॥ प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ पेटिकासङ्गतिमाह- एवमिति । एवंशब्देन अतीताधिकरणत्रयात्मकपेटिकाद्वयकृतनिरसनप्रकारो विवक्षितः, आद्याधिकरणत्रयेण हि साक्षात्सङ्गतेन विकल्पेन पुरुषाधिष्ठितप्रकृतेर्जगत्कारणत्वं निरस्तम् । द्वितीयेन तु पादासङ्गतेनापि प्रसङ्गप्राप्तेन नियमेन कारणत्वं प्रतिक्षिप्तम्; तत्र छायानुसारिवाक्यविषयतया पादसङ्गत्वेऽप्ययोगव्यवच्छेदप्रतिक्षेपेणोत्थित्वा त्तेनाकारेण प्रासङ्गिकत्वमपि विद्यते, एवं विकल्पेन नियमेन च कारणत्वे प्रतिक्षिप्ते समुच्चयेन कारणत्वं प्रतिक्षिप्यत इति
नासङ्गतिरित्यर्धः। स्वनिष्ठवस्तुद्वयस्य निमित्तभावेनोपादानभावेन चान्योन्यसापेक्षतया एकस्मिन् कार्येऽन्वयो हि व्युदस्यते, सिद्धान्ते तु ज्ञानादिवदुपादानभूतस्य ब्रह्मणः प्रकृतिर्विशेषणम् , तस्य सर्वशक्तित्वादिति न समुच्चयनिरासविरोधः, अत एवावान्तरसङ्गतिरप्यस्ति, मैत्रैयीब्राह्मणे हि परब्रह्मण एव सर्वविधकारणत्वमुक्तम् एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानादिभिः, तदयुक्तम् । परब्रह्मणो निमित्तमात्रत्वात् उपादानं तु प्रधानमिति शङ्कयोत्थानप्रतीतेः । किं ब्रह्म निमित्तमात्रम् ? उत उपादानमपीति । किं कारणवाक्यं ब्रह्मणो निमित्तत्वमात्रं प्रतिपादयति ? उतोपादानतामपीति । प्रतिज्ञादृष्टान्तौ किं स्वारस्येन नेयौ ? उत क्लिष्टतया नेयौ ? किमन्यत्र निमित्तोपादानभेदनियमो निर्दोषत्वश्रुतिर्निमित्तोपादानभेदश्रुतिश्च प्रतिज्ञादृष्टान्तोपरोधका भवन्ति, नेति । यदोपरोधका भवन्ति तदा प्रतिज्ञादृष्टान्तयो क्लिष्टतया निर्वाह्यत्वान्निमित्तत्वमात्रं वेदान्ताः प्रतिपादयन्तीति ब्रह्म निमित्तमात्रमिति पूर्वपक्षः स्यात् । तदा नोपरोधका भवन्ति तदा प्रतिज्ञादृष्टान्तयोः स्वरसतया नेयत्वदुपादानत्वमपि वेदान्ताः प्रतिपादयन्तीति उपादानमपि ब्रह्मैवेति राद्धान्ते फलफलिभावः । ईक्षत्यानन्दमयाद्यधिकरणसिद्धार्थाक्षेपपरिहारमुखेन परब्रह्मकारणत्वे समर्थिते,कथं पुनः साङ्ख्यस्योत्थानमिति शङ्कामनुवदन् पूर्वपक्षी स्वमतं प्रतिजानीते - यद्यपीति ।
ईक्षणादीत्यादिशब्द आनन्दादिपरः वेदान्तैरेव ब्रह्मैककारणत्वपरतया त्वदभिमतैरेवेति भावः। प्रतिज्ञातमुपपादयति । नहीति । ईश्वरस्य चेतनत्वादपरिणामित्वेनाधिष्ठातृत्वेन च प्रधानस्याचेतनतया परिणामित्वेनाधिष्ठेयत्वेन च वेदान्तपेतिपादितत्वं प्रतिज्ञातार्थे हेतुरित्यर्थः। हेतुसिद्धिं दशर्यति - तथा हीति - “निष्कल"मित्यादि वाक्यमीश्वरस्यापरिणामित्वविषयम् । “विकारजननी " मिति प्रकृतेर्विकारित्वाधिष्ठेयत्वविषयम् जनित्री- समष्टिसृष्टिकरी । भूतभाविनी- व्यष्टिसृष्टिकरी । प्रधानप्रतिपादके वाक्ये तद्विशेषणतयेश्वरस्याधिष्ठातृत्वं दर्शितम् । ईश्वरप्रतिपादके वाक्ये तस्य प्रधानाधिष्ठातृतयोपादानभूतात्तस्माद्भेदं
दर्शयति - तथेति । महेश्वरशब्देन मायिशब्दनिर्दिष्टस्य निमित्तकारणस्य मायां प्रति प्रेरकत्वं विवक्षितमिति भावः। श्रुतेरुक्तार्थपरत्वं स्मृतिसंवादेन दृढयति - स्मृतिरपीति । श्रुतिषु प्रधानप्रतिपादनाभावं अभ्युपगम्य तस्योपादानत्वं समर्थयति - एवमश्रुतेऽपीति । ब्रह्मण इति - सत्यज्ञानादिलक्षणात्वादपरिणामिन इति भावः । प्रधानस्वरूपं तस्येश्वराधिष्ठितस्य जगदुपानत्वं चेति - समस्तप्रपञ्चनिर्माणानुगुणमचेतनस्वरूपं तस्य चाचेतनत्वादेव तदधिष्ठितत्वं च सिध्द्यतीत्यर्थः। कारणत्वश्रुतेरन्यथानुपपत्त्युपयोगिनीं व्याप्तिं शिक्षयति - एवमेव हीति । अत्यन्तभेदः- शरीरतया आत्मनिष्ठत्वमप्यसहमानो
भेदः। यद्वा तर्कमपि पृथक् साधनत्वेनाह - एव मेव हीति । पुर्वोक्तश्रुत्यर्थापत्त्युपपादकत्वे हिशब्दः स्वरसः । ननु यत्र निमित्तोपादानयोरुभयोरप्यपेक्षा तत्र तयोर्भवतु भेदः, यथा वृश्चिको वृश्चिकोत्पादने गोमयानपेक्षः, यथा च स्वर्गे साध्ये ज्योतिष्टोमो दर्शपूर्णमासनिरपेक्षः, एवं निमित्तमात्रेण कार्यं सिध्यतीति चेत् किं प्रधानकारणत्वाश्रयणेनेत्यत्राह कार्यनिष्पत्तिश्चेति । एवमेव हीत्यादिभाष्यं यदा पृथक्साधनत्वेन तर्कप्रतिपादकं तदानीमचेतनस्येत्यादिपदैर्हतवोऽभिप्रेताः स्युः । ईश्वरो न द्रव्यं प्रत्युपादानम् , चेतनत्वात् जीववत् । विमतमुपादानं स्वकार्यनिमित्ताद्भिन्नम् , उपादानत्वात् मत्पिण्डवत् । विमतं कार्यमनेककारकसापेक्षम् , कार्यत्वात् पटवदिति प्रयोगः । “एकमेवाद्वितीयम्” “ब्रह्म वनं ब्रह्म स वृक्ष आसीत्” इत्यादिश्रुतिबलान्निमित्तोपादानैक्यमभ्युपगन्तव्यमित्यत्राह - एवं निमित्तोपादानयोरिति । एवमिति पूर्वोक्तश्रुतिश्रुत्यर्थापत्त्यानुगुण्येन । तर्कसहचरितश्रुतिश्रुत्यर्थापत्तीनां प्रबलत्वात्केवलश्रुतिमात्रं प्रतीयमानमपि स्वार्थं यूपादित्यैक्यमिव न प्रतिपादयितुं शकोतीत्यर्थः । एकमेव ब्रह्मोपादानं निमित्तं चेति - परिणामित्वापरिणामित्वयोश्चेतनत्वाचेतनत्वयोः प्रेर्यत्वप्रेरकत्वयोश्च एकस्मिन् व्याहतत्वाच्चायोग्यं निमित्तोपादानैक्यं
न वेदान्ताः प्रतिपादयितुं शक्नुवन्तीत्यभिप्रायः । नोपादानम् - नोपादानमपीत्यर्थः । नहि निमित्तं वोपादानं वेति विश्ये उपादानत्वं निपिध्यते, किन्तूभयात्मकत्वं हि प्रतिषेध्यम् । एवं प्राप्त इति - स्वभावमूलप्रकृतिव्यावृत्त्यर्थं प्रकृतिशब्दं व्याचष्टे - उपादानं चेति । सूत्रस्थ चशब्दं विवृण्वन् वाक्यार्थं योजयति - न निमित्तेति । का प्रतिज्ञा ? को दृष्टान्तः ? तयोरनुपरोधः कथमित्यत्राह - एवमेव हीति । बहुदृष्टान्तोपादानं तात्पर्यज्ञापनार्थम् । अनुपरोधं विवृणोति - यदीति उक्तमुपपादयति - न हीति । एवं विपर्यये अनुपपत्तिरुक्ता । अथोक्तार्थोपपत्तिमाह - ब्रह्मण एवेति । एवं सौत्रं हेतुवाचिपदं व्याख्यातम् , वैशेषिकमतेन बुद्धिशब्दान्तरादिभिः कारणात्कार्यस्य द्रव्यान्तरत्वेन प्रतिज्ञादृष्टान्ता
नुपपत्तिमाशङ्क्य तां परिहरन् सहेतुकं वाक्यार्थमाह - कारणमेवेति । एवं “वाचारम्भण"मित्यादिवाक्यार्थ उक्तः, तत्र हि कार्यकारणैक्यं प्रतिपाद्यते । नन्व्यक्तशब्दवाच्यावस्थायामेव ब्रह्मण उपादानत्वे सर्वोपादानत्वाभावात्प्रतिज्ञापरोधः, घटाद्यवस्थास्वपि ब्रह्मण उपादानत्वे मृद उपादानत्वाभावात् दृष्टान्तविरोध इति । तत्र न प्रथमं शिरः, अनभ्युपगमहतत्वात् , द्वितीये मृदाद्यवस्थद्रव्यशरीरकस्यैव ब्रह्मण उपादानत्वादविरोधः, विशेषणभूतमृद्द्रव्यमात्रस्य कार्यकारणभावो लोकप्रसिद्धत्वाद्दृष्टान्तीकृतः, तत्तदवस्थद्रव्यशरीरकस्यैव ब्रह्मणः कार्यकारणभावस्तु लोकप्रसिद्धत्वाभावाद्दार्ष्ठान्तिक इति प्रतिज्ञादृष्टान्तानुपरोधः । ब्रह्मण उपादानत्वे निमित्तान्तरं स्यादिति शङ्कां परिहरिष्यन् परोक्तां श्रुत्यैव निमित्तोपादानभेदसिद्धिमनुवदति - यत्त्विति । तत् -निमित्तोपादानभेदप्रतिपादनमसदित्यर्थः । निमित्तोपादानैक्ये श्रुतिमाह - उत तमादेशमिति । प्रत्ययार्थः कर्म, प्रकृत्त्यर्थ उपदेशः, उपदेश्यमित्यर्थः । इत्यादेशशब्दः परैर्व्याख्यातः, तद्य्वावृत्त्यर्थं व्याचष्टे - आदिश्यत इत्यादिना - प्रशिष्यत इति प्रकृत्यर्थव्याख्यानम् । अनेनेति प्रत्ययार्थव्याख्यानम् “अकर्त्तरि च कारके संज्ञायाम्” इति घञः कर्त्तृव्यतिरिक्तार्थविषयत्वात् आदिशतीत्यादेश इत्यनुक्तिः, अत आदिश्यते प्रशिष्यतेऽनेनेत्येवोक्तम् । प्रशासितृत्वे ब्रह्मणः सिद्धे हि एवं वर्णनीयमित्यत्राह - एतस्य वा इति । अकर्त्रर्थप्रत्ययान्तस्य कथं शासितृवाचित्वमित्यत्राह - साधकतमत्वेनोति । अव्यवहितसाधनत्व साधकतमत्वम् , तथात्वेन कर्त्ता विवक्षितः, “विवक्षातः कारकाणि भवन्ती “तिन्यायादिति भावः । परेषां प्रत्ययार्थस्वारस्यम् , अत्र तु प्रकृत्यर्थस्वारस्यम् । अन्यतरास्वारस्यमुभयत्राविशिष्टमिति चेन्न, प्रकृत्त्यर्थस्वारस्यमर्थौचित्यं चेति हेतुद्वयसिद्धेः । प्रशादितृत्वे कथिते हि ब्रह्मणोऽसाधारणधर्म उक्तः स्यात् , उपदेश्यत्वं हि साधारणम् , उपदेशश्चोपदेश्यवस्त्वसाधारणाकारेण वक्तुं
