35 सर्वव्याख्यानाधिकरणम्

एतेन सर्वे व्याख्याताव्याख्याताः । कृत्स्नाधिकरणन्यायातिदेशरूपत्त्वात्सङ्गतिः, प्रथमसूत्रस्य समन्वयसूत्रस्य च सिद्धपरास्सर्वे वेदान्ता विषयाः, वाक्यविशेषा इतरेष्वधिकरणेषु विषयाः, एष्वनुदाहृतवाक्यविशेषाः सर्वेऽप्यस्य पञ्चत्रिंशस्य विषयाः, पूर्वाधिकरणेष्विव विचारोऽर्थसिद्धः । अनुदाहृताः कारणवादिवाक्यविशेषाः किमुक्तलक्षणचिदद्विलक्षणब्रह्मपराः ? उत नेति विचारः । तदर्थं ते

किमुक्तन्यायानामविषयाः? उत विषयाः? इति, विषयत्वं सम्भवति नेति । तदोक्तन्यायविषयत्वादुक्तलक्षणब्रह्मपरा इति फलफलिभावः । एतेनेतिपदस्य “एतेन योगः प्रत्युक्तः” “एतेन शिष्टापरिग्रहा” इति सूत्रस्थैतच्छब्दवदनन्तरपूर्वप्रकृतार्थविषयतया प्रकृत्यधिकरणन्यायमात्रपरामर्शित्वव्युदासाय व्याचष्टे- पादचतुष्टयोक्तेति । उपासनतत्फलादिप्रतिपादकवाक्यानां निरूपयिष्यमाणानां व्यवच्छेदायाह- जगत्कारणप्रतिपादनपरा इति । इदंपदं हेतुगर्भं, कारणविषयत्वमेव ह्यधिकाशङ्कायाः परिहारहेतुः, निरूपितवाक्यव्यवच्छेदाय वाक्यविशेषा इत्युक्तम् । पूर्वमनुदाहृता अनिश्चितार्था इत्यर्थः । यथैतेषु त्रय एव

यज्वान इत्युक्तेऽन्येषाम् अयज्वत्वं व्याख्यातं भवति; एवमुदाहृतवाक्यानां चिदचिद्विलक्षणब्रह्मपरत्वप्रतिपादनेनान्येषामतत्परत्वेन व्याख्यातत्वशङ्कां व्यावर्त्तयितुमाह- चेतनाचेतनतवलक्षणेति । वैलक्षण्यहेतुभूतगुणप्रदर्शनार्थं तेषु प्रधानं गुणद्वयमाह - सर्वज्ञसर्वशक्तिशब्दाभ्याम् । सर्वज्ञत्वसर्वशक्तित्वे हि निमित्तोपादानतोपयोगिनी । का पुनरधिका- शङ्का? उच्यते; जगत्कारणत्ववाक्यविशेषेषु केचित्सर्वसाधारणशब्देन कारणनिर्देशपराः, यथा सदेव सोम्येत्यादयः सद्ब्रह्माक्षरशब्दैः । केचिच्चेतनमात्रासाधारणशब्दान्विताः, यथा “तावेतौ सत्त्वक्षेत्रज्ञा"विति पैङ्गिश्रुतिः क्षेत्रज्ञशब्देन । केचिदचिन्मात्रासाधारणशब्दान्विताः, यथा “गौरनाद्यन्तवती” “अजामेका"मित्यादि । केचिज्जीवेश्वरसाधारणशब्दान्विताः, यथा “आत्मन आकाशः” इति “पुरिशयं पुरुष"मिति च । केचिच्चिदचिद्विशेषासाधारणशब्दाः, यथा वैश्वानरशब्दवती श्रुतिः । केचिञ्चाचिद्विशेषासाधारणशब्दाः, यथा “आकाशादेव समुत्पद्यन्ते” इति । केचिच्चेतनविशेषा साधारणशब्दाः, यथेन्द्रशब्दवती प्रतर्दनोपासनश्रुतिः, केचित्तु परमपुरुषासाधारणशब्दाः, यथान्तरादित्यविद्या श्रुतिः, यथा च पुरुषसूक्तम्; एवंविधेष्वेव वाक्येषु केचित्साक्षादेव कारणत्वप्रतिपादकाः, केचिच्च कारणत्वव्याप्तवेदितव्यत्वनिरतिशयदीप्तियोगादिपरा इति विभागो यथासम्भवं दृष्टव्यः । उक्तकोटिष्वनन्तर्भूतं कारणविषयं वाक्यं न क्वचित्सम्भवति; तत्र चिदचित्साधकैर्लिङ्गशब्दादिभिः पूर्वपक्षे प्राप्ते चिदचिद्य्वावर्त्तनक्षमैरीक्षणविशेषानन्दविशेषसर्वप्रशासितृत्वसमस्तहेयप्रत्यनीकत्वसर्वचिदचिद्धारकत्वपतित्वान्तरात्मत्वमुक्तप्राप्यत्वादिभिर्धर्मविशेषैस्तेषां वाक्यानां चिदचिद्विलक्षणजगदेककारणभूतदेवताविशेषप्रतिपादकत्वं समथिर्तम् । उक्तकोट्यन्तर्भूतेष्वपि येष्वनुदाहृतवाक्यविशेषेषु जगत्कारणत्वमात्रं श्रुतम्, न त्वीक्षणविशेषादयश्चिदचिद्य्वावर्त्तकाः परमपुरुषासाधारणधर्माश्च श्रुताः, तेषु यथाप्रतिपन्नवस्त्वभ्युपगमे विरोधाभावान्न परमात्मपरत्वमित्यनुयायिन्यधिका शङ्का; अभ्युच्चयहेतवश्च यथासम्भवं तत्र तत्र द्रष्टव्याः । ईक्षणविशेषादिधर्मान्तराश्रवणेपि जगत्कारणत्वस्येक्षणविशेषादिवत् परमपुरुषासाधारण्यस्य द्वात्रिंशदधिकरणन्यायनिर्णीतत्वाज्जगत्कारणत्वमेव चिदचिद्विलक्षणसर्वविधकारणभूतपरब्रह्मशब्दवाच्यदेवताविशेषपरत्वसाधकमित्यधिकानुयायिपरिहारः । परिहारे चाभ्युच्चययुक्तयस्तत्र तत्र द्रष्टव्याः । ननु जगत्कारणत्वं परमात्मलिङ्गं स्यात्, कथं परमात्मनो देवताविशेषत्वसाधकम् ? “जन्माद्यस्य यतः” इत्यादीनामधिकरणानां सर्वेषां देवताविशेषनिर्णयपर्यन्तत्वादिति ब्रूमः । तथा हि ब्रह्मशब्दस्य भगवच्छब्दतुल्यत्वं प्रथमसूत्रे प्रतिपादितम्; यत इति यच्छब्दस्यानुवादरूपतया प्रापकवाक्यानुरोधित्वात्, तेषु च सदादिशब्दानां देवताविशेषपर्यन्तत्वावगमात्, सूत्रे च यत इति जनिकर्त्तुः प्रकृतौ न पञ्चमी, किन्तु हेतावितिसमर्थनेन नारायणातिरिक्तनिमित्तविरोधित्वाञ्च जन्माद्यधिकरणं देवताविशेषनिष्ठमेव लक्षणं स्तापयति । तृतीयन्तु सामान्येनोपयुक्तम् । चतुर्थं देवताविशेषनिष्ठं परमप्रयोजनत्वं दर्शयति “आनन्दो ब्रह्म रसो वै सः” इत्यादिवाक्यानामानन्दवल्लीस्थत्वात्तस्याश्चान्तरादित्यविद्यैकार्थ्यात् । ईक्षत्यधिकरणे तु गतिसामान्यस्योक्तत्वात्साधारणस्य सच्छबदस्य देवताविशेषनिष्ठत्वमेव दर्शितम् । आनन्दवल्लयास्तु “स यश्चायं पुरुषे

यश्चासावादित्ये” इत्यन्तरादित्यविद्यैकार्थ्यावगमात् “अन्योऽन्तर आत्मानन्दमयः” इत्यन्तरात्मशब्देन सुबालोपनिषत्प्रत्यभिज्ञानादुपक्रमस्थस्यानन्तशब्दस्य रूढिपरित्यागे हेत्वभावाच्च सिद्धं भगवत्परत्वम् । अन्तरादित्यविद्यायान्तु पुण्डरीकाक्षत्वप्रतिपादनात्पुरुषशब्देन हिरण्मयत्वविशेषणेन च पुरुषसूक्तप्रत्यभिज्ञानात्सर्वपाप्मभ्य उदयेन “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति

सुबालोपनिषदैकार्थ्यावगमाच्च सिद्धं परमपुरुषपरत्वम् । इतराधिकरणचतुष्टयस्य आकाशप्राणज्योतिरिन्द्रादिशब्दानामपि पुरुषसूक्तप्रतिपाद्यपरमपुरुषविषयतया समर्थनपरत्वं तत्र तत्र स्फुटम् । मनोमयत्वभारूपत्वप्रत्यभिज्ञापितैर्विद्युद्वर्णहिरण्मयपुरुषपरैः “हृदा मनीषा मनसाऽभिक्लृप्तः” “विद्युतः पुरुषादधि” तस्मिन्नयं पुरुषो मनोमयः अमृतो हिरण्यमयः” इत्यादिभिरैकार्थ्याच्छाण्डिल्यविद्या देवताविशेषविषया । कठवल्ली भगवत्परेति स्फुटम्, अध्वनः पारभूतवैष्णवपरमपदविषयत्वात्तस्याः । अक्ष्यन्तरः परमपुरुषः, पुरुषशब्दवाच्यत्वादमृतत्वाच्च तस्मिन्नयमितिवाक्यप्रत्यभिज्ञानात् । अन्तर्यामिविद्या नारायणविषयेति स्फुटम्; सुबालोपनिषदैकार्थ्यात् । मुण्डोपनिषदः कार्त्स्न्ेन परमपुरुषविषयत्वं ब्रह्माक्षरशब्दयोश्च पुरुषशब्दसमानार्थत्वं च दर्शितम्; तत्र श्रुतरूपविशेषान्वयादेव वैश्वानरविद्या तदेकविषया, “पुरुषमपि चैनमधीयते” इति च स्फुटमुक्तम् । द्युभ्वाद्यधिकरणं तु मुण्डोपनिषद्विषयत्वादेव परमपुरुषपरम् । भूमविद्या तु निरतिशयसुखरूपवस्तुविषयत्वादानन्दवल्लीतुल्यविषया । अम्बरान्तधारकमक्षरं सूर्यचन्द्रादिप्रशासितृत्वादानन्दवल्लीप्रत्यभिज्ञानादक्षरशब्दवाच्यतया मुण्डकोपनिषत्प्रत्यभिज्ञानाच्च बृहदारण्यके अन्तर्यामिविद्यानन्तरवाक्यप्रतिपाद्यत्वाच्च परममुरुषः । ईक्षतिकर्म परमपुरुष एव श्रुतः । दहराधिकरणन्तु व्योमातीतमतत्प्रत्यनीकत्वात् “स उत्तमः पुरुष” इति परमपुरुषविषयत्वाच्च देवताविशेषसाधकम्, प्रमितश्च पुरुष एव श्रुतः । देवताधिकरणमधुविद्ये हिरण्यगर्भेन्द्रदीनामपि गुरुशिष्यभावप्रदर्शनेन आदित्यान्तर्यामिविषयत्वेन च भगवतो महामहिमप्रतिपादिके, “आकाशो ह वै नामे"तिवाक्यं पुरुषसूक्तप्रत्यभिज्ञानात्परमपुरुषविषयम् । चतुर्थाद्ये तु “पुरुषान्नपरं किञ्चि"दितिसमर्थितम्; अनन्तरे चाधिकरणे अजायाः परमपुरुषात्मकत्वं स्थितम्, तैत्तिरीयके अजावाक्यचिह्नितानुवाके “यस्मात्पर” मितिवाक्यस्याधीतत्वात् । “यस्मिन् पञ्च पञ्चजनाः” इति वाक्यं च भगवत्परम्, अमृतात्मब्रह्मशब्दनिर्देशात्, “अन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाच एतदमृतमेतदभयमेतद्ब्रह्म अमृतो हिरण्यमयः” स त आत्मान्तर्याम्यमृतः” इतिवाक्यैकार्थ्यं हि तस्य प्रतीयते, “यश्चक्षुषि तिष्ठन्” इत्याद्यन्तर्यामिब्राह्मणैकार्थ्येन पञ्चजनसंज्ञानामिन्द्रियाणां भगवदधीनत्वमपि ह्यवगम्यते । “कारणत्वेन चे"त्यत्र आनन्दवल्लीवाक्यस्य विषयत्वात्सिद्धं परमपुरुषत्वनिर्धारणम् । बालाक्यजातशत्रुसंवादे च वेदितव्यतयोक्तः परमपुरुषः यस्येत्यनुवादस्य प्रापकसापेक्षत्वाद्वेदितव्यत्वस्य च “तमेवं विद्वा"नित्यादिवाक्यैकाथ्यर्ज्ञापकत्वाच्च । अवस्थितेरितिसूत्रस्यान्तर्यामिब्राह्मणविषयत्वात् मैत्रेयीब्राह्मणे च जीवसमानाधिकरणवाक्यानां नारायणपरत्वं स्थितम् । प्रकृत्यधिकरणस्य तु निमित्तोपादानभेदबादिपाशुपतप्रक्रियाविरोधित्वाद्रुक्मवर्णपुरुषस्य योनित्वकथनाच्च परमपुरुषविषयत्वं स्पष्टम् । एतदुक्तम्भवति; केचिद्वाक्यविशेषा अनुवादरूपतया प्रापकसाकाङ्क्षाः, “यतो वा इमानि” “यो वै बालाक एतेषां पुरुषाणां कर्त्ता” इत्येवमादयः । केचित्साधारणशब्दचिह्नितत्वाद्विशेषाकाङ्क्षाः, यथा सदेवेत्यादयः । केचिच्च अयोग्यस्वार्थतया योग्यविषयाकाङ्क्षाः, यथा आकाशप्राणादिशब्दचिह्निताः । केचिच्च योग्यविशेषप्रत्यभिज्ञापकविशेषणोपस्थापकाः, यथा “सर्वव्यापी सर्व भूतान्तरात्मा” इत्यादयः, सर्वव्यापित्वं सर्वभूतान्तरात्मत्वमपि नारायणप्रत्यभिज्ञापकम्, “व्याप्य नारायणः स्थितः सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति श्रूयमाणत्वात् । केचिच्च योग्यविशेषोपस्थापकाः “हिरण्यमयः पुरुषः तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी” सहस्रशीर्षा पुरुषः “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” परात्परं पुरुषमुपैति “परमपुरुषमभिध्यायीत दिव्यो देव एको नारायणः” इत्यादयः, अतो योग्यविशेषपरेषु वाक्यविशेषेषु तदिरकोटिचतुष्टयनिविष्टवाक्यविशेषाः पर्यवस्यन्ति, अन्यथा निराकाङ्क्षत्वायोगादिति; अतो जगदेककारणचिदचिद्विलक्षणदेवताविशेषे कारणवाक्यानां समन्वयोऽध्याय प्रतिपाद्यत इति स्थितम्;

