32 जगद्वाचित्वाधिकरणम्

॥ जगद्वाचित्वात् ॥ सङ्गतिमाह - यद्यपीति । “स वै सेदितव्यः” इत्यन्तं विषय वाक्यं दर्शितम् । करणवाक्यप्रतिपाद्यं किं प्रकृतधिष्ठाता पुरुषः ? उत परमात्मेति संशयस्वरूपमर्थसिद्धम् । तदर्थं बालाक्यजातशत्रुसम्वादे वेदितव्यतयोपदिष्टं ब्रह्म किं जीवः ? उत परमात्मेति । किम् “एतेषां पुरुषाणां कर्ता " इति निर्दिष्टः कर्त्ता जीवः ? उत परः ? इति । “यस्य वैतत्कर्मे “ति कर्मशब्दः किं पुण्यापुण्यवाची ? उत जगद्वाचीति ? किमेतच्छब्दसामानाधिकरण्येन कर्मशब्दस्य जगद्वातित्वं युक्तम् ? उत “एतेषां पुरुषाणां कर्त्ते “ति पृथङ्निर्देशावैयर्थ्याय पुण्यापुण्यवाचित्वं युक्तम् ? “तौ ह सुप्तं पुरुष “मित्याद्यवगते जीवमुख्यप्राणलिङ्गे पुण्यापुण्यवाचितामुपोद्बलयतः नेति । किमेते लिङ्गे जीवबोधनार्थे ? उत “क्व वा " इत्यादिप्रश्नप्रतिवचनाभ्यां जीवातिरिक्तब्रह्मबोधनपरे ? । यदा जीवबोधनार्थे तदा तयोः पुण्यापुण्यवाचित्वोत्तम्भकत्वेन पृथङ्निर्देशावैयर्थ्याय कर्मशब्दस्य

पुण्यापुण्यवाचितोपपत्तेस्तत्सम्बन्धीकर्त्ता पुरुष इति बालाक्यजातशत्रुसंवादस्य जीवपरत्वात् सर्ववेदान्तवेद्यो भोक्ता पुरुष इति फलितं स्यात् । यदा ब्रह्मप्रतिबोधनपरे तदा तयोर्लिङ्गयोः पुण्यापुण्यवाचित्वोतम्भकत्वाभावादेतच्छब्दसामानाधिकरण्येन इह कर्मशब्दस्य जगद्वाचित्वात्तत्कर्त्ता जीवविलक्षण इति बालाक्यजातशत्रुसंवादस्य परमात्मविषयतया सर्ववेदान्तवेद्यः परमात्मेति सिध्द्यति । विशयेऽर्थसिद्धे सति पूर्वपक्षमाह - उपक्रम इति । प्रतिवचनस्य उपक्रमस्थब्रह्मविषयत्वेन ब्रह्मणोऽन्यस्य जीवस्य कर्मसम्बन्धपरत्वशङ्का निरस्ता । ततः किमित्यत्राह - यस्येति । नार्थान्तरम् , प्रकृतिवन्नेश्वरयोऽपीत्यर्थः। यज्ञादिकं कर्म यस्य प्रीणनमित्येतदर्थपरत्वव्युदासायाह - कर्म चेति । कर्मशब्दोऽसङ्कुचितवृत्तिः पापमपि वक्तीति कर्माराध्यपरत्वमयुक्तमिति भावः ।अत्रानन्दमयाधिकरणाक्षेपः फलितः । पादसङ्गतिः पूर्ववद्भोक्तृपुरुषप्रतिपादनच्छायानुसारिवाक्यविषयत्वात् कतृत्वस्य जीवे सम्भवरूपपूर्वपक्षहेतुवशादयोगव्यवच्छेदाक्षेपः फलितः । सिद्धान्तमाशङ्कयाह - नचेति । पौनरुक्तयापादनेन परिहरति - यो वा इति । हेत्वन्तरमाह -कर्मशब्दस्य चेति । रूढिर्हि योगाद्बलीयसीत्यर्थः । सर्वकर्त्तृत्वं कथमित्यत्राह - तत्तदिति । इह निर्दिष्टानां भोक्तॄणामनिर्दिष्टानां च तत्सजातीयानां ज्ञाततया नोपदेष्टव्यत्वं न च वेदितव्यत्वमित्यत्राह - तदयमर्थ इति । कत्तृत्वे हेतुः क इत्यपेक्षायां “यस्य वैतत्कर्मे “ति कर्मित्वोपपादन शुद्धस्वरूप चाविदितम् कमर्सम्बन्धस्तूलक्षणमित्यर्थः । एवं कर्म

निमित्तभोक्तृत्वात् जीवात्वमुक्तम् , तदेव यष्टिघातोत्थापनाच्छ्रेष्ठिदृष्टान्तात् सुषुप्तिप्रबोधादियोगाच्चोपपादयति - तथोत्तरत्रेत्यादिना । सुषुप्तिस्थानं नाड्यः, न परमात्मेत्यभिप्रायेण “हिता नाम नाड्यः” इति वाक्यमुदाहृतम् तदानीं तदाशब्दः सुषुप्तिवेलापरः स्यात् । सर्वैर्नामभिस्सर्वैर्ध्यानैरिति - तत्तत्करणमुपरतस्वस्वव्यापारमित्यर्थः । एतस्मादात्मनः प्राणा इति -प्राणशब्दः पञ्चवृत्तिप्राणपर इति पूर्वपक्षी मन्यते । देवाः इन्द्रियाणि । लोकाः- ज्ञानं विषयो वा । सुषुप्त्याधारता -सुषुप्तिमत्त्वं, सुषुप्त्याधारतयोक्तवानित्यन्वयः । प्राणशब्दस्य प्रथमान्तत्वशङ्कां मुख्यप्राणपरमात्मपरत्वशङ्कां च निराकर्त्तुं व्याचष्टे अस्मिन् जीवात्मनीति - तदुपपादयति स यदेति - प्रबोधः श्रूयताम् , ततः