युज्यते , न हि गवये बुभुुत्सिते चतुष्पाद्गवय इत्युपदेशो युक्तः, तस्मात् प्रकृत्यर्थस्वारस्यमर्थौचित्यं चाभ्यधिकमिति वैषम्यम् , एवं प्रशासितुर्विज्ञानेन सर्वविज्ञानोक्तया निमित्तोपादानैक्यं दर्शयति - सदेवेति । प्राक्सृष्टेरेकत्वावधारणन्तु निमित्तोपादानभेदेन घटते, अतः एकत्वावधारणं च हेतुः, अधिष्ठात्रन्तरनिवारणं च हेतुरित्यर्थः । नन्वेवमिति - एवं सति - ब्रह्मण एव जगदुपादानत्वे सतीत्यर्थः । प्रकृतेर्जगदुपादानत्वश्रवणेऽपि ब्रह्मणो जगदुपादानत्वं युक्तम् । प्रकृतेरपि ब्रह्मोपादानकत्वादित्यत्राह - आद्यन्तविरहेण नित्यत्वमिति । प्रकृतेर्ब्रह्मोपादानकत्वमयुक्तम् , तस्यास्तु नित्यत्वश्रवणात् ; अतः सेवोपादा-
नमिति ब्रह्म निमित्तमेवेत्याशयः । तदुच्यत इति - प्रकृतिशब्देन प्रकृतिवाचकशब्देनेत्यर्थः । ब्रह्मव्यतिरिक्तवस्त्वन्तराभावात् - युतसिद्धवस्त्वन्तराभावादित्यर्थः । केन कं पश्येत्- केन अब्रह्मात्मकस्वनिष्ठदर्शनसाधनेन । कं स्वनिष्ठमर्थम् । कः चेतनः । पश्येत् स्वनिष्ठार्थदर्शनसाधनं स्वनिष्ठं दृश्यं तद्द्रष्टा च नास्तीत्यर्थः । न द्रष्टृदृश्यनिषेध इह प्रतिपाद्यः, “यत्र त्वस्य सर्वमात्मैवाभू"दिति स्ववाक्यैकदेशेन “सर्वं ह पश्यः पश्यती “त्यादिवाक्यान्तरेण च ब्रह्मात्मकत्वेन सर्वानुभवस्य विहितत्वात् । स्वनिष्ठवस्त्वन्तराभावे श्रुतिरुक्ता । अथ सर्वस्य तदात्मकत्वे श्रुतिमाह -सर्वं स्वल्विति । एवं व्यतिरेकोऽन्वयश्चोक्तः । ब्रह्मव्यतिरिक्तवस्त्वन्तराभावेन प्रकृतिशब्दवाच्यं ब्रह्मैव चेद्विकारापुरुषार्थरूपदोषाः ब्रह्मण एव स्युरित्यत्राह - एतदुक्तमिति । प्रकृतिपुरुषकालविशिष्टमेव कारणं चेत् कारणावस्था तस्यां चैकत्वं, कार्यावस्था, तस्यां च बहुत्वं, ब्रह्मणः कारणत्वं चिदचितोः कायर्त्वं च कथं घटत इत्याशङ्कयाह - कदाचिद्विभक्तेति । कदाचित् - सिसृक्षोत्तरकालम् , कदाचित् - सञ्जिहीर्षोत्तरकालम् । एकमद्वितीयमितिनिर्देशो निमित्तोपादानयोरैक्यविषयश्रुतिस्मारणार्थः, ततः किं गौरनाद्यन्तवतीत्यादेः प्रस्तुतवाक्यस्येत्यत्राह - एवं सर्वदेति । या कारणावस्था साऽभिधीयते इति । नावस्थानित्यत्वविवक्षयोच्यते, किन्तु कारणावस्थोपलक्षितद्रव्यनित्यत्वमभिधीयत इत्यर्थः । अव्यक्तशब्दवाच्याया अवस्थायाः परमकारणावस्थयैक्यं मन्वानः पार्श्वस्थश्चोदयति - ननु चेति -अविभक्तनामरूपप्रधानविशिष्टब्रह्मणः कारणत्वमनुपपन्नम् , अविभक्तनामरूपस्य सूक्ष्मावस्थस्याव्यक्तशब्दवाच्यस्याप्युत्पत्तिप्रलयश्रवणादित्यर्थः । नैष इति - अचिद्वस्तुनोऽव्यक्तावस्थाया अपि सूक्ष्मावस्थासम्भवात्तदवस्थाचिद्विशिष्टं ब्रह्माव्यक्तकारणमित्यर्थः । तत्र प्रमाणमाह - यदा तम इति । अत एवेति - अत एव- तदानीमपि तमशाब्दवाच्यस्य ब्रह्मप्रकारस्याचित्तत्वस्य
सद्भावादेवेत्यर्थः । शब्दवैजात्यमर्थवैजात्यनिबन्धनम् , अर्थवैजात्यञ्च
सकलश्रुत्यनुसारेण भवतीति भावः । अर्थवैजात्यमेव विवृणोति - एकीभाव इति । “पृथिव्यप्सु लीयत” इत्यांदिषु लयशब्देन पूर्वपूर्वावस्थस्य द्रव्यस्य पूर्वपूर्वास्थाप्रहाणेन उत्तरोत्तरावस्थत्वमभिहितम् , पृथिव्येव ह्यम्बूवस्थाऽभूत् पृथिवीत्वं विहाय पृथिव्यम्भोभिरेकद्रव्यं यथाऽभूत् , एवं तमशाब्दवाच्यमपि वस्तु तमस्त्वावस्थाप्रहाणेन परमात्मद्रव्यं भवति चेत् लयशब्दः प्रयोक्तव्यः, न तथा श्रूयते; अतः परमात्मनि तमोऽवस्थितमित्यर्थः । तत्र पृथिवीत्वप्रहाणेन यद्वस्तु सलिलमभूत्तत्सलिलत्वाप्रहाणेन पूर्वमेव स्थितेनाम्भसैकीभवति, यथा च त्यक्तजलत्वावस्थजलद्रव्यं यत्तेजोऽभूत् तत्तेजस्त्वाप्रहाणेन
प्रागवस्थिततेजसैकीभवति, एवं विभक्तं तमः तमस्त्वावस्थामजहदेव कार्यानुपयुक्तस्वजातीयतमसैकीभवति । तत्र परमात्मनः स्वरूपेण तमस्त्वायोगात् “यस्य मृत्युः शरीर"मिति स्थानप्रमाणेन मृत्युसञ्ज्ञतयाऽवगतस्य तमसः परशरीरत्वश्रवणाच्च कार्यानुपयुक्ततमश्शरीरकपरमात्मनैकी भवति, एकीभावश्च तमस्त्वे स्थित एव ततोऽप्यतिसूक्ष्मतापत्तिः । न हि पूर्वं स्वण्डितं तमः पश्चादेकीभवति, किन्तु अवस्थावैषम्येन, अवस्थावैषम्यं हि विभागः, अतोऽनतिप्रकृष्टसूक्ष्मत्वं विभागः । अविभागश्च निरतिशयसूक्ष्मतापत्तिः, वस्तुस्वरूपैक्याभावेऽपि तदन्तर्भावमात्रेणैकशब्दप्रयोगो दृष्टः, यथा मथनात्पूर्वमनुद्भूताग्नौ दारुण्येकशब्दः, यथावा आहितमात्रगर्भायां योषायां एकेयमिति प्रयोगः, तत्र हि चेतनद्वयमस्ति तथाप्यन्यस्यान्यतरान्तर्भावादेकशब्दप्रयोगविषयत्वम् , यथावा ऽनेकक्रिमिकीटादिजन्तुसंवृतवपुषि पुरुषे एकशब्दप्रयोगः तथेत्यर्थः। आसीदिदमिति - लयशब्दार्थोऽवस्थान्तरापत्तिरेव, न तु द्रव्यविनाश इतीममर्थं विशदयति - तमोभूतमिति । तमोऽवस्थनित्यर्थः । “अग्न्यवस्थे च सलिले वाय्ववस्थे च तेजसि” इति वचनात् । तह्युपलभ्यम् , उपलब्ध्यभावात्तन्नास्तीत्यत्राह - अप्रज्ञातमिति । प्रकृष्टं स्पष्टम् ज्ञानमपरोक्षज्ञानं, न तद्विषय इत्यर्थः । कुत इत्यत्राह - अलक्षणमिति । रूपादिरहितत्वादित्यर्थः । “कारणगुणप्रक्रमेण कार्ये गुणारम्भ” इति न्यायात् रूपादिमत्कारणमपि रूपादिमत्स्यादित्यत्राह - अप्रतर्क्यम् - अतर्कगोचरम् । एवं विभक्तावस्थं तम उक्तम् , अविभक्तं तम आह - अविज्ञेयं । विविच्य - विभज्य ज्ञातुमशक्यमित्यर्थः । प्रसुप्तमिव यथा सुषुप्तौ परमात्मनि लीनस्य चेतनस्य लयो न परमात्मत्वापत्तिः, अपि तु नामरूपप्रहाणेन सत्तामात्रमेव तथा महाप्रलयेपि चिदचितोः पृथङ्नामरूपप्रहाणमेव, न सत्ताहानिरित्यर्थः । विशेषमाह - सर्वत इति । सुषुप्तावेकदेशलयः, अत्र तु सर्वलय इत्यर्थः । यद्वा अविज्ञेयमित्यन्तेन अचिदंशलय उक्तः, प्रसुप्तमिवेति चिदंशलयः, तत्रापि न सत्ताहानिः, यथा सुषुप्तावित्यर्थः । एवं ब्राह्मण एव सवर्विधकारणत्वं प्रामाणिकमित्युक्तम् । तर्हि पूर्वोक्तश्रुति श्रुत्यर्थापत्तिनिर्वाहः कथमित्यत्राह अस्मान्मायीति । अपरिणामित्वश्रुयश्च उपपादयिष्यन्त इत्यन्वयः, श्रुत्यर्थापत्तिः परिहरिष्यत इत्यर्थः । श्रुत्यनुग्राहतया पराभिमतं तर्कमनुभाषते - यत्त्वेकस्येति - पराभिमततर्काणां सोपाधिकत्वं
वक्तुमुपाधीनामज्ञत्वादीनां पक्षे ब्रह्मण्यविद्यमानतां दर्शयति - सकलेतरेति परेण हि तर्कानुगृहीतश्रुतिप्राबल्यमुक्तम्, तत्र
शरीरशरीरिभावश्रुतिभिरेव उपादानत्वनिर्विकारत्वादिश्रुतीनामविरोधस्य निरूप्यमाणत्वात् द्वारद्वारिभावेन सर्वश्रुत्यैकाथ्यर्े सम्भवत्यपि विरोधारोपणेन निमित्तोपादानैकत्वपरानेकश्रुतिवाक्यबाधकल्पनस्यायुक्तत्वात्सर्ववाक्यानामैकाथ्यर्मभ्युपगन्तव्यम् , तथा सति तद्विरुद्धस्तर्कः केवलतर्क इति तस्य दुर्बलत्वाद्राद्धान्तः स्थिरतर इत्यभिप्रयन् सोपाधिकत्वमाह - मृदादेरिति । उपादानस्य मृदादेरनिमित्तत्वम् अज्ञत्वात् , निमित्तस्य कुलालादेरनुपादानत्वं स्वशरीरेण तथा परिणामशक्तिरहितत्वात्तस्यानेककारकसापेक्षत्वं चासत्यसङ्कल्पत्वादिति परोक्ततर्काः, अतो मृत्पिण्डकुलालादिविपरीतस्वभावस्य ब्रह्मणः सर्वमुपपन्नमित्यभिप्रायः ।
॥ अभिध्योपदेशाच्च ॥ इतश्चोभयं ब्रह्मेति - पूर्वसूत्रस्थप्रतिज्ञावाक्येनास्य हेतोरन्वय इत्यर्थः । सङ्कल्पोपदेशादिव्यन्तेन सूत्राक्षरार्थ उक्तः। बहुभवनं रामकृष्णादिवञ्च सभ्भवतीति तद्य्वावृत्त्यर्थमाह - विचित्रचिदचिद्रूपेणेति । “तत्तेजोऽसृजत” इति तेजः प्रभृतिसृष्टेरनन्तरोक्तत्वाच्चिदचिद्रूपेण बहुत्वस्य
विवक्षितत्वमित्यर्थः । स्वस्यैव च बहुभवनादुपादानत्वं बहुभवनस्य सङ्कल्पसामानाधिकरण्यान्निमित्तत्वमिति भावः ।