अतोऽधिकाशङ्कास्पदानामनुदाहृतवाक्यविशेषाणामपि नारायणपरत्वमेव चरमाधिकरणे सूत्रकारैरुपपिपादयिषितमिति सिद्धम् । एवं पादचतुष्टयेऽपि विषयत्वेनोदाहृतानां वाक्यानामैककण्ठ्यं स्थितम्, अनुदाहृतवाक्यविशेषाणां तु न कस्मिंश्चिदर्थे ऐककण्ठ्यं प्रतीयते; अतस्तेष्वेकैकं निरूपितचराणां भूयसां वाक्यानां बलीयस्त्वादेकैकस्य वाक्यस्य तदनुगुणत्वं युक्तमिति न सिद्धम् । के पुनस्ते वाक्यविशेषाः? येषूक्तन्यायातिदेशः । उच्यते; अनुदाहृतवाक्यानामानन्त्यान्न कार्त्स्न्ेन तत्प्रदर्शनं शक्यम्; अतः केषुचिद्वाक्येषु

दिद्य्वात्रं प्रदर्श्यते । बृहदारण्यके श्रूयते “ब्रह्म वा इदमग्र आसीदेकमेव” इत्यादि । अत्र न परं ब्रह्म प्रतिपाद्यम्, तदसाधारणेक्षणविशेषाद्यभावात् । अत्र ब्रह्मशब्दो ब्राह्मणजातिपरः, तदभिमान्यग्निदेवतापरो वा तदधिष्ठितब्राह्मण जातिपरो वा । “अत्यसृजतक्षर"मिति क्षत्रियसृष्टिश्रवणात् “तस्माद्ब्राह्मणः क्षत्रियमषस्तादुषास्ते राजसूय” इति क्षत्रप्रशंसनवाक्ये ब्राह्मणशब्देन निर्देशात् “य एन हि नस्ति स्वां योनिमृच्छति स पापीयान् भवती"ति ब्राह्मणहिंसायां प्रत्ययायकथनात्परस्य हिंसाप्रसङ्गाभावात् “स विशमसृजत स शौद्रं वर्णमसृजते"ति स इति पुल्लिङ्गेन शब्देन ब्राह्मणं परामृश्य वैश्यशूद्रयोरपि तत्सृष्टत्वकथनात् “तदेतद्ब्रह्म क्षत्रं विट्छूद्र” इति वर्णचतुष्टयनिगमनाच्च ब्रह्मशब्दो ब्राह्मणपरः तदभिमान्यग्निपरो वा तदधिष्ठितब्राह्मणवर्णपरो वा “आग्नेयो वै ब्राह्मण” इति श्रुत्यन्तरादिहापि “अग्निनैव देवेषु ब्रह्मा

भवत् ब्राह्मणो मनुष्येषु” इति निर्देशेन ब्राह्मणवर्णस्याग्निसम्बन्धप्रतिपत्तेश्चेति । तदेत् त्रयमनुपपन्नम् सदेव सोम्यैदमग्र आसी"दित्यादिवाक्यसारूप्यभङ्गायोगात्कारणत्वस्य परमात्मासाधारण्यस्य समर्थितत्वाच्च । किञ्च उपक्रमस्थब्रह्मशब्दमुख्यार्थहानिप्रसङ्गः, वर्णमात्रस्य अग्निसंज्ञदेवतायास्तदधिष्ठितवर्णस्य च इन्द्रवरुणसोमादिसमस्तदेवतास्रष्टृत्वायोगश्च । “ब्राह्मणोऽस्य मुखमासीत् पद्य्भां शूद्रः

“मुखादिन्द्रश्रचाग्निश्चे"ति ब्राह्मणस्येन्द्रोदेरग्नेश्च परमपुरुषसृष्टत्वश्रवणेन इन्द्रदीनामग्निसृष्टत्वायोगश्च । अस्याः श्रुतेर्गत्यन्तरसम्भवेन कल्पभेदेन सृष्टिभेदपरत्वकल्पनञ्चानुपपन्नम् “तदग्निनैव देवेषु ब्रह्माभवत् ब्राह्मणो मनुष्ये"ष्विति तच्छब्दपरामृष्टप्रकृतब्रह्मणोऽग्निब्राह्मणान्यत्वं च प्रतीयते, “तस्मादग्नावेव देवेषु लोकमिच्छन्दो ब्राह्मणो मनुष्येष्वेताभ्यां हि रूपाभ्यां ब्रह्माभवदित्यग्निब्राह्मणयोर्वैयधिकरण्येन ब्रह्मरूपत्वनिर्देशेन ताभ्यां रूपिणो ब्रह्मणो विलक्षणत्वं च प्रतीतम्; एवमिन्द्रादिस्रष्टृत्वात् पृथग्व्यपदेशाच्च ब्रह्मशब्दस्य अग्न्यवस्थब्रह्मपरत्वञ्च व्युदस्तम् । नह्यग्निरूपाद्ब्रह्मण इन्द्राद्युत्पत्तिः, अतोऽग्निविशिष्टत्वोपस्थापनकल्पनवैयर्थ्यम् । अशाब्दत्वञ्च, न हि केवलब्रह्मशब्दोऽग्न्वस्थपरमात्मवाची । प्रथमब्रह्मशब्दोऽग्न्यवस्थब्रह्मपरश्चेत् “तदग्निनैवे"तिप्रकृतपरामर्शिनस्तच्छब्दस्य वैयधिकरण्यमनुपपन्नम् । अग्न्यवस्थस्य ब्रह्मणोऽग्निना विशिष्टत्वं चायुक्तम्, एकस्यैवाग्नेर्विशेषणत्वानुपपत्तेः, अग्न्यन्तरकल्पने च तस्याऽग्न्यन्तरं प्रति रूपत्वानुपपत्तेश्च । नन्विन्द्रादिसृष्टिरविवक्षिता, तद्विवक्षायां ह्यग्निब्राह्मणपरत्वानुपपत्तिः, किन्तु तद्देवताधिष्ठेयक्षत्रादिसृष्टिरेव विवक्षिता “तदग्निनैव देवेषु ब्रह्माभवत् ब्राह्मणो मनुष्येषु एताभ्यां हि रूपाभ्यां ब्रह्माभव"दिति च वाक्यद्वयं ब्राह्मवर्णस्यैव देवमनुष्यविभागेन द्वैविध्यपरमिति । उच्यते; न तावदिन्द्रदिसृष्टयविवक्षा वाच्या “तदेतद्ब्रह्म क्षत्रं विट्छूद्र” इति चातुर्वर्ण्यनिगमने, कथं चातुर्वर्ण्यम् ? क्षत्रादिवर्णत्रयसृष्टिर्ह्युक्तेत्यपेक्षायां “तदग्निनैव देवेषु चतुस्सङ्खयापूरणात् अग्निश्च मृत्युसञ्ज्ञसूक्ष्माचिच्छरीरकपरमात्मसृष्टतया प्रागुक्तः, “तस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्त्तताग्नि” रिति । श्रान्तशब्दः कारणलक्षणया यत्नपरः, कृतसङ्कल्पस्येत्यर्थः । तप्तस्य “तप आलोचने” सृज्यवर्गपर्यालोचनवत इत्यर्थः । एवं तत्राग्निरेव सृष्टतया श्रुतः, न तु तदधिष्ठितो ब्राह्मणवर्णः । इहापि तेन चतुस्सङ्खयापूरणादग्रयप्रायन्यायेन क्षत्रादिविभागवत्तदभिमानीन्द्रदिसृष्टिर्विवक्षितेत्यवगम्यते, न तु तदधिष्ठितवर्णमात्रसृष्ठिः । “तदग्निनैव देवेषु ब्रह्माभवत् ब्राह्मणो मनुष्येषु” इत्युक्तिः पूर्वं ब्राह्मणवर्णस्य ब्रह्मशब्दानुक्ततां ज्ञापयति, पूर्वोक्तानामिन्द्रक्षत्रियादीनामनया वचनव्यक्तया पुनरनुक्तत्वात् । न हि क्षत्रवर्णो देवेष्विन्द्रेण क्षत्रमभवत् मनुष्येषु क्षत्रियेणेति वाक्यं श्रूयते, अत एवाग्नेरपि ब्रह्मशब्दानुक्तत्वं सिद्धम् । न हीन्द्रो देवेष्विन्द्ररूपेण क्षत्रमभवन्मनुष्येषु क्षत्रियेणेति वाक्यमस्ति । ननु “क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रः” इति श्रूयत इति चेत्, ततः किम्? वर्णान्तरेष्वपि द्वैविध्यं प्रतीयत इति चेन्न, तदग्निनैवेत्यादिवाक्यवैरूप्यात् । न हि क्षत्रवर्णो देवेष्विन्द्रादिरूपेण क्षत्रियोऽभूत् मनुष्येषु क्षत्रियेणेति श्रुतम्, तथापि वर्णान्तरद्वैविध्यपरत्वेऽध्याहारबाहुल्यप्रसङ्गः, तर्हि अस्याः श्रुतेः कोऽर्थः? उच्यते; ब्राह्मणाभिमान्यग्निसृष्टेः पूर्वमुक्तत्वात् क्षत्राद्यभिमानीन्द्रादिसृष्टिमिहोक्तवा अग्निसृष्टिः स्मारिता तदग्निनैवेति वाक्येन; अग्निनेतीत्थम्भावे तृतीया । अग्निना विशिष्टं तत्परं ब्रह्म देवेषु ब्रह्माभवत्, अग्निद्वारा ब्राह्मणाभिमान्यभवदित्यर्थः । अनेन इन्द्रादिद्वारा परब्रह्मण एव क्षत्राद्यभिमानित्वमित्यर्थसिद्धम्, वर्णाभिमानिदेवतानाञ्च तपोविशेषात् ब्राह्मण्यादिविभागोऽस्तीति वा ब्राह्मक्षत्रादिव्यवहारः “ब्रह्मा बृहस्पतिः क्षत्रमिन्द्रः मरुतो वै देवानां विशः” इत्यादिश्रुतेः । तदानीमग्न्यादिद्वारा परब्रह्मण एव ब्राह्मणत्वादिविभागः उक्तः स्यात्, “बहु स्या"मिति सर्वविधबहुत्वं हि तत्तद्द्वारा ब्रह्मगतम्, एवं वर्णाभिमानिदेवतासृष्टिरुक्ता । अथाभिमानविषयभूतब्राह्मणादिसृष्टिं “ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः” इत्यादिश्रुतिप्रसिद्धामुपजीव्य तद्द्वारा तत्फलभूतमानुषवर्णविभागगाक्तवं परमात्मन उच्यते ब्राह्मणो मनुष्येष्विति । तत्परं ब्रह्म मनुष्येषु ब्राह्मणरूपभाक् तद्द्वारा ब्रह्माभवत्, क्षत्रियेण विशिष्टं सत्तद्ब्रह्म तद्द्वारा क्षत्रियत्ववदभूत्, यथा भूमिद्वारा काठिन्यवदभूत्तद्वदित्यर्थः । श्रुतपदानुषङ्गेण निर्वाहे सम्भवति वाक्याध्याहारेण योजनानुपपत्तेः, मध्येऽग्निर्ब्राह्मणयोः प्रशंसा “तस्मादग्नावेव देवेषु लोकमिच्छन्दो ब्राह्मणो मनुष्ये” ष्विति । तत्प्राशस्त्यहेतुमाह- एताभ्यां हि रूपाभ्यां ब्रह्माभवदिति । अग्निब्राह्मणरूपाभ्यां परं ब्रह्म विशिष्टमभवदित्यर्थः । इन्द्रक्षत्रादीनां च परमात्मरूपत्वाविशेषेऽपि अग्निर्ब्राह्मणयोस्तद्रूपत्वकथनं तत्प्रशंसाया

विवक्षितत्वात्, एताभ्यां हीत्यादिवाक्यस्य वर्णद्वैविध्यपरत्वं प्रयोजनाभावादयुक्तम् । न हि वर्णद्वैविध्यमात्रकथनमुत्कर्षाय भवति, इदञ्च वाक्यमुत्कर्षोपपादकमिति हिशब्देन ज्ञायते, ब्रह्मशब्दार्थवैरूप्यं तु “तपसा चीयते ब्रह्म” “तस्मादेतद्ब्रह्म” इति मुण्डोपनिषदीव घटते । मुख्यार्थासम्भवे लाक्षणिकार्थस्वीकारस्य

तत्सम्भवेप्यमुख्यार्थस्वीकारहेतुत्वाभावात्; वक्ष्यते हि “स्याच्चैकस्य ब्रह्मशब्दवदिति । पूर्वपक्षहेतेषु क्षत्रविट्छूद्रसृष्टयुक्तेरन्यथासिद्धिरुक्ता, किञ्च क्षत्रादिवर्णत्रयसृष्टिश्रवणेन “ब्रह्म वा इद” मितिवाक्यस्य कारणवाक्यसारूप्यनिबन्धनं परमात्मपरत्वं भङ्क्तवा ब्रह्मशब्दस्य प्रथमवर्णतदभिमानिदेवताविषयत्वाश्रयणमयुक्तम्, “सदेवे” त्यादिवाक्येऽपि तेजोऽबन्नसृष्टेर्वक्ष्यमाणत्वेन सच्छब्दस्याऽपि वायुतदभिमानिदेवताविषयत्वप्रसङ्गात् । “स विशमसृजते” ति पुल्लिङ्गनिर्देशस्त्वात्मशब्दाभिप्रायः,

एतद्ब्राह्मणोपक्रमे हि “आत्मैवेदमग्र आसी” दिति श्रूयते; अतस्स इति निर्देशो न क्षत्रप्रशंसार्थः

