषुप्तौ जीवस्य, परमात्मनः पृथग्व्यवहारानर्हावस्थापत्तिरेव, न तु स्वरूपैक्यम्; एवं चिदचिदात्मकस्य जगतो ब्रह्मणि पृथग्व्यवहारानर्हसंसर्ग एव, न स्वरूपैक्यमित्यर्थः । सुषुप्तौ सर्वथा साम्यव्यावृत्त्यर्थं - सर्वत इतिपदम् । यद्वा पूर्वमचिदंशप्रलयप्रकारः उक्तः, प्रसुप्तमिव सर्वत इति तु चिदंशप्रलयप्रकार उक्तः । तत इति, ततः- सर्गकाले प्राप्ते इत्यर्थः । “सम्प्राप्ते सर्गकाले व्ययाव्ययौ” इतिवत् भगवतः कारणान्तरसद्भावकृतोत्पत्तिप्रलयव्यावृत्त्यर्थमाह- स्वयम्भूरिति । परमकारणविषयो हि स्वयम्भूशब्दोऽवयवार्थपौष्कल्यान्नारायणपरो दृष्टः, यथा सभापर्वनि “अव्यक्तोऽव्यक्तलिङ्गस्थो य एष भगवान् प्रभुः । पुरा नारायणो देवः स्वयम्भूः प्रपितामहः” इत्यारभ्य “ततः स भगवान् स्तोये ब्रह्माणमसृजत्स्वय"मिति । मोक्षधर्मे च “नारायणो जगन्मूर्ति"रित्यारभ्य “ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा । तस्मात्पद्मात् समभवत् ब्रह्मा वेदमयो निधिः” इति । आश्वमेधिके च “विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः” इति च । अतोऽयं स्वयम्भूशब्दो नारायणविषयः, चतुमुर्खस्रष्टरि प्रयुक्तत्वात् प्रबन्धान्तरवचनैतत्प्रकरणानुगुण्यात् भगवच्छब्दसामानाधिकरण्याच्च । देवताविशेषनिर्णयार्थं कारणत्वोपयोगिगुणपौष्कल्यज्ञापनार्थं चाह- भगवानिति । “तत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ।
शब्दोऽयं नोपचारेण अन्यत्र ह्युपचारतः” इति वचनात् । इदं व्यञ्जयन्- व्यष्टिरूपकार्यजातं व्यञ्जयितुम् । “लक्षणहेत्वोः प्रक्रियायाः” इति शतृपत्ययः । महाभूतादिवृत्तौजाः- व्यष्टिकारणानि पृथिव्यादीनि महाभूतानि, आदिशब्देन तत्कारणभूतमहदहङ्कारौ गृह्येते, तेषु प्रवृत्तसङ्कल्पज्ञानरूपतेजाः । तदर्थमव्यक्तः प्रादुरासीत्, अर्श आद्यजन्तत्वात् पुल्लिङ्गता, अत्राक्षरावस्थाप्यर्थसिद्धा । “महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते” इति हि क्रमः । पूर्वमविभक्ततमश्शरीरको भगवान् व्यष्ठिसृष्टिहेतुभूततन्मात्राहङ्कारसृष्टयर्थं स्वसङ्कल्पाद्विभक्ततमःशरीरकोऽक्षरावस्थापाप्तिपूर्वकमव्यक्तावस्थप्रकृतिशरीरकोऽभूदित्यर्थः । अव्यक्तशब्दमपि विवृण्वन् समष्टिव्यष्टिसृष्टिमनन्तरवर्त्तिनीं संक्षेपेणाह योऽसाविति । अतीन्द्रियग्राह्यः- इन्द्रियमतीत्य वर्तमानेन शास्त्रेणैव