॥ साक्षाच्चोभयाम्नानात् ॥ आदिशब्देन वक्ष्यमाणा आत्मकृतिप्रभृतयो विवक्षिताः । किंस्विद्वचनम्- पूर्वं कुत्र स्थित इति भावः । क उ स वृक्ष आसीत् - किमुपादानमित्यर्थः । यदध्यतिष्ठद्भुवनानि धारयन्- भुवनानि धारयता ईश्वरेणाधिष्ठेयमुपकरणादिकं किमित्यर्थः । प्रतिवचनेऽपि ब्रह्म वनम् - अधिकरणम् ब्रह्म स वृक्षः - उपादानम् निष्टतक्षुरिति बहुत्वमविवक्षितम् “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवञ्च पृथिवीञ्चे"ति द्यावापृथिव्यादीनामेककर्त्तृकत्वश्रवणेन कर्त्तृबहुत्वासम्भवात् । ननु ब्रह्मशब्दः प्रकृतिवचनः, भुवनानि धारयतेश्वरेणाधिष्ठितत्वश्रवणात् । धारयन्नितिपुल्लिङ्गतया ब्रह्मशब्दसामानाधिकरण्यायोगादधिष्ठाने हि ब्रह्म
कर्मभूतमिति, न; ब्रह्मशब्दमुख्यार्थपरिग्रहस्य स्वतः प्राप्तत्वादुपक्रमस्थानेकब्रह्मशब्दबाधायोगात् । एतदुक्तम्भवति ब्रह्माध्यतिष्ठद्भुवनानि धारयन्निति भुवनानि धारयन्नीश्वरो ब्रह्मवाच्यस्वात्मानमेवाध्यतिष्ठत् , अधिष्ठेयमुपकरणादिकमपि ब्रह्मैवेत्यर्थ इति । अत्र प्रश्नप्रतिवचनरूपेण कतनस्य प्रयोजनं लोकदृष्टया कृतं चोद्यं सर्वविलक्षणे ब्रह्मणि न जीवतीति ज्ञापनमित्याह - अत्र हीति । उभयशब्दः सर्गप्रलयपरः परैर्व्याख्यातः, तदयुक्तम्; निमित्तोपादानभेदेऽपि तयोरन्यतरस्य सर्गप्रलयकारणत्वाविरोधात्तदैक्यसाधकत्वाभावात् “आकाशादेव समुत्पद्यन्ते” इत्यवधारणस्य जगतो बहूपादानकत्वबहुकर्तृकत्वयोरन्यतरशङ्काव्यावर्त्तनसम्भवेन निमित्तोपादानभेदनिवारकत्वाभावाच्च । ननूभयाम्नानमिति विरुध्यते, अधिकरणस्य उपादानकारणस्य कर्तुश्चैकत्वप्रतीतेरिति, नैवम्; अधिष्ठेयमधिष्ठातेति कोटिद्वयान्तर्भावात्कारकाणाम् । उपादानाधिकरणोपकरणानि ह्यधिष्ठेयकोटिनिविष्टानि, “यदध्यतिष्ठत्” ब्रह्माध्यतिष्ठद्भुवनानि धारयन्नि"ति हि श्रूयते; अत उभयाम्नानमिति युक्तम् ।
॥ आत्मकृतेः ॥ आत्मानं प्रति स्वस्यैव कर्त्तृत्वमनुपपन्नम् , कार्यं हि साध्यम्, कर्त्ता हि सिद्ध इति एकस्य सिध्द्यसिद्धिविरोधादित्यत्राह - अविभक्तेति । आकारभेदात्सिध्द्योरविरोध इत्यर्थः । आकार्यैक्यान्निमित्तोपादात्तैक्यमित्याह- स्वयमेवेति । उत्तरसूत्रशङ्कामाह - सत्यं ज्ञानमिति । पूर्वसूत्रविषयवाक्यस्यानन्दवल्लीस्थत्वात्तत्प्रकरणस्थपूर्वापरवाक्येषु निर्दोषत्वकल्याणगुणेकरत्वविरोधस्य खटिति प्रतिपन्नत्वात् प्रथमं “सत्यं ज्ञान"मित्यादिवाक्यद्वयमुपात्तम् , सत्यशब्दो हि विकारराहित्यपरः, निर्दोषत्वादिस्फुटीकरणाय वाक्यान्तराण्युपादत्ते - अपहतेत्यादि -पूर्वपक्षे हि निमित्तोपादानभेदश्रुतिर्निदोषश्रुत्यन्यथानुपपत्तिश्च हेतुतयोपन्यस्ते । राद्धान्ते तु “प्रतिज्ञादृष्टान्तानुपरोधात्” “अभिध्योपदेशाच्चे"ति सिद्धान्तसाधकतया श्रुत्यर्थापत्तिद्वयं दर्शितम् । “साक्षाच्चोभयाम्नाना"दित्यादिसूत्रद्वयेन “योनिश्च हि गीयते” इत्यनेन च सिद्धान्तसाधकश्रुतयो दर्शिताः । परिणामादिति सूत्रस्तु पूर्वपक्ष्युपन्यस्तश्रुतिश्रुत्यर्थापत्तिपरिहारपरमित्यर्थः । शङ्काग्रन्थे निर्दोषत्वश्रुत्युपन्यासेन श्रुत्यर्थापत्तिः अनूदिता भवति, निमित्तोपादानभेदश्रुत्युपन्यासश्चाभिप्रेतः, अवाप्तसमस्तकामस्य सृष्टयनुपपत्तिरूपा निमित्तभावविरोधिनी श्रुत्यर्थापत्तिश्चाभिप्रेता, उत्तरत्र तत्परिहारस्य च वक्ष्यमाणत्वात् । द्वितीयाध्याये बह्वधिकरणेषु समर्थयिष्यमाणं ब्रह्मात्मकत्वप्रकारमुपजीव्य श्रुतिश्रुत्यर्थापत्तिपरिहारपरमिदं सूत्रम् ।
incomplete?
॥ परिणामात् ॥ परिणामादित्युक्ते विरोधहेतुत्वमेवास्य प्रतीयते, न तु विरोधपरिहारहेतुत्वमित्याशङ्कयाह - परिणामस्वाभाव्यादिति । स्वभाव एव हि विरोधहेतुरित्यत्राह- नात्रेति । परिणामशब्दः परिणामविशेषपरः, विवक्षितविशेषाभिप्रायेण समान्यशब्दप्रयोगो गामानयेत्यादिषु दृष्टः । “धर्मोक्ते"रित्यादिषु विशेषाभिप्रायेण सामान्यनिर्देशः सौत्र एव दृश्यते, इह प्रतिपन्नाच्छब्दादितिवदिह प्रतिपन्नात्परिणामादित्यर्थः । कथं तर्हि परिणामोपदेश इति शङ्कायां तं विवृणोति - एवमेव हीति । यथा तत्त्वक्रमसृष्टिरनुक्तप्यन्यतो ग्राह्या, यथा च
सृष्टयाद्युपयुक्ता गुणा अनुक्ता अप्यन्यतो ग्राह्याः तथा परिणामस्य सद्वारकत्वमप्यनुक्तमन्यतो ग्राह्यमिति दर्शयन् प्रधानकारणत्ववादिनीनामपि श्रुतीनां परमात्मपर्यन्ततामाह - अशेषहेयेत्यादिना । अवाप्तसमस्तकामस्य सर्गाद्यनुपपत्तिं परिहरति - स्वलीलेति । एकीभावपदं व्याचष्टे - स्वशरीरतयापीति । ननु तम आदिशब्दैः तन्निर्द्दिश्यते तत्कथं निर्देशानर्हत्वम् ? उच्यते; नात्र सर्वथा निर्देशानर्हत्वं विवक्षितं अग्निशब्देन व्यवह्वियमाणत्वाद्बाह्याग्नेर्दारुण्यन्तर्भूतस्य पृथगग्निरित्यनिर्दिश्यमानस्याग्नेर्यादृशं सौक्ष्म्यविशेषरूपं वैषम्यं विद्यते अग्नित्वाप्रहाणमपि विद्यते, एवं तमस्त्वाप्रहाणेपि विभक्तात्तमसो अविभक्ततमसः सूक्ष्मत्वातिशयरूपं वैषम्यमस्तीत्यभिप्राय इति । ईदृशतमश्शरीरकत्वं तु न “तदात्मानं स्वयमकुरुते"त्यादिप्रकरणे श्रूयत इत्यत्राह -इति सर्वेषु वेदान्तेष्विति । उक्तार्थे प्रमाणं दर्शयति - तथैवेति । अवान्तरतत्त्वानामुत्तरोत्तरं प्रति कारणत्वे श्रुतेऽपि
तत्तच्छरीरकपरमात्मन एव कारणत्वमिति दर्शयितुं प्रकृतिपुरुषकालविशिष्टत्वमप्यत्रान्यत्र च क्वचिदनुक्ततत्त्वक्रमसृष्टिवदन्यतो ग्राह्यमिति च ज्ञापयितुं “यस्यापः शरीर"मित्यादिसकलवाक्यजातोपादानम् , काण्वपाठे अनुक्तानामपि ब्रह्मशरीरत्वज्ञापनार्थं विज्ञानशब्दस्यात्मशब्देन विवरणार्थं चाह - माध्यन्दिने त्विति । अपहतपाप्मशब्देन अमृतशब्दविवरणार्थं कारणावस्थायामपि ब्रह्मशरीरत्वज्ञापनार्थं देवताविशेषस्य कारणत्वज्ञापनार्थं चाह -सुबालेति । मृत्युशब्दस्य देवताविशेषे संसारे च प्रयुक्तत्वात्तयोश्चात्रान्वयानर्हत्त्वादाह - अत्र मृत्युशब्देनेति । कथमचिद्वस्तुवाची मृत्युशब्दः ? तमः- शब्दवदिति चेत्तमश्शब्दो वा कथमचिद्वस्तुवाची ? तत्राह - सर्वेषामिति । ज्ञानावरणरूपत्वात्तमश्शब्दवाच्यम् , तदेव ज्ञानावरणरूपानर्थमूलत्वान्मृत्युशब्दवाच्यमित्यर्थः । “आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु” इत्यत्र लयशब्दाप्रयोगो लयस्थानत्वाभावात् तत्र साहित्यमात्रं विवक्षितम् तन्मात्रेष्विति बहुवचनेन तात्पर्यम् । अदितिः पाशानितिवत् , शब्दतन्मात्र इत्यर्थः । लयशब्देन जीवब्रह्मणोः स्वरूपैक्यशङ्कानिवृत्त्यर्थमाह -
अविभागापत्तीति । यद्वा न केवलं प्रलये चित्संसृष्टाचिद्वस्त्ववस्थानं श्रुत्या गम्यते श्रुत्यर्थापत्त्या चेत्याह-
अविभागापत्तीति । विषमसृष्टयनुपपत्त्या चेतनबहुत्वस्थितिवत्तत्कर्मानुगुणदेहसृष्टयनुगुणा चिद्वस्तुस्थितिरपि स्वरूपपरिणामानुपपत्तिबलसिद्धेत्यर्थः । यद्वा लयदशायां सूक्ष्मरूपेणाचिद्वस्त्ववस्थानं दर्शितम् , सकर्मवासनीवबहुत्वावस्थानं दर्शयति- अविभागापत्तीति; आनन्दवल्लीवाक्यस्थस्य निर्विकारत्वादिपरवाक्यस्योपादानत्वपरवाक्यस्य चाविरोधनिर्वाहार्थं हि श्रुत्यन्तराण्युदाहृतानि, ततः किं प्रस्तुतस्य विरोधस्येति शङ्कायामविरोधं पश्चाद्दर्शयितुं प्रथमं विरुद्धार्थतया प्रतिपन्नानामेतत्प्रकरणस्थवाक्यानां विशिष्टपरिणामपरत्वमाह - एवं स्वस्मादिति । एकत्वावधारणादिना चिदचिच्छरीरकत्वमयुक्तमित्यत्राह - विभागव्यपदेशानर्हेति । एकस्मादेवाद्वितीयादिति - अतिसूक्ष्मचिदचिच्छरीरकत्वमेकत्वावधारणविवक्षितम् , श्रुत्यन्तरैकार्थ्याद्विषमसृष्टयन्यथाऽनुपपत्त्यादिभिश्चेत्यभिप्रायः । यद्वा आनन्दवल्लयामनुक्तमप्यविभक्तनारूपत्वं श्रुत्यन्तरस्थेन एकत्वावधारणादिना यथाऽवगम्यते, एवं चिदचिच्छरीरकत्वमपि कारणावस्थायामिह विवक्षितमित्यभ्युपगन्तव्यमिति भावः । स्वरूपैक्यानुपपत्तिद्योतनाय प्राकरणिकान् कल्याणगुणानाह - निरतिशयानन्दादित्यादिपदैः । उक्तकल्याणगुणविषयवाक्यान्यादत्ते - सत्यं ज्ञानमिति । विशिष्टस्य परिणामपरवाक्यान्युपादत्ते - सोऽकायमतेति । उदाहृतवाक्येषु कर्मसम्बन्धप्रतीतिव्युदासार्थं तपश्शब्दं व्याचष्टे- अत्रेति । प्राक्सृष्टमिति - औचित्याज्जगदालोचनमर्थ इत्यर्थः । “तप आलोचने” इत्यस्माद्भातोस्तपश्शब्दनिष्पत्ति-