प्रस्तुतब्राह्मणशब्दाभिप्रायः, व्यवहितशब्दानुगुणलिङ्गभाक्तवं सर्वनामपदस्य श्रुतिषु दृश्यते, यथा मुण्डोपनिषदि “यस्सर्वज्ञस्सर्ववित् यस्यैष मविमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः । मनोन्मयः प्राणशरीरनेता प्रतिष्ठितोऽन्तहर्हृदयं सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभाति” इति । अत्रात्मशब्दे सन्निहितोऽपि ब्रह्म, तल्लक्षणमुच्यत इति व्यवहितब्रह्मशब्दाभिप्रायेणामृतं यत्तदिति निर्दिश्यते, न तु “स त आत्माऽन्तर्याभ्यमृतः” इतिवत्पुल्लिभ्गत्वेन । नन्वस्मिन्नेव ब्राह्मणे “तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावैत् यस्मात् सर्वमभव"दिति पृष्ट्वा तदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तद्यो देवानां प्रत्यबुध्यत स एव तदभवत्तर्थषीणां तथा मनुष्याणा"मिति ब्रह्मशब्दवाच्यस्य अविद्यातिरोहितस्य अहं ब्रह्मास्मीतिज्ञानेनसर्वात्मभावापत्तिश्रवणात् परब्रह्मणोऽविद्यातिरोधनासम्भवात् ब्राह्मणादिषु तत्सम्भवादुपक्रमस्थब्रह्मशब्दो ब्राह्मणवर्णपर इत्यत्रापि तदनुरोधेन ब्राह्मणवणर्परत्वं ब्रह्मशब्दस्योपपन्नमिति नैवम्; उपक्रमेऽपि ब्रह्मशब्दस्य परमात्मपरत्वात्तत्र च नाविद्यातिरोधानं श्रूयते, तद्वाचकशब्दाभावात्; तथा हि, ब्रह्मविद्यया सर्वं भविष्यन्तः, सवर्शब्दवाच्यपरमात्मपर्यन्ताविर्भावकामाः, मनुष्या मन्यन्ते किमु तद्ब्रह्मावैत् यस्मात्तत्सर्वमभवदिति, तद्ब्रह्म किं वेद्यं वस्त्वन्तरमवैत् यस्माद्वेदनात् तत्सर्वमभवदिति ब्रह्मणोऽपि परं तदुपास्यं वस्त्वस्ति न वेति बुभुत्सोत्थापिता । उपास्यान्तरशून्यमित्युत्तरमाहतदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति । आत्मानमेवावैत्- न त्वन्यदुपास्यम्, तस्मात्तत्सर्वमभवदित्यर्थः । अन्यवेदनस्योपायतानिषेधे तात्पर्यम्, न तु स्ववेदनस्योपायत्वविधाने । यथा “स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता नचाधिपः” इति कारणान्तरनिषेधेन परमकारणत्वसिद्धिः, एवमुपास्यान्तरनिषेधेन ब्रह्मणः परमोपास्यत्वमिह विवक्षितम् । कारणान्तराभावफलमुपास्यान्तराभावः, कारणस्यैव हि ध्येयत्वम्, एवमुपास्यान्तरशून्यं ब्रह्म जानतः फलमाह “तद्योय” इति । अतः उपक्रमैकार्थ्यं च परमात्मपरत्वसाधकम्; तस्मात् “ब्रह्म वा इदमग्र आसीदेकमेवे” वत्यादिवाक्यस्य परमपुरुषस्य परत्वं सिद्धम् । तथा बृहदारण्यक एव “आत्मैवेदमग्र आसीत्पुरुषविधः सोऽन्वीक्षन्नन्यदात्मनोऽपश्यत्” इत्यादि श्रूयते, इहात्मशब्दादीक्षणाच्च चेतनस्य प्रतिपाद्यत्वेऽपि न स परमात्मा, स हि निरतिशयानन्दः, इह च सोऽभिभेत्तस्मादेकाकी ह बिभेति स सहायमीक्षाञ्चक्रे इति भयान्वयोऽवगतः, परमात्मा हि न भयाश्रयः “भीषास्माद्वातः पवते” इत्यादि श्रुतेरिति । उच्यते; अयं परमात्मा, कारणवाक्यसारूप्यादस्य वाक्यस्य, अग्र आसीदिति कारणवाक्यत्वं हि प्रतीयते । अस्यात्मनः पुरुषविधत्वं चानन्दमयत्वं ज्ञापयति “आत्मन आकाशः सम्भूतः” इत्युपक्रम्य “अन्योऽन्तर आत्मानन्दमयः” इत्युक्तवा तस्य पुरुषविधत्वप्रतिपादनात् “स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन ओषत् तस्मात्पुरुषः” इति सर्वपाप्मप्रदाहकत्वपुरुषशब्दवाच्यत्वावगमाच्च पर एव भयान्वयस्तु न परमात्मनः, किन्तु तत्कार्यभूतपुरुषस्य, “सोऽहमस्मीत्यग्रे व्याहरत्तरोऽहं नामाभव"दिति तत्रैव ह्युक्तम् । अहमिति हिरण्यगर्भनाम अहमभिमानाश्रयव्यष्टिपुरुषाणां प्रथमत्वाद्धिरण्यगर्भस्य, तथा मोक्षधर्मे च चतुर्मुखास्याहङ्कारसञ्ज्ञत्वमवगम्यते “मया सृष्टः पुरा ब्रह्मा यद्यज्ञमयजत्स्वयम् । ततस्तस्मै वरान् प्रीतो ददावहमनुत्तमान् । मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च । अहङ्कारकृतं चैव तथा पर्यायवाचकम्” इति । तत्रैव भृगुभरद्वाजसंवादे “तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो विधिः । अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् । ब्रह्मा वै सुमहातेजा य एते पञ्च धातवः” इत्युक्तत्वात्; तस्मादयमर्थः, अहमस्मि- अहं स्यां चतुर्मुखः स्याम्, इति सङ्कल्पवाक्यं व्याहरत्ततोपहंनामा चतुर्मुखोऽभवदित्यर्थः । अतश्चतुमर्ुखरूपस्य परमात्मनः प्रकृतत्वात्तस्य सर्वपाप्मप्रदाहकत्वं साक्षाद्विशेषणमुक्तम्, तद्रूपभूतश्चतुर्मुखः सोऽविभेदिति भयाश्रयतयोच्यत इति, अतः आत्मा परमात्मेति स्थितम् । तथात्रैव बृहदारण्यके श्रूयते

“नैवेह किञ्चनाग्र आसीन्मृत्युनैवेदमामृमासीदशनाया हि मृत्युः तन्मनोऽकुरुता"त्यादि । अत्र मृत्युसञ्ज्ञो न परमात्मा, तदसाधारणधर्माश्रवणात्तस्याशनायाविशिष्टत्वाच्च, “अविजिघत्सोऽपिपासः” इति हि परः श्रूयते, सोऽर्चन्नचरदिति तस्यार्चनादिकर्मकर्तृत्वं श्रूयते, परश्चाकर्मवश्यः, " स एष सर्वेभ्यः पाप्मभ्य उदितः अपहतपाप्मे"तिश्रवणात्; अत एव अप्तत्त्वसृष्टया नारायण इति च न शङ्कयम् “अपहतपाप्मा दिव्यो देव एको नारायण” इति तस्यापहतपाप्मत्वात्; अतः प्रसिद्धमृत्युरिह विवक्षितः, सूर्यो वा ? तदर्कस्यार्कत्वमित्युक्तत्वात् ।

उच्यते;अग्र इति कारणावस्थत्वादयं मृत्युसञ्ज्ञोऽचिच्छरीरकः परमात्मा “यस्य मृत्युशरीरं स दिव्यो देव एको नारायण” इति श्रुतेः, अशनाया नाम जगत्सञ्जिहीर्षा; तद्वत्तया अशनायाशब्दस्तस्मिन् प्रयुक्तः, तन्मनोऽकुरुतेति मनस्कारश्च परत्वसाधकः, अर्चन्निति पदस्यायमर्थः, अर्चनम् प्रीणनम् कर्मकारकं च स्वयमेव, अश्रुताध्याहारादपि प्रकृतस्यैव कर्मत्वोपपत्तेः “लक्षणहेत्वोःक्रियाया” इति शत्रन्ततया जगद्य्वापारलीलया स्वात्मानं प्रीणयितुमचरदित्यर्थः । अपां सृष्टिश्च स्रष्टुर्नारायणत्वे लिङ्गम्, “एको ह वै नारायण आसी “दित्युपक्रम्य “ता इमा आपः” इति श्रुतेः । अर्कशब्दश्च परस्मिन् प्रीणनगुणयोगाद्वर्तते, अत एव हि भगवन्नामसहस्रे पठ्यते “अर्को वाजसनः शृङ्गी " इति । अपां रपः- सारांशः । “तत्समहन्यत सा पृथिव्यभव"दिति ब्रह्माण्डसृष्टिरुच्यते । “ता इमा आपः तद्धिरण्मयमण्डमभव"दिति महोपनिषदैकार्थ्यात् अतोमृत्युशरीरो नारायण इह प्रतिपाद्यः । सुबालोपनिषदि “तदाहुः किं तदासीत्तस्मै स होवाच न सन्नासन्न सदसदिति तस्मात्तमः सञ्जायत” इति श्रूयते । अत्रेक्षणादिकं नावगम्यते धर्मिवाचिशब्दश्च सद्ब्रह्मादिर्न प्रयुक्तः, अतस्सदसदनिर्वचनीयं कारणं प्रतीयते, उत्तरत्र प्रतिपाद्यमानो नारायण एव न परमकारणम्, तमः प्रभृतिसृष्टिमुक्तवा “तदण्डं समभव"दिति अण्डोत्पत्तिमभिधाय “मध्ये पुरुषो दिव्यः सहस्रशीर्षा पुरुषः” इति तस्य कार्यान्तर्वर्तित्वप्रतिपादनात् “मृत्युर्वै परे देव एकीभवति परस्तान्न सन्नासन्न सदसदिति सदसदुभयविलक्षणस्य देवात् परत्वं चावगम्यते । नैवम्, उच्यते; कारणत्वादेव नारायणपरत्वं सिद्धम् । अस्यामुपनिषदि नारायणस्यैव भूयो भूयः प्रतिपादनं च तात्पर्यलिङ्गम् “योऽयं विज्ञानघन उत्क्रामन् स केन कतरद्वा स्थानमुत्सृज्योत्क्रामति तस्मै स होवाचे"त्युपक्रम्य “अपुनर्भवाय कोशं भिनत्ती “त्यारभ्य “अक्षरं भित्त्वा मृत्युं भिनत्ति मृत्युर्वै परे देव एकीभवति परस्तान्न सन्नासन्न सदसत्” इति मृत्योः परे देवे एकीभावः श्रूयते; मृत्युश्च तमः, स्थानप्रमाणात्तद्धि अक्षरात्परं श्रुतम्, अतस्तमस्संज्ञमृत्योः कारणं सदसदुभयविलक्षणतयोक्तं वस्तु परो देव इति प्रतीयते, विभागापादानस्यैव अविभागस्थानत्वात्, परो देवश्च नारायणः “दिव्यो देव एको नारायणः” इत्युक्तत्वात् । न च देवात्परं सदसदुभयविलक्षणम्; किन्तु देव एव, मृत्युस्रंज्ञातमोपादानाविभागस्थानयोरेकत्वात्, अतस्तमोऽपादानत्वाविभागस्थानत्वाभ्यां देवत्वावगमाद्देवस्य नारायणत्वान्मुक्तप्राप्यत्वाच्च नारायण एव सदसदुभयविलक्षणः । केवलाच्चेतनादचेतनानान्मिश्रिततदुभयरूपव्यष्टिभ्यश्च विलक्षणतया नारायणो न सन्नासन्न सदसदित्युच्यते, “मध्ये पुरुषो दिव्यः” इति वाक्यं तस्याण्डमध्ये स्वसृष्टचतुर्मुखरूपेणावस्थानं दर्शयति, केवलपुरुषशब्दश्चतुर्मुखपरः, तच्छरीरकः परमात्मा “सहस्रशीर्षा पुरुष” इत्युच्यते । “सोऽग्रे भूतानां मृत्युमसृज"दिति त्रिशिरस्कमृत्युसृष्टिश्चतुर्मुखरूपधरपरमात्मकर्तृका; अत एव हि तस्य ब्रह्माभिभीत इत्यनन्तरमुच्यते, अतो न सन्नासन्न सददित्युक्तं जगत्कारणं नारायण इति स्थितम् । “असावादित्यो ब्रह्मेति ब्रह्मैव

सन् ब्रह्माऽप्येति य एवं वेद तदुक्तमृषिणा सूर्य आत्मा जगतस्तस्थुपश्च” इत्यादिष्वपि असावादित्य इत्यपरोक्षनिर्देशापवादकचिदचिद्य्वावर्त्तकधर्मान्तराश्रवणात् प्रसिद्धादित्यो मुमुक्षूपास्य आत्मेति न शङ्कनीयम् जगदन्तरात्मत्वस्य

ब्रह्मसाम्यापत्तिपूर्वकब्रह्मप्राप्तिरूपमोक्षोपायभूतवेदनविषयत्वस्य च परमकारणव्याप्तत्वात्, कारणत्वस्य च

