॥ वाक्यान्वयात् ॥ बद्धासाधारणेन कर्मसम्बन्धवाचिना शब्देन कर्मरहितशुद्धस्वरूपप्रतिपादनं लाक्षणिकमिति जीवपरत्वं निरस्तम् , अत्र तु बद्धमुक्तसाधारणात्मशब्दनिर्देशात् मुक्तलिङ्गश्रवणाच्च शुद्धस्वरूपपरत्वं युक्तमिति शङ्कया सङ्गतिः । यद्वा कर्मशब्दस्य क्रियत इति व्युत्पत्त्या प्रकरणस्य ब्रह्मपरत्वमुक्तम् कमर्फलभूतभोक्तृत्वश्रवणात् अस्य तथा व्युत्पत्तिविशेषप्रदर्शनासम्भवात् तन्त्रसिद्धपुरुषपरत्वमिति शङ्कया सङ्गतिः। “उत्तराधिकरणे हि सेश्वरसाङ्खयप्रत्यवस्थानम् , तस्मादिदमपि निरीश्वरसाङ्खयनिराकरणपरमित्यभिप्रायेणात्रापीत्युक्तम् । बृहदित्यादि - कर्मफलभोक्तृत्वकण्ठोक्तिमुमुक्षूपास्यत्वादिब्रह्मलिङ्गवदद्वाक्यं विषयः, पतिजापादिप्रियसम्बन्धप्रतिपादकोपक्रम
मैत्रेयीब्राह्मणं चतुर्थे षष्ठे च अध्याये श्रूयते, तदुभयमपि मैत्रेयीब्राह्मणशब्देन विषयवाक्यतया विवक्षितम् , यथा “अन्तस्तद्धर्मोपदशा “दित्यत्र “य एषोऽन्तरादित्ये” अत्र “य एषोऽन्तरक्षिणि” इति वाक्यद्वयं सर्वज्ञसत्यसङ्कल्प इति सिद्धान्तानुगुणविशेषणम् , जीवकर्मविशेषाभियज्ञस्तत्फलदानशक्त इति भावः। किं जगत्कारणवादिवेदान्तप्रतिपाद्यं पुरुषाधिष्ठितं प्रधानम् ? उत ब्रह्म? इति प्रथमविचारः। तदर्थं बृहदारण्यके मैत्रेयीब्राह्मणे द्रष्टव्यतयोक्त आत्मा किं पञ्चविंशकः ? उत परमात्मा ? इति । किमुपक्रमे पतिजायापुत्रादिप्रियसम्बन्धः आत्मशब्दस्य पञ्चविंशपुरुषपरतामवगमयति, नेति । किं वाक्यावयवानां सर्वेषां परमात्मन्यन्वयासामञ्जस्यम् , उत पञ्चविंश ? इति । यदा परमात्मन्यन्वयासामञ्जस्यं तदा पतिजायादिप्रियसम्बन्धेनात्मशब्दस्य पुरुषपरत्वावगमाद्द्रष्टव्यतयोक्तः पञ्चविंशक इति तदधिष्ठितं प्रधानं वेदान्तवेद्यमिति स्यात् । यदा पञ्चविंशे वाक्यावयवनां समन्वयासामञ्जस्यं तदा पतिजायादिप्रियसम्बन्धादात्मशब्दस्य पञ्चविंशपरत्वानवगमान्मैत्रेयीब्राह्मणे द्रष्टव्यतयोक्तः पञ्चविंशातिरिक्त इति कारणवाक्यानां परमात्मपरत्वं स्यादिति । तथान्ते चेति- आदिमध्यगतजीवहेत्वनुगृहीतो विज्ञातृशब्दस्तत्पर इति भावः। नन्विति- पतिजायादिप्रियसम्बन्धप्रतिपादकवाक्यात् पूर्वमेवामृतत्वप्राप्त्युपायपरत्वमवगम्यत इत्यर्थः। परिहरति
तदुच्यत इति । अत एव- अमृतत्वप्राप्त्युपायोपदेशपरत्वादेवेत्यर्थः। ऐक्योपदेशफलभूतमेकविज्ञानेन सर्वविज्ञानं जीवप्रतिपादनपरत्वे कथं घटते ? बहवो हि जीवाः, न च मिथः कार्य्यकारणभूताश्चेत्याशङ्कय प्रकारैक्यादुपपद्यत इत्याह - सर्वेषामित्यादिना । ऐक्योपदेशश्च तन्निबन्धन इत्याह - देवादिस्थावरान्तेष्विति । ऐक्यविधिशेषभूतभेतनिषेधं प्रति विवक्षन् भेददर्शनेनानर्थप्रतिपादकवाक्यस्यार्थमाह- देवाद्याकाराणामिति । देवाद्याकारस्यानात्माकारत्वात्तस्य तदनन्यत्वमयुक्त् ; तस्मादात्मनोऽन्यत्वदर्शनं नाम निष्कृष्टत्वरूपव्यतिरिक्तदेवाद्याकारदर्शनमिति तस्यानर्थहेतुत्वमुच्यत इत्यर्थः। प्रबुद्धस्य भेदनिषेधं प्रतिवदति- यत्र हीति । अनात्माकाराणां देवत्वादीनां बहुत्वादेकाकार आत्मनि देवत्वादीनि न सन्तीति निषिध्यत इत्यर्थः। एवमनर्थहेतुतया कदाचिन्निवृत्तिहेतुमत्तया च प्रतिपन्नं भेददर्शनं देवादिभेदर्शतनमेवेत्युक्तं भवति । कारणत्वं कथमित्यत्राहतस्य ह वा इति । जीवाधिष्ठितप्रधानादाकाशगुणशब्दोत्पत्तिरिति ऋग्वेदादिकारणत्त्वमुपपद्यत इत्यर्थः। एवं पूर्वपक्षयुक्तिवशात् फलितमयोगव्यवच्छेदप्रतिक्षेपं दर्शयति- एवमस्मिन्निति पादसङ्गत्यादिकं पूर्ववत् । राद्धान्ते समञ्जसो भवति- स्वारसिको भवतीत्यर्थः। अस्वरसान्वयो हि
परैरुच्यते, श्रुतेः स्वारस्यं नाम सजातीयश्रुतयैकार्थ्यम् , न तु बाह्यस्मृत्यैकार्थ्यीमत्यभिप्रायेणाह- तमेवं विदित्वेति । श्रुतावपि प्रजापतिवाक्यादिषु चीवस्वरूपस्य प्रतिपाद्यमानत्वात्तदैकार्थ्यात्स्वारस्यमित्यत्राह - परमपुरुष इति । प्रधानभूतोपायपरवाक्यैकार्थ्यं स्वारसिकमित्यर्थः । श्रुत्यन्तरैकार्थ्यात् ब्रह्मवेदनस्यैवामृतत्वोपायत्वमित्युपपादितमुपसंहरति - अतोऽत्रेति- एवमुपक्रमवाक्यसामञ्जस्यं दशिर्तम् । वाक्यान्तराणामप्यन्वयस्वारस्यं दर्शयन् कारणत्वं स्वपक्षोपपादकमेव सत्परपक्षप्रतिक्षेपकं चेत्याह - तथा तस्येति । बद्धस्य सर्वज्ञत्वाद्योगान्मुक्तस्य जगद्य्वापारशून्यत्वाच्च कृत्स्नजगत्कारणत्वं न सम्भवतीत्यर्थः । पुरुषमात्रस्य - जीवमात्रस्य । अल्पशक्तित्वं मात्रचा अभिप्रेतम् । यद्वा कमर्परवशस्य मुक्तस्येतिपदाभ्यां स्वपक्षे सर्वावस्थस्य जीवस्य जगत्कारणत्वानुपपत्तिरुक्ता । साङ्खयमतेऽपि तदनुपपत्तिमाह - निर्व्यापारस्य च पुरुषमात्रस्येति । निमित्तोपादानभावानुगुणसङ्कल्पशक्तियोगाभावादिति भावः। कारणत्वफलभूतमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमपि राद्धान्तोपपादकमित्याह - तथा आत्मन इति । एकविज्ञानेन सर्वविज्ञाननिर्वाहं परोक्तं यत्त्वेतदित्यादिनाऽनूद्य तदयुक्तमित्यादिना दूषयति । ऐकात्म्योपदेशानुपपत्तिमाह -