रितिभावः । पूर्वं जगदालोचनं किमर्थं? सिसृक्षितं जगदेव पर्यालोचनीयमित्यत्राह - तत्संस्थानमिति । यथापूर्वं सृष्टयर्थमित्यभिप्रायः । न केवलमौचित्यादयमर्थः, लिङ्गादपीत्याह - तथैव हीति । यथा पूर्वसृष्टिप्रतिपादनं हि तदालोचने लिङ्गं भवति । अथ पूर्वोदाहृतश्रुत्यन्तरवाक्यानुगृहीतस्यैतत्प्रकरणस्थवाक्यजातस्यार्थाविरोधित्वं वक्तुं प्रतिपन्नमर्थमाह - तदयमर्थ इति । “सत्यं ज्ञानम् अन्योऽन्तर आत्माऽऽनन्दमयः” इत्यादेरर्थमाह - स्वयमपरिच्छिन्नेति । सोऽकामयते” इत्यत्र स इतिपदस्य वाक्यान्तरानुगृहीतस्यार्थमाह - अत्यन्तसूक्ष्मतयेति । अकामयतेत्यस्यार्थमाह - विचित्रेति । प्रकृतिपुरुषसमष्टिपरम्परया तत्तच्छरीरकमात्मानं महाभूतपर्यन्तं परिणमय्येत्यन्वयः। समष्टिपरम्परयामहादादिकमेणेत्यर्थः । तत्तच्छरीरकम्- महदादिशरीरकम् । पूर्वपूर्वतत्त्वशरीरकः परमात्मा ह्युत्तरोत्तरतत्त्वकारणं तत्तच्छरीरकं परिणमय्येत्यन्तेन समष्टिसृष्टिरुक्ता । पुनरिति
व्यष्टिसृष्टिः ।नन्वनुप्रवेशस्य सृष्ट्यनन्तरभावित्वश्रवणात्कारणावस्थायां चिदचिच्छरीरकत्वं न सिध्येदिति शङ्कायामुदाहृतप्रकरणस्थवाक्येषु घटकस्य वाक्यविशेस्यस्यार्थमाह - तदेवेति । विक्रियमाणद्रव्यस्यापीति - “तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्राविश्य सञ्च त्यच्चाभवत् “अनुप्रविश्य नामरूपे व्याकरवाणी “ति वचोभ्यां सृष्टयनुप्रवेशयोः पौर्वापर्यनियमोऽपि न विवक्षितः, अनुप्रवेशपूर्वकसृष्टिवचनात्सृषिटपूर्वकानुप्रवेशवचनाच्च, तस्मात्समकालीनत्वमेव विवक्षितम् वक्त्रं व्यादाय स्वपितीतिवत् , तथा “तस्य त्वष्टा विदधद्रूपमेती “ति ह्युच्यत इत्यभिप्रायः । यद्वा सृष्टिपूर्वकानुप्रवेशस्थितिहेतुरित्यभिप्रायः। तदानीमिहोक्तमनुप्रवेशस्य सामानाधिकरण्यहेतुत्वं श्रुत्यन्तरसिद्धमव्यक्तक्षरतमः प्रभृत्यन्तरात्मत्वं चोपजीव्याह - विक्रियमाणद्रव्यस्यापीति । प्रकृतविरोधः कथं परिहृत इत्यत्राह - एवमिति । तर्हि कथं ब्रह्मणः कार्यत्वमित्यत्राह -
परमात्मनीति । तत्संसर्गप्रयुक्तदोषः स्यादित्यत्राह - परमात्मा त्विति । उक्तदोषसंस्पृष्टत्वं प्राकरणिकवाक्येन दर्शयति - तदेतदाहेति । सत्यञ्चेत्यादिवाक्यस्यार्थमाह - विचित्रेति । पूर्वसत्यशब्दोऽनृतशब्दसाहचर्यात्कार्यचेतनपरः, उत्तरस्तु विशेष्याकाङ्क्षायामधिक्रियमाणत्वात् ब्रह्मणस्तद्विषयवाक्योक्तव्यष्टयवस्थचिदचिच्छरीरकत्वानुवादेन सत्यत्वं विधत्त इत्यर्थः । एवमुपादानभावविरोधिनी श्रुत्यर्थापत्तिः परिहृता, सद्वारकत्वेन परिणामस्य निर्विकारत्वश्रुत्यविरोधात् । अथावाप्तकामस्य व्यापारानुपपत्तिरूपां निमित्तभावविरोधिनीं श्रुत्यर्तापत्तिं वक्ष्माणाधिकरणार्थोपजीवनेन परिजिहीर्षन् अवाप्तसमस्तकामस्यापि लीलया सृष्टिसम्भवे प्रमाणमाह - सर्वाणीति । निमित्तमात्रत्वे परोक्तायाः “अस्मान्मायी सृजते” इति श्रुतेरर्थमाह - अस्मादिति । अस्मात्- स्वशरीरभूतादित्यर्थः। श्रुत्यन्तरैकार्थ्यादस्मान्मायीतिभेदव्यपदेशप्रयोजनं स्वभावासङ्करज्ञापनम् । निमित्तभूतस्यैव ब्रह्मण
उपादानभावतन्निबन्धनजगत्सामानाधिकरण्यानुबन्धिबह्वनुपपत्तिपरिहारपरानेकाधिकरणार्थजातस्य एतदधिकरणार्थोपपादकत्वेन स्मारणपरमिदं सुत्रम् । इदं सूत्रं ब्रह्माज्ञानपक्षविरुद्धम् , न हि विवर्तादिति सूत्रम् भेदाभेदपक्षेऽपि भोग्यांशेन परिणाम इति वक्तव्यम् अत्र तु विशेषणांशेन परिणाम उच्यते, अतोंशतः परिणामपरत या सङ्को चास्वारस्यं तुल्यम् श्रुत्यन्तरोपपत्त्यानुगुण्यमस्मन्मत इति वैषम्यम् । इदं सूत्रंपूर्वसूत्रेणैकीकृत्य सिद्धस्य कर्त्तुस्साध्यत्वमवस्थाभेदादुपपन्नमित्येवंपरमन्यैर्व्याख्यातम् , तदयुक्तम् ; पूर्वपक्ष्युक्तश्रुतिश्रुत्यर्थापत्तिपरिहारस्योपेक्षितस्याकथनेन अनपेक्षितविधानायोगात् , एकस्य कार्यत्वकारणत्वाविरोधोऽवस्थाभेदेनोपपन्न इति ह्यर्थसिद्धम् ॥
योनिश्च हि गीयते । अस्य च सूत्रस्य निमित्तोपादानैक्यसाधकत्वमाह - निमित्तमुपादानञ्चेति । कर्त्तारमिति विषयवाक्ये हि श्रुतम् , “तपसा चीयते ब्रह्म” यः सर्वज्ञः सर्ववित्” इति च । “शास्त्रयोनित्वात्” “योनिष्ट इन्द्र निषदे अकारी “त्यादिष्विव ब्रह्मयोनिशब्दस्य कारणमात्रपरत्वव्यावृत्त्यर्थं तं व्याचष्टे- योनिशब्दश्चेति -इयं सूत्रसङ्गतिः, प्रतिज्ञादृष्टान्ताभ्यां निमित्तोपादानैकत्वमुपपादितमाद्यसूत्रे; तत्र उपरितनवाक्यस्थहेतुपरं
द्वितीयसूत्रम् । एवं श्रुत्यर्थापत्तिद्वयमुक्तम् । अथ श्रुतिप्रदर्शकं तृतीयं “ब्रह्म वन"मित्यादिवाक्यस्यास्फुटत्वात् स्फुटार्थवाक्योपस्थापकं चतुर्थम् । आत्मकृतिप्रतिपादकवाक्यस्य स्फुटार्थतया वाक्यान्तरनिरपेक्षार्थनिश्चयत्वाद्भेतोर्नैरपेक्ष्याभिप्रायश्चशब्दाप्रयोगः, तत्प्रकरणस्थपूर्वापरवाक्यविरोधः पञ्चमेन परिहृतः “कर्त्तारमीशं पुरुषं ब्रह्मयोनिम्” इतिवाक्यं जगत्कारणोपासनफलपरम् भूतयोनिमितिवाक्यं तूपादानत्वमात्रप्रतिपादकम् , तस्यैव निमित्तत्वं “यस्सर्वज्ञः” इत्याद्युपरितनवाक्यपर्यालोचनया विलम्बेनावगम्यते, एवमन्यपरत्वविलम्बान्वितवाक्यद्वय(विशिष्ट)विषयत्वात् “योनिश्च हि गीयते” इति सूत्रमुभयप्रतिपादकवाक्यविषयमपि “साक्षाच्चोभयाम्नानात्” इति सूत्रानन्तरं न निवेशितम् । अनन्यपरस्पष्टार्थवाक्ये लब्धे तदेकार्थतया निश्चितवाक्यद्वयविषयत्वात् “योनिश्च हि गीयते” इति सूत्रं चरममभूदिति ॥ उपादानत्वं ब्रह्माज्ञानपक्षे न सङ्गच्छते लक्षणायोगात् “यद्गूहणेन विना यन्न गृह्यते तत्तस्योपादानमित्ययुक्तम् । अतीन्द्रियं लिङ्गिनं प्रति लिङ्गस्योपादानत्वप्रसङ्गात् ।
न हि पुण्यापुण्ययोः सुखदुःखे उपादाने, नाप्यनुवृत्तं व्यावृत्तस्योपादानम्, गुरुत्वं प्रति रूपस्योपादानत्वप्रसङ्गात् , रूपं हि तेजोबन्नेष्वनुवृत्तम् गुरुत्वं तु तेजसोव्यावृत्तम्, भ्रमाधिष्ठानत्वमुपादानत्वमिति चेत् शक्तिरूपं प्रति देवदत्तस्योपादानत्वप्रसङ्गः, न हि भ्रान्तिज्ञानाश्रयः । अध्यस्ताधिष्ठानत्वमध्यस्तं प्रत्युपादानत्वमिति चेदधिष्ठानशब्दस्य कोऽर्थः ? यदधिकरणतयाऽध्यस्तं प्रतीयते तत्तस्याधिष्ठानमिति चेत्तर्हि रजतस्य शुक्तिरुपादानं न स्यात् तदधिकरणत्वेन रजतप्रतीत्यभावात् । इदं रजतमिति हि प्रतीतिः, न त्वस्मिन् रजतमिति; अध्यस्तं यत्सामानाधिकरण्येन प्रतीयते तत्तस्योपादानमिति चेत्तर्हि पीतश्शङ्ख इत्यत्र पीतिम्नः शङ्ख उपादानं न स्यात्, न हि पीतिमा शङ्ख इति सामानाधिकरण्येन प्रतीतिः, अपि तु पीतिमयुक्तः शङ्ख इति हि प्रतीतिः । द्रव्यान्तरवाचिशब्दसमानाधिकरणः पीतशब्दो हि पीतिमगुणान्वितो वर्त्तते, पीतशङ्खस्य शङ्खान्तरेण सामानाधिकरण्याद्युक्तं लक्षणमिति चेन्न; पीतिममात्रस्यैव बाधदर्शनात् शङ्खस्याबाधितत्वात्तदुभयव्यतिरेकेण बाध्यशङ्खान्तरकल्पनायोगात् । किञ्च द्वौ चन्द्रावित्यत्र द्वितीयचन्द्रस्य प्रथमचन्द्र उपादानं न स्यात्, न हि द्वौ घटावित्युक्ते घटयोस्सामानाधिकरण्यम्, विशेष्यभेदात् । द्वित्वमात्रमध्यस्यत इति चेततोपि लक्षणाव्याप्तिः, द्वित्वस्य विशेषणतया प्रतीतेः विशेषणविशष्ययोरैक्याप्रतीतेश्च, न हि दण्डिनौ पुरुषावित्युक्ते दण्डतद्वतोरैक्यम् । किञ्च आत्मानं प्रति देहस्योपादानत्वं प्रसजेत् , आत्मनो देहेऽधिष्ठानेऽध्यस्तत्वात् । आत्मनि देहाध्यास इति चेत् , देहेप्यात्माऽध्यासो भवदभिमतः शास्त्रसिद्धश्च । “अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य