परमपुरुषत्वसादकत्वादवयवशक्तया अपर्यवसानाद्वा सूर्यादिशब्दवाच्यपरमपुरुषविषयं सूर्य आत्मेत्यादिवाक्यम् । तथा प्रश्नोपनिषदि च “कुतो स वा इमाः प्रजा जायन्त इति तस्मै स होवाच प्रजाकामो ह वै प्रजापतिः स तपोऽतप्यत रयिं च प्राणञ्चेत्येतौ मे बहुधा प्रजाः करिष्यन्त इत्यादित्यो ह वै प्राणो रयिरेव चनद्रमाः” इत्यादि श्रूयते । इहापीक्षणतवशेषनिरतिशयानन्दाद्यश्रवणात् “स तपोऽप्यते"ति कर्माधीनसृष्टयवगमाच्च चतुर्मुख एवेति न शङ्गनीयम्, किन्तु चन्द्रादित्यादिसृष्टेरण्डान्तर्वर्तिविषयामाश्चतुर्मुखकर्त्तृकत्वसम्भवेऽपि तदन्तर्यामिपरमपुरुष एव प्रजापतिशब्दवाच्यः, अपर्यवसानादवयवशक्तया वा तस्यैव वाच्यत्वं स्यात्, अस्मिन्नेव खण्डे परब्रह्मप्राप्तेरुक्तत्वात् । “तपसा ब्रह्मचर्येण श्रद्धया विद्यया आत्मानमन्विष्यादित्यमभिजायत” इत्युक्तवा “एतस्मान्न पुनरावर्त्तन्त” इति अर्चिरादिगत्याऽनावृत्तिप्रतिपादनात् “येषां तपो ब्रह्मचर्यं येषु सत्यं प्रतिष्ठितं तेषामसौ विरजो ब्रह्मलोकः” इति निर्दोषपरमात्मलाभवचनाच्च । ब्रह्मैव लोको ब्रह्मलोकः, विरजशब्देन प्रसिद्धब्रह्मलोकव्यावृत्तेः, अतः परमात्मपरत्वं हि प्रतीयते । उत्तरखण्डेषु च “एष हि द्रष्टा श्रोता घ्राता रसयिते"त्यादिना प्रत्यगात्मा विशोध्यते, ततश्चोपरिष्टात् “परं पुरुषमभिध्यायीत"“परात्परं पुरीशयं पुरुषमीक्षते” इति परमपुरुषोपासनं तत्प्राप्तिरूपफलं च श्रूयते; अत उपक्रमे प्रजापतिशब्दवाच्यो महावाक्यस्वारस्यात्परमपुरुष इति सिद्धम् । “हिरण्यगर्भस्समवर्त्तताग्ने” इत्यत्रापि प्रसिद्धहिरण्यगर्भ एव कारणत्वेन विवक्षितः, तद्य्वावर्त्तकदमर्ानवणात् । न ह्यत्र समस्तकार्योत्पत्त्यनुगुणेक्षणविशेषानवधिकानन्दाकर्मवश्यत्वादयोऽवगम्यन्ते, पृथिव्यादिधारकत्वं तु न व्यावर्त्तकम्, अण्डान्तर्गतपदार्थधारणादेरण्डाधिपतौ सम्भवात्, अमृतमृत्युशब्दौ च देवभोग्यप्राणापहर्त्तृविषयाविति तयोसन्नियाम्यत्वम् पृथिव्याद्याधारत्वादीनां चिदचिद्य्वावर्त्तकत्वेऽपि परमपुरुषासाधारणत्वाभावात्प्रसिद्धहिरण्यगर्भपरत्वम्- इति शङ्कायामुच्यते; हिरण्यगर्भशब्दो भगवत्परः, अग्रे समवर्त्ततेति कारणत्वश्रवणात् अनवच्छिन्नं पतित्वञ्च भगवदसाधारणम् “पतिं विश्वस्य” इति नारायणानुवाके श्रवणात् । तस्य चानन्यपरत्वं वक्ष्यते, द्युपृथिव्यादिधारणं च तदसाधारणम् “विष्णुना विधृते भूमी” इति श्रुतेः, कारणप्रकरणस्थावमृतमृत्युशब्दौ मुक्तबद्धपराविति ब्नधमोक्षहेतुत्वं च तदसाधारणम्, “तमेवं विद्वानमृत इह भवति नान्यः पन्थाः” इति श्रुतेः । “यस्य विश्व उपासते प्रशिष्टं यस्य देवाः यत्राधिसूर उदितो व्येति” इति प्रतिपादितम् आदित्यादिसर्वदेवतानियमनञ्च तत्प्रत्यभिज्ञापकम्, “भीषास्माद्वातः पव्रते भीषोदेति सूर्यः य आदित्ये तिष्ठन् यः सर्वेषु देवेषु तिष्ठन्” इत्यादिश्रुतिप्रसिद्धेः । किञ्च “यमन्तस्समुद्रे कवयो वयन्ति विद्युतः पुरुषादघी"तिसमुद्रान्तर्वर्त्तिविद्युद्वर्णपुरुषप्रतिपादकेन “अम्भस्यपारे” इत्यनुवाकेन लक्ष्मीपतित्वप्रतिपादकेनोत्तरनारायणेनास्याष्टर्चस्यैकत्वाच्च नारायणपरत्वम् । “अभ्द्यस्सम्भूतो हिरण्यगर्भ इत्यष्यौ” इति ह्युच्यते । श्रीविष्णुस्मृतौ च भगवत्समाराधने “हिरण्यगर्भस्समवर्त्तताग्र इत्यष्टामिर्हविर्निवेदये"दिति हविर्निवेदने विनियोगादस्याष्टर्चस्य भगवत्प्रतिपादकत्वमवगम्यते, अत एव “हिरण्यगर्भः शत्रुघ्नः” इति भगवन्नामसहस्रे पठ्यते, अतोऽत्र हिरण्यगर्भशब्दवाच्यो नारायण इति स्थितम् । अत एव “सूर्याश्चन्द्रमसौ धाता यथा पूर्वमकल्पयत्” इत्यत्र धातृशब्दश्च परमपुरुषविषयो निश्चितः । इदं हि वाक्यम् “अम्यस्यपारे” इत्यनुवाकस्थम् । नन्वत्राप्युपक्रमे “प्रजापतिश्चरति गर्भे अन्त"रिति प्रजापतिः श्रुतः । प्रजापतिश्च हिरण्यगर्भः, समुद्रशायित्वलिङ्गसचिवपुरुषशब्दश्रुतेरुपक्रमोपसंहारस्थप्रजापतिधातृशब्दरूपश्रुतिद्वयपरास्तत्वादिति । न उपक्रमस्तप्रजापतिशब्दस्य हिरण्यगर्भपरत्वानुपपत्तेः । “तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमाः । तदेव शुक्रममृतं तद्ब्रह्म तदापस्य प्रजापतिः” इत्यग्निवाय्वादीनामिव प्रजापतेरपि कारणभूतप्रजापतिविभूतितया तद्य्वतिरेको ह्यवगम्यते, यथा “यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुः । यो देवानां देवतमस्तमोजाः तस्मा इन्द्राय सुतमाजुहोमि” इत्यत्र इन्द्रशब्दवाच्यस्य प्रसिद्धेन्द्रव्यतिरिक्तत्वावगमः, अतः “सूर्याचन्द्रमसौ धाता” इत्यत्र धातृशब्दस्तपश्शब्देन पूर्वप्रस्तुतपरमात्मपरः । अत एव “धातुः प्रसादान्महिमानमीश"मित्यत्र धातृशब्दोपि व्याख्यातः, मुमुक्षुपास्यत्वस्य कारणत्वव्याप्तत्वात्, “अजस्य नाभावध्येकमर्पितं यस्मिन्निदं विश्वं भुवनमधिश्रितं विश्वकर्मा ह्यजनिष्ट देवः स प्रजापतिरेकः पुष्करपर्णे सम्भवत्” “यन्नाभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृग्विश्वरूपः तत्र ब्रह्मा चतुर्मुखोऽजायत नारायणाद्ब्रह्मो जायते” यो ब्रह्माणं विदधाति

पुर्व"मित्यादिभिश्चतुर्मुखस्य भगवन्नभिपद्मसृष्टत्वावगमात्कार्यभूते तस्मिन्नसम्भवेन मुमुक्षुपास्यत्वस्य

भगवदसाधारणत्वादुपक्रमभूते अम्भस्यपार इत्यनुवाके “य एनं विदुरमृतास्ते भवन्ती “ति भगवत एवामृतत्वप्राप्त्युपायताप्रतिपादनस्यानरोद्धव्यत्वात्, उपक्रमस्थधातृशब्दैकरूप्यस्य न्याय्यत्वात् उत्तरे चानुवाके चतुर्मुखशिवयोरिन्द्रवन्नारायणविभूतित्वप्रतिपादनादस्मिन्नप्यनुवाके “यस्मात्परं नापर"मिति मन्त्रेण परमपुरुषस्यैव सर्वस्मात्परत्वप्रतिपादनात् । ब्रह्मकार्यवर्गप्रतिपादनप्रकरणे “ब्रह्मा देवानां पदवीः कवीना"मितिमन्त्रेण प्राणसमुद्रादीनामिव चतुर्मुखस्य कार्यत्वावगमाच्च । ननु सप्त प्राणाः प्रभवन्तीतिवन्नोत्पत्तिः श्रूयते, न; महिषस्येनादीनामिवोत्पत्तेः प्रकरणसिद्धत्वात्तस्य बाधकाभावाच्च । ननु यस्मात्परमित्यतः पूर्वमेव “विश्वाधिको रुद्रो महर्षि"रिति श्रवणात् “यः परः स महेश्वरः” इत्युपसंहारे श्रुतत्वाच्च धातृशब्दस्यापि रुद्रपरत्यवं न्यायमिति । उच्यते; उपक्रमत्थया प्रबलस्य धातृशब्दस्य रूढिपरित्यागे को हेतुः? उपसंहारो हि दर्बलः, रुद्रमहेश्वरशब्दरूपश्रुतिद्वयमिति चेत् तथापि न बाधकत्वम्, तुल्यबलत्वात् धातृपदश्रुतिरेकाप्युपक्रमस्थतया अनुगृहीता, रुद्रमहेश्वरश्रुत्योरनेकत्वेऽप्युपक्रमविरोधाद्दुर्बलत्वम्; तस्मात्तुल्यबलता । “किञ्च यो देवानां प्रथमं पुरस्तात्” “यः परस्य महेश्वरः” इत्यनुवादरूपवाक्यस्थत्वाच्च दौर्बल्यमधिकम्, अतो धातृरुद्रमहेश्वरशब्दानामन्योन्यविरोधात् अन्योन्यबाध्यबाधकभावानुपपत्तेश्च, अर्थनिश्चायकत्वेऽनुपपन्ने सति प्रमाणान्तरायत्तोऽर्थनिश्चयः, तत्र धातृशब्दस्य भगवत्परत्वमुपपादितम् तदुपपादकहेतुभिः धातृशब्दरूढित्यागेनाग्न्यप्रायन्यायाच्च रुद्रमहेश्वरशब्दयोरपि रूढित्यागस्य न्यायत्वात् । “यो देवानां यः पर” इत्यनुवादस्यान्यसापेक्षत्वात् “अ इति ब्रह्मा” इति श्रुत्या ब्रह्मणोऽकारवाच्यत्वावगमात् ब्रह्मणश्च लक्षणं जगत्कारणत्वमिति कारणवाक्यप्रतिपाद्यनारायणस्याकारवाच्यत्वावगमात् तस्य लोप्रकसिद्धत्वात् “अकारोच्यते विष्णुः” इति श्रुत्यन्तराच्च नारायणस्याकारवाच्यत्वसिद्धेश्च रुद्रमहेश्वरशब्दौ रोदयति महानीश्वर इति अवयवशक्तया भगवत्पराविति युक्तम् । नारायणस्यैव यच्छब्दानूदितत्वात् तस्यैव हि महेश्वरत्वरूपगुणविधानं युज्यते, न हि जुहूमनूद्य विधीयमानं पर्णमयत्वं कपालस्य भवति; अतो धातृरुद्रमहेश्वरशब्दवाच्यो नारायण इति स्थितम् । अत एव श्वेताश्वतरोपनिषदि च “विश्वाधिको रुद्रो महर्षिः हिरण्यगर्भं जनयामास पूर्वम्” इति वाक्यं च व्याख्यातम्, अनुवादरूपतया पूर्वोदाहृतप्रमाणान्तरसापेक्षत्वात् । तथ हि; बह्वृचशतपथसुबालमहोपनिषत्सामचनादिभिर्हिरण्यगर्भजन्यत्वे श्वेताश्वतरवाक्येन, हिरण्यगर्भजनकत्वे च रुद्रस्यावगम्यमाने तयोरविरोधेन निर्वाहासम्भवे प्राबल्यदौर्बल्यचिन्ता युक्ता, अविरोधश्च वस्त्वैक्येन वा कल्पभेदेन वा जन्मनोऽवताररूपतया वा सम्भवेत् तत्र तावद्वस्त्वर्ैक्यमिह नाविरोधनिर्वाहक्षमं भवेत्, क्षीराद्दधि दध्नः क्षीरमितिवचनयोरिवावस्थाद्वयपौर्वापर्यविपर्यासविरोधस्य दुष्परिहरत्वात् । कल्पभेदादविरोधकल्पनं सूर्याकाशप्राणादिष्वपि प्रसजेत् । ननु अनुतस्य कल्पभेदस्य कल्पनमनन्यथासिद्धेन स्यात्, सूर्याकाशादिविषयवाक्यानां परमात्मपरतया

प्युपपत्तौ न तत्कल्पनमिति चेत्, इहापि तुल्यम् । अवतारपक्षोऽपि इन्द्रादिप्रकरणेष्विव हिरण्यगर्भरुद्रप्रकरणेष्वपि तस्याश्रुतत्वादिन्द्रदीनामिव कर्मवश्यत्वं प्रतिपादयन्त्यामुत्पत्तिश्रुतौ परिथिन्यामन्यतरोत्पत्तेरवताररूपत्वकल्पनायोगादनुपपन्नः । रुद्रस्यानपहतपाप्मत्वं च शतपथेऽवगतम् “अनपैतपाप्मा वाऽहमस्मी “ति रुद्रवचः । अत एवैक एवेश्वरः कदाचिद्धिरण्यगर्भावस्थात्स्वस्मात् रुद्ररूपोऽवतरति कदाचिद्रुद्रावस्थात्स्वस्मात् हिरण्यगर्भरूपोऽवतरतीति कल्पनमप्यनुपपन्नम्, गौरवनिरस्तं च; वस्त्वैक्यं द्वयोरुत्पत्त्योरवताररूपत्वमपि हि कल्प्यम् । वस्त्वैक्यकल्पभेद

जन्मद्वयावताररूपत्वपक्षेषु रुद्रोत्कर्षनादिमतं च न जीयति; एवं विरोधस्य दुष्परिहरत्वे सति