प्रतिज्ञोपपादनायेति । श्रुतिस्थेदंशब्दस्य स्थाने एतच्छब्दो भाष्ये स्ववाक्यत्वज्ञापनाय प्रयुक्तः, इदमयमात्मेति कार्यस्य कारणतादात्म्योपदेशः । जीवस्य तदनुपपत्तिमुपपादयति - न हीति - कार्य्यस्य कारणेन हि स्वरूपैक्यसम्भवः, सूक्ष्मस्थूलचिदचिच्छरीरकः परमात्मेति कार्य्येण जगतैक्यं तस्यैव हि सम्भवति, न तु बद्धस्य वा मुक्तस्य वा जीवस्याकारणभूतस्य सम्भवतीत्यर्थः। अत एवेति - सर्वस्य परमात्मात्मकत्वादेवातदात्मकत्वानुसन्धाननिषेधः, न तु देवादिदृष्टिनिषेधः, प्रागुक्तहेतुनिबन्धनत्वात् भेदनिषेधस्येत्यर्थः। प्रथमे चेति - मैत्रेयीब्राह्मणानामनेकत्वात्प्रथम इति विशेषितम् । उत्तरमैत्रेयीब्राह्मणे “महद्भूतमनन्तमपार"मिति विशेषणाश्रवणेऽपि “अनुक्तमन्यतो ग्राह्य"मिति न्यायात् महत्त्वभूतत्वादिकमप्युक्तं भवतीति भावः। पतिजायादिभोग्यत्ववाचिवाक्यस्याप्यन्वयस्वारस्यं हि सूत्राभिप्रेतम् “वाक्यावयवेषु प्रधानभूतोपक्रमावयवस्य वाक्यशब्देनाविवक्षितत्वानुपपत्तेः, तस्मात्तदुपपादयितुं परोक्तार्थं यत्तूक्तमित्यादिनाऽनूद्य दूषयति- तदयुक्तमित्यादिना । अनन्वयस्यानिष्टत्वं कथम् , तस्य प्रसङ्गो वा कथमित्यत्राह - आत्मा वा इति । आत्मनस्तु कामाय सर्वं प्रियं भवति आत्मा वा अरे द्रष्टव्यः” इत्युक्ते “आत्मनस्तु कामाये"त्युक्तस्य वाक्यस्यात्मनो द्रव्यतोपयोगित्वं हि स्वरसतः प्रतीयत इत्यर्थः । अतो मा भूदन्वय इति न वाच्यमिति दर्शितम् । अथ जीवपरत्वेऽनन्वयमुपपादयति - आत्मनस्त्वित्यादिना - इष्टसम्पत्तये - सुस्वादिसम्पत्तये । ततः किमनन्वय
स्येत्यत्राह - न चेति । नेत्यस्यान्वेष्टव्यं भवतीत्युत्तरत्रान्वयः। कथमन्वेष्टव्यत्वासिद्धिरित्यत्राह - प्रियमेव हीति । पत्यादीनामात्मनः प्रियत्वे तेषामन्वेष्टव्यत्वं स्यात् , प्रियस्यैव पुरुषार्थत्वादित्ययर्थः। एवकाराभिप्रेतमाह- नत्विति । प्रियवियुक्तम्- पुत्रपत्यादिवियुक्तम् । तद्विवृणोति - यस्मादिति । न केवलं स्वाभिमतार्थसङ्गतिः, अनभिमतार्थसङ्गतिश्चेत्याह - प्रत्युतेति । त एवोपादेयाः स्युरिति- सकलेतरत्यागपूर्वकमात्मनो द्रष्टव्यत्वस्य विरोध एव स्यादित्यर्थः। जीवपरत्वेऽनन्वयश्चेन्माभूदन्वय इत्यत्राह - परेणेति । परेण- “आत्मा वा अरे द्रष्टव्य” इति परेण वाक्येन । वाक्यभेदः- महावाक्यभेदः । एकवाक्यत्वेन निर्वाहे सुशकेऽपि वाक्ये भेदोऽनुपपन्नः “सम्भवत्यैकवाक्यत्वे वाक्यभेदस्तु नेष्यते " इति न्यायादित्यर्थः। वाक्यभेदाभ्युपगमेऽपि प्रयोजनभावाच्च अन्वयोऽनुपपन्न इत्याह- अभ्युपगम्यमानेऽपीति । एवं परपक्षानुपपत्तेः परिशेषादर्थान्तरपरत्वं सिद्धमित्याह - अत इति । उपपन्नार्थः क इत्यत्राह - सोऽयमुच्यत इति । स्वयं निरतिशयानन्दस्सन्नन्येषामपि प्रियत्वलेशास्पदत्वमापादयतीति । अन्येषामानन्दो यदधीनस्तस्यानन्दोऽनसधिक इत्यर्थसिद्धम् । यथाऽन्येषां विद्यां धनं वा ददतः पुरुषस्य ज्ञानाधिकत्वं धनाधिकत्वं चार्थसिद्धम् “स एको ब्रह्मणः आनन्दः” “यतो वाचो निवर्त्तन्ते " “रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति " इत्यादिश्रुत्यन्तरेषु तत्स्पष्टमभिहितं चेत्यभिप्रायः। उपदिश्यत इत्यनतेन श्रुतेस्तात्पर्यार्थ उक्तः। अस्यार्थस्य शब्दवाच्यत्वं कथमित्यत्राह- तदयमर्थ इति । परमात्मनः स्वाराधाकाभिमतदानस्येष्टत्वं विवृणोति - परमात्मा हीति । प्रतिनियतेति - स्वरूपनियमो नाम स्रक्चन्दनादिषु अस्येदमेव भोग्यं नान्यदिति नियमः। परिमाणनियमः भोग्यत्व ?तत्तद्वस्तुस्वरूपेण प्रियमप्रियं वा । यथोक्तं “तदैव प्रीतये भूत्वा पुनर्दुःखाय जायते । तदेव कोपाय यतः प्रसादाय च जायते । तस्माद्दुःखात्मकं नास्ति न च किञ्चित्सुखात्मकम्” इति । “आत्मनस्तु कामाय” इत्यस्य जीवात्मपरत्वेऽपि “आत्मा वा अरे द्रष्टव्यः” इति तु परमात्मविषयमेव । तत्राप्ययमर्थः, यस्मात्पत्यादीनामिष्टसम्पत्तये तत्परवशेन पत्यादयः प्रियत्वेन नोपादीयन्ते, अपि त्वात्मेष्टसम्पत्तये स्वतन्त्रेण स्वप्रियत्वेनोपादीयन्ते; तस्माद्य एवात्मनो निरुपाधिकनिर्दोषनिरवधिकप्रियः परमात्मा; स एव हि द्रष्टव्यः, न दुःखमिश्राल्पसुखदुःखोदर्काः परायत्ततत्तत्स्वभावाः पतिजायापुत्रदित्तादयो विषया इति । अस्मिंस्तु प्रकरणे जीवात्मवाचिशब्देनापि परमा
परिणामनियमः। न हि मनुष्यभोग्यस्य स्रगोदेर्देवभोग्यस्रगादितुल्यभोग्यत्मस्ति । आश्रितप्रियप्रतिलम्भकत्वे श्रुतिमाह एष ह्येवेति । तदेव प्रीतय इति - कस्यचिद्वस्तुनः प्रियत्वं तत्स्वरूपप्रयुक्तं चेत्सर्वदा सर्वेषां प्रियत्वं स्यात् । न च तदस्ति, कञ्चित्प्रति कदाचित्प्रियत्वं च परसङ्कल्पादीनमित्यर्थः । ननु “आत्मनस्तु कामाय सर्वं प्रियं भवति” “आत्मा वा अरे द्रष्टव्यः” इति वाक्ययोर्जीवपरत्वेऽप्यन्वयस्सम्भवति । तथाहि; न हि तत्तत्परतन्त्रो भोक्ता भुङ्क्त्े, अपि तु स्वातन्त्र्येण तत्स्वीकारपरित्यागक्षमः, तस्मात् प्रकृष्टानन्रूपे निष्कृष्ट आत्मनि तेनैव स्वातन्त्र्ेण प्रवर्त्तेतेतीति शङ्कायाम् “आत्मनस्तु कामाय” इत्यस्य जीवपरत्वाभ्युपगमेऽपि “आत्मा वा अरे द्रष्टव्यः” इतिवाक्यस्य परमात्मपरत्व एव स्वारस्यमुपपादयति - आत्मनस्तु कामायेत्यस्येति । येन स्वातन्त्र्ेण स्वात्मदर्शने प्रवर्त्तते, तेनैवानवधिकातिशयानन्दरूपपरब्रह्मप्राप्तौ प्रवर्त्तते, तस्यैव स्वाभाविकनिरतिशयानन्दयोगादित्यर्थः। प्रकृष्टानन्दस्यैव प्रेप्सितव्यतारूपार्थौचित्यातिशयादात्मशब्दार्थवैरूप्यं
सोढव्यम् , मुण्डोपनिषदि “तपसा चीयते ब्रह्म” “तस्मादेतद्ब्रह्म” इतिवाक्यद्वयस्थब्रह्मशब्दवैरूप्यवदितिभावः। एवं तर्ह्यमेव निर्वाहः स्यादिति शङ्कायामस्मादप्यर्थात् पूर्वोक्तार्थ उपपन्नः। आत्मशब्दवैपतीत्याभावादित्यभिप्रायेणाह - अस्मिंस्तु प्रकरण इति । वक्ष्यमाणसूत्रोक्तप्रकारेण जीववाचिशब्दानां परमात्मपर्यन्ताभिधायित्वमुपजीव्योक्तं परमात्मन एवाभिधानादिति । अयमर्थः “महद्भूतमनन्तमपारम् , “विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति” इत्यत्र विज्ञानघनशब्दो जीवविषयः, भूतानुविनाशित्वावगमात् । अत्रामृतत्वप्राप्त्युपायत्वसर्वजगत्कारणत्वसर्वज्ञत्वतदेकविज्ञाननिबन्धनसर्वविज्ञानव्यतिरिक्तवेदननिन्दादिभिः प्रकरणस्य परमात्मपरत्वदार्ढ्यावगमात् महद्भूतमनन्तमपारमितिपदैः सामानाधिकरण्याच्च चीववाचिनोऽप्यस्य विज्ञानघनशब्दस्य परमात्मपरत्वमर्जनीयम् , तस्माज्जीववाचिशब्दस्यापि