ग्राह्यः । यद्वा इन्द्रियग्राह्यादतीत्य वर्तमानः । इन्द्रियग्राह्यानतीत्य वर्तमानत्वं तुच्छस्याप्यस्तीति तद्य्वावृत्त्यर्थमाह सूक्ष्म इति । अत एवाव्यक्तः, न तुच्छतयेत्यर्थः । सनातनः- अव्यक्तशरीरकत्वेऽपि स्वयमप्रच्युतस्वभाव इत्यर्थः । स एष इति कार्यकारणयोरेकद्रव्यत्वं सूचितम्, स्वयमेव कार्यं कारणं चेन्निमित्तान्तरापेक्षा स्यादित्यत्राह स्वयमिति । मृत्कुलालादौ निमित्तोपादानयोभरेददर्शनादेकस्यैव निमित्तोपादानत्वे अनुपपन्ने इत्यत्राह अचिन्त्य इति । बाह्यतर्काः श्रुतिनिरस्ता इति भावः । सर्वभूतमय उद्बभौसर्वसमष्टिव्यष्टिरूप उद्बभौ । कार्यकारणयोरेकद्रव्यत्वे कार्यकारणवैषम्यं किमित्यत्राह उद्बभाविति । सूक्ष्म उद्बभावितिपदाभ्यां सूक्ष्मत्वस्थूलत्वे एव कार्यकारणदशावैषम्यम्, न तु द्रव्यभेद इत्युक्तं भवति, एवं संक्षेपेण समष्टिव्यष्टिसृष्टिमुक्तवा समष्टिसृष्टिं पृथगाह- सोऽभिध्यायेति । अभिध्यानम्- सङ्कल्पः । स्वरूपेणैव समष्टिव्यष्टिरूपेण परिणतश्चेद्भगवच्छब्दोक्तनिर्दोषत्वादिविरोध इत्यत्राह शरीरात्स्वादिति । शरीरशब्देन तमोऽव्यक्तावस्थं चित्संसृष्टमचिद्वस्तूच्यते । सिसृक्षुर्विविधाः प्रजाः- व्यष्टिसिसृक्षयेत्यर्थः । अत एव ससर्जादौ- अप्च्छब्दोऽण्डकारणसमस्ततत्त्वप्रदर्शनार्थः, पृथिवीमयस्याण्डस्यानन्तरकारणं ह्यापः, अतोऽप्शब्दनिर्देशः, अप इति व्याख्येयश्रुतिगताप्छब्दः स्मारितः, “ता इमा आपः तद्धिरण्मयमण्डमभव"दिति हि श्रुतिः । अप्छब्दार्थश्च पूर्वमेव महाभूतादिवृत्तौजा इत्यादिना व्याख्यातः, एवकारेण त्रिवृत्करणं व्यावर्त्यम्, अत्रिवृत्कृता आप इत्यर्थः । तासु वीर्यमपासृजत् वीर्यम्, त्रिवृत्करणजनितामण्डोत्पादनशक्तिं तास्वजनयदित्यर्थः । अत्र नानावीर्याः पृथग्भूता नाशक्नुवन्नित्याद्यनुसन्धेयम्; एवं समष्टिसृष्टिमुक्तवा अथ व्यष्टिसृष्टिमाह - तदण्डमिति । तत्- अण्डकारणतत्त्वजातम्; इतरहेयव्यावृत्त्यर्थमाह -
सहस्रांशुसमप्रभमिति । तत्र चतुर्मुखसृष्टिमाहतस्मिन्निति । सर्वलोकपितामह इत्यनेन देवमनुष्यादीनां दक्षादयः स्रष्टारः, तेषां स्रष्टा चतुर्मुख इति भगवतोऽण्डान्तर्गतवस्तुसर्गः सद्वारक इत्युक्तं भवति । स्वयम् भगवान्नारायणः परमकारणभूतः स्वयमेव चतुर्मुखशरीरकोऽभवदित्यर्थः । “विष्णुबर्रह्मस्वरूपेण स्वयमेव व्यवस्थितः” इति वचनात् सुबालोपनिषदि “अज एको नित्य” इति निर्विकारत्वं जगत्कारणत्वं जगदन्तरात्मत्वं चोक्तवा नारायणशब्दोऽसकृदावर्तितः, अतो जगत्कारणत्वादिकं त्रितयमपि नारायणशब्दस्यावयवार्थ इति श्रुतेरभिप्राय इति मत्वा जगत्कारणत्वादिप्रवृत्तिनिमित्तकं नारायणशब्दं परमकारणस्य वाचकत्वेनाह आपो नारा इति । चित्संसृष्टान्यण्डकारणतत्त्वान्यापः । तासां नारत्वमुपपादयति आपो वै नरसूनव इति । “रीङ् क्षये” इत्यास्माद्धातोर्डप्रत्यये टिलोपे च कृते र इति भवति, नरः- अक्षयः, निर्विकार इत्यर्थः । “जन्हुर्नारायणो नरः” इति वचनान्नर इति भगवन्नाम, तस्माज्जाता इत्यण् प्रत्यये कृते नारा इति भवति; नराख्या आपोऽयनमस्येति नारायणः । एवं नरशब्देन निर्विकारत्वम्, नारशब्देन जगत्कारणत्वम् अयनशब्देन जगदन्तरात्मत्वं चेत्यर्थत्रयमुक्तं भवति । तस्मिन् जज्ञे स्वयं ब्रह्मेति भगवत एव प्रस्तुतत्वात् स एवात्रस्येति सवर्नामशब्देन परामृश्यत इति न व्यवहितपरामर्शित्वदोषः । यत्तु व्याख्यात्रन्तरैः सर्वनामशब्दः प्रधानपरामर्शी शाब्दप्राधान्यं च प्रथमानिर्दिष्टस्य चतुर्मुखस्येति स एव नारायणसंज्ञ इत्याशङ्कय बहुश्रुतिवचनविरोधादुपरि चतुर्मुखस्य भगवद्विसृष्टतावचनाच्च भगवत एव नारायणसंज्ञेति परिहृतम्, तच्चाविरुद्धम्; अथ चतुर्मुखस्य नारायणसंज्ञत्वव्यावृत्त्यर्थमितरदेवानां द्रुहिणसृष्टानां परत्वशङ्कादूरोत्सारणार्थं च चतुर्मुखस्य भगवद्विसृष्टतामाह यत्तदिति । यत्तदित्यनुवादरूपत्वात् स भगवानत्रानूद्यते । अव्यक्तस्य चिदचित्समुदायरूपत्वादव्यक्तशरीरकं ब्रह्म सदसच्छरीरकं भवति । तद्विसृष्टः- तेन विशेषेण जीवबुध्द्यव्यवधानेन भगवतैव सृष्टः स ब्रह्मेति कीर्त्यत इत्यर्थः । अस्मिन्प्रबन्धेऽवसानेपि “प्रशासितार"मित्यादिना भगवान्कीर्तितः । मध्ये च “ब्रह्मबिन्द्य” इत्यादिना भगवज्ञानविदः कीर्तिताः। एवं भगवता मनुना पुरुषसूक्तनारायणानुवाकप्रतिपाद्यस्य परब्रह्मशब्दवाच्यस्य भगवतः समाराधनरूपाणि कर्माणि विवक्षता भगवत्स्वरूपमुपदिष्टम्, एवं स्मृत्यन्तरेषु च द्रष्टव्यम् । कार्त्स्नेन तत्त्वपराणामपि स्मृतीनामनवकाशत्वं स्यादित्यभिप्रायेणाह - भगवद्गीतासु चेति । आपस्तम्बोक्तिमाह- आहेति । अध्यात्मखण्डयोः प्रथमे खण्डे “पूः प्राणिन” इति वाक्यम्, द्वितीये खण्डे “तस्मात्काया” इति वाक्यम्, तस्मादित्युक्ते कस्मादित्यपेक्षापूरणार्थं कायशब्दस्य