हिरण्यगर्भरुद्रशब्दयोरन्यतरपदप्रसिध्द्यनादरेण निर्वाहः स्याद्यथाऽऽकाशादिपदानाम् । तत्र हिरण्यगर्भशब्दस्य प्रसिध्द्यनादरेण स्कन्दाद्युत्पत्तिरुक्ता स्यात्, ततश्च रुद्रस्य परमकारणत्वं न सिद्धयेत्, चतुर्मुखकार्यत्वस्य श्रुत्यन्तरावगतस्यानपोदितत्वात्; ततोपि रुद्रशब्दस्यैव प्रसिध्द्यनादरो न्यायः, प्रसिद्धेतरार्थपरिगृहस्य मानान्तराधीनत्वान्मानान्तरप्रसिद्धिद्योतकस्य यद्वृत्तस्य रुद्रसामानाधिकरण्याच्च रुद्रशब्दस्य मानान्तरानुगुणेऽर्थे निश्चिते तावतैव विरोधस्य परिहृतत्वेन हिरण्यगर्भशब्दप्रसिध्द्यनादरे कारणाभावात्; तथा च श्रुतयो रुद्रस्य कार्यत्वं हिरण्यगर्भस्य स्रष्टृत्वं चावगमयन्ति; बह्वृचे तावत् “तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेष नृम्णः । सद्यो जज्ञानो निरणाति शत्रून्” इति । न चास्य मन्त्रस्य उदगादिति ब्राह्मणानुरोधेनादित्यविषयत्वं शङ्कनीयम्, भूतपतित्वसद्योजातत्वाभ्यामुग्रशब्दरूढिबलाच्च रुद्रविषयत्वसिद्धेरुदयलिङ्गस्य दुर्बलत्वात् उदगादितिपदस्य तदुत्पत्तिदर्शनयोरन्यरतपरत्वेऽपि मुख्यवृत्तिभङ्गाभावाद्विरोधिहेत्वन्तराभावाच्च । तथा सुबालोपनिषदि “अपानान्निषादा यक्षराक्षसगन्धर्वाश्चास्थिभ्यः पर्वता लोमभ्य ओषधिवचनस्पतयो ललाटात्क्रोधजो रुद्रोऽजायत” इति । महोपनिषदि “अथ पुनरेव नारायणः सोऽन्य कामं मनसा ध्यायीत त्र्यक्षः शूलपाणिः पुरुषोऽजायत” । नारायणोपनिषदि “नारायणाद्रुद्रोऽजायत” इति । बृहदारण्यके “ब्रह्म वा इदमग्र आसीत्तदेकं सन्नव्यभत् यान्येतानि देवक्षत्राणि इन्द्रो वरुणस्सोमो रुद्रः पजर्न्यो यमो मृत्युरीशानः” इति । शतपथे चाष्टमूर्तिब्राह्मणे “अभूद्वा इदमप्रतिष्ठे"त्यारभ्य “भूतानां च प्रजापतिः संवत्सरायादीक्षत भूतानां पतिर्ग्रहपतिरासीदुषाःपत्नी " त्यादिकमुक्तवा “भूतानां पतिस्संवत्सर उषसि रेतोऽसिञ्चत्संवत्सरे कुमारोऽजायत सोऽरोदीत् तं प्रजापतिरब्रवीत्कुमार किं रोदिषि यच्छ्रमात्तपसोऽधिजातोऽसीति सोऽब्रवीदनपहतपाप्मा वा अहमनाहितनामा नाम मे घेहिपाप्मनोऽपहत्या इति तं प्रजापतिरब्रवीत् रुदोऽसीति तदस्य तन्नामाकरोदग्निस्तद्रूपमभवत् अग्निर्वै रुद्रो यदरोदीत्तस्माद्रुद्रः सोऽबवीज्ज्यायान्वा अहमस्मि घेह्येव मे नामेति तं प्रजापतिरब्रवीत् भवोऽसीति शर्वोऽसीति ईशानोऽसीति पशुपतिरसति उग्रोऽसीति भीमोऽसीति महादेवोऽसीति” इति । अत्र “प्रजापतिः संवत्सरो महान् क” इति संवत्सरशब्दवाच्यतया प्रसिद्धचतुर्मुखसृष्टत्वादनपहतपाप्मत्वतद्दत्तसंज्ञामूर्त्यष्टको रुद्रः प्रतीयते । शैलालिब्राह्मणे चतुर्मुखाद्रुद्रोत्पत्तिः श्रूयते । साम्नि च “विरूपाक्षाय दत्ताञ्जये ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठायामोधाय कर्माधिपतये” इति ब्रह्मपुत्रत्वं रुद्रस्य प्रतीयते । तचुर्मुखस्य नारायणात्मकत्वाद्रुद्रस्य नारायणसृष्टत्वश्रुतिश्चाविरुद्धा । “क इमामसिष्यतीति रुद्र इत्यब्रवीद्रुद्रो वै क्रूरः सोऽस्यत्विति सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति” तस्मात् रुद्रः पशूनामधिपतिरिति देवतावरदानलब्धपशुपतिभावः प्रतिपाद्यते, तथा “अस्य देवस्य मीढुषो वाव विष्णोरेतस्य प्रभुदे हविर्भिः विधेहि रुद्रियं महित्वम्” इत्यनेन च पूर्वोदाहृतवचनानुग्रहात्स्वारस्याच्च भगवताराधनबललब्धमहिमत्वं रुद्रस्यावगम्यते, अतन्चतुर्मुखसृज्यस्य भगवत्समाराधनलब्धमहिम्नो रुद्रस्य चतुर्मुखसृष्टत्वं युक्तम् । ननु परमकारणत्वं शिवशब्दवाच्यस्यैव श्रूयते “यदा तमस्तम्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः” इति न; तस्य भगवदसाधारण्यस्य बहूपनिषद्वक्यैर्न्यायानुगृहीतैर्निश्चितत्वात् । किञ्च नारायणमहापुरुषादिशब्दानामसाधारणत्वात् बहूपनिषत्स्थत्वात् एकोपनिषद्यभ्यस्तत्वात्साधारणानामेकोपनिषत्स्थानां शिवादिशब्दानां तदनुरोधेन वर्णनीयत्वादिहाप्युपसंहारादिपर्यालोचनायां भगवत्प्रत्वभिज्ञापकबहुविशेषणदर्शनाद्विशेषतः पुरुषसूक्तैकार्थ्यावगमाच्च शिवरुद्रादिशब्दानामपि परमपुरुषपरत्वसिद्धेः “रुद्रो बहुशिरा बभ्रु"रिति भगवति रुद्रशब्दः प्रयुक्तः । अग्नौ च “रुद्रो भूत्वाऽग्निरनूत्थायाध्वर्युं च यजमानं च हन्या"दिति प्रयुक्तः, “शिवः शिवानामशिवोऽशिवानां” शिवास्ते सन्तु पन्थानः” शिवमस्त्वि” ति । विशेषतो भगवति च “शाश्वतं शिवमुच्यत"मिति शिवशब्दः प्रयुक्तः । पुल्लिङ्गैकवचनान्तस्त्वसाधारण इति चेत्तर्हि प्रतिपादिकसाधारण्यमनुज्ञातं भवति, पुल्लिङ्गैकवचनान्तोऽप्यसाधारणो न भवति, तादृशस्याप्यर्थान्तरपरत्वशक्तयनपगमादरुणः कपिल इति शब्दवत् न हि तौ रविसारथिमुनिविशेषासाधारण्यादर्थान्तरप्रत्यायनशक्तिविधुरौ भवतः । नैवं नारायणमहापुरुषादिशब्दा अन्यत्र

प्रयुक्ताः, “महादेवं वा महापुरुषं वाऽचर्ये"दिति देवताविशेषविषयो हि प्रयोगः । पुरुषशब्दोऽपि स्वतो भगवद्विषयः, “पुरुषो वै रुद्र” इत्यप्यस्तीति चेत् सत्यम्, स च भगवद्विषय एव, “सर्वो वै रुद्र” इत्यस्योपपादनाय रुद्रस्य पुरुषात्मकत्वपरत्वाद्वाक्यस्य “सर्वगत्वादनन्तस्य स एवाहमवस्थितः” इतिवत्, अतो हिरण्यगर्भकार्यतया

श्रुत्यन्तरसिद्धस्य तज्जनकत्वायोगः । किञ्च न केवलमनुवादरूपत्वादस्मिन्वाक्ये रुद्रशब्दस्य भगवद्विषयत्वनिश्चयः, किन्तु हिरण्यगर्भजनकत्वविशेषितत्वाच्च तस्य भगवद्विषयत्वनिश्चयः, तज्जनकत्वस्य नारायणचिह्नत्वात्, यथा “सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते” इति परमपुरुषस्य नामरूपनिर्वोढृत्वश्रवणात् “आकाशो ह वै नामरूपयोर्निर्वहिते"त्यत्र आकाशशब्दस्य भगवद्विषयत्वनिश्चयः तद्वत् । न चानयैव श्रुत्या हिरण्यगर्भजनकत्वं रुद्रचिह्नमिति शङ्कनीयम्, हिरण्यगभर्जनकताया रुद्रचिह्नतानिश्चयस्य हिरण्यगर्भजन्यत्वश्रुतिप्रतिबद्धत्वात् भगवतो हिरण्यगर्भजन्यत्वश्रुत्यभावेन तज्जनकतायास्तच्चिह्नतानिश्चयस्यानपवादत्वाच्च । अस्य वाक्यस्य रुद्रपरत्वनिश्चये सति हिरण्यगर्भजनकत्वस्य रुद्रचिह्नत्वनिश्चयः, तन्निश्चये सति अस्य वाक्यस्य रुद्रपरत्वनिश्चय इत्यन्योन्याश्रयश्च, अनुवादरूपत्वाच्च रुद्रपरत्वनिश्चय इत्युक्तम् । किञ्च कार्यभूतस्य विश्वाधिकत्वायोगाद्विश्वाधिकत्वविशेषितरुद्रशब्दस्य विशोकत्वोपलक्षितसत्यकामत्वादिविशेषितस्य “तत्राऽपि दह्नं गगनं विशोकः दहरोऽस्मिन्नन्तर आकाश” इत्यादिवाक्यस्थगगनादिशब्दस्येव प्रसिद्धार्थपरत्वाभावेन भगवत्परत्वं सिद्धम् । नन्विदमिष्टं रुद्रशब्दस्य कार्यव्यवच्छेदेन कारणरुद्रपरत्वम्, सत्यम्; स तु परमपुरुष एव, तस्यैव परमकारणत्वात् । ननु रुद्र एव कारणावस्थः प्रतिपाद्यत इति चेदिन्द्र एव वा आकाश एव वा कारणावस्थः तत्तद्वाक्यप्रतिपाद्यः किं न स्यात्? इन्द्रादेः प्रसिद्धस्यैव परमकारणावस्थासद्भावे मानान्तराभावादिति चेत्, तत एवात्राऽपि प्रसिद्धस्यैव परमकारणत्वासिद्धिरिति तुल्यम्; शिवादिशब्दानां विशेषोपस्तापनाक्षमत्वमुक्तम्, अतोऽस्य वाक्यस्य भगवद्विषयत्वं सिद्धम् । यद्यपि कल्पभेदेन हिरण्यगर्भजनकत्वेऽपि रुद्रस्य, न भगवतः परमकारणत्वविरोधः, तथाऽपि न्यायपर्यालोचनायां नारायणपरत्वं रुद्रशब्दस्य युज्यत इति प्रतीयते । किञ्चास्यामप्युपनिषदि “प्रथमद्वितीयखण्डयोः देवात्मशक्तिम् प्रेरितारं च मत्वा” व्यक्ताव्यक्तं भरते विश्वमीशः, यदात्मतत्त्वेन तु ब्रह्म तत्त्वं दीपोपमेनेह युक्तः प्रवश्येत् “ज्ञात्वा देवम् एको हि देवः प्रदिशोऽनु सर्वाः” इति देवात्मप्रेरित्रीशब्रह्मशब्दैः परमात्मा निर्द्दिष्टः, ते च दिव्यो देव एको नारायणः “विश्वं नारायणं देवमक्षरं

परमं प्रभुम्” “आत्मा नारायणः परः अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः ईशः सर्वस्य जगतः “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्” इत्यादिवाक्यप्रतिपन्ननारायणप्रत्यभिज्ञापकाः, अत्रेशशब्दश्च न रूढः प्रयुक्तः, किन्तु योगात्, “अनीशश्चात्मा” “द्वावजावीशनिशौ” ईशः सर्वस्येति निर्देशस्य सप्रतिसम्बन्धितया अवयवार्थविवक्षाज्ञापकत्वात् । “अनन्तश्चात्मा विन्वरूपो ह्यकर्त्ते"तयत्रानन्तशब्दस्तु योगरूढः, रूढ्यविवक्षानिमित्तसप्रतियोगिकनिर्द्देशाभावात् । तृतीये च “य एतद्विदुरमृतास्ते भवन्ति” इत्यनेन “अम्भस्यपार”

इत्यनुवाकः प्रत्यभिज्ञाप्यते । स हि परमपुरुषविषयः, एवमुपक्रमो भगवत्परः । “एको हि रुद्र” इत्यस्यानन्तरं “विश्वतश्चक्षुरुत विश्वतो मुखः” इत्यादिमन्त्रश्च भगवत्प्रत्यभिज्ञापकः, तस्य विद्युद्वर्णपुरुषविषयत्वात् । “द्यावापृथिवी जनय"न्निति च “शीर्ष्णोद्यौस्तमवर्तत पद्य्भां भूमि"रितिवाक्यप्रत्यभिज्ञापकम् “यो

देवाना"मितिवाक्यमनुवादरूपमिति स्फुटम् । कार्यस्य परमकारणत्वायोगाद्रुद्रशब्दस्य कार्यरुद्रव्यतिरिक्तविषयत्वे सति वाक्यस्यानुवादरूपतया योग्यार्थप्रापकवाक्यानुगुण्मत्रत्यभगवदसाधारणविशेषणानुगुणं च भगवद्विषयत्वनिश्चयः । “या ते रुद्र शिवा तनू"रित्यतोऽनन्तरं “ततः परं ब्रह्म परं बृहन्त” मिति वाक्यं च “नारायणः परं ब्रह्मे"ति महोपनिषत्प्रत्यभिज्ञापकम् । “ईशं तं ज्ञात्वा अमृता भवन्ती “त्यत्र ईशशब्दः पूर्ववद्यौगिकः, वैरूप्यायोगाद्वेदाहमेतमित्यनन्तरवाक्यस्थैतच्छब्दश्च पूर्वरुद्रशब्दवाच्यस्य महापुरुषतामवगमयति, प्रकृतपरामशित्वात् । “ततो यदुत्तरतर"मिति वाक्यन्तु “परमतस्सेतून्माने"त्यत्र उपपादयिष्यते । सर्वाननशिरोग्रीवत्वञ्च पुंसूकार्थस्मारकम्, सर्वव्यापिपदन्तु “सर्वं व्याप्य नारायणः स्थित” इत्येतत् स्मारयति । भगवच्छब्दस्तु “भगवान् पवित्रं वासुदेवः पवित्रं भगवान् वासुदेवः परा प्रकृतिः परं पवित्रं भगवान् वासुदेवः ये भगवन्तं वासुदेवमेवं विदु"रिति वासुदेवासाधारणः । अत एव हि स्मर्यते “एवमेष महाशब्दो मैत्रेय भगवानिति । परब्रह्मभूतस्य वासुदेवस्य

नान्यगः” इति । सत्त्वप्रवर्त्तकत्वं भगवत इति स्फुटम्, “यो ह खलु वा अस्य सात्विकोऽशः सोऽसौ ब्रह्मचारिणोऽयं विष्णु"रिति मैत्रायणीयश्रुतेः ।अन्तरात्मत्वं च तथा सुबालोपनिषत्प्रत्यभिज्ञापकत्वात् । “हृदा मनीषे"ति तु विद्युद्वर्णपुरुषस्मारकम् । अथ “सहस्रशीर्षे"त्यादिमन्त्रद्वयमेवाधीतम्, ईशानपदं तु

नपुंसकत्वाद्यौगिकमेव,न तु रूढम्; पुल्लिङ्गताप्रसङ्गात् । “सर्वस्य शरणं सुहृ"दिति “माता पिता भ्राता निवासश्शरणं सुहृद्गतिर्नारायणः” इति श्रुतिप्रत्यभिज्ञापकम् । “तमाहुरग्रयं पुरुषं महान्त"मिति महापुरुष एव स्पष्टमुक्तः । धातृशब्दमपि महापुरुषशब्देनैकार्थयति “अणोरणीया"निति । चतुर्थे च “द्वा सुपर्णे “त्यादिमन्त्रद्वयं