परमात्मपरत्वनिश्चयानुगुणबहुवाक्यस्वारस्यभङ्गेन अन्यतरात्मशब्दस्यार्थकथनात् आत्मशब्दद्वयस्य अर्थैकरूप्यवर्णनादपि तादृशबहुवाक्यस्वारस्यानुगुणं परमात्म
परतयैव “आत्मनस्तु कामाय” “आत्मा वा” इति वाक्यद्वयस्थात्मशब्दयोरर्थैकरूप्यवर्णनं युक्तमिति ।“प्रतिज्ञासिद्धेः” रित्यादिसूत्रत्रयम् “आत्मनस्तु कामाय पतिः प्रियो भवति"त्यारभ्य “एतेभ्यो भूतेभ्यस्सभुत्थाय तान्येवानुदिनश्यती " ति जीवोपप्रमनिर्वाहपरं परैर्व्याख्यातम् , तदयुक्तम् ; पूवेसूत्रणोपक्रमस्य कृतनिर्वाहत्वात् ,वाक्यान्वयो नाम वाक्यावयवानां मिथोऽन्वयः, न तु वाक्यान्तरेणान्वयः, सूत्रस्यैकप्रकरणविषयत्वात्प्रकरणस्य महावाक्यरूपत्वात्; उपक्रमश्च वाक्यान्वयेषु प्रधानभूतः, स कथं वाक्यावयवानामन्वयं परमात्मविषयतयैव प्रतिपादयता सूत्रेणाविवक्षितः स्यात् । अतो जीवशब्देन परमात्मभिधाननिर्वाहपरमत्तरसूत्रत्रयं मन्वानस्तत्रापि चरमसूत्रस्यैव सूत्रकाराभिमतनिर्वाहपरत्वं हृदि निधाय ततः पूर्वस्य सूत्रद्वयस्य मतान्तरपरत्वं वदन् सूत्रत्रयमवतारयतिमतान्तरेणापीति । मतान्तरेण सूत्रकातानभिमतेनेत्यर्थः। अनेन यादवप्रकाशोक्तयोजनाव्यावृत्तिः। जीवशब्देन परमात्माभिधानोपपादनायेति । अनेन सर्वव्याख्यात्राभिमतनिर्वाहव्यावृत्तिदर्शिता । जीवशब्देन उपरितनवाक्यगतेनेत्यर्थः॥
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः॥ एकविज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धेरिदं लिङ्गमिति । एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपादककार्य्यकारणाभावकृतैक्यस्य लिङ्गं जीवात्मवाचिशब्देन परमात्माभिधानमित्यर्थः। हेतुवशात्साध्यप्रसिज्ञांशोऽध्याहृतः जीवात्मवाचीति । अयं यादवप्रकाशपक्षोऽस्मिन् सूत्र उपन्यस्तः, तत्र हि कार्यात्मना कारणात्मना च जीवब्रह्मणोर्भेदाभेदौ स्वाभाविकौ मतौ ॥
उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः। विरुद्धमतान्तरं हि पूर्वतमनिरासेन विना नोदेति; तस्मात् सूत्राभिप्रेतमाश्मरथ्यमतदूषणमाह- यदुक्तमित्यादिना । अजत्वश्रुतिविरोधः अकृताभ्यागमकृतविप्रणाशादिप्रसङ्गः फलभोगार्थसृष्टिविरोधः उपायानुष्ठानवैयर्थ्यम् अपुरुषार्थता च दूषणम् , “तोयेन जीवान् विससर्ज " इत्यादयो जीवोत्पत्तिप्रलयवादाः कथमित्यत्राह- जीवात्मा इति । सूत्रार्थमाह - अत इति ।
अवस्थितेरिति काशकृत्स्नः । अत्रापि पूर्ववदभिप्रेतं दूषणमाह - यदुक्तमित्यादिना । सम्भावितयोः पक्षयोः पराभिमतं परिशेषयितुं स्वाभाविकौपाधिकत्वविकल्पः कृतः । शङ्करभास्करोक्तपक्षद्वयस्यापि “उत्क्रमिष्यत” इति सूत्रेणैकेन सूचितस्यः एतेन निराचिकीर्षितत्वज्ञापनाय पारमार्थिकत्वापरमार्थिकत्वविकल्पः कृतः । स्वाभाविकत्व
इत्यादिना - मुक्तौ स्वरूपं किं विद्यमानम् , उता विद्यमानमिति विकल्पमभिप्रेत्य ग्रन्थद्वयेन शिरोद्वयं दूषयति - भेदस्येत्यादिना । प्रथमविकल्पस्य द्वितीयं शिरो दूषयंस्तद्विशेषणीभूतद्वितीयविकल्पगतं प्रथमं शिरश्च दूषयति - पारमार्थिकेति । प्रागपि ब्रह्मत्वमुपपादयति - अस्मिन् पक्षे इति । द्वितीयविकल्पे द्वितीयं शिरो दूषयति - औपाधिकस्येति । तिरोधानासम्भवः कथमित्यत्राह- तिरोधानं नामेति । तिरोधानं नाम एवं विधमस्तु, ततः किमित्यत्राह - प्रकाश एवेति । तिरोधानं न सम्भवति चेत् नित्याविर्भूतं स्यात् , ततः किमित्यत्राह - अत इति । ननु “उत्क्रमिष्यत” इत्यत्र न तात्पर्य्यम् , सर्वदा ब्रह्मभावो विवक्षितः, अत उपाधेः पारमार्थ्यापारमार्थ्यपक्षद्वयेऽपि न दोष इति चेन्न; पूर्वं तथाभावे बन्धनिवृत्तिप्रयोजनस्य शास्रस्यानारम्भणीयत्वप्रसङ्गात् । औपाधिकहेयप्रहाणार्थमारम्भणीयतेति चेन्न; औपाधिकहेयस्य ब्रह्मण्य
च्छेद्ये सम्बन्धित्वादेकत्वप्रतिसन्धानेन जीवेश्वरविभागाभावप्रसङ्गात् । प्रदेशभेदादप्रतिसन्धानं चेत् एकस्योपाधौ गच्छत्येकस्यापि प्रतिसन्धानं न स्यादित्यादिदूषणजातं प्रदेशान्तरोक्तत्वादिह न प्रपञ्चितम् । अपरमार्थोपाधिकृतभेदावादे च “उत्क्रमिषनयत” इति पदमविवक्षितं कृत्वा सर्वदा ब्रह्ममावाविर्भावाभ्युपगमे अध्यासानुपपत्तिः, तिरोधानाभावात् । न ह्यतिरोहितस्वरूपे तत्त्वतो भासमाने अध्याससम्भवः, तिराधानाभ्युपगमे च दूषणं दर्शितम् । अतिरोहितस्वरूपस्यापि भेददर्शनं सम्भवतीति चेत् , आच्छादकाविद्याविकल्पनवैयर्थ्यम् , मुक्तावपि भेददर्शनप्रसङ्गश्च; स्वरूपयाथात्म्यावभासस्य भ्रमविरोधित्वाभावात् निवर्त्तकज्ञानेन दोषस्य निवृत्तत्वात् न भेददर्शनमिति चेन्न; निवर्त्तकज्ञानस्यापि पूर्वमवभासपानात्स्वरूपादानतिरिक्तविषयकत्वेन भ्रमनिवर्त्तकत्वानुपपत्तेः, न हीदमिति शतशो विशदतरमुपजायमानमपि ज्ञानं रजतभ्रमं निवर्त्तयतीत्यादिकमनुपपत्तिशतं पूर्वोक्तत्वादिह लेशतः प्रदर्शितम् । तर्हि “अस्माच्छरीरादि"त्यादिश्रुतेः कोऽर्थ इत्यत्राह - अस्मादिति । तर्हि कथमभिनिेष्पत्तिश्रुतिरित्यत्राह - तथाहि वक्ष्यत इति । अथ सूत्रं व्याचष्टे- अत इति । अतः मतान्तरेण निर्वाहानुपपत्तेरित्यर्थः। अवस्थितिशब्दस्य स्वतोऽधिकरणमाकाङ्क्षितम् , कुत्रेति, न तु किम्भावेनेति । कथमवस्थानमित्याकाङ्क्षाऽस्तीति चेत् सा तूत्थाप्या, न तु स्वतः । किम्भावेनेत्याकाङ्क्षा न क्वचिदप्यस्ति, अतः सूत्रस्वारस्यानुगुणं वाक्यमादत्ते य आत्मनीति - अचिदन्तः प्रवेशस्य स्पष्टत्वात् तज्ज्ञापनार्थं जीवसामानाधिकरण्यस्य स्पुटतरार्थश्रुत्यन्तरैकार्थ्येन शरीरशरीरिभावनिबन्धनत्वज्ञापनार्थञ्च “अनेन जीवेनात्मने"तिवाक्यं प्रथममुपात्तम् । कारणवस्थायामपि शरीरत्वज्ञापनार्थं देवदाविशेषनिर्णयार्थं चोदाहरति योऽक्षरमन्तरे सञ्चरन्निति । अन्तस्स्थितिनियमनयोरनुप्रवेशप्रशासनशब्दाभ्यां प्रत्यभिज्ञाततयैकार्थत्वात् सर्वात्मत्वविवरणरूपत्वाच्चोपादत्ते- अन्तः प्रविष्ट इति - सप्तम्यन्तपदैः कुत्रेत्याकाङ्क्षा शमिता । नियन्तृत्वा (मृतत्वा)दिभिः कथमित्याकाङ्क्षा शमिता, तत्तदवेद्यत्वेन नियन्तृत्वेन निर्दोषत्वेन च तेष्ववस्थानमित्यर्थः।