विषयस्य तद्धर्माणां चाध्यासस्तद्विपर्ययेण विषयिणस्तद्धर्माणाञ्च विषयेऽध्यासो मिथ्येति भवितुं युक्तमिति । अन्योऽन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्येति च विषये युष्मदर्थे देहे विषयिणोऽस्मदर्थस्य ह्यध्यास उक्तः “पञ्चभूतात्मके देहे देही मोहतमोवृतः । अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम्” इति, “आकाशवाय्वग्निजलपृथिवीभ्यः पृथक्स्थिते । आत्मन्यात्ममयं भावः कः करोति कलेबरे” इति च; अतोऽतिव्याप्तिः । न केवलं पराभिमतस्थल एवाव्याप्त्यतिव्याप्ती, किन्तु श्रुतिस्मृतिलोकप्रसिद्धेपूदाहरणेषु, अव्याप्तिश्च, मृत्पिण्डलोहमणिनस्वनिकृन्तनतत्कार्यादिदृष्टान्तो वेदसिद्धः, कटकमुकुटादिदृष्टान्तश्च स्मृतिसिद्धः,
तेष्वव्यरप्तिस्तर्त्कायाणां मिथ्यात्वाभावात्; तन्मिथ्यात्वं विवक्षितमिति चेत् , यथेति प्रसिद्धवदुपन्यासो न घटते, अश्रुतवेदान्तस्य श्वेतकेतोः घटादिमिथ्यात्वासिद्धेः । तन्मिथ्यात्वं युक्तिभिरुपपादयिष्याम इति चेन्न, कुयुक्तीनां प्रबलयुक्तिभिर्निरस्तत्वात्तच्च दर्शितं दर्शयिष्यामश्च; अत एव लोकसिद्धेष्वव्याप्तिः सिद्धा । अस्तु वा मिथ्यात्वं घटादीनां तथापि तदधिष्ठानत्वं नोपादानशब्दप्रवृत्तिनिमित्तम् , तद्विषयतया व्युत्पत्त्याभावात् प्रयोगाभावाच्च । यद्यद्वस्तुनि विद्यते न तत्सर्वं शब्दवाच्यम् , यदाकारविषयतया शब्दो व्युत्पन्नः स तस्य प्रवृत्तिनिमित्तम् , न चोपदानशब्दोऽध्यस्ताधिष्ठानविषयतया व्युत्पन्नः, न च तद्विवक्षया प्रयुज्यते तस्मादव्याप्तिरिति । यच्चापि- ईश्वर एव ब्रह्म, तेन स्वत एव भिन्नाभिन्ना प्रकृतिरिति वदति, तन्मतेपि जगदुपादानत्वं ब्रह्मणोऽनुपपन्नम् , चेतनांशस्यानादित्वादेव । जीवत्वावस्था सर्गात्पूर्वं नास्तीति चेत्; जीवस्यादिमत्त्वं तत्प्रयुक्ता दोषाश्च स्युः, घटत्वावस्थायाः पूर्वमभावादेव हि घटस्यादिमत्त्वम् , जीवत्वं प्रागप्यस्तीति चेत् तदुपादानत्वानुपपत्तिः । देवमनुष्यादिनामरूपाभिमानित्वावस्थामपेक्ष्योपादानत्वमिति चेन्न, कार्यकारणयोरनन्यत्वस्य दुरुपपादत्वात् अनन्यत्वं वदता हि कार्ये कारणासाधारणाकारस्य वा परमकारणाकारस्य वा अनुवृत्तिर्वक्तव्या, यथा कुण्डले तत्कारणस्य स्वर्णत्वाकारेणानुवृत्तिः, यथा च वृश्चिके तत्कारणस्य पृथिवीत्वाकारेणानुवृत्तिः; तत्र ब्रह्मणः कारणान्तराभावात् द्वितीयः कल्पो नोपपद्यते । प्रथमे च तत्र केनाकारेण जीवब्रह्मणोरैक्यम् ? न तावद्धेयप्रत्यनीकनित्याविर्भूतज्ञानानन्दादिरूपेण, जीवे तदसम्भवात् । नापि जीवत्वरूपेण, कारणे परब्रह्मणीश्वरे तदभावात् । यदि सत्त्वद्रव्यत्वचेतनत्वादिरूपेण तर्हि ततश्च इदानीं देवाद्यवस्थाः जीवाः कारणावस्थायां सन्तो द्रव्यभूताश्चेतना इत्युक्तं भवति । वैशेषिकादिमतेऽप्येतावत्सम्प्रतिपन्नम् , ततश्च ब्रह्मकार्यत्वोपदेशवैयर्थ्यम् , न हि पूर्वं जीवा अचेतना अद्रव्यभूता इति कश्चिन्मन्यते; अतः ईश्वरासाधारणाकारानुवृत्त्यभावाद्ब्रह्मोपादानकत्वं न सिध्येत् , तन्तुतत्कारणकार्पासतूलाद्यसाधारणाकाराननुवृत्तेरनन्यत्वाभावात् ; अनेनैव न्यायेन महदादिकं प्रति ब्रह्मोपादानत्वं च निरस्तम् । यादवप्रकाशीये तु - प्रकृतिश्चेति मूलप्रकृतिश्च ब्रह्मेति व्याख्यातम्,तदयुक्तम् ; तथाहि- प्रतिज्ञादृष्टान्तौ हि जगदुपादानत्वसाधकौ, तौ कथं ब्रह्मण एव मूलप्रकृतित्वसाधकौ “गौरनाद्यन्तवती " इत्यादिवाक्यान्तरैर्महदादिप्रपञ्चस्य प्रकृतिकार्यत्वप्रतिपादनात्तदेकत्वाभावे ब्रह्मण उपादानत्वानुपपत्त्या प्रतिज्ञादृष्टान्तोपरोधप्रसङ्गादिति चेत्, सौत्रहेतुपदस्याव्याव्यवहितसाध्येनान्वये सम्भवति व्यवहितसाध्यान्वये क्लिष्टत्वमेव फलम् । ननु प्रकृतेर्ब्रह्माव्यतिरिक्तत्वमुपादानत्वोपयोगी, सत्यम्, अव्यवहितं प्रधानसाध्यं च वक्तव्यम्
; ब्रह्माव्यतिरेकनिर्वाह्यमुपादानत्वं हि प्रधानसाध्यम् । तदार्थमस्त्विति चेन्न, अव्यवहितस्य प्रधानसाध्यस्य श्रौतत्वेन तदुपयोग्यर्थान्तरस्यार्थसिद्धत्वोपपत्तेः । तदुपयोगि ब्रह्मात्मकत्वं तु निर्दोषत्वश्रुत्यविरोधेनान्यत्र सम्यङ्निरूपितमिहार्थसिद्धमिति प्रकृतिशब्दस्योपादानपरत्वं युक्तम् । एवं सति चशब्दश्चार्थवान्, निमित्तभूतमेवोपादानं चेति ह्यर्थः । मूलप्रकृतित्वे चशब्दस्य न प्रयोजनम्, बहुभवनसमानकर्त्तृकाभिध्योपदेशश्च निमित्तभूतस्यैवोपादानभावं प्रथममवगमयति । तृतीयसूत्रार्थः पूर्वमेव शिक्षितः । परिणामादित्यस्य व्याख्यानावसरे च यदुक्तं बहु स्यां प्रजायेयेति, बहु स्यामिति प्रकृतिपुरुषेश्वरभावेन विभागं दर्शयति, प्रजायेयेति महदादिरूपेण विक्रियामिति,तत्सकलप्रमाणोपपत्ति
विरुद्धम् । प्रकृतिपुरुषेश्वराणां नित्यत्वानादित्वश्रुतिविरोधात् अकृताभ्यागमादिप्रसङ्गाज्जीवस्याप्यन्तवत्त्वेन मोक्षशास्त्रानर्थक्यप्रसङ्गाच्च । शक्तिरूपेणावस्थानान्नित्यतवादिकमिति चेत् यदि शक्तिशब्दस्तदुत्पादनसामर्थ्यवाची तदा घटादितुल्यत्वं, यदि त्रिविधशक्तिमद्द्रव्यमवस्थितं तदा स्वशक्तिभेदेन प्रलयदशायामपि द्रव्यत्रयं विलक्षणं स्थितमिति प्रकृतिपुरुषेश्वरभावेन बहुस्यामिति सङ्कल्पोऽनुपपन्नः । किञ्च सङ्कल्पमात्रमेवानुपपन्नम् ,ईश्वरांशस्य विभागो नाम ज्ञानादिगुणोद्बोधः, न तु खण्डितत्वम्; प्रलये नियन्त्रंशस्यापि शक्तिमात्रावशिष्टतया तदानीं सार्वज्ञ्याद्युद्भवाभावात् । यदि सार्वज्ञ्यादिकमुद्भूतं तदानीमीश्वरः स्यामिति सङ्कल्पोऽनुपपन्नः, उद्भूतसर्वज्ञत्वादिगुणकत्वमेव हीश्वरत्वम् । चैतन्यशक्तियोगात् सङ्कल्पोपपत्तिरिति चेन्न, घटरूपेण परिणामशक्तियोगेऽपि घटत्वानुदये सलिलाहरणादिकार्यानुपपत्तिवज्ज्ञानादिगुणानुद्भवेन तत्कार्यसङ्कल्पविशेषानुपपत्तेः, अतः सङ्कल्पादीश्वरत्वविभागः, ईश्वरत्वविभागात्सङ्कल्प इत्यन्योन्याश्रयः । पूर्वं जगदवसाने इयन्तं कालं स्वप्स्यामि ततः प्रबोद्धाऽहमिति सङ्कल्पबलात्प्रबुद्धः सङ्कल्पयतीति चेत्तर्हि ईश्वरांशस्य प्रबुद्धत्वमेव विभाग इति प्रबुद्धस्य प्रकृतिपुरुषेश्वररूपेण विभक्तः स्यामिति सङ्कल्पोऽनुपपन्नः । त्रिधा विभागाविषयः बहु स्यामिति सङ्कल्पः पूर्वजगत्संहारसमय इति चेन्न; “सदेव सोम्येदमग्र आसादेकमेवे"ति श्रुतिविरोधात् । न हि प्रलयात्पूर्वमेकत्वापत्तिः, अतः परोक्तार्थोऽनुपपन्नः । “योनिश्च हि गीयते” इत्यत्रापि “ब्रह्मयोनि"मितिपदस्य ब्रह्मणः अव्यक्तस्योपादानमिति व्याख्यानमप्यनुपपन्नम्, ब्रह्मशब्दस्य मुख्यार्थे बाधकाभावात्समासेऽपि निषादस्थपतिन्यायेन षष्ठीसमासात्कमर्धारयस्य प्रबलत्वादलुप्तविभक्तित्वेन द्वितीयार्थत्वे सम्भवति लुप्तविभक्तित्वाश्रयणेनाश्रुतविभक्तयर्थलक्षणायोगादस्मिन् प्रकरणे “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्म विद्याम्” इति पुरुषशब्दासन्नब्रह्मशब्दस्य पुरुषविषयत्वदर्शनेन पुरुषं ब्रह्मयोनिमिति ब्रह्मशब्दस्यापि पुरुषशब्दसमानविषयत्वोपपत्तेश्च । किञ्च स्वाभाविकभेदाभेदपक्षे ब्रह्मण उपादानत्वमपि दुर्घटम् भोक्तृभोग्यनियन्तॄणामंशानामनादित्वात्तेषां न ब्रह्मोपादानकत्वमुपपन्नम् । ईश्वरातिरिक्तस्यांशिनः कस्यचिदप्रामाणिकत्वं च वक्ष्यते । त्रयाणामप्यंशानां शक्तिरूपेणानादित्वमप्युपपन्नम्, विकल्पासहत्वात्, किं तदुपादानसामर्थ्यं शक्तिः ? उत त एवांशास्सूक्ष्मरूपाः ? प्रथमेऽनादित्वं न स्यात्, न हि घटकरकशरावोत्पादनसामर्थ्यं मृत्तिकायामस्तीति घटादीनामनादित्वम्, द्वितीये च सूक्ष्मरूपास्त एव कारणमिति तेषामेव ब्रह्मलक्षणयोगित्वात्कारणातिरिक्तब्रह्मणो मानशून्यत्वात्तेषां मिथः प्रकारप्रकारिभावानभ्युपगमाच्च ब्रह्मबहुत्वं स्यात् ।किञ्च किं भोग्यभोक्तृनियन्तारः प्रत्येकं ब्रह्म? उतांशत्रयसमुदायो ब्रह्म? उत तेष्वनुगतं तैर्भिन्नाभिन्नस्वरूपं सन्मात्रं ब्रह्म? प्रथमे प्रकृतेरेव महदाद्युपादानत्वं स्यात् । न द्वितीयः, समुदायरूपस्य ब्रह्मण उपादानत्वेन भोक्तरि नियन्तरि च महदाद्यवस्थान्वयप्रसङ्गात् । तृतीये जगदुपादानवस्तुवाचिनः शब्दस्य किं प्रवृत्ति निमित्तम्?