मुण्डोपनिषदैकार्थ्यात्परमपुरुषपरत्वज्ञापकम् । अतः “मायिनं तु महेश्वर"मिति महेश्वरशब्दो मायाप्रेरकत्वपरः, “सर्वलोकमहेश्वरम्” “क्षीरोदस्योत्तरं तीरं जग्मुर्लोकहितार्थिनः । इतस्सद्वारम्” इत्यारभ्य “वाक्यं स्वस्थो महेश्वर” इत्यादिषु यौगिके महेश्वरशब्दो भगवति प्रयुक्तः । “यस्मिन्निदं सञ्चविचैति सर्व “मिति प्रकृतस्य सर्वस्य नियन्तृत्वमीशानशब्देनोच्यते । पूर्वम् “अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मे"त्युक्तत्वा त्तत्र “ईशानो भूतभव्यस्ये"ति ईशनस्य प्रतिसबन्ध्यभिधानेन रूढिविरहावगमात्, भूतभव्यशब्दनिर्दिष्टस्य इह सर्वशब्देन प्रतिपन्नत्वाच्च । “य ईशोऽस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम” इत्यनेन “हिरण्यगर्भे” इत्याद्यष्टर्चतुल्यविषयत्वं प्रतीयते, तच्च भगवत्परमित्युपपादितम्, एवं भगवत्परानेकोपनिषदैकार्थ्यप्रतीतेः “ज्ञात्वा स्थितम्” “शिव एव केवलः” इति शिवशब्दद्वयं तत्परमेव । मुहुरभ्यस्यमानस्यापि शिवशब्दस्य रूढार्थत्याग आकाशशब्दस्येवोपपन्नः, “आकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायानाकाशः परायण"मिति ह्याकाशशब्दोऽभ्यस्तः । किञ्च “सर्वव्यापि च भगवांस्तस्मात्सर्वगतः शिवः” इत्ययं शिवशब्दः प्राकरणिकशिवशब्दानां माङ्गल्याभिप्रायत्वमेव दर्शयति, सर्वगतत्वेऽपि भगवच्छब्दवाच्यत्वान्निर्दोष इति हि तस्यार्थः, अन्यथा सर्वव्यापिसर्वगतशब्दयोः पुनरुक्तिप्रसङ्गात् । “तदक्षरं तत्सवितुर्वरेण्यं ध्रुव"मित्यनेन “अक्षरं परमं प्रभुम्” “एतत्सवितुर्वरेण्यं ध्रुवमचलममृतं विष्णुसंज्ञं सर्वाधारं धामे"ति श्रुतिद्वयैकार्थ्यमवगम्यते । “हृदा मनीषे"ति वाक्यं “नैनमूर्द्द्व “मित्यादिमन्त्रद्वयं च मध्यगतवाक्यस्थशिवशब्दस्य परमपुरुषविषयतां ज्ञापयति, तद्धि वाक्यत्रयं समुद्रान्तर्वर्तिविद्युद्वर्णपुरुषविषयम्; अतः “मानस्तोक” इति मन्त्रस्थरुर्दशब्दोऽप्यवयवशक्त्या अपर्यवसानाद्वा भगवद्विषयः, अत पञ्चमेपि “भावाभावकरं शिव"मिति शिवशब्दो व्याख्यातः । षष्ठे च कालस्यापि परिच्छेदकः काल उक्तः । भगेशम्- ऐश्वर्यादीनां षण्णामीशम् । ऐश्वर्यादिनिर्वाहकत्वस्य निरङ्कुशत्वमेवोक्तं “तमीश्वराणां परमं महेश्वर"मिति । महेश्वरमिति यौगिकनिर्देशः, न तु रूढार्थपरः । वाक्यस्यैश्वर्यपारम्यप्रतिपादकत्वादीश्वराणामिति प्रतिसम्बन्धि निर्द्देशाच्च, देवतानां परमं दैवतं पतीनां परमं पतिमित्यनन्तरनिर्देशवत् । तद्धि वाक्यं दैवतत्वपतित्वपारम्यपरम्, तत्र दैवतपतिशब्दौ न क्वचिद्देवताविशेषे रूढौ, महेश्वरशब्दश्च तत्स्थानीय इति स्फुटम् । “न तत्समश्च” परास्य शक्ति"रित्यादिनिश्च तत्पारम्योपपादनम् । “एको देव” इत्यादिवाक्यस्थविशेषणानि च नारा

यणप्रत्यभिज्ञापकानि । “गूढोत्मा न प्रकाशते” व्याप्य नारायणः स्थितः” सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो एको नारायणः” इत्याद्यैकार्थ्यात् । “न तत्र सूर्यो भाति"इति मन्त्रश्च मुण्डकोपनिषत्कठवल्लयधीतत्वात् विष्णोः प्रत्यभिज्ञापकः “नान्यःपन्था” इति पुंसूक्तं स्मारयति । ईशादिशब्दानां यौगिकत्वमीशनस्य निरुपाधिकत्वं दर्शयति “स ईशोऽस्ये"ति । “यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह शरणमहं प्रपद्ये अमृतस्य परं सेतु"मिति निर्द्देशाश्च नारायणत्वासावकाः, य इत्यनुवादरूपत्वात् ब्रह्मणो

भगवन्नाभिसम्भवत्वश्रुतेर्दशितत्वात् “निवासः सुहृद्गतिः नारायण” इति श्रुतत्वात् “अमृतस्यैव सेतु"रिति मुण्डकोपनिषदि श्रुतत्वाच्च । “यदा चर्मवदितिवाकयमुपायान्तराभावपरं “नान्यः पन्था” इत्युक्तार्थविवरणरूपम्; एवमुपक्रमोपसंहारादिभिः भगवत्परत्वावगमादस्या उपनिषदो भगवत्परत्वं सिद्धम् । ननु महापुरुषादिशब्दानां शिवादिशब्दसमभिव्याहृतानां

शिवपरत्वं स्यात्, सत्यम्; यद्येकविषयत्वमिष्टं शब्दानाम्, इष्टं तत्, ते हि शब्दा एकविषयाः । यदि परमपुरुषेतरविषयत्वम्, न, साधारणस्यायोग्यार्थस्य च शब्दस्य योग्यार्थासाधारणबहूपनिषत्स्थशब्दोपस्थापितविशेषपर्यवसानं हि युक्तमिति भिदा । न हि छागशब्दः पशुमात्रे पर्यवस्यति, न च परमात्मादिशब्दः प्रसिद्धाकाशे पर्यवस्यति, योग्यत्वायोग्यत्ववैषम्यन्तु विशदयिष्यतेऽनन्तरमेव, अतः परमपुरुषविषयत्वमुपनिषदः स्थितम् । एवमीश्वरमहेश्वरपुरुषमहापुरुषादिशब्दानां भगवद्विषयत्वात् प्रपदनोपदेशशिरस्कत्वाच्चास्या उपनिषदो भगवद्गीतैकार्थ्यं स्फुटतरम् । यत्तु कैश्चिज्जल्पितम्; सोपपदनिरुपपदपुरुषशब्दवाच्यात्तथाविधेश्वरवाच्यस्य प्रकर्ष इति तदतिक्षुद्रम्, तथा सोपपदनिरुपपदेन्द्रशब्दवाच्यस्यान्तप्रकर्षप्रसङ्गात् । “इदि परमैश्वर्य्ये " इति धातोर्हीन्द्रशब्दनिष्पत्तिः । “इन्द्रो महेन्द्रः सुरनायको वा” इति हि प्रसिद्धिः । श्रुत्यादिविरोधे समाख्यादौर्बल्यात् सृज्यतया संहार्यतया चावगतस्येन्द्रस्य सर्वस्मात्परत्वमनुपपन्नमिति चेत् तुल्यम् । किञ्च जीवविषयपुरुषशब्दो निकृष्टार्थविषय इति परमात्मनः पुरुषशब्दवाच्यत्वं न निकर्षाय भवति । न ह्यात्मशब्दो जीवेऽपि प्रयुक्त इति परमात्मन आत्मशब्दवाच्यतया निकर्षः स्यात् । न हि हरिशब्दो मण्डूकवाचीति हरिशब्दवाच्यतया सिंहस्य मण्डूकसाम्यमिन्द्रस्यादित्यस्य वा तदुभयसाम्यं भगवतो वा तैः साम्यं भवतीति । अर्थवशिखायाञ्च “कारणं तु ध्येयः सर्वैश्वर्यसम्पन्नः सर्वेश्वरः शम्भुराकाशमध्ये ध्येयः” इति प्रतिपाद्यमानं धेयत्वं परमपुरुषसाधारणधर्मान्तराश्रवणात् प्रसिद्धशम्भुविषयम् इति न शङ्कनीयम्; कारणत्वस्य तदसाधारण्यादेव तद्य्वाप्तस्य मुमुक्षुध्येयत्वस्यापि तदसाधारणत्वात् । किञ्चास्य प्रकरणस्य “कश्च ध्येय” इत्युपक्रम्य “कारणं तु ध्येय” इत्यनेन कारणत्वमनूद्य ध्येयत्वविधिपरत्वरवगमात् पुरुषसूक्तादिप्रतिपन्नस्यैव परमात्मनो ध्येयत्वविधानपरमिदं वाक्यम् । न च शम्भुः कारणमिति वाक्यवृत्तिः, किन्तु कारणं शम्भुर्ध्येय इति, अन्यथा “कश्च ध्येय” इत्यास्योत्तरत्वायोगात् शम्भुशब्दस्यासाधारण्येप्याकाशप्राणादिशब्दवत्परमात्मपरत्वं न्यायम्, न चायमसाधारणः, “शम्भुः स्वयम्भूर्द्रुहिण” इति नामपाठात् । तथा नारदीयपुराणे रुक्माङ्गतचरिते ब्रह्माणं प्रति यमवचने “ृणु मे वचनं शम्भो पितामह पितामह । मरणादधिकं देव यत्प्रतापस्य खण्डनम्” इति, तत्रैव “तमेव देवताश्रेष्ठ सम्प्राप्ते हरिवासरे । यदि चालयसे धैर्यात्ततोऽहं तव किङ्करः । स मे शत्रुर्महान् शम्भो तेन लुप्तः पदो मम” इति द्रुहिणविषयतया प्रयुक्तत्वात् “विन्वाक्षं विश्वसम्भुवम्” इति भगवत्यपि श्रौतप्रयोगाच्च । “ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे सम्प्रसूयन्त” इत्युत्पत्तिवादश्चानुवादरूपत्वात् प्रापकवाक्यानुरोधीति भगवदुत्पत्तिरवताररूपानूद्यते । भगवता सूत्रकारेणैव अर्थवशिखावाक्यस्थस्य शम्भुशब्दस्य भगवद्विषयत्वमुत्पत्तेरवताररूपत्वञ्च उपबृंहितम् “इति नारायणः शम्भुर्भगवान् जगतः प्रभुः । आदिश्च विबुधान् सर्वानजायत यदोः कुले” इति । अवतारवचने शम्भुशब्दस्य नारायणविशषयदर्शनात्पूर्ववाक्यप्रतिपन्नस्य भगवज्जन्मनोऽवताररूपत्वं शम्भुशब्दस्य भगवद्विषयत्वं च हि दर्शितम् । ईशानशब्दश्च यौगिकः कारणविशेषणम्, “सर्वस्येशान” इति श्रुत्यन्तरे सप्रतियोगिकनिर्देशादिहापि तत्प्रत्यभिज्ञानात् प्रयोगसाधारण्याच्च । मोक्षधर्मे हि “तस्मात्प्रसूतो यः कर्ता कार्यं कारणमेव च । सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु” इति भगवति प्रयुज्यते, तत्र भगवद्वचनेन “नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते मामेकमीशानं पुरुषं लोकजीवन"मिति च प्रयुक्तः । नतु न कारणं विशेष्यम्, किन्तु शम्भुरेव कारणशब्दस्तु तद्विशेषणम्, अन्यथा “कारणं तु ध्येय” इति पुल्लिङ्गानुपपत्तेः । सत्यम्, शम्भुशब्दो विशेष्यसमपर्कः, ततः किं? प्रसिद्धशम्भोर्ध्येयत्वसिद्धिरिति चेन्न; कारणशब्दस्य कार्यशम्भुव्यावर्त्तकत्वात् । न च कारणत्वादिति हेतुगर्भता कल्प्या, कार्यत्वस्य श्रुतिसिद्धत्वात् भगवतः प्रसूयन्त इति उत्पन्नेऽप्यस्य वाक्यस्यानुवादरूपत्वात् अनुवादस्य प्रापकानुरोधित्वादुत्पत्तिप्रापकवाक्येषु चाकर्महेतुकत्वेनातत्फलार्थत्वेन च विलक्षणतया

भगवज्जन्मनस्स्वेच्छाकृतस्य निरङ्कुशैश्चर्याविरोधित्वादजहत्स्वभावतया विचित्रैश्वर्योद्दीपकत्वाच्च परमकारणत्वाप्रच्युतेः । स्वपारतन्त्रावहकर्त्रन्तराभावो हि परमकारणत्वम् । “न चास्य कश्चिज्जनिता न चाधिप” इति हि श्रुतिः । अवतारवैलक्षण्यं च “अजायमानो बहुधा विजायते” इति प्रतिपाद्यते । अजायमान इति सांसारिकयज्जन्मनिषेधः, न स्वरूपनित्यत्वपरः, नापि जन्ममिथ्यात्वपरः, अस्मद्देहादेरपि स्वरूपनित्यत्वादेरविशिष्टतया “तस्य धीराः

परिजानन्ति योनि"मितिवाक्यस्य निरर्थकत्वप्रसङ्गात् । इदञ्च स्पष्टमुच्यते “येन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृमान्योनियोनौ । नावेदविन्मनुते तं बृहन्तं सर्वानुभूमात्मानं साम्पराये । एष नित्यो महिमा ब्राह्मणस्य न कमर्णा वर्धते नो कनीयान् । तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन” इति योनियोनावित्यनेन परिजानन्ति योनिमिति श्रुतिः प्रत्यभिज्ञायते । “येन सूयर्स्तपती “त्यनेन “तस्य भासा सर्वमिदं विभाति” इति मुण्डोपनिषत्, सा हि परमपुरुषपरा । “नावेदविन्मनुते तं बृहन्तमित्यनेन “वेदाहमेत"मिति, “धीराः परिजानन्ती “ति श्रुतिः । “पदवि"मिति पदशब्देन “तत्ते पदं सङ्ग्रहेण ब्रवीम्योमिति” “तद्विष्णोः परमं पद"मिति कठश्रुतिः “न कर्मणे"त्यनेन “अपहतपाप्मा दिव्यो देव एको नारायण” इति वाक्यञ्च; अत इदं वाक्यं भगवद्विषयम् । पुत्रेण स्वकार्यभूतेन दशरथादिना पितृमत्त्वं तस्मावेदविदवेद्यत्वं तदवतारस्य अकर्ममूलत्वं तज्ज्ञानवतां भवभयध्वंसश्च ह्यत्र प्रतिपाद्यते ईदृशजन्मानुवादश्च ध्यानविध्युपयोगी इतरसृज्यसजातीयतया अवतीर्णस्योपासकसौलभ्यज्ञापनार्थत्वात्; एवमत्र प्रतिपन्नस्य भगवज्जन्मनः स्वेच्छावताररूपत्वादेव हि यदोः कुले जायमानो नारायणः शम्भुशब्देन महाभारते विशेष्यते । नन्वेवं सति ब्रह्मादीनामपि जन्म स्वेच्छावताररूपं किं न स्यात्? न, प्रापकवाक्यानुरोधित्वादनुवादस्य । कुतस्तेषां जन्मनः कर्ममूलत्वावगमः । उत्पत्तिश्रुतेरेव । उत्पत्तिश्चेत्कर्ममूलेत्यौत्सर्गिकम् भगवतस्तु अवतारश्रुत्या तदपोदितम् । अपवादाभावेऽप्यकर्ममूलत्वाश्रयणे सतीन्द्रादिजन्मनोऽप्यवतारत्वप्रसङ्गः, ब्रह्मादीनामिन्द्रादीनाञ्च जन्मनि विशेषाश्रवणादुत्पत्तिवदन्यत्रापि क्वचिद्भगवत इवाकर्मवश्यत्वाश्रवणाच्च “हिरण्मयः पुरुषः एष हि सर्वेभ्यः पाप्मभ्य उदितः” “अपहतपाप्मा दिव्यो देव एको नारायणः अपहतपाप्मा स उत्तमः पुरुषः” इति हि भगवतोऽकमर्वश्यत्वं श्रूयते । तदैक्याद्ब्रह्मादीनामकर्मवश्यत्वमिति चेन्न; इन्द्रादीनामपि