नन्ववस्थितिरस्तु, ततः कथं जीवशब्दस्य ब्रह्मवाचित्वमित्यत्राह - जीवशब्दश्वेति । शरीरवाचिशब्देषु आकृतिनयावतारः समर्थित इत्यर्थः ।
कस्मिन् प्रदेश इत्यत्राह - नामेति । सूत्रार्थो व्याख्यातः। अस्य सूत्रस्य आश्मरथ्यौडुलोभिमतोक्तेः पूर्वमनिवेशितत्वात् अत; परं मतान्तरानुपत्त्यासाच्च काशकृत्स्नमतेन निर्वाहस्य सूकाराभिमतत्वमवगम्यते, अस्य सूत्रकाराभिमतत्वे हेतुभूतं पूर्वोक्तमतद्वयाद्वैषम्यमाह - एवमात्मेति । अपहतपाप्मत्वसर्वज्ञत्वशब्दौ उभयलिङ्गत्वप्रदर्शनार्थौ, आदिशब्दो विरजत्वसर्वशक्तित्वादिपरः, मोक्षवादिन्य इत्यन्तेन भेदश्रुतयो विवक्षिताः। अभेदश्रुत्याभिप्रायेणाह - जगत्सृष्टीति । सम्यगिति - प्रत्यक्षादिविरोधः परस्परविरोधश्च यथा न भवति तथेत्यर्थः। सकलश्रुत्यविरोधमुख्यार्थत्वानुगुण्यमेतन्निवर्ाहस्वीकारहेतुरित्यर्थः। अभेदनिर्देशस्यावस्थितिनिबन्धनत्वं सूत्रकारेणैव भगवता व्यासेन मोक्षधर्मे च याज्ञवल्क्यजनकसंवादे स्पष्टतरमभिहितम् “पश्यं तथैवापश्यं च पश्यत्यन्यस्तथाऽनघ । षड्िवंशः पञ्चविंशञ्च चतुविंशञ्च पश्यति” इत्यादिना चिदचिदीश्वरवैलक्षण्यं बहुशः प्रतिपाद्य “यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विज । तदा स केवलीभूताः षड्िवंशमनुपश्यति” इति प्रकृत्यात्मविवेकानन्तरं जीवविलक्षणपरमात्मदर्शनमुक्तवा “अन्यश्च राजन् स परस्तथाऽन्यः पञ्चविंशकः। तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः” इति शरीरशरीरिणोर्भेदेपि शरीरान्तःस्थितस्य शरीरिण एकत्वादयमेकः पुरुष इति व्यवहारवदन्तरवस्थितिनिबन्धनाः प्रकाय्यर्ैक्यविषया अभेदव्यवहारा इत्युक्तवा “तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम्” इति तात्स्थ्ादेव हेतोः पञ्चविंशकस्याच्युतशब्दवाच्यस्य परमात्मनश्च स्वरूपैक्यं साधूनामनभिमततमत्युक्तवा “जन्ममृत्युभयाद्भीता योगाः साङ्खयाश्च काश्यप ।षड्िवंशमनुपश्यन्ति शुचयस्तत्परायणाः” इति संसारभयनिरासकं षड्िवंशकत्वेन परमात्मनोऽभेदज्ञानमित्यत्राध्यात्मशास्त्रविदामैककण्ठ्यमित्युक्तवा “यदा स केवलीभूतः षड्िवंशमनुपश्यति । तदा सर्वत्र सिद्धत्वान्न पनर्जन्म विन्दति” इति । षड्विंशज्ञानादपवर्गमुक्तवा “एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ । बुद्धश्चोक्तो यथातत्त्वं यथाश्रुतिनिदर्शनात्” इति चिदचिदीश्वरवैलक्षण्येनोपसंहृतम् । तथा वैष्णवे पुराणो च स्पुटमिदमुच्यते, यथा भगवन्तं प्रति ध्रुवः “सर्वात्मकोऽसि सर्वेश सर्वभूतस्थितो यतः। कथयामि ततः किं ते सर्वं वेत्सि हृदि स्थितम्” इति । अत्र ह्यवस्थितिनिबन्धनं सर्वात्मकं स्पष्टम् , अवस्थानञ्च शरीरप्रतिसम्बन्धितयेति तत्रैव दृश्यते “सर्वेन्द्रियान्तःकरणपुरुषाख्यं हि यज्यगत् ।
स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः” इति । न च विश्वरूपशब्दश्चारुरूपा सालभञ्जिकेतिवत्
अमुख्यार्थतया नेयः, स्वारस्याभावाभावात् । तत्रैव स्वारस्योत्तम्भकमपि दृश्यते प्रह्लादवचनेन “एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् । द्रष्टव्यमात्मवत्तस्माद्यतोऽयं विश्वरूपवाक्” इति धार्य्यत्वधारकत्वरूपवैधर्म्यनिर्देशेन रूपतद्वतोर्हि भेद उपलभ्यते । तत्रैव ध्रुववचनादेव धार्य्यधारकभावोऽवगम्यते “सर्वस्मिन् सर्वभूतस्त्वं सर्वः सर्वस्वरूपधृक् । सर्वं त्वत्तस्ततश्च त्वं नमस्सर्वात्मनेऽस्तु ते” इति । सर्वस्मिन् शरीरे सर्वचेतनभूतत्वसर्वत्वोपपादकं सर्वस्वरूपधृगिति । कारणत्वमपि तदुपपादकमाह सर्वं त्वत्त इति । ततश्च त्वमिति । ततः- तस्मात्, सर्वस्वरूपधृक्तवात् सर्वकारणत्वाञ्च सर्वं त्वमित्यर्थः। रूपत्वञ्च शरीरतयेति दर्शयता प्रह्लादेनोक्तं “सर्वागत्वादनन्तस्य स एवाहमवस्थितः” इति । शरीरं हि चेतनेन व्याप्यो द्रव्यविशेषः, तथा च भगवन्तं प्रति अर्जुनवचनम् , “सर्वं समाप्नोषि ततोऽसि सर्वः” इति । एषु श्रुतिस्मृतिवचनेषु “अनुक्तमन्यतो ग्राह्यम्” इतिन्यायाद्धारणव्यापादिष्वनयतमोक्तावप्यन्यतमान्तरसिद्धिरनुसन्धेया, ततश्च व्यापनमेव धारणनियमनयोरन्यतरचिवं हि नृपनभोभृत्यकुटुम्बादिव्यावर्त्तनेन शरीरत्वमवगमयति, शरीरलक्षणं च भाष्यएव दर्शयिष्यते, अत एव “तदनुप्रविश्य सञ्च त्यञ्चाभव"दित्यत्रापि शरीरशरीरिभावनिबन्धनं तत्तच्छब्दवाच्यत्वमवगम्यते, अन्तःप्रवेशनेन प्रशासनादीनामर्थसिद्धत्वात् । श्रुयते ह्यन्तःप्रवेशसहचारितया प्रशासनादिकम् “अन्तःप्रविष्टः शास्ता जनानाम् , “एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः” इति । तथा “सर्वं स्वल्विदं ब्रह्म तज्जला"नित्यत्राननशब्दवाच्या स्थितिर्धारणनिबन्धना, “सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाम्सत्प्रतिष्ठाः” इति सदायतनशब्देन स्थितिहेतुत्वाभिधानात् । धारणं चानुप्रविश्य प्रशासनेन, उदा हृतश्रुत्यैकार्थ्यात् “मयि सर्वमिदं प्रोप्तं सूत्रे मणिगणा इव” इति स्मरणात् “तत्सृष्ट्वा तदेवानुप्राविशत्” इति सृष्टयनन्तरं स्थित्यर्थानुप्रवेशदर्शनाञ्च । उत्पत्तिलयौ च न निष्कृष्टस्वरूपे निर्विकारे सम्भवतः, अतो जन्मादिकारणत्वस्य हेतुत्वोपन्यासाच्छरीरशरीरिभाव एव सामानाधिकरण्ये हेतुरिति श्रुत्यैव दर्शितम् । अस्य सूत्रस्य न केवलं सर्वश्रुत्यविरोधमुख्यत्वोपपत्तेः, किन्तु प्रबन्धान्तरस्थसूत्रकारवचनैकार्थ्यात् तदुपबृंह्मणैकार्थ्यात् प्रत्यक्षश्रुतावेव हेतुहेतुमद्भावदर्शनाञ्चान्तरात्मतयाऽवस्थानस्यैव अभेदनिर्देशहेतुत्वपरत्वं सिद्धम् । इह जीववाचिशब्दः कः ? तस्य परमात्मपर्यन्तत्वे किं कारणम् ? तस्मिन् सति हि तत्पर्यन्तत्वनिर्वाहप्रकारापेक्षा, तत्पर्यन्तत्वे च किं फलमित्यपेक्षायामाह -