किं सत्तासामान्यम्? उत मानार्हत्वव्यवहारार्हत्वरूप उपाधिः? उत द्रव्यत्वम्? उत अर्थान्तरम्? तत्र सामान्यं भवद्भिरनभ्युपगतम्, अभ्युपगमेऽपि चतुर्ष्वपि शिरस्सु शास्त्रवैयर्थ्यं, सामान्यस्य वैशेषिकादिभिरभ्युपगमाप्रामाणिकं व्यवहारार्हद्रव्यं जगत्कारणमित्यस्यार्थस्य प्रधानपरमाणुकारणवादिनामविगीतत्वाच्च । न ह्यद्रव्यमव्यवहार्यं मानशून्यं जगदुपादानमिति तैरभिमतम् । अर्थान्तरं चेत्तच्चिद्रूपत्वं वा त्रिविधशक्तिमत्वं वा निरतिशयब्रहत्वं वा यत्किञ्चिद्भवतु । तत्किं वृक्षसमुदाये वनत्ववदंशत्रयसमुदाये वत्तते? उत समुदाये एकैकस्मिन्? प्रथमे अंशत्रयसमुदायो ब्रह्म स्यादेकत्वञ्च समूहैक्यमेव भवेत्, न तु समूहान्तर्गतद्रव्यैक्यम्; ततश्च यथा सहकारफलानां न वनगतकृत्स्नसमुदाय उपादानम्, अपि तु सहकार एव; एवं महदादीनां प्रकृतिरेवोपादानं स्यान्न तु समुदायः । द्वितीये च तत्प्रवृत्तिनिमित्तं किं गोत्वादिसत्साधारणम्? उत खण्डत्वादिवदसाधारणम्? प्रथमे त्रयाणामेकत्वं नाम एक
जातीयत्वेन भवेत् । ततश्च प्रकृतिरेव महदाद्युपादानं स्यात्, यथा खण्डोगतरोम्णां खण्ड एवोपादानं न मुण्डः, यथा च द्रव्यत्वेनैकजातीयत्वेऽपि घटस्य मृत्पिण्ड एवोपादानम्, न कुलालादिद्रव्यमात्रं तद्वत् । त्रयाणां मिथो भिन्नत्वेऽपि सन्मात्ररूपेणाभिन्नत्वात् सन्मात्रस्यैकस्यांशिनो ब्रह्मण उपादानत्वं युक्तमिति चेन्न, खण्डमुण्डादीनां व्यक्तीनां मिथो भिन्नत्वेऽपि तासां द्रव्यत्वगोत्वाद्याकारेणाभिन्नत्वादंशिन एकस्य गोद्रव्यमात्रस्य ृङ्गलोमाद्युपादानत्ववचनतुल्यत्वात् । द्वितीये च कस्यैकस्यांशस्यासाधारणः । यदि प्रकृत्यंशस्य तदा प्रकृतिरेवापादानमित्युक्तं स्यात् । इतरांशयोरन्यतरासाधारणत्वे प्रकृतेरब्रह्मत्वान्महदादिकं ब्रह्मोपादानं न स्यात् । यथा वृक्षत्वं स्कन्धप्रकाण्डशाखाद्यनेकांशानां अंशिभूतैकद्रव्यवृत्ति, एवं सच्छब्दनिमित्तमपि त्रयाणामंशानामंशिभूतैकद्रव्यवृत्तीति चेन्न, तथा सति सन्मात्रस्य तदंशभूतेषु वस्तुषु पूर्णवृत्तित्वानुपपत्तेः । न हि वृक्षः शाखापत्रपुष्पादिषु प्रत्येकं पूर्णः, तत्समुदायो हि पूर्णवृक्षः । यदि बह्वंशेषु प्रत्येकं सत्त्वं पूर्णवृत्ति, तदा जातिरेव स्यात् मिथो विरुद्धाकारेषु बहुषु प्रत्येकं पूर्णवृत्तिराकारो हि जातिः, यथा गोत्वं ततश्च ब्रह्मैकत्वं नाम जात्यैक्यं स्यात् आकारत्वेन ब्रह्मणो जातित्वप्रसङ्गः । यदि वृक्षत्ववत्संहतेष्वंशेषु वर्तते तदा ब्रह्मैकत्वं नाम समूहैकत्वं स्यात् । नन्वेकजातीयानां समूहभावमुपगतानामपि पत्राणामेकवृक्षानन्यत्ववत् त्रयाणामेकद्रव्यानन्यत्वमुपपद्यत इति चेत् तर्हि नीरन्ध्रसम्बन्धविशेषेणैकत्वं स्यात्, भेदकाकारवतां बहूनां निश्छिद्रसंश्लेषविशेषेण विनैकत्वानुपपत्तेः, तत्र वनस्य वृक्षस्य चैतावान् भेदः, परस्परं निरन्तरसंश्लेषरहितवृक्षसमूहो वनम्, निरन्तरसंसर्गविशेषयुक्तपदार्थसङ्घातो वृक्ष इति । तत्तदवयवानां स्वावयवसजातीयवस्त्वसाधारणकार्योत्पादनानुगुणस्संसर्गो विशेषशब्देन विवक्षितः, तेन छिन्नानां वृक्षावयवानां मिथः संसर्गव्यावृत्तिः, उक्तलक्षणसम्बन्धविशेष एव वृक्षस्यैकत्वप्रतीतिव्यवहारहेतुः, तदभावात्तदुत्थबीजान्तरोत्पन्नवृक्षाणां वृक्षान्तराणां चान्योन्यैकत्वव्यवहाराभावः । तत्र केचित्पदार्थाः भेदकाकाराप्रहाणेनैकत्वं भजन्ते, यथा विलीनाः कटकमुकुटादयः पिण्डत्वम्, केचिच्च भेदकाकाराप्रहाणेनैकत्वं भजन्ते, यथा इष्टका इष्टकात्वाप्रहाणेन भित्तत्वम्, तत्र भेदकाकारप्रहाणाप्रहाणे यथाप्रमाणमभ्युपगन्तव्ये । तत्र भोक्तृभोग्यनियन्तॄणामसङ्कीर्णस्वभावत्वस्य तत्तदसाधारणशक्तियोगस्य नित्यत्वाभ्युपगमात् स्वसाधारणाकाराप्रहाणेनैव ब्रह्मात्मनैकत्वं वर्णनीयम्, तत्र भेदकाकारस्य यथाप्रमाणमङ्गीकायर्त्वे सति नियन्त्रंशस्याश्रयत्वमितरांशद्वयस्य तदाश्रितत्वं च भवति “एतस्य वा अक्षरस्य प्रशासनो गार्गि " “सर्वमिदं विधृतं तिष्ठति” इत्यादि श्रुतेः, तथा च सति ईश्वरं प्रति चिदचित्तोः शरीरत्वमर्थसिद्धम्, चेतनेन धार्यद्रव्यविशेषो हि शरीरम्, वृक्षे तु प्रकाण्डशाखांशिनोऽचेतनत्वाच्छाखादीनां न तच्छरीरत्वम्, ईश्वरस्य तु चेतनत्वादंशान्तरस्य तद्धायर्त्वेन शरीरत्वं फलितम् । एतदुक्तं भवति, सन्मात्रस्य ब्रह्मणो मृत्पिण्डवदेकत्वे त्रयाणां नित्यत्वानादित्वश्रुतिविरोधः, स्वतो भिन्नेष्वंशेषु प्रत्येकं पूर्णवृत्तिसत्त्वाकारेणैकत्वे जात्यैक्यम्, सत्त्वं संहतेषु वर्त्तते चेत्समूहैक्यम्, अतो निमित्तोपादानभेद एव भवेत्,
धर्म्यैक्याभावात् । संहतेषु वर्त्तते चेदनादिभेदाप्रहाणेन संहतत्वादाश्रयाश्रयिभावादिलक्षणस्य भेदस्य प्रामाणिकत्वाच्चिदचितोश्शरीरत्वमर्थसिद्धमिति चिदचिच्छरीरकं ब्रह्म सच्छब्दवाच्यमुपादानं स्यात् ततश्चास्मदीयः
पक्षः परिगृहीतः स्यात् । आश्रयाश्रयिभावानभ्युपगमे जात्यैक्यं वा समूहैक्यं वा स्यात् ततश्च निमित्तोपादानैक्यासिद्धिरिति । किञ्च बहु स्यामिति सङ्कल्पश्च घटः स्यामिति कुलालसङ्कल्पकल्पः स्यात्, सङ्कल्पस्य सद्द्रव्यैकदेशगतत्वात्परिणामस्य तदेकदेशान्तरगतत्वाच्च । सामानाधिकरण्येनैक्योपदेशाः सर्वेऽप्यमुख्याः स्युरिति प्रथमसूत्रे सम्यगुपपादितम् । सन्मात्रं ब्रह्म किं स्वांशगतं नरकादिदुःखं स्वगतत्वेन जानाति, न वा न चेदज्ञत्वमेव । स्वगतत्वेन जानाति चेत् दुःखित्वं स्यात् । जीवांशस्य भिन्नत्वाददोष इति चेन्न, भेदे सत्यपि अभेदाभिमानस्यापरोक्षस्य विद्यमानतया दुःखित्वमेव स्यात्, पाणिपादादीनां पुरुषांशतया भेदे सत्यप्यभिन्नत्वप्रतिपत्त्या हि पन्नगदष्टपादस्य पुरुषस्य अङ्गान्तरेषु प्रदाहो भवति, पणौ सञ्जातव्रणस्य करणान्तरपाटत्वं च शिथिलीभवति, हृदि निहितहरिचन्दनबिन्दोः सर्वाङ्गप्यायनं भवति; छिन्नायामङ्गुलौ चन्दनलिप्तायां ज्वलनज्वलितायां च सुखदुःखे पुरुषस्य न भवतः, स्वगत्वेन ज्ञानाभावात्; अतः स्वगतत्वेन ज्ञानवत्त्वे ब्रह्मणो दुःखित्वं स्यात्, ततश्च बहु स्यामिति दुःखाकरबहुभवनसङ्कल्पः सर्वज्ञस्य न स्यात् । किञ्च “तदरूपमनामयम्” इत्यादयो ऽपुरुषार्थनिषेधश्रुतयो निर्विषयाः । किञ्च निर्विकारत्वश्रुतयश्च निष्फलाः। ननु नियन्त्रंशविषया निर्विकारत्वश्रुतयः, ब्रह्मविषया विकारित्वश्रुतय इति सविषयत्वम् । नैतदुपपद्यते- “यत्तच्छान्तमजरममृतम्” “एतदमृतमेतदभयमेतद्ब्रह्म” “सत्यं ज्ञानमनन्तं ब्रह्म” “यतो वा इमानि भूतानि जायन्ते” “तद्ब्रह्म” सर्वं स्वल्विदं ब्रह्म तज्जलानिति ब्रह्मण एव विकारतदभावनवणात् “नित्यो नित्यानां” “ज्ञाज्ञौ द्वौ” “स वा एष महानज आत्माऽजरोऽमरः” “स वा एष महानज आत्मा अन्नादो वसुदानः स त आत्माऽन्तर्याम्यमृतः” “स कारणं करणाधिपाधिपः” “यः सर्वज्ञः सर्ववित्” “तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते” “धातुः