तथात्वप्रसङ्गात् ऐक्ये सति अकर्मवश्यत्वं, कर्मवश्यत्वरूपभेदकधर्माभावे सत्यैक्यमित्यन्योन्याश्रयश्च, भगवतोऽकमर्वश्यत्वं तु स्वप्रकरणसिद्धमिति नान्योश्रयः । एवमुत्पत्तिप्रापकवाक्यसिद्धं भगवतोऽजायमानस्य जायमानत्वरूपं ब्रह्मादिभ्यो वैलक्षण्यमत्रैवोच्यते “न कारणं कारणाना"मिति । न प्रसूयत इति विभक्तिविपरिणामेनानुषङ्गः । कारणानां कारणस्य भगवतो न ब्रह्मादिवदुत्पत्तिरित्यर्थः । “शिव एको ध्येय” इत्यत्राप्येकशब्दः प्राधान्यपरः, “किमेकं दैवत"मितिवत् । न ह्येकत्वशङ्खयाश्रयदेवताप्रश्नः, प्रश्नवैयर्थ्यात् तस्माच्छाश्वतं शिवमितिवत् सामाभ्यधिकरहित इति शिवो विशेष्यते, तेन प्रसिद्धशिवव्यावृत्तिः, अतोऽर्थवशिखायामपि भगवत एव ध्येयत्वं प्रतिपादितम् । यतो हिरण्यगर्भप्रजापतिधातृस्वयंभ्वादय ईशानशब्भुरुद्रमहादेवमहेश्वरपरमेश्वरादयश्च कारणविषयाः शब्दा अवयवशक्तया वा अपर्यवसानाद्वा नारायणपरा इति युक्तम् । अत एव हि भगवान् सूत्रकार एव भगवति तान् शब्दान् महाभारते प्रायुङ्क्त, यथा “हिरण्यगर्भश्शत्रुघ्नो व्याप्तो वायुरधोक्षजः” इति । कृष्णं प्रति द्रौपदी “पूर्वे प्रजानिसर्गेत्त्वामाहुरेकं प्रजापतिम्” इति । मोक्षधर्मे “एकस्तद्वेद भगवान् धाता नारायणः स्वय"मिति । आश्वमेधिके “विष्णुरेवादिसर्गेषु स्वयम्भूर्भवति प्रभुः” इति च स्वयम्भूर्विष्णुरेव चतुर्मुखोत्पत्तेः प्राचीनतत्त्वसृष्टौ प्रभुर्भवति, न चतुर्मुखादिरित्यर्थः । “सोऽनिरुद्धः

स ईशानो व्यक्तिः सा सर्वकर्मसु” इति इति नारायणः शम्भुर्भगवान् जगतः प्रभुः । आदिश्य विबुधान् सर्वान् अजायत यदोः कुले” इति “रुद्रो बहुशिरा बभ्रुः” तथा “नमश्चकार हृष्टात्मा परमं परमेश्वरम् । जगाद जगतां स्रष्टा परमं परधर्मवित्” इत्यारभ्य “वासुदेव तदेत्तत्ते मया गीतं यथातथ"मिति। “जय विश्व महादेव जय लोकहितेरत” इत्यारभ्य “नरायण सुदुष्पार ! जय शार्ङ्गधनुर्धरः” इति । “भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् । यो मामजमनादीं च वेत्ति लोकमहेश्वरम्” इति च “ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः । वेददृष्टेन विधिना

वैष्णवं क्र्रतुमाहरन्” इत्यारभ्य “ते कार्त्तयुगधर्माणो भागाः परमसत्कृताः । प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् । बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम् । ततोऽथ वरदो देवस्तान् सर्वानमरान् स्थितान् । अशरीरो बभाषेदं वाक्यं स्वस्थो महेश्वरः” इति च । अर्थवशिरसि च रुद्रस्यैव सर्वात्मभावादय उच्यन्ते, परमपुरुषासाधारणलिङ्गाभावात् सर्वात्मभावादयस्तु समस्तचिदचिद्य्वावर्त्तका अपि न तदसाधारणाः, अतो रुद्रस्यैते सम्भवन्ति; अत एवात्र प्रतर्दनविद्यान्यायोऽपि नावतरति, प्रसिद्धेन्द्रस्य क्षेत्रज्ञस्य चिदचिद्य्वावर्त्तकधर्मान्वयायोगात्तत्र तच्छरीरकपरमात्मोपासनपरत्वमुक्तम्, न तु परमपुरुषासाधारणधर्मासम्भवात् इन्द्रादीनामपि संहारादिकारणस्य रुद्रस्य चिदचिद्य्वावर्त्तकधर्मान्वयः सम्भवतीति स एव प्रतिपाद्यत इति न तच्छरीरकार्थान्तरपरत्वमिति शङ्कायामुच्यते; कारणत्वव्याप्तो यः कश्चिदपि चिदद्य्विावर्त्तकधर्मः परमपुरुषासाधारण इति स्थितत्वाद्रुद्रस्य तदसम्भवेन तच्छरीरकपरमात्मपरत्वमास्थेयम् । किञ्च रुद्रस्य सृज्यत्वादिश्रवणात्परमकारणत्वाभावश्च दर्शितः । संहार्यत्वं च “न ब्रह्मा नेशानः” इति । उपबृंहिता चेयं श्रुतिः श्रीविष्णुधर्मोत्तरे “ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः । एवमाद्यास्तथैवान्ये युक्ता वैष्णवदेजसा । जगत्कार्यावसाने तु वियुज्यन्ते च

तेजसा । वितेजसश्च ते सर्वे पञ्चत्वमुपयान्ति वै” इति । अतः कार्यकोटिनिविष्टस्य सर्वात्मभावाद्यसम्भवातप्रतर्दनोपासनन्यायेन तच्छरीरकपरमात्मपरतयैव निर्वाहो युक्तः । न चात्र न्यायापेक्षा, परमात्मानुप्रवेशस्य कण्ठोक्तेः । तथा हि; “देवा ह वै स्वर्गं लोकमगमन् ते देवा रुद्रमपृच्छन् को भवानिति सोऽब्रवीत् अहमेकः प्रथममासं वर्त्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं स प्राविशत्सोऽहं नित्योनित्यो ब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्चोदञ्चोऽहमधश्चोद्र्ध्वं चाहं दिशश्च विदिशश्चाहं पुमानहमपुमान् स्त्री यक्षश्चाहं सावित्र्यहं गायत्र्यहं त्रिष्टुप्जगत्यनुष्टुप् चाहम्” इत्यादि; तत्र सर्वात्मभावमनुसन्दधतो रुद्रस्य बुद्धिस्थः परमात्मा स इति परामृश्यते । सः अन्नमयादेरन्तरात्मनो बुध्द्यहङ्काररूपान्तः करणवर्गात् अन्तरम् जीवात्मानम्, सः परमात्मा प्राविशत् दिक्छन्दोपलक्षितवाह्यचेतनानामन्तरं च जीवं सः परमात्मा प्राविशदिति तदनुप्रवेशः कण्ठोक्तः । ननु सोऽन्तरादित्यादिकं श्रुतिवाक्यम्, न तु रुद्रवाक्यम्; तस्येतिकरणेन समाप्तत्वादिति न, सोऽहं नित्योनित्य इत्यादीनां रुद्रवाक्यानामनुगतिदर्शनेन रुद्रवाक्यापरिसमाप्तः । तथा सति सोऽब्रवीदितिवाक्यान्तराध्याहारप्रसङ्गः, स चानध्याहारे सम्भवति नोपपद्यते । तदयमर्थः, देवतात्वेन

साजात्येऽपि प्रभावातिशयदर्शनेन सन्देहाद्देवा अपृच्छन् को भवानिति । किमस्मदादिवद्देवतामात्रम्? उत परमकारणभुतः? इति प्रश्नाभिप्रायः । अहमेकमासमिति कारणत्वमुक्तम् । “प्रथममासं वर्त्तामि च भविष्यामी “ति सवर्ात्मभाव उक्तः, अन्वयमुखेनोक्तं व्यतिरेकेणोपपादयति नान्य इति । इतिर्हेतौ, मद्य्वतिरिक्ताभावादित्यर्थः । अयं सर्वात्मभावव्यपदेशः किं परमात्मत्वात्, उत परमात्मात्मकत्वात्? इति शङ्कायां परमात्मानुप्रवेशनिबन्धन इत्याह- सोऽन्तरादिति । स्वस्मिन् परमात्मानुप्रवेशस्य दृष्टान्ताभिप्रायेणेदमुक्तं दिशश्चान्तरमिति । यद्वा “नान्यः कश्चिन्मत्तो व्यतिरिक्तः” इत्युक्ते सर्वात्मव्यपदेशः कीदृश इत्याशङ्कायामाह- इतीति । इतिः प्रकारे, इत्थमित्यर्थः ।विवक्षितं सर्वात्मत्वप्रकारमाहसोऽन्तरादिति । यद्वा इतिशब्दस्योत्तरत्रान्वयः, दिशश्चान्तरं स प्राविशदितीति ।

यस्मात्परमात्मा प्राविशत् तस्मादस्मच्छरीरकपरमात्मनोऽन्यन्नास्तीत्यर्थः । अध्याहारादपि श्रुतपदस्यान्वयविशेषकल्पनं न्यायम् । अस्तु वा अयमितिशब्दःसमाप्त्यर्थः,उत्तरत्र च सोऽब्रवीदित्यध्याहारस्सह्यताम्, तदानीमप्ययमर्थः, सः रुद्रः दैहेनन्द्रियादेरनतरात् जीवादन्तरं परमात्मानं बुध्द्या प्राविशदिति । यथा “यस्य यस्य हि यो भावः तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत्” इति । एवं मामुपास्व तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च “सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सवर्महं सर्वं मयि सर्वं सनातने । अहमेवाव्ययो नित्यःपरमात्मेत्यचिन्तयत्” इतीन्द्रवामदेवप्रह्लादादीनामिव स्वान्तर्यामिपरमात्मबुध्द्या रुद्रस्य सर्वात्मभावोपदेश इत्युक्तं भवति । तथा ह्युपबृंहितवान् सूत्रकारस्त्रिपुरविजये “विष्णुरात्मा भगवतोभवस्यामिततेजसः”

ब्रह्मरुद्रसंवादे “तवान्तरात्मा मम च ये चान्ये देहिसञ्ज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित्” इति च । सोऽहमित्यादिना सर्वात्मभावप्रपञ्चनम् । द्वितीयखण्डो रुद्रवाक्यानुवादेन स्तुतिपरत्वात् तदन्तर्यामिपरमात्मविषयः । “यो वै रुद्रः स भगवा"निति यो रुद्रान्तयामी स वासुदेव इत्यर्थः । भगवच्छब्दस्य वासुदेवसाधारणत्वात् तच्च दर्शितम् “यो वै रुद्रः स भगवान् यश्च विष्णु"रित्यन्तर्यामिण एव अवताररूपविशिष्टत्वमुक्तम् । तृतीये तु परमात्मनो वैभवम् तद्वचकस्य ओङ्कारस्य नामधेयानि चतुर्थे । तन्निर्वचनं पञ्चमे । षष्ठे तु “तदेतदुपासितव्यं निचाय्य तं शानतिमेती “तिरुद्रशरीरकपरमात्मोपासनं साङ्गमुक्तम् “व्रतमेतत्पाशुपत"मिति पशुपतिरूपपरमात्मोपासनाङ्गतया पशुपतिसम्भद्धं पाशुपतम्, न तु पाशुपतगमप्रतिपाद्यम् तद्धितद्वयकल्पकाभावात् । समन्त्रकभसितस्पर्शनं तु प्रकरणगृहीतत्वान्न सर्वत्र प्राप्नोति, दर्शपूर्णमासप्रकरणगृहीतमयाजवत्सौत्रामणिप्रकरणगृहीतसुराग्रहवच्च; तस्मादर्थवशिरसि रुद्रान्तरात्मा नारायण एव प्रतिपाद्यः, यथा प्रतर्दनविद्यायामिन्द्रान्तर्यामी । “इन्द्रो मायाभिः पुरुरूप ईयते” “मामुपास्व” “इन्द्रं निचिक्युः परमे व्योम"न्निति कारणत्वोपास्यत्वप्राप्यत्वानीन्द्रविषयाणि, यथा प्रसिद्धेन्द्रव्यतिरिक्तविषयाणि व्याख्यातानि

तथैवान्यत्रापि रुद्रविषयाणि कारणत्वादिपराणि वाक्यानि नेतव्यानि, “स ब्रह्मा स शिवः सेन्द्रः” इति तस्येन्द्रतुल्यतया भगवद्विभूतित्वात् । ननु “हिरण्यगर्भः समवर्त्तताग्रे एको ह वै नारायण आसीत्” न सन्न चासच्छिव एव केवलः” इति, “विराजोऽधिपुरुषः इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः “ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे संप्रसूयन्ते” इति त्रयाणामपि कारणत्वे कार्यत्वे चाविशेषश्रुते नारायणानिशब्दानां रूढिमाश्रित्य हिरण्यगर्भादिशब्दानां प्रसिद्धार्थत्यागे को हेतुः? “आकाशादेव समुत्पद्यन्ते” “प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते इन्द्रो मायाभिः पुरुरूप ईयते “आत्मन आकाशः सम्भूतः, “एतस्माज्जायते प्राणः” इन्द्रो वरुणः” इत्याकाशप्राणेन्द्रादीनां च कार्यत्वकारणत्वश्रवणाविशेषेऽप्याकाशादिशब्दानां रूढित्यागे को हेतुः? कार्यतयावगतानां परमकारणत्वायोभ्यत्वमिति चेत्तुल्यम् । ननु न कारणविषययोर्हिरण्यगर्भरुद्रशब्दयोः प्रसिद्धार्थायोग्यता, कार्यत्वे

सति ह्ययोग्यत्वम् कारणविषयरुद्रादिशब्दाः प्रसिद्धपरा एव, कार्यविषयास्तु प्रसिद्धेतरविषयाः स्युः । न, कारणविषयाणां रुद्रादिशब्दानां प्रसिद्धार्थपरत्वे सत्येककारणत्वानुपपत्तेः । तदनुपपत्तिश्च रुद्रादिशब्दानामेकव्यक्तिविषयत्वेन व्युत्पत्त्यभावात् कारणैकत्वञ्चावर्जनीयम्, अन्यथा अद्वितीयत्वप्रतिज्ञादृष्टान्तसमाभ्यधिकनिषेधाद्यनुपपत्तेः, अतः कारणविषयाणां रूढित्यागे प्राप्ते सत्ययोग्यार्थानामेव रूढिरनादरणीया, न तु योग्यस्वार्थानामपि । इत्थं हिरण्यगर्भादिशब्दानां प्रसिद्धार्थयोग्यत्वं नारायणादिशब्दानां योग्यार्थत्वं च दर्शितम्; अतोऽन्यत्रापि रुद्रहिरण्यगर्भादिविषयाणि वाक्यान्येवमुन्ने