अयमत्र वाक्यार्थ इति । “अमृतत्वस्य तु नाशास्ति वित्तेन “न वा अरे पत्युःकामाये” त्यादीनां वाक्यानाम् आद्यसूत्रव्याख्यानावसरे प्रपञ्चितार्थत्वादिह तदर्थोऽपि विस्तरेण न प्रतिपादितः। आत्मनि स्वल्वरे दृष्ट इत्यादिनेति- आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेन इदं सर्वं विदितम् इत्यात्मविज्ञानेन सर्वविज्ञानप्रतिज्ञानं “ब्रह्म तं परादात् क्षत्रं तं परादात्” इत्यादिना वतिरिक्तवेदननिन्दनम् “इदं ब्रह्मेदं क्षत्रम्” इति सर्वात्मकत्वोक्तिश्च कारणत्वफलम् , अतः प्रतिज्ञादिभिर्लक्षणाभिधानं हि फलितं स्यात् । “योऽन्यत्रात्मनः सर्वं वेदेति, अन्यत्र परमात्मानं विना, अबह्मात्मकं स्वनिष्ठं यो वेद तं सर्वं परादात् अभिभवेत् संसारयतीत्यर्थः। यद्वा अन्यत्र परमात्मानोऽन्यत्रस्थितम् ,न तु परमात्मनि स्थितम् , स्वनिष्ठमित्यर्थः। दुन्दुभ्यादिदृष्टान्तैः करणनियमनमभिधायेत्यन्वयः। अत्रायमभिप्रायः “स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्नुयात् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीत” इति वाक्यस्य परैरेवमर्थ उक्तः,दुन्दुभिशब्देन दुन्दुभिशब्दसामान्यं लक्ष्यते, यत् स्वलु यद्ग्रहणं विना गृहीतुं न शक्यते तत्ततो न व्यतिरिच्यते यथा रजतं शुक्तिकायाः। दुन्दुभिशब्दावान्तरविशेषा हि तत्सामान्यग्रहणेनैव गृहीताः स्युः। अयं दुन्दुभिशब्द इत्येव गृह्यन्ते, न दुन्दुभिशब्दतो व्यतिरेकेण; अतस्तदवान्तरविशेषाः यथा दुन्दुभिशब्देऽध्यस्ताः, एवं चिदात्मव्यतिरेकेण ब्रह्मक्षत्रादिजगदनवभासात् सर्वं चिदात्मन्यध्यस्तमिति । एवं “सहोपलम्भनियमादभेदो नीलतद्धियो” रिति बौद्धराद्धान्तप्रतिपादकमिदं वाक्यं व्याख्यातम् , तदनुपपन्नम् ;मुख्यार्थे सम्भवति उपरितनयोर्दुन्दुभिशब्दयोर्लाक्षणिकार्थपरत्वायोगात् । लक्षणायां च “दुन्दुभेर्हन्यमानस्ये"ति पूर्ववाक्यवैयर्थ्यञ्च, नहि गङ्गायामितिपदेनैव कूले लक्षिते गभीरायां गङ्गायामिति वाक्यं सफलम्, तथा “दुन्दुभेस्तु ग्रहणेने"त्येतावताऽलम् , तेनैव दुन्दुभिशब्दसामा
न्यग्रहणस्य प्रतिपन्नत्वात् आघातशब्दस्य न प्रयोजनं वाशब्दवैयर्थ्यं च; अत एवं योजनीयम् , दुन्दुभेरित्यनादरे षष्ठी ग्रहणशब्द इह निरोधपरः, उपादाननिरोधयोरपि वाचकत्वात् , यथा गृहीतानि पुष्पाणि गृहीतश्चोर इति । यथा दुन्दुभौ हन्यमाने ततो बहिर्निस्सरतः शब्दान् न निरोद्धुं शक्नुयात् कथं तर्हि निरुणद्धीत्यत्राह दुन्दुभेस्त्विति । परेणोपादीयमानदुन्दुभिनिरोधेन तदा हन्तपुरुषनिरोधेन वा शब्दो निरुध्यते, एवमिन्द्रियेषु व्याप्रियमाणेषु बाह्यार्थज्ञानं दुनिर्रोधम् , तस्मादिन्द्रियनिरोधेन तत्प्रवृत्तिमूलस्य मनसो निरोधेन च परमात्मसाक्षात्कारविरोधिबाह्यार्थज्ञानं विरुध्यत इति । एवं शङ्खवीणादृष्टान्तोपन्यासश्च योजनीयः। वीणाशब्दस्था चतुर्थी षष्ठयर्था, पूर्ववाक्यद्वयैकार्थ्यात् , अतो दुन्दुभ्यादिदृष्टान्तत्रयोपन्यासवाक्यत्रये “द्रष्टव्य” इत्युक्तपरोपासनीपकरणेभूतकरणग्रामनियमनमुक्तमिति । मनः प्रभृतीति- दुन्दुभिनिरोधस्थानीयचक्षुरादिनियमनम् , तथा हन्तपुरुषनिरोधस्थानीयं मनोनियमनमिति भावः। सामान्येनाभिधायेति - निमित्तोपादानरूपविभागानभिधानात् कार्यविशेषानुपादानोच्चोपास्यलक्षणभूतं कारणत्वं सामान्येनोक्तम् , चक्षुरादिकरणविशेषाणां नियमनप्रकारविशेषानभिधानात् करणनियमनञ्च सामान्येनोक्तमित्यर्थः। स यथेति तृतीयान्तयोरित्यादिशब्दयोर्निखिलेत्यादिपदद्वयेन यथायोगमन्वयः। एधशब्दोऽकारान्त इन्धनवाची, आर्द्रेन्धनाग्निग्रहणं निमित्तोपादानयोर्ज्ञापनार्थम् , अग्निर्हि धूमोत्पत्तौ निमित्तम् , इन्धनमुपादानम् ,“ऋग्वेद यजर्वेद " इत्यादिना वाचकसृष्टिमात्रमुक्तं प्रथममैत्रेयीब्रह्मणे, उत्तरे तु “इष्टं हुतमाशितं पायितमयञ्च लोकः परश्च लोकः सर्वाणि च भूतानि अस्यैवैतानि सर्वाणि निश्वसितानि” इति साधनसाध्यभोग्यभोगस्थानभोक्तृवर्गरूपवाच्यजगत्सृष्टिरुक्ता, अनुक्तस्यान्यतो ग्रह्यत्वात् प्रथमे च वाच्यसृष्टिरुक्ता भवतीत्यभिप्रायेणाह - निखिलजगदेककारणत्वमिति । निखिलशब्दो वाच्यवाचकभोग्यभोगस्थानादिपरः, एकशब्दो निमित्तोपादानैकत्वपरः, “स यथा सर्वासामपा"मित्यादिवाक्यानामर्थमभिप्रयन्नाह- सकलविषयेति । यथा सर्वासामपां समुद्र एकायनमेवं सर्वेषां स्पर्शानां त्वगेकायनं सर्वेषां रसानां सर्वेषां गन्धानामिति तत्तदिन्द्रियाणशं तत्तद्विषयायनत्वमुक्तम् , दृष्टान्तदार्ष्टान्तिकयोरनुवृत्तमयनत्वं नाम तत्तदुपादातृत्वं, तेनैकैककरणस्य एकैककजातीयस्पर्शाद्यवान्तरविशेषेषु वृत्तिविशेषा बहवो दर्शिता भवन्ति, सर्वेषां स्पर्शानामिति श्रवणात् अस्य वृत्तिविशेषप्रदर्शनस्य किं प्रयोजनमित्यपेक्षायामुपदेशस्य वैयर्थ्यायोगात् “आत्मा वा अरे द्रष्टव्यः” इति आत्मसाक्षात्कारस्य प्रकृतत्वात् दुन्दुभ्यादिदृष्टान्तैः सामान्येन करणनियमनस्योक्तत्वात् तन्नियमनविशेषकथनस्यापेक्षितत्वादुत्तरवाक्येन पूर्ववाक्यविवरणस्य एतत्प्रकरणदृष्टत्वाच्च करणवृत्तिविशेषप्रदर्शनं तद्वृत्तिविशेषनिरोधेनात्मसाक्षात्कारनिष्पादनार्थमित्यभिप्रायः। विस्तीर्णमिति- कारणत्वं निमित्तोपादानविभागकथनात्