प्रसादान्महिमानमीशम्” “सप्त प्राणाः प्रभवन्ति तस्मात्” “सहस्रशीर्षा पुरुषः तस्माद्विराडजायत विराजो अधिपूरुषः” इति ईश्वरस्यैव विकारतदभावश्रवणाच्च । तथा स्मृतिष्वपि “तद्ब्रह्म परमं नित्यमजमक्षरमव्ययम् । एकस्वरूपं च सदा हेयाभावाच्च निर्मलम् । कारणं कालगगने यथा सन्निधिमात्रः । अविकारतया ब्रह्म तथा सृष्टेर्महीपते” इति, “सकाशादात्मनस्तद्वदात्मानः प्रभवन्ति हि” इति ब्रह्मण एव विकारित्वाविकारित्वस्मरणात् “सन्निधानाद्यथाकाशकालाद्याः कारणं तरोः । तथैव अपरिणामेन विश्वस्य भगवान् हरिः” “कटकमुकुटकणिर्कादिभेदैः कनकमनेकमपीष्यते यथैकम् । सुरपसुमनुजादिकल्पनाभिर्हरिरखिलाभिरुदीर्यते तथैकः” इति ईश्वरेऽपि विकारतदभावस्मरणाच्च । विकारवाक्येषु ईश्वरवाचिशब्दा ब्रह्मपराः, अविकारित्ववाक्येषु ब्रह्मवाचिशब्दाः ईश्वरविषया इति चेन्न; सार्वज्ञ्यादिगुणविशिष्टेश्वरवाचिनां द्रव्यमात्रवाचित्वस्यामुख्यत्वात्, पत्रमात्रे वृक्षशब्दवत् ब्रह्मैकदेशे ब्रह्मवाचिशब्दानाममुख्यत्वाच्च ईश्वरातिरिक्तस्य कारणस्याप्रमाणिकत्वस्य वक्ष्यमाणत्वाच्च, अतो निमित्तोपादानयोर्मृत्कुलालयोरिवैक्यानुपपत्तेरपुरुषार्थन्वयप्रसङ्गात् विकारविधिनिषेधविरोधानुपपत्तेश्च स्वाभाविकभेदाभेदपक्षे उपादानत्वमनुपपन्नम् । ननु कथं तर्हि भवत्पक्षे सविकारत्वं निविर्कारत्वं च ईश्वरस्योपपद्यत इति चेत् शरीरभूतप्रकृतिद्वारको विकारान्वयः, निर्विकारत्वं चाव्यधानेन घटत इत्यविरोधः । ननु तर्ह्युपादानत्वममुख्यं स्यात्, देवादिनामरूपाभिमानानुगुणज्ञानप्रसरस्य महदाद्यवस्थायाश्चेश्वरगतत्वाभावात्, भाव्यवस्थाविशेषवतः प्रागवस्तायोगो ह्युपादानत्वम्, अवस्थाविशेषशब्दः स्थूलावस्थापरः, तेनाप्रलीनजगतः प्रलयावस्थामपेक्ष्य उपादानत्वव्युदासः । उच्यते, चिदचिच्छरीरकं ब्रह्म महदादिकार्यं प्रति मुख्योपादानम्,
उपादानत्वलक्षणयोगित्वात् मुकुटं प्रति कनकवत् । ननु असिद्धो हेतुः महदाद्यवस्थानां ब्रह्मगतत्वाभावात् न, ब्रह्मणः चिद
चिच्छरीरकतया प्रकृतेर्ब्रह्मस्वरूपान्तर्गतत्वात्प्रकृत्यवस्थानं ब्रह्मावस्थात्वात्, न हि विशेष्यमात्रं कस्यचित्स्वरूपम्, विशिष्टस्य वस्तुनो विशिष्टमेव हि स्वरूपं, न हि घटस्य मृण्मात्रं स्वरूपम्, किन्तु घटत्वविशिष्टम् । ननु यदि विशेषणमपि स्वरूपान्तर्भूतं तर्हि दण्डादयः संयोगादयश्च स्वरूपं स्युः न, यावद्विशेष्यभाविनामपृथक्सिद्धप्रकाराणामेव स्वरूपान्तर्भावात् । किञ्च घटादिवस्तुन उदकाहरणादितत्तदसाधारणकार्ययोग्यमेव स्वरूपं न मृण्मात्रं, पिण्डेष्टमादीनामपि घटत्वरूपत्वप्रसङ्गात् ।
घटस्योदकाहरणं प्रति योग्यता नाम अच्छिद्रघटत्वमेव । यस्य वस्तुनो यत्कार्यं यदाकारान्वयव्यतिरेकानुविधायि स आकारस्तस्य वस्तुनस्तत्कार्यं प्रति योग्यता, यथा अग्नेरुष्णत्वं स्फोटजनने, यथा च परशोर्नैशित्यं छेदने, यथा च मृदो मृत्त्वं घटादिरूपपरिणामे श्लक्षणार्द्रभावश्च; एवं प्रकृतिपुरुषकालाश्च जगद्रूपेण बहुभवने परमात्मनो योग्यतास्थानीयाः अयुतसिद्धिप्रकाराः, अत एव हि क्वचिच्छक्तिशब्देन जगदभिधीयते, कार्योपयोग्यपृथक्सिद्धविशेषणं हि शक्तिः, सा च योग्यतायोग्यवस्तुनः स्वरूपान्तर्गता, अतो महदाद्यव्यवस्थाश्चिदचिद्विशिष्टब्रह्मस्वरूपगता इति न हेत्वसिद्धिः । यतो विशिष्टं ब्रह्मस्वरूपम्, अत एव हि “तद्यथा रथस्यारेषु नेमिरर्पिता नामावरा अर्पिताः एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिताः” इत्यरनाभिदृष्टान्त उपन्यस्यते । न हि नाभिमात्रं रथचक्रम्, किन्तु नाभिवदरनेमी अपि हि स्वरूपान्तगर्ते तथा “अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषिकाम्” इति मुञ्जेषीकादृष्टान्तश्च श्रुतः, न हीषीकामात्रं मुञ्जः, किन्तु बाह्यदलविशिष्टेषीका हि मुञ्जस्वरूपम्, विशेष्यांशस्य दृष्टान्त इषीका, तथा “यदा हि कदली नान्या त्वक्पत्रान्नाथ जायते । एवं विश्वस्य नान्यस्त्वं त्वं चापीश्वर दृश्यते” इति त्वक्पत्रकदलीदृष्टान्तश्च चिदचिद्विशिष्टं ब्रह्मस्वरूपमवगमयति । न हि बाह्यत्वक्पत्रेण विना काण्डमािं कदली, अपि तु त्वक्पत्रविशिष्टकाण्डस्वरूपा; एवं विश्वविशिष्टं यत्स्वरूपं तत्र विशेष्यभूतस्त्वं विशेषणांशविलक्षणश्च दृश्यस इत्यर्थः । इयान् भेदः नाभीषीकाकाण्डानामरनेमिबाह्यत्वक्पत्राणां चाचेतनतया मिथो नियन्तृनियाम्यभावाभावान्न शरीरशरीरिभावः, अत एव नेम्यादिशब्दाश्च न विशेष्यवाचकाः । इह तु नियन्तृनियाम्यभावादिना शरीरात्मभावसम्भवाच्छरीरवाचिशब्दाः ब्रह्मपर्यन्ता इति, अतो महदाद्यवस्थानां विशिष्टब्रह्मस्वरूपगतत्वादुपादानत्वं मुख्यम् । किञ्च माभूत्प्रकृतिपुरुषयोः स्वरूपान्तर्भावः तथापि मुख्यत्वं युक्तम्, न हि शरीरद्वारकं ब्रह्मणो महदाद्युपादानत्वममुख्यम्, मुख्यनिर्वाहकव्यवहितत्वात्
ज्वालाव्यवहितस्य काष्ठस्य करणत्ववत् । न चाव्यवहितत्वमुपाधिः, दर्शितसपक्षे वृत्यभावेन साध्यसमव्याप्त्यभावात् । ननु मृद्द्रव्यव्यवहितकुलालस्यापि घटं प्रत्युपादानत्वं स्यात् न, निर्वाहकव्यवहितत्वाभावात् तदभावश्च स्वनिष्ठस्य मृत्पिण्डस्य घटं प्रत्युपादानत्वनिर्वाहकत्वायोगात्; करणकारकस्य तु स्वनिष्ठत्वात्तन्निष्ठज्वालायास्तन्निर्वाहकत्वं युक्तम्, आश्रयिनिष्ठामवस्थां प्रत्याश्रयभावस्य
स्वनिष्ठस्य निर्वाहकत्वं हि न घटते । नन्ववस्थातद्वतोर्व्यवहितत्वादाश्रयाश्रयिभावाभावादुपादानत्वममुख्यमिति । किमुपादान एवायं निर्बन्धः? उत कर्त्रादिकारकान्तरेष्वपि । न प्रथमः, दर्शितसपक्षानादरेण पक्षपातस्य निर्निबन्धनत्वेनाकिञ्चित्करत्वात् । द्वितीये तु कुलालस्य घटं प्रति कर्त्तृत्वं न सिध्येत्, तद्य्वापकहेतुत्वासिद्धेः, वृक्षत्वनिवृत्तौ शिशुपात्वनिवृत्तिवत्, हेतुत्वासिद्धिश्च हेतुहेतुमतोः पुरुषघटयोः पाणिव्यापारदण्डचक्रादिहेत्वन्तरव्यवहितत्वात् । “यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः” इत्यत्र रवेः प्रकाशकत्वं न मुख्यं सिध्द्येत् । किरणव्यवहितत्वात् । जगतः प्रकाशमानत्वे रविः किरणव्यवहितो हेतुः, तथा जलं वहतीत्यत्र जलस्य कर्मत्वं न सिध्द्येत्, घटव्यवहितत्वात् । पाके काष्ठस्य करणत्वं न सिध्द्येत् ज्वालाव्यवहितत्वात् “गवा यजेत अरुणया क्रीणाति” इति जातिगुणयोर्यागक्रयसाधनत्वं द्रव्यद्वारकत्वादमुख्यं स्यात् यज्ञाय पशव इत्यत्र पशूनां यज्ञातादर्थ्यं न स्यात्, तेषां हविरर्थतया तद्य्ववहितत्वात् “आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः” इत्यत्रादित्यादीनां वृष्टयादुपादानत्वं च न सिध्द्ये, किरणमेघादिव्यवहितत्वात् “इक्ष्वाकूणामिमं भूमिः” इत्यादौ स्वस्वातन्त्र्यलक्षणसम्बन्धोऽपि न सिध्द्येत् । करदानां राज्ञामवान्तरस्वातन्त्र्यव्यवहितत्वात् । पर्यङ्के शेत इति पर्यङ्कस्याधिकरणत्वं