भगवच्छरीरपरत्वदर्शनार्थं च पूः प्राणिन इतिवाक्यमुपात्तम् । पूः- पुरम्, शरीरमित्यर्थः । यथा भट्टहलायुधः “अङ्गं वपुर्वर्ष्म पुरं प्रतीक"मिति । न तावदुपबृंहणनैरपेक्ष्यात् कपिलस्मृतेरुपेक्ष्यत्वं सुवचं मन्वादिस्मृतेः सावकाशत्वं चोक्तं कपिलस्याप्तत्वे प्रमाणं चोक्तम्, कपिलस्मृतिं विहाय स्मृत्यन्तरेणोपबृंहणे च को हेतुरिति शङ्कायामाह- अयमर्थ इति । सम्भावनाभूमिभूतेति - भूतशब्दः सिद्धपरः, सिद्धार्थप्रतिपादनपरत्वात् । अयमर्थः, कार्यपरत्वे तुल्यविकल्पत्वेनाधिकारिभेदेन वाऽर्थविरोधः सुपरिहरः । सिद्धवस्तुपरत्वेऽन्यतरस्मृत्यनुगुणं वेदार्थो नेयः,न तूभयानुगुणमिति, तथापीत्यादिना कपिलस्मृतिं विहाय मन्वादिस्मृतिभिरेवोपबृंहणीयत्वे वैषम्याह । आप्ततमशब्दस्यायं भावः, यथावस्थितवस्तुदशिर्त्वम् यथादृष्टार्थवादित्वं चेति द्विविधा आप्तिः । तत्र “ऋषिं प्रसूतं कपिल"मिति कपिलस्य महर्षित्वमुच्यमानं मन्त्रद्रष्टृत्वातीन्द्रियानेकार्थद्रष्टृत्वादिनाप्युपपद्यते, न तु सावर्त्रिकं यथावस्थितार्थदर्शित्वमपेक्षते । मन्वादीनान्तु “यद्वै किञ्चन मनुरवदत्” “स होवाच व्यासः पाराशर्यः” इत्यादिभिस्सार्वत्रिकयथावस्थितदर्शनपूर्वकयथादृष्टार्थवादित्वमुक्तम्, तस्मादाप्ततया मन्वादयः, कपिलस्य त्वाप्तिमात्रमिति । श्रुतिविरुद्धार्थान्यायानुगृहीतश्रुतिविरुद्धार्थेति भावः । अत्रायमर्थः, परेण न हि वचनविरोधे न्यायःप्रवर्त्तत इति न्यायानुगृहीतश्रुतेरपि स्मृत्यनुगृहीतश्रुतिः प्रबलेत्युक्तम् । तत्रोत्तरम्, न्यायविरुद्धस्मृत्यनुगृहीतश्रुतेरपि न्यायाविरुद्धस्मृत्यनुगृहीतश्रुतिः प्रबला, ऋषिमात्रप्रणीतस्मृत्यनुगृहीतश्रुतेरप्याप्ततमप्रोक्तस्मृत्यनुगृहीतश्रुतिः प्रबला, एकस्मृत्यनुगृहीतश्रुतेरपि बहुस्मृत्यनुगृहीतश्रुतिः प्रबलेति आप्ततमप्रणीतन्यायानुगृहीतानेकस्मृत्यनुगृहीतश्रुतिराप्तमात्रोक्त न्यायविरुद्धैकस्मृत्यनुगृहीतश्रुतेरपि प्रबलेति सङ्ग्रहोक्तिः । दूषणान्तरमाह - उपबृंहणं चेति । विरुद्धार्थयान्यायानुगुणस्मृत्यनुगृहीतश्रुतिविरुद्धार्थया । उपबृंहणानुपपत्तिर्दूषणमित्यर्थः ।
सावकाशत्वं प्रतिवदति - न चैतासाम् इति -
अस्थिराणां कालान्तर-भावि-फल-प्रदत्वं स-द्वारकम् एव,
तत्र कृष्यादेर् अङ्कुरादि-द्वारकत्ववत्
किम् अ-चेतन-द्वारकत्वम्,
उत राज-सेवादेर् इव चेतन-द्वारकत्वम् ?