कार्य्यबाहुल्यप्रदर्शनाच्च विस्तृतम् , करणनियमनन्तु करणविशेषाणां निरोद्धव्यवृत्तिविशेषप्रदर्शनेन विस्तृतमित्यर्थः। उपदिश्यते न हि निष्प्रयोजनोपदेशस्सम्भवतीति भावः। “स यथा सैन्धवघनः” इतिवाक्योपादानं “स यथा सैन्धवस्विल्य” इतिवाक्यस्यापि प्रदर्शनार्थम् । प्रोत्साहनायेति- आत्मभिमानविषयदेहस्य दैर्गन्ध्यादिदर्शनेऽपि आत्माभिमानव्षियत्वदेव हि तत्संस्कारविषये प्रवत्तर्ते, तस्यैवोदबद्धस्य “महद्भूतमनन्तमपार"मिति सामानाधिकरण्यं प्रथममैत्रेयीब्राह्मणप्रतिपन्नमुपजीव्योक्तं जीवात्मस्वरूपेणावस्थितस्येति । भगवान्नृसिंहः श्वेतः ब्राह्मणश्चतुर्वेदाभिज्ञो गौर इत्यत्र श्वैत्यादिवद्विशेषणद्वारा परमविशेष्यविशेषणं ज्ञानैकाकारत्वमित्यर्थः। अनेन पूर्वोक्तस्य जीववाचिशब्देन परमात्मभिधाननिर्वाहस्योपयोगस्थलं विज्ञानघनशब्दं इति दर्शितम् , तत्पर्यन्ततयै निर्वाह्यत्वे हेतुः परमात्मधर्मवाचिमहद्भूतानन्तापारशब्दसामानाधिकरण्यमित्यर्थसिद्धम् । न चाव्यवधानेन परमात्मपरो विज्ञानघनशब्दः, “उत्थाय विनश्यति” “प्रेत्ये"तिश्रवणात् सर्वावस्थास्वपि जविस्वरूपस्य परमात्मनिष्ठतया स्वातन्त्र्ाभावज्ञापनं जीवशब्देन तत्पर्यन्तनिर्देशस्य प्रयोजनमिति फलितम् । उपपाद्यदृष्टान्तमुक्तवेत्यर्थः। तान्येवानुविनश्यतीत्यत्रानुशब्दार्थमाह - भूतपरिणामानुवृत्तिमिति । भूतेषु नश्यत्सु एष नश्यतीत्यर्थः। विनाशो नाम अत्यन्तज्ञानसङ्कोचः “अविनाशी वा अरेऽयमात्मे “त्यनन्तरवाक्याविरोधात् । अत्र प्रेत्यशब्दस्य पूर्वोक्तविनाशानुवादशङ्काव्यावृत्त्यर्थमाह- मोक्षदशायामिति । “न प्रेत्यसंज्ञाऽस्ती “ति न देहविगमदशायां ज्ञाननिषेधः, देहविगमदशायामज्ञानस्य तान्येवानुविनश्यतीत्युक्तत्वात् । नाऽपि लोकान्तरे ज्ञाननिषेधः,कर्मफलभोगावगमकशास्त्रान्तरविरोधात् । नापि नैमित्तिकप्राकृतप्रलयोरज्ञानमुच्यते, तयोरप्रस्तुतत्वात्; अतः पारिशेष्यात् प्रेत्यशब्दश्चरमदेहावशानपरः, “नोपजनं स्मरन्निदं शरीर"मिति श्रुत्यन्रार्थप्रत्यभिज्ञानात् । अत्रापि एतावदेव स्वल्वरे अमृतत्वम्” इत्यमृतत्वस्योक्तत्ववचनाच्च मोक्षविषयत्वं युक्तमित्यभिप्रायः। पूर्वापरवाक्यानुगुणमर्थमाह - स्वाभाविकेति । स्वरूपस्य ज्ञानात्मकत्वं “स यथा सैन्धवघन” इत्यादिनोक्तम् , अतः स्वाभाविकत्वं फलितम् । अनन्तरशब्देन वह्निरपि ज्ञानात्मकत्वस्योक्तत्वाद्धर्मभूतज्ञानवत्त्वं सिद्धम् , तस्य चापरिच्छिन्नत्वं “सर्वं ह पश्यः पश्यति” इति श्रुत्यन्तरे सिद्धमित्यभिप्रेत्य स्वाभाविकापरिच्छिन्नज्ञानसङ्कोचाभावेनेत्युक्तम् । समित्येकीकार इत्यभिप्रायेणाह- एकीकृत्येति । केनेत्यपेक्षायां “एतेभ्यो भूतेभ्य” इति पूर्ववाक्यमुपजीवतयाह- भूतसङ्घातेनेति । देवादिरूपज्ञानभावमुक्तवेति- नोपजनं स्मरन्नितिप्रकरण एव “मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोकः” इति ज्ञानविकासप्रतिपादनात्, “न प्रेत्य संज्ञास्ती "
तिवाक्यं श्रुत्वा “न ह वा अहमिमं जानामी “ति मैत्रेय्या पृष्टे अविनाशी वा अरेयमात्मा " इत्यात्मस्वरूपनित्यत्वमुक्तवा “अनुच्छित्तिधर्मे “ति ज्ञाननित्यत्ववचनाच्चेति भावः। मुक्तौ ज्ञानं नास्ति चेत् ज्ञानैकाकारत्वं पूर्वोक्तं विरुध्येतेति मैत्रेयीवाक्याभिप्रायः। अनुच्छित्तिधर्मेति ज्ञाननित्यतां याज्ञवल्क्यः प्रत्यभाषीत् । न चोच्छित्त्यभाव एवास्य धर्म इत्युच्यते, अविनाशीति स्वरूपनित्यत्वस्योक्तत्वात् अविनाशिपदाभावेऽपि धर्मशब्दवैयर्थ्यप्रसङ्गाच्च । दीपादौ प्रतिक्षणविनाशसन्ततिविनाशयोर्दृष्टत्वात्तदुभयव्युदासाय पदद्वयमिति न शङ्कनीयम्, अविनाशिशब्देनैव असङ्कोचादुभयविनाशाभावसिद्धेः धर्मशब्दवैयर्थ्यप्रसङ्गाच्च, अव्यय इतिवदनुच्छित्तिरित्येतावतापि स्वरूपानुच्छित्तिसिद्धेः पुनरपीतिभ्रान्तिर्द्विविधा, अनात्मनि देहबुद्धिः अब्रह्मात्मकतया स्वातन्त्र्यबुद्धिश्वेति । तत्र “न प्रेत्य संज्ञाऽस्ती “त्यनेन बन्धनदशानुवृत्तदेहात्मभ्रमनिवृत्तिरुक्त, अथ स्वनिष्ठतानिवृत्तिरुच्यत इत्यर्थः। यत्र यस्यामवस्थायाम् , द्वैतमिव भवति परमात्मनः पृथक्तवम् , स्सनिष्ठतया पृथक्तवं भवति, इवशब्दः स्वातन्त्र्यस्याप्रामाणिकत्वद्योतकः। तत्- तदा, इतरः- परमात्मन इतरः पृथक् स्थितः। इतरं स्वनिष्ठं वस्तु । इतरेण स्वनिष्ठदर्शनसाधनेन, पश्यतीति स्वनिष्ठभ्रमानुवादः। मुक्तौ तन्निवृत्तिमाह- यत्र त्विति । यत्र- यस्यां मुक्तिदशायां सर्वमात्मैवाभूत् परमात्मात्मकत्वेन प्रकाशते । तत्- तदा, कः- चेतनः, केन- करणेन, कं- स्वनिष्ठमर्थं पश्येत् , अब्रह्मात्मकं स्वनिष्ठतया भासमानं वस्तु तद्दर्शनसाधनं तद्द्रष्टा च मुक्तिदशायां नास्तीत्यर्थः। तदिदं वाक्यं हृदि निधायाह- अब्रह्मात्मकत्वेनेति । नानात्वनिषेधस्य विहितनानात्वव्यतिरिक्तविषयत्वात् स्वनिष्ठनानात्वं निषेध्यमित्यभिप्रायः। नानाभूतवस्तुदर्शनमज्ञानकृतमिति- न तत्तद्वस्तुदर्शनमात्रमज्ञानकृतम्, किन्तु स्वनिष्ठदर्शनमेव तदुपादिकमिति भावः। अज्ञानकृतमिति - स्वनिष्ठवस्तुदर्शनस्यौपाधिकत्वादुपाधिनिवृत्तौ तन्निवृत्तिर्यक्तेति भावः। उपाध्यभावेपि ब्रह्मस्वरूपानवभासे स्वनिष्ठार्थान्तरदर्शनं स्यादित्यत्राह- ब्रह्मात्मकं कृत्स्नं जगदनुभवत इति । “यत्र त्वस्य सर्वमात्मैवाभू"दिति न भसनमत्र विवक्षितं, ब्रह्मात्वकत्वस्य नित्यत्वेन यत्रेत्यवस्थाविशेषान्वयोक्तयनुपपत्तेः, अतो “ब्रह्मवेद ब्रह्मैव भवति” इत्यादाविव आविर्भावाभिप्रायकं वाक्यमित्यभिप्रायः। कृत्स्नानुभवेऽपि ब्रह्मणो जगदश्च पृथगनुभवः किं न स्यादित्यत्राह- ब्रह्मव्यतिरिक्तवस्त्वन्तराभावेनेति । अप्रामाणिकज्ञानं हि दोषादुत्पद्यते, दोषाभावे तु वस्तुसद्भावं विना दर्शनं नोपपद्य इत्यर्थः। येनेदमिति- “क इत्था