यानि । एवं दिङ्मात्रं दर्शितम् । अनन्ताः कारणपरवाक्यविशेषा एवं व्याख्येयाः । यतोऽनुवादरूपतया साधारणतया योम्येतरार्थतया योग्यार्थप्रत्यभिज्ञापकधर्मपरतया च प्रापकासाधारणयोग्यार्थतद्धर्मप्रत्यभिज्ञाप्यवस्तुविशेषविषयवाक्यसाकाङ्क्षाः सर्वे वाक्यविशेषास्तत्तदधिकरणन्यायानुगृहीता नारायणपराः, अत एव ह्युक्तं भगवता व्यासेन सूत्रकारेण “तत्त्वं जिज्ञासमानानां हेतुभिस्सर्वतो मुखैः । तत्त्वमेको महायोगी हरिर्नारायणः पर” इति । हेतुभिः- समन्वयलक्षणोक्तन्यायैः । सर्वतोमुखैः- तत्तन्मुखभेदभिन्नैरित्यर्थः । तथा सर्वविद्योपास्यश्च स एवेत्युक्तम् “आलोड्य सर्वशास्त्राणि विचायर् च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा” इति ।

आलोड्येत्यनेन प्रमाणनर्यालोचनमुक्तम्, विचार्येत्यनेन शास्त्रतः परीक्षणमुक्तम्, सुनिष्पन्नम्- बाह्यकुदृष्टयविचाल्यं निश्चितमित्यर्थः । तस्मादयोगान्ययोगव्यवच्छेदेन नारायणस्य कारणत्वं पादचतुष्टयेन प्रतिपादितमिति सिद्धम् । व्याख्याताव्याख्याता इत्युक्ते व्याख्यातशब्दस्य अव्याख्यातशब्दस्य च समासेनैकपद्ये सति सर्ववाक्यविशेषाणां व्याख्यातत्वमुक्तं न स्यादिति तह्युदासार्थमसमस्ततया पृथक्पदत्वं ज्ञापयन्नभ्यासस्य प्रयोजनमाह-

व्याख्याता इतीति - नन्वभ्यासस्य कथं समाप्तिद्योतकत्वम्? श्रुतिसमाधेरिति ब्रूमः, श्रुतिषु हि कर्मभागे ज्योतिष्टोमदर्शपूर्णमासादिविषयतत्तत्प्रकरणावसानेषु नाभ्यासो दृश्यते, वेदान्तेषु दृश्यते, यथा “न च पुनरावर्तते न च पुनरावर्त्तते” “नावर्त्तन्ते नावर्त्तन्ते” “अमृतः समभवदमृतः समभवत्” इति वेदानुसासनमिति वेदानुसासनम्” तस्माद्ब्रह्मणो महिमानमाप्नोति तस्माद्ब्रह्मणो महिमानमाप्नोति” इति च । अत्रायमभिप्रायः, कस्यचित्पुरुषस्य पुरुषार्थतदुपायप्रतिपादनं हि शास्त्रकृत्यम्, ज्योतिष्टोमादिज्ञानमात्रेण पुरुषार्थतदुपायज्ञानं वस्तुतो न परिसमाप्तम्,

अपवर्गतत्साधनयोरविदितत्वात् अमृतत्वतदुपायविशेषज्ञाने सति हि ज्ञातव्यज्ञानं समाप्तं भवति, तदधिकपुरुषार्थान्तरतदुपाययोरभावेनाज्ञातव्यत्वात् अपवर्गोपायभूतविद्यान्तरेषु सत्स्वप्येकेनैव विद्याविशेषेण पुरुषार्थसिद्धेर्विद्यान्तरस्य कृतकरत्वादनपेक्षितत्वेन ज्ञातव्यत्वनियमाभावात्; अतः पुरुषार्थसिध्द्यर्थं ज्ञातव्यार्थस्य समाप्तिसूचको वेदान्तभागेषु तत्तत्प्रकरणावसानस्थोऽभ्यास इत्यवगम्यते; अत एव कर्मविचारलक्षणावसानेष्वनभ्यासः शारीरलक्षणावसानेष्वभ्यासश्चेत्यवगम्यते, तत्राध्यायावसानशास्त्रावसानवैषम्यद्योतनार्थमाद्याध्यायत्रयावसानेषु पदाभ्यासः शास्त्रावसाने सूत्राभ्यासश्च कृतः । यादवमिश्रपक्ष

स्थास्त्वेवमाहुः- नाध्यायपरिसमाप्तिद्योतकत्वमभ्यासस्य युक्तम्, अर्थसमाप्तेरेवाध्यायपरिसमाप्त्यवगमात्सूचनस्य विफलत्वात्; अतोऽध्यायावसानसूचकोऽप्यभ्यासोऽर्थापरिसमाप्तिद्योतकः, अध्यायशेषार्थविचारश्च द्वाभ्यां पादाभ्यां वर्तिष्यते इति । नैतद्युक्तम्; काष्ठैः स्थाल्यामित्येतावता वाक्यार्थापरिसमाप्तावपि वाक्यपरिसमाप्तेरिवाध्यायार्थापरिसमाप्तावध्यायपरिसमाप्तेरनुपपन्नत्वात्कर्ममीमांसायामिवाध्यायानां पादचतुष्टयात्मकत्वनियममतिलङ्घय प्रथमाध्यायस्य पादषट्कात्मकत्वेन निबन्धनीयत्वप्रसङ्गाच्च । किं

प्रथमाध्यायार्थस्यैवापरिसमाप्तिद्योतक इत्युच्यते? उत वृत्तवर्त्तिष्यमाणयोः परस्परसाकाङ्क्षत्वद्योतकः इति । प्रथमे दूषणद्वयं दत्तम् । द्वितीये त्वभ्यासवैयर्थ्यमेव द्वितीयाध्यायनिबन्धनार्थस्वभावाच्च परस्परसाकाङ्क्षत्वसिद्धेः । शास्त्रान्ते सूत्राभ्यासश्चानुक्तनिखिलन्यायास्तित्वसूचक इति चायुक्तम्, अर्थापरिसमाप्तौ शास्त्रपरिसमाप्तेः काष्ठैः स्थाल्यामिति वाक्यसमाप्तिवदनुपपन्नत्वादध्यायान्तरनिबन्धने चिरं जीवतः सूत्रकारस्याशक्तयभावाच्च । अखिलन्यायजातमसम्भवविध्वस्तञ्च आदर्शनात् । साङ्खयादिषु शास्त्रेषु दृश्यत इति चेन्न, तत्राविरुद्धांशस्योपादेयताया विरुद्धांशस्य त्याज्यतायाश्चास्मिन्नेव शास्त्रे निर्णीतत्वात् सुगतागमादीनां कार्त्स्न्ेन त्याज्यतानिर्णयात् तदुक्तन्यायानामखिलन्यायत्वेनास्तित्वद्योतने हानोपादानरूपोभयविधप्रयोजनाभावात् इतिहासपुराणादीनां वेदान्तोपबृंहणतया जगत्कारणवस्तुविषयाणां मन्वादिधर्मशास्त्राणां जैमिनीयन्यायैरिव शारीरकन्यायैरेवानुगृहीतार्थत्वाच्च । किं तह्यभ्यासस्य फलम्? अर्थपरिसमाप्तिर्हि सर्वे व्याख्याता इत्यनेनैवावगता, उक्तन्यायाविषयवाक्याभावात्, नैवम्; “एतेन योगः प्रयुक्तः” “एतेन शिष्टापरिग्रहा” इतिवदेतच्छब्दस्यानन्तरपूर्वोक्तार्थकरामर्शकत्वे प्रकृत्यधिकरणोक्तन्यायपरामर्शितया निमित्तोपादानभेदपरवाक्यविशेषा व्याख्याता इत्युक्तं स्यात्; ततश्च सर्वे व्याख्याता इत्यननाप्यध्यायसमाप्त्यवगमो

न स्यात्, अतः पदाभ्यासेन अध्यायसमाप्त्यवगमे सत्येव एतच्छब्दस्य पादचतुष्टयोक्तन्यायपरामर्शित्वावगम इत्यध्यायपरिसमाप्तिद्योतनमभ्यासोऽनुपपन्न इति चेन्न, शास्त्रावसाने तु सर्वे व्याख्याता इतीदृशनिर्देशाभावाच्छास्त्रपरिसमाप्तेरभ्यासेनैव ज्ञाप्यत्वात् । पादावसानेषु पादार्थपरिसमाप्तावप्यनभ्यासः पादार्थस्याल्पतया ज्ञातव्यान्तरबाहुल्येन कृतांशसन्तोषाभावात्; अतोऽध्यायार्थपरिसमाप्तिद्योतनमेवाभ्यासप्रयोजनम्, न केवलमभ्यासप्रयोजनमेवानुपपन्नम्, तैः कृता सूत्रयोजनाऽप्यनुपपन्ना । प्रकृतेर्ब्रह्मत्वसमर्थनेन सर्वे महदादयोऽपि ब्रह्मत्वेन व्याख्याता इति हि तद्योजना । प्रकृतिश्चेति सूत्रे प्रकृतिशब्द उपादानपरः, न त्वव्यक्तपर इति समर्थनेन सा व्युदस्ता भवति । किञ्च प्रकृतेर्ब्रह्मानन्यत्वेन ब्रह्मण उपादानत्वे प्रतिपादिते महदादीनां ब्रह्मत्वं न पृथक् समर्थनीयम्, तेषां प्रकृतिकार्यतया तद्द्रव्यानन्यत्वात् । कार्यकारणयोरनन्यत्वं समर्थनीयमिति चेन्न; तस्यारम्भणाधिकरणकृत्यत्वात् “महतः परमव्यक्त"मित्यादिवाक्यानां च महदादितत्त्वप्रतिपादकत्वं चतुर्थाद्यविरुद्धम्, न च चतुर्थाद्ये वैभववादः, इह त्वर्थतत्त्वोक्तिरिति कल्प्यम्, अस्य सूत्रस्य गत्यन्तरसम्भवेन कल्पकाभावात्, महदादितत्त्वप्रतिपादनपरत्वे “पुरुषान्न परं किञ्चि"दितिवाक्यस्य प्रकृतिपुरुषातिरिक्तेश्वरनिषेधकत्वप्रसङ्गाच्च । एतेन- प्रधानकारणनिरासेन, सर्वे परमाण्वादिकारणवादा हेयतया व्याख्याता इति भास्करः । तदप्ययुक्तम्; तत्स्वरूपप्रतिक्षेपस्य तर्कपादकृत्यत्वात्पूर्वमकृतत्वाच्च । तेषां श्रुतिसिद्धत्वं प्रतिक्षेप्यमिति चेत्, उदाहृतवाक्यानामतत्परत्वं तन्निरूपणादेव सिद्धमिति न पृथग्वक्तव्यम्, अनुदाहृतवाक्यानामतत्परत्वं विवक्षितं चेत् तर्हि तेषां प्रधानकारणताप्रतिपादकत्वं च प्रतिक्षेप्यम्; तदानीमयमर्थः- अनुदाहृतवाक्येष्वपि प्रधानपरमाणुकारणवादादयो निरस्ता इति । तदानीमेतेनेतिपदस्य प्रधानकारणवादनिराकरणेनेति व्याख्यानमयुक्तम्, परब्रह्मपरत्वसमर्थनेनेति वक्तव्यम्; तस्माद्भाष्योक्तयोजनैव सामञ्जस्यवती । पादचतुष्टयविभागमेवं वर्णयन्ति केचिदाचार्याः- प्रथमे पादे परमकारणभूतचिदचिद्विलक्षणपुरुषविशेष निर्णयः, द्वितीये जगच्छरीरकत्वम्, तृतीये सर्वात्मकत्वप्रकारः, चतुर्थे त्वतत्कार्यातच्छरीरातदात्मकवस्त्वसम्भवः प्रतिपाद्यत इति । तेषु द्वितीयाद्येन सर्वजगच्छरीरकत्वं “सवर्ं खल्विदं ब्रह्मे"त्यत्र दर्शितम् । तत्र च न सौभरिवत् ज्ञानाधिष्ठितशरीरकत्वम्, किन्तु स्वरूपेण सर्वशरीरेषु गुहाप्रविष्टस्य तच्छरीरकत्वमित्युक्तं द्वितीये । न केवलमिन्द्रियाश्रयशरीराणामेव, इन्द्रियाणामपि तच्छरीरत्वमुक्तं तृतीये, चतुर्थे तु न केवलमिन्द्रियाणाम्, किन्तु सर्वतत्त्वानामपि तच्छरीरकत्वं प्रत्येकमुक्तम्, पञ्चमे तु समुदायरूपेण च शरीरत्वमुक्तं “रूपोपन्यासा"दिति । तस्य मुमुक्षूपास्यत्वं प्रपञ्चितं षष्ठ इति द्वितीयपादार्थः । तृतीये तु “स्थित्यदनाभ्याञ्च” इति सर्वहेयास्पृष्टत्वमुक्तम् आद्ये, न तावन्मात्रम् । निरतिशयानन्द उक्तो द्वितीये । “यो वै भूमा तत्सुख"मिति न मुक्तस्वेवानन्दमात्रम्, किन्तु प्रशासितृत्वमुक्तं तृतीये । भयानकत्वमात्रव्यावृत्त्यर्थं मुक्तप्राप्यत्वं चतुर्थे, प्राप्यस्यैव निरतिशयभोग्यं गुणाष्टकमुक्तं पञ्चमे ।

तस्य मातृवदविजुगुप्सनं पितृवत् शिक्षकतयाऽभयहेतुत्वमुक्तं षष्ठे, त्रितयं प्रासङ्गिकम् सुषुप्त्यादिसर्वावस्थास्वप्रहाणमुक्तं चरमे, एवमात्मत्वप्रकारस्तृतीयपादार्थः, शरीरगतदोषास्पृष्टतया स्वासाधारणरूपान्यथाभावाभावेन च स्थितस्य सर्वावस्थासु शरीरधारकस्य ह्यात्मत्वम् “तमेवैकं जानथाऽऽत्मान"मिति हि आद्याधिकरणविषयवाक्यम्, चतुर्थपादे त्वतदधीनत्वं जगत आद्ये व्युदस्तम्, अतत्कार्यत्वं द्वितीये, अतदात्मकत्वं तृतीये, “तमेवं मन्य आत्मान"मिति हि वाक्यम् । असदव्याकृतादिना येन केनापि शब्देन प्रतिपन्नस्यापि वस्तुनोऽतदात्मकत्वं चतुर्थे, विशेषतश्चेतनस्यातदात्मकत्वं पञ्चमषष्ठयोः, सेश्वरसाङ्खयोक्तमतदात्मकत्वं व्युदस्तं सप्तमे, समर्थितस्यार्थस्य सर्वात्रिकत्वमुक्तमष्टमे, एवं जगतः तदधीनत्वतत्कार्यत्वादिप्रतिपादनमुखेनातादधीन्यातत्कार्यत्वादिव्युदसनात् ब्रह्मैककारणत्वं स्थिरीकृतं चतुर्थपादेनेति । अयं च विभागः सम्प्रदायसिद्धत्वादुपपन्नश्चानुसन्धेयः ॥ इति सर्वव्याख्यानाधिकरणम् ॥

इति श्रीहारितकुलतिलकवाग्विजयसूनुना श्रीरङ्गराजतदव्याज्ञालब्धवेदव्यासापरनामधेयेन

श्रीमद्वरदाचार्यपादसेवासमाधिगतभगवद्रामानुजीवरचितशारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां

श्रुतप्रकाशिकायां प्रथमस्याध्यायस्य चतुर्थः पादः ॥

॥ समाप्तश्चाध्यायः ॥