इत्य् अपेक्षायां चेतनद्वारकत्वं श्रुतिर् एवाहेति
श्रुत-हानाश्रुत-कल्पनानुपपत्त्या
पर-ब्रह्मणि तासां तात्पर्यम् अस्तीत्य् अर्थः ।
कर्मणां भगवद्-आराधन-रूपत्वे प्रमाणम् आह -
तथा हीति ।
यतः प्रवृत्तिर् इति भगवद्गीता ।
“ध्यायेन् नारायणं देवम्” इति दक्ष-स्मृतिः,
“यैः स्वकर्मे"ति वैष्णवे पुराणे ।
अत्रायम् अभिप्रायः, पूर्व-भागोपबृंहण-पराणाम् अपि स्मृतीनां
कर्माराध्ये भगवति तात्पर्यम् अस्त्य् एव,
उपनिषद्-भागोपबृंहण-पराणाम्
अत एवान्यत्र निरवकाशानाम् इतिहास-पुराणानाम्
अतीव-तात्पर्यम् अस्ति ।
इतिहास-पुराणयोः कर्म-कीर्तनं
भगवद्-उपासनाङ्गत्वेन,
धर्म-शास्त्रेषु ब्रह्म-कीर्तनं कर्माराध्यत्वेनेति ।
अनभिसंहित-फलकमर्णां हि भगवद्-आराधनरूपता,
फलप्रदानं तु कर्मणां तद्-आराधन-रूपत्वाभावात्
न तत्-प्रतिपादक-शास्त्रस्य ब्रह्मणि तात्पर्यम्
इत्य् आशङ्क्य परिहरति -
न चैहिकेत्यादिना ।
“यद् उक्तम्” इत्यादि -
ननु न लोकायतेन श्रुत्यर्थव्यवस्थापनप्रसङ्गः, न हि लोकायतेऽग्निहोत्राद्यभ्युपेतम् कपिलस्य तु तदभ्युगतौ तद्वाक्येन
श्रुत्यर्थव्यवस्थापनं युक्तमिति चेन्न; बृहस्पतिप्रणीतस्यापि लोकायतस्य परित्यागो यद्धेतुकः स श्रुत्यर्थविरोधोऽत्रापि विद्यते चेत्तद्वदेव कपिलस्मृतिरपि विरुद्धांशे त्याज्या, तथा “औदुम्बरी सर्वा वेष्टियितव्ये"त्यत्र च निर्णीतं तद्वदिति परिहारः ॥ उत्तरसूत्रशङ्कामाह - अथस्यादिति । मन्वादीनां धर्मप्रवर्तनादिष्वन्यपरत्वान्न योगावसरः, कपिलस्तु योगसाक्षात्कृतार्थतत्त्व इति तत्स्मृतिरादरणीयेत्यर्थः ।
इतरेषां चानुपलब्धेः । व्याचष्टे - चशब्द सति । यदि कपिलस्य स्वस्मृतिप्रकारेणोपलब्धिरस्ति सा बहूनां स्मर्तॄणां तत्त्वोपलब्धिविरोधात भ्रान्तिरित्यर्थः । न च तेषां धर्मानुष्ठानेऽन्यपरत्वाद्योगानवसरः, अनभिसंहितफलधर्मानुष्ठानस्य योगाङ्गतयाऽत्यन्तानुकूलत्वात्तद्रहितस्य योगो न समीचीनः, सरजस्तमस्कत्वात् । इति स्मृत्यधिकरणम् ॥