वेद यत्र सः, इतिवत् परमात्मप्रसादादृते तस्य दुरवबोधत्वमत्रोच्यते, अन्यथा आत्मा वा अरे द्रष्टव्य इत्युपक्रमावगतद्रष्टव्यत्वविरोधात् “तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीश"मिति तत्प्रसादेन तद्दर्शनस्य श्रुत्यन्तरसिद्धत्वाच्चेति भावः। स्वेतरसमस्तचिदचिद्वस्तुविलक्षक्षस्वरूप एवेति- चिदचिद्गतप्रकाराणां प्रमाणान्तरसिद्धत्वादिति शब्दद्वयेन तत्प्रकारमनूद्य “अग्राह्यो न गृह्यते अशीर्यो न हि शीर्यते असङ्गो न हि सज्यते” इति चिदचिद्गतप्रकारविशेषनिषेधेन तद्विवरणाच्चेतिभावः। अग्राह्यः- चक्षुरादिना ग्रहणानर्हः, अतो न गृह्यते; एवमशीर्य इत्यादि योजनीयम् । असङ्ग इत्यादिना जीवधर्मनिषेधः, न ह्यचित्सङ्गोस्य स्वरूपतिरोधानकृद्भवति, न हि सज्यत इत्यादावुक्ते सङ्गादियोग्यस्यापि दूरस्थतया तदभाव इति शङ्काव्यावृत्त्यर्थमसङ्ग इत्युक्तम् । असङ्गः सङ्गविरोधी सङ्गानर्हत्वमर्थसिद्धम् , तेन सङ्गाद्यभावः न देशकालविप्रकर्षात्सङ्गाद्यभावः, किन्तु स्वभावविप्रकर्षादित्यर्थः। पूर्ववाक्योक्तासङ्गादिफलमाह- समस्तवस्तुविसजातीयमिति । निखिलजगदेककारणभूतं सर्वस्य विज्ञातारमिति - प्रकरणोपक्रमोदितकारणत्वव्याप्तसर्वज्ञत्वादिगुणप्रदर्शको विज्ञातृशब्द इति भावः। “तं केन विजानीया"दिति पूर्ववाक्येन पुनरुक्तिशङ्कापरिहारायाह- उक्तप्रकारादिति ।परमात्मप्रसादादृते तस्य दुरवगमत्वपरं पूर्ववाक्यं तत्प्रसादनोपायश्चात्राभिहितमुपासनमेवेति केवलयज्ञदानाद्युपायान्तरनिषेधपरिमिदं वाक्यमित्यर्थः। विपरीतं किं नस्यादिति नाशङ्गनीयं, द्रष्टव्य इत्युपक्रमावगतज्ञानेनैव निगमनस्य युक्तत्वात् न हि दुरवबोधतया निगमनं न्याय्यम्, उपक्रमविरोधात् । एतावदित्यस्यार्थमाह- ब्रह्मप्रप्तिरेव चेति । उपायान्तरव्युदसनमुखेन उक्तोपायनिगमनपरं विज्ञातारमितिवाक्यम् , एतावदित्यादिवाक्यमुपेयनिगमनपरमित्यर्थः। अधिकरणार्थमुपसंहरति अत इति । इतरैस्सर्वैः सूत्रत्रयव्यख्यनमन्यथा कृतम् , तत्तु पतिजायादिसम्बन्धेन जीवत्वशङ्कानिरासस्यानुपयोगाद्विरुद्धत्वाच्च अनुपपन्नमित्यनुसन्धेयम् । तत्र मिथ्यावेदान्तिभिस्तु प्रतिज्ञासिद्धेरित्यादिसूत्रत्रयं द्वेधा व्याख्यातम् , तत्र प्रथमम् “इदं सर्वं यदयमात्मे"त्यभेदव्यपदेशस्य कार्य्यकारणभावनिबन्ध
नत्वपरमाद्यं सूत्रम् , उत्क्रमिष्यतो ब्रह्मभावापत्तिहेतुकत्वपरं द्वितीयम् , ब्रह्मण एवाविकृतस्य विज्ञामात्मभावेनावस्थ नमूलत्वपरं तृतीयमित्युक्तम् । एवं वदतोऽगिप्रायः शोघनीयः, यदि कार्यकारणभावं वदता आश्मरथ्येन ब्रह्मपरिणामो जीवोऽभिमतः, पूर्वमनेवम्भावश्च औडुलोम्यभिमत इति सूत्रद्वयार्थः पूर्वपक्षीकृतः, एतावदस्माकमविरुद्धम् । अथ कार्यकारणभावो नाम अध्यासरूपः उत्क्रमिष्यत एवम्भावश्चाध्यस्ताकारनिवृत्तिरूपः, ब्रह्मण एव जीवभावारोपतन्निवृत्तिमत्त्वाभ्यामभेदव्यपदेशपरं सूत्रद्वयमिति मतं तदानीं सिद्धान्ततयाऽभिमतात्काशकृत्स्नमताद्भेदाभावेन सूत्रद्वयवैयर्थ्यं स्यात् । भवत्पक्षे हि ब्रह्मण एव विज्ञानात्मभावेनावस्थानं काशकृत्स्नमतम् , जीवब्रह्मणोरैक्यमभ्यपगच्छतश्च काशकृत्स्नस्य जीवभावस्याध्यस्तत्वं निवर्त्त्यत्वं चाभिमतमेवेति काशकृत्स्नमताद्विशेषाभावेन सूत्रद्वयवैयर्थ्यं स्थितम् । काशकृत्स्नमतस्यैवाचार्यान्तरद्वयाभिमत्या स्थिरीकरणार्थं सूत्रद्वयमिति चेत् , व्यतिरिक्तसर्वाचायोनभिमतत्वशङ्काव्युदासार्थमाचार्यभूतयस्तया सूत्रसैस्त्राणि प्रणेतव्यानि स्युः, विस्तरभयादाचार्यद्वयोक्तिः प्रदर्शनार्थेति चेत् , काशकृत्स्नकीत्तर्नस्यैव सर्वाचार्यप्रदर्शनार्थत्वसम्भवात्सूत्रद्वयवैयर्थ्यमेव स्यात् । अस्मन्मते तु परिणामाध्यासपक्षद्वयपूर्वपक्षीकरणार्थत्वात् साफल्यं स्फुटतरम् । पुनश्चैवं योजितं सूत्रत्रयं “विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय” इत्युक्तं महतो भूतस्य ब्रह्मणो भूतेभ्यः समुत्थानं कार्यकारणाव्यतिरेकप्रतिज्ञासिद्धसूचकम् , “तान्येवानुविनश्यती “त्युक्तं
विशेषविज्ञानोच्छेदरूपभेदाभिधानमुत्क्रमिष्यतः परेणात्मनैक्यसम्भवात् ब्रह्मण एव विज्ञानात्मभावेनावस्थानाच्चोपपन्नमिति । इदमप्ययुक्तम्; प्रकृतानुपयोगात् । द्रष्टव्यतयोपदिष्टस्यात्मनः परमात्मत्वं हि साध्यम् , चीवोत्पत्तिप्रलयवादः प्रकरणस्य परमात्मपरत्वं न निवारयति । न हि
पृथिव्याद्युत्पत्तिप्रलयवादास्तत्तत्प्रकरणानां परमात्मपरत्वं वारयन्ति, अतो जीवोत्पत्तिप्रलयचिन्तनं प्रकृतस्यानुपयुक्तम् , अत एव पादासङ्गतं च । इदञ्च जीवनित्यत्वाजत्वादिश्रुत्यविरोधेन “नात्मा श्रुते “रित्यत्र करिष्यते, भवद्भिरपीदमेव वाक्यमुपादाय उपाध्युत्पत्तिप्रलयाभिप्रायमिति तत्रैव व्याख्यातम् , अतः पृथक् प्रयत्नवैयर्थ्यञ्च । तत्रोपजीव्यत्वायात्र प्रसङ्गाच्चिन्तितमिति चेन्न; इहोक्तस्य सूत्रद्वयार्थस्य भाविसाध्यानुप्रयोगात् । प्रतिज्ञासिद्धिसूचकत्वं प्रलये ब्रह्मतापत्तिवचनं चोत्पत्तिप्रलययोर्न गौणत्वसाधकम् , तेजः प्रभृत्युत्पत्तिप्रलययोरपि गौणत्वप्रसङ्गात् । अविकृतस्यैव ब्रह्मणो विज्ञानात्मभावेनावस्थानमपि न गौणत्वसाधकम् , अविकृतस्यैव ब्रह्मणोऽध्यस्ततेजोबन्नरूपेणावस्थितत्वेन तदुत्पत्त्यादेरपि गौणत्वप्रसङ्गात् अस्त्विति चेत् तेजोबन्नाद्युत्पत्तेर्जीवोत्पत्तिवैषम्यस्य दुर्वचत्वात् प्रयासवैयर्थ्यमेव स्यादिति; अतः प्रकृतानुपयोगादिभिरनुपपन्नत्वात् जीवोत्पत्त्यादिनिर्वाहपरत्वमनादृतं