न स्यात्, आस्तरणव्यवहितत्वात् । सर्वेषां व्यहारो न मुख्य इति चेन्न; मुख्यत्वे सम्भवत्यनेकव्यवहारामुख्यताश्रयणानुपपत्तेः, उक्तं हि निर्वाहकव्यवधानं न मुख्यत्वविरोधीति । किञ्च व्यवहितस्य कार्यं प्रति हेतुत्वे को विरोधः? लक्षणाभाव इति चेन्न; नियतपूर्वभावित्वस्य लक्षणस्य सम्भवात् । नियतानन्तरपूर्वभावित्वं लक्षणमिति चेन्न, तद्धि सामग्रया एव, न हेतुमात्रस्य, अन्यथा कृष्यादिव्यवहितवृष्टिनदीपूरादेः सुभिक्षताहेतुत्वं न स्यात्; तद्धेतुत्वं हि व्यवह्रियते । काष्ठादीनां करणत्वादिकं च न स्यात्, अपूर्वस्य कृतिसाध्यत्वं च न स्यात्, भावार्थव्यवहितत्वात् । ननु व्यवहितस्यापि हेतुत्वेऽतिप्रसङ्गः स्यादिति चेत् तर्ह्यव्यवहितस्यापि हेतुत्वे रासभावावतिप्रसङ्गः स्यात् न, अन्वयव्यतिरेकाभ्यामतिप्रसङ्गस्य निर्वायमाणत्वादिति चेत्तुल्यम्, अव्याप्तिस्तु भवतोऽधिका । सजातीयव्यवहितस्य न कारणत्वमिति चेत्, किं येन केनाप्याकारेण सजातीयत्वम्? उत हेतुत्वाकारेण? उत हेतुत्वावान्तराकारेण? न प्रथमः, व्यवहिपत्रवेधे पुरुषस्याहेतुत्वप्रसङ्गात् । न द्वितीयः, कुलालस्य घटं प्रत्यहेतुत्वप्रसङ्गात् । न तृतीयः, शरव्यवहितस्य धनुषो जय साधनत्वाभावप्रसङ्गात् । व्यवहितहेतुरन्यथासिद्धत्वान्न व्यवहितकार्यं प्रति हेतुरिति चेत् व्यवहितस्यान्यथासिद्धिः किं तस्मिन् सत्यपि कार्यानुदयात्? उतासत्यपि कार्योदयात् ? उत कार्यान्तरनिष्पत्त्यर्थत्वात्? उत व्यवहितकार्यं प्रति किञ्चित्कारायोगात्? उत व्यवहितत्वादेव? न प्रथमः, अव्यवहिते बीजादौ हेतौ सत्यपि तदाचिदङ्कुराद्यनुदयेन बीजादेरहेतुत्वप्रसङ्गात्, सामग्रीवैकल्यानुदयः, नाहेतुत्वादिति चेदिहापि स्वकार्यस्य सामग्रीवैकल्यादनुदयः, न त्वहेतुत्वादिति तुल्यम् । न द्वितीयः, वृष्टिनदीपूराद्यभावे सस्यानुदयात् । न तृतीयः, गमनादिकार्यान्तरहेतूनां कुलालादिशरीराणां घटादिकार्यान्तरोत्पत्तिहेतुत्वात् । न चतुर्थः, कर्त्तुः कायर्ं प्रति करणप्रेरणरूपकिञ्चित्कारवत् काष्ठस्यैदनं प्रति ज्वालोत्पादनरूपकिञ्चित्कारवत्तन्निष्पादककार्यनिष्पादनरूपकिञ्चित्कारसद्भावात् व्यवहितव्यापारस्यापि किञ्चित्काररूपत्वेऽतिप्रसङ्गः परिहृतः । पञ्चमेपि किं व्यवहितत्वम् अव्यवहितकारणत्वं वारयति? उत व्यवहितकारणत्वं? प्रथममिष्टम् । द्वितीये तु कथमिदमहेतुत्वसाधकम्? व्यवहितानामशनिपातादीनां सस्याद्यहेतुत्वदर्शनादिति चेत्
अव्यवहितरासभादेरप्यहेतुत्वात् अग्न्यादेरपि धूमादिहेतुत्वं न स्यात् सन्निकर्षमनादृत्यान्वयव्यतिरेकाभ्यां हेतुत्वनिश्चये व्यवघानमप्यनादृत्यान्वयव्यतिरेकाभ्यां हेतुत्वनिश्चय इहाप्युपपन्नः, अन्यथा कुलालादेर्घटादिहेतुत्वाभावप्रसङ्गात्; एवं हेतुमात्रस्य सद्वारकत्वोपपत्तेस्तदवान्तरविशेषस्य निमित्तत्ववदुपादानत्वमपि सद्वारकं मुख्यम् । ननूपादानस्य कार्यावस्थाश्रयत्वं वाच्यम्; कथं व्यवहितस्यावस्थाविशेषाश्रयत्वम् ? उच्यते; कुम्भोदरसम्भृतमम्भः प्रति पुरुषस्येव परमा-त्मनो महदाद्यवस्थाश्रयत्वमुपपन्नमिति । कुम्भव्यवहितस्याम्भसः पुरुषानाधेयस्यापि स्वाधारधारकायत्तस्थितित्वं हि
दृश्यते । न च वाच्यं परमाधारः स्वाधेयधारणोपक्षीणः, न तु व्यवहितधारणपर इति । पुरुषस्य सलिलधारणफलान्वयदर्शनात् न हि निरुदकस्येवोदकपूर्णस्य घटस्य धारणे गुरुत्वातिशयनिबन्धनश्रमातिशयो न भवति । यदि घट एव पुरुषेण धार्यते न जलं तर्हि निरम्भः कुम्भधारण इव श्रमातिशयो न स्यात्, कुम्भमात्रधारणस्याविशेषात् । जलस्य घटसंसर्गमात्राच्छ्रमातिशयः, न धार्यत्वादिति चेन्न, अन्येन धृतस्य सोदकघटस्य पाणिस्पर्शमात्रेण श्रमप्रसङ्गात् । विमतं देवदत्तधार्यं, तदुपरिभागस्थत्वे सति तच्छ्रमहेतुत्वात्तुल्यगौरवसम्प्रतिपन्नपदार्थवत् । उदकविशिष्टघटो धार्य इति श्रमातिशयोपपत्तिर्व्यवहितधारणं च न स्यादिति चेत्तत्र विशेषणांशस्य धार्यत्वमस्ति वा, न वा ? न चेच्छ्रमातिशयो न स्यात्; अस्ति चेत्तद्वदेव महदाद्यवस्थाविशिष्टभचिद्द्रव्यं परमात्मधार्यमिति विशेषणभूतमहदाद्यवस्थाविशेषस्यापि परमात्मायत्तस्थितित्वात्तस्य तदाश्रयत्वमुपपन्नम् । किञ्च अव्यवहितादपि व्यवहितस्यैवाश्रयत्वं मुख्यं दृश्यते, यथा आस्तरणांशुकादपि पर्यङ्कस्य, यथा दर्भेभ्यो भूतलस्य, अव्यवहितमपि ह्यंशुकं न पुरुषस्य धारकम्, असामर्थ्यात् । श्वभ्रमुस्वपिधायिकं विस्तीर्णमंशुकं हि न पदन्यासं धारयितुं प्रभवति, कुपाच्छादका हि दर्भास्तत्र निहितपदं पुरुषं न धारयन्ति, तस्मादंशुकस्य दर्भाणां च धारणासामर्थ्यात्पर्यङ्कभूतलयोरेव हि धारणसामर्थ्यान्मुख्यमाश्रयत्वम् पर्यङ्कभूतलस्थयोरास्तरणदर्भयोरपि धारणसामर्थ्यकल्पने गौरवं स्यात्, अतश्चास्तरणदर्भाणां संयोगमात्रेण व्यवधायकत्वं; एवं महदाद्यवस्थामपेक्ष्य प्रकृतेराश्रयत्वासम्भवेन परमात्मनस्सर्वशक्तेस्तदाश्रयत्वं मुख्यम्, व्यवघायकसद्भावस्तु व्य-वहितयोर्नाश्रयाश्रयिभावविरोधी, विमतं व्यवधायकस्वसम्बन्धिनोर्व्यवहितयोर्नाश्रयाश्रयिभावविरोधि, स्वधारणसमर्थवस्तुनिष्ठव्यवधायकत्वादास्तरणवद्दर्भवञ्च; एवं महदाद्यवस्थां प्रति चिदचिच्छरीरकस्य परब्रह्मणः आश्रयत्वोपपत्तेः जगदुपादानत्वं मुख्यम् । ननु यद्येवं शरीरशरीरिभावमाश्रित्योपादानत्वमुच्यते, वैशेषिकादिपक्षात्कौ भवत्पक्षस्य भेदः? नियाम्यविशेषो हि शरीरमभिमतम्, चिदचित्तोरीश्वरप्रेर्यत्वं हि तन्मतेप्यस्ति, अहो महत्तरोऽयं पर्यनुयोगः, वैशेषिकादयश्चेदप्रामाणिकमेव ब्रूयुः तदुक्तं चेदणादरणीयमिति न नःप्रतिज्ञा अस्मदुक्तार्थस्तदभ्युपगतश्चेत्प्रामाणिकोऽर्थोऽङ्गीकृतः स्यात्, का नः क्षतिः। किञ्च साम्यमपि दुरुपपादम्, कालादिगाकाशाद्यचेतनस्येश्वरधार्यत्वानभ्युपगमाच्छब्दादिगुणोत्पत्तावेवाकाशादीनां तद्भोक्तृपुरुषादृष्टप्रेरणमुखेनेश्वरापेक्षा, न त्वाकाशादिस्वरूपस्य । चेतनानामप्यदृष्टानुगुणदेहेन्द्रियसंयोजनमुखेन सुखदुःखज्ञानादिहेतुरीश्वर इत्येतावता तत्प्रेर्यत्वम्, न तु स्वरूपस्थितौ तदपेक्षा, मुक्तयवस्थायां तु न कादाचिदपि तदपेक्षा, पश्चाद्दुःखाद्यसंयोगाय तदपेक्षेति चेन्न, पुण्यपापयोरात्यन्तिकविच्छेदादेव तत्सिद्धेः, प्रध्वंसस्यानन्ततया तन्नैरपेक्ष्याञ्च । अदृष्टाभावेपि दुःखोत्पादनक्षम ईश्वरः, अतस्तदनुदयाय तदपेक्षेति चेन्न; अपाथिर्वत्वेपि रवे पुष्पं जनयितुमीश्वरः क्षम इति पुष्पानुदयाय स्वस्येश्वरापेक्षेति वचनतुल्यमिदम्, उभयोरप्ययोग्यत्वाविशेषात्, अतो धारणाद्यनुगुणमसङ्कुचितमीशनं तन्मते नास्तीति यावद्द्रव्यभावितया तन्नियाम्यत्वधार्यत्वाद्यभावात्पराभिमतेन वाऽस्मदभिमतेन वा लक्षणेन कथञ्चिदपि चिदचितोः शरीरशरीरिभावानुपपत्तेर्जगदुपादानत्वं तन्मते दुरुपपादम्, अतो भाष्योक्तप्रकारमेव परमात्मनो जगदुपादानत्वमिति स्थितम् ॥ इति प्रकृत्यधिकरणम् ॥