भाष्यकारैः। अभेदव्यपदेशनिर्वाहस्त्यन्तापेक्षितः, द्रष्टव्यस्यात्मनो जीववाचिशब्दनिर्देशकृतायाः अपरमात्मत्वशङ्काया निराकरणीयत्वात् । यादवप्रकाशैस्तु भोक्तृब्रह्मणोरैक्यादृते सर्वस्य ब्रह्मतादात्म्यप्रतिज्ञानासिद्धेजीवेनोपक्रमो जीवब्रह्मणोरभेदेन प्रतीतिसिध्द्यर्त इत्याद्यसूत्रार्थो वर्णितः अत्र सामान्येन ब्रह्मणैक्यज्ञापनं प्रयोजनमुक्तं भवति । उत्क्रान्तौ ब्रह्मणि लीनतया तेनैक्याज्जीवेनोपक्रम इत्येतदर्थपयम् “उत्क्रमिष्यत एवम्भावादित्यौडुलोमि “रितिसूत्रं व्याख्यातम् । ब्रह्मणस्सर्वत्र तृणकणादावपि पूर्णत्वेनावस्थानात् येन केनचित्तृणादिवाचकशब्देनाप्युपक्रमे ब्रह्मपरत्वं युक्तमिति तृतीयसूत्रार्थ उक्तः। तत्र तावदाद्यसूत्रद्वयस्य सूत्रकाराभिमतनिर्वाहपरत्वमयुक्तं, मुक्तिदशायामौडुलोम्यभिमितस्य ब्रह्मतादात्म्यस्य मुक्तिपादे “चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमि"रिति सूत्रोपन्यस्तस्य सूत्रकारैरेव पूर्वपक्षीकृतत्वात् तथा तैर्व्याख्यातत्वाच्च । स्वप्रकाशसन्मात्रमेव स्वरूपम् , गुणाष्टकोक्तिस्तु गुणानां शक्तिरूपत्वाच्छक्तीनाञ्च भेदोभेदादिविकल्पयोग्यत्वाद्गुणशक्तियुक्तसन्मात्रास्वरूपाभिप्राया, क्रीडाजक्षणाद्युपन्यास स्तुतिपरो दुःखाभावाभिप्राय इति औडुलोमिमतमुपन्यस्य “एवमुपन्यासात्पूर्वभावादविरोधं बादरायणः” इतिसूत्रेण तत्प्रतिक्षितम् । शक्तिमात्रस्य न पुरुषार्थत्वं, न हि गानमृण्वतः श्रवणसामर्थ्यमात्रं पुरुषार्थः, अतो “नाहमत्र भोग्यं पश्यामी “त्युक्तवतो मघोनः पुरुषार्थज्ञापनयोपदिश्यमानं गुणाष्टकं न शक्तिमात्राभिप्रायम् , अतः शक्तिमात्रोपन्यासस्य वैयर्थ्यात् क्रीडादिकं ब्रह्मभूतस्य मुक्तस्येश्वरस्येवाभ्युपगन्तव्यमिति हि सिद्धान्तितम् ; अतो यादृशं ब्रह्मतादात्म्यमौडुलोम्यभिमतं मुक्तिपादे पूर्वपक्षिकृतं तादृशमेव ब्रह्मतादात्म्यमिहाप्युपन्यस्तं स्यात् , नह्येक एवाभ्रान्तः पुरुषः स्वाभिमतविरुद्धर्मथं कदाचिदङ्गीकरोति, अत उत्तरत्र निराकरिष्यमाणस्य पक्षस्य इह प्रसङ्गादु
पन्यासस्यापि स्वीकारो व्याहत इति प्रतिक्षेप्यतयैव औडुलोमिमतोपन्यास इत्युपगन्तव्यम् , इहोपन्यस्ततादात्म्यस्य निराकरिष्यमाणत्वात् वैषम्यस्य च दुर्वचत्वात्, अतस्तत्साहचर्यादाश्मरथ्यमतमपि प्रतिक्षेप्यतयोपन्यस्तं स्यात् । स्वरूपपरिणामस्य सकलविशेषशून्यस्य ब्रह्मतादात्म्यस्य च सकलप्रमाणन्यायविरुद्धत्वाच्च प्रतिक्षेप्यत्वं दुर्निवारं, अतश्चरमं सूत्रमेव स्वाभिमतनिर्वाहपरम् । तत्र च “अवस्थिते"रितिपदं सर्वत्र घटपटतृणाधौ ब्रह्मणः पूर्णतयाऽवस्थानादिति व्याख्यातम् , पूर्णतयाऽवस्थानञ्च
सन्मात्ररूपेणेति विवक्षितम् , यथोक्तम्, “अस्तित्वं ब्रह्मणो रूपं सर्वविकल्पप्रत्याख्यानात् नचास्तित्वं घटे पटे च स्वण्डितं वर्त्तते उभयत्रापि कृत्स्नास्तित्वदर्शनादिति । तदयुक्तम् , तथा हि न तावदिदं ब्रह्मस्वरूपभूतमस्तित्वं सामान्यरूपं व्यवहारार्हत्वमानार्हत्वाद्युपाधिरूपं वा भवितुमर्हति, तस्य लोकसिद्धत्वेन “इदं पूर्णमदः पूर्णम्” इत्यादिशास्त्रवैयर्थ्यपसङ्गात् तस्यैन्द्रियिकत्वेन “अद्रेश्यमग्राह्यम्” इत्यादिश्रुतिविरोधात् द्रव्याश्रयस्य तस्य स्वे महिम्नि स्थितत्वायोगाज्जगदाधारत्वायोगाज्जड्स्य ज्ञानस्वरूपत्वायोगात् द्रव्यनिष्ठधर्मतया तदधीनात्मलाभस्य तस्य जगद्रूपेण परिणामायोगात् सार्वज्ञ्यसर्वशक्तित्वादिगुणाश्रयत्वायोगात्सङ्कल्पाश्रयत्वाभावेन निमित्तत्वायोगात्कारणत्वाभावेनैव अध्येयत्वेन प्राप्यत्वायोगाद्भवद्भिरनभ्युपगतत्वाच्च; अतः सद्द्रव्यमेवैकैकस्मिन् घटादौ पूर्णमिति भवतां मतम् । “न चास्तित्वं घटे पटे च खण्डितं वर्त्तते उभयत्रापि कृत्स्नास्तित्वदर्शना “दिति भवद्भिरूक्तत्वात्सदिति प्रतरयमानं द्रव्यमेव ब्रह्मस्वरूपमिति “अद्रेश्यमग्राह्य"मित्यादिश्रुतिविरोधो दुष्परिहरः। किञ्च घटे सद्वस्तुनः पूर्णत्वं नाम न सम्भवति, सजातीयविजातीयघटापटाद्यनन्तपदार्थरूपेण सद्द्रव्यस्य विभक्तत्वात् । घटत्वादिभिरवच्छिन्नं सत्पूर्णमिति चेन्न; अवच्छिन्नत्वदर्शनादेवानवच्छेदासिद्धः। घटत्वावच्छिन्नस्य सतः पटत्वाद्यवच्छिन्नाशान्तरैरभिन्नत्वं पूर्णत्वमिति चेत्; तर्ह्येकस्थूणावस्थितस्याशस्य स्थूणान्तरावच्छिन्नाशैरभिन्नत्वेन पूर्णत्ववत् घटावच्छिन्नस्य सद्द्रव्यस्य पूर्णत्वमशान्तरसापेक्षमित्युक्तं स्यात्; ततश्च घटमात्ररूपस्य सद्द्रव्यस्यापूर्णत्वमेवोक्तम्भवति । कथं तर्हि भवत्पक्षे शरीरभूतेषु चिदचिद्वस्तुषु परमात्मनः पूर्णत्वम् ? अणुमात्रेऽपि वस्तुनि स्थितस्य निरवधिकषाड्गुण्यविशिष्टतया प्रतिपत्तियोग्यत्वमिति ब्रूमः, तञ्च शास्त्रबलादभ्युपेतम् , न तु प्रत्यक्षादिनेति न काचिदनुपपत्तिः। किञ्च परमात्मनस्तृणादावपि सद्रूपेण पूर्णत्वप्रतिपादनप्रयासश्च तत्र भवता विफलः, येन केनचित्तृणादिवाचकशब्देनाप्युपक्रमे ब्रह्मपरत्वोपपादनार्थं हि पूर्णत्वकथनम्; तत्तु न सिध्यति, अस्तित्वस्य तत्तच्छब्दवाच्यत्वाभावात् अस्तित्वस्यापि घटादिशब्दवाच्यत्वे घटोऽस्ति पटो नास्तीति प्रयोगस्य पुनरुक्तिव्याघातौ प्रसज्येयाताम् । ननु घटादिशब्दानां विशिष्टवाचित्वं तवाभिमतम् तत्र विशेष्यद्रव्यं सदिति चेत् , सत्यम्; तथापि घटादयः शब्दाः पटत्वाद्याश्रयरूपेण विशेष्यं वदन्ति, न तु सत्तारूपेण द्रव्यत्वरूपेण वा ; अतो नास्मत्पक्षे पुनरुक्तिव्याघादादिदोषप्रसङ्गः, अतः पूर्णस्यापूर्णस्य वा सद्द्रव्यस्य शब्दवाच्यत्वाभावात्पूर्णतयाऽवस्थानकथनं परमात्मोपक्रमत्वानुपयोगीति सूत्रत्रयस्य यथोक्तार्थपरत्वं सिद्धम् ॥