किमित्यत्राह -मुख्यप्राणस्येति । प्रथमान्तत्वासम्भवोऽतिप्रसिद्ध इति न कण्ठोक्तः, तदा हि “एकधा भवति " इत्यनेन वागादिकरणानामिव निवृत्तव्यापारतयाऽवस्थानं तूक्तं स्यात् , तच्च विरुद्धं स्वापेऽपि प्राणव्यापारोपलब्धेः

। अवधारणानुपपत्तिश्च वागाद्युपरतेः प्रतिपाद्यमानत्वात् । न च वाच्यं प्राण एवानुपरतव्यापार एकरूपस्थित इत्यर्थ इति । प्रत्यक्षसिद्धार्थस्य प्रतिपादनवैयर्थ्यात् प्राणस्य स्वाधीनेन्द्रियस्थितिप्रवृत्तित्वरूपं प्राधान्यं विवक्षितमिति चेत् तत्तु सर्वथा भवतीति स्वापदशायां तत्प्रतिपादनमसङ्गत्वं स्यात् , अतः सप्तम्यन्तत्वमङ्गीकृत्य जीवपरस्वमुपपादितम् , अस्यां योजनायां सप्तम्यन्तपदयोः सामानाधिकरण्यस्वारस्येऽपि प्राणशब्दस्य लाक्षणिकत्वम् तद्य्वावृत्त्यर्थ योचनान्तरमाह - अथवेति । क एकधा भवतीत्यत्राह -वागादिकरणग्राम इति । प्राणाधिकरणवाचितया व्यधिकरणस्यास्मिन्नितिपदस्य परमात्मपरत्वमाशङ्कयाह - प्राणशब्दस्येति । कुत इत्यत्राह - स्वत इति । धर्मान्रराणामपि जीवे समभवं दर्शयन् पूर्वपक्षमुपसंहरति - अत इति अस्मिन्नधिकरणे प्राणजीवपरमात्मविषयतया त्रिशिरस्को विचार इतरैः कृतः, तत्रेह वेदितव्यतयोपदिष्टपुरुषस्य प्राणनामभिरामन्त्रणाश्रवणादिना मुख्यप्राणवैलक्षण्यस्य स्फुटत्वात् द्विशिरस्को विचार उपपन्न इत्यभिप्रायेण जीवपरत्वमेव पूर्वपक्षीकृतम् । ननु समष्टयात्मा हिरण्यगर्भः प्राणशब्दविषयत्वेन शङ्कित इति त्रिशिरस्कत्वं युक्तं विचारस्य । परिस्पन्दलक्षणकर्मसम्बन्धस्य हेतुतयोपन्यासानुपपत्तेः । परिस्पन्दात्मकं कर्म हि मुख्यप्राणधर्मतया प्रसिद्धम् , न तु हिरण्यगर्भतया । प्राणसमष्टयभिमानित्त्वाद्धिरण्यगर्भस्य प्राणधर्मेण कर्मणा विशेष्यत्वं युक्तमिति चेत्; हिरण्यगर्भः किं भवत्पक्षे क्षेत्रज्ञोऽभिमतः ? उत ईश्वर इति । ईश्वरत्वे हिरण्यगर्भपरत्वं सिद्धान्तीकर्त्तव्यम् , अतो न पूर्वपक्षतामर्हति । “परमेश्वर एवायमेतेषां पुरुषाणां कत्तर्ा स्या “दिति हि भवतां सिद्धान्तप्रतिज्ञा । यदि क्षेत्रज्ञोऽभिमतः तर्हि जीवपरत्वप्रतिक्षेपादेव तत्परत्वं प्रतिक्षिप्तं भवतीति प्राणो न पृथग्विचार्यः किं जीवमात्रपरः ? उत जीवविशेषपरः ? इति सन्देहो युक्त इति चेन्न; एकस्मिन् प्रकरणे सामान्यशब्देनाऽर्थप्रतिपादनेऽपि विशेषोपस्थापके सति तस्य तत्पर्यवसानस्य न्याय्यतया हिरण्यगर्भो वा परमात्मा वेति द्विशिरस्क एव संशयः स्यात् । ननु “जीवमुख्यप्राणलिङ्गान्नेति चे “दितिसूत्रेण पूर्वपक्षद्वयद्योतनाद्युक्तं विचारत्रयमिति चेत् न, जीवसाधकत्वेन मुख्यप्राणलिङ्गस्य शङ्कितत्वात् । जीवोपकरणावगमो हि जीवसाधकः, अतो मुख्यप्राणवैलक्षण्यस्य स्फुटत्वात् प्राणशब्दस्य हिरण्यगर्भवाचित्वे स्वारस्याभावाच्च जीवविषयः पूर्वपक्षः उपन्यस्तः।

राद्धान्तमाह -इति प्राप्त इति । पूर्वपक्षे कर्त्रादिशब्दानामस्वारस्यं स्वमते स्वारस्यं चाभिप्रेत्य तदुपपादकं जीवपरयोः स्वमावविशेषं वदन् प्रतिजानीते -अत्रेत्यादिना । प्रकृतिधर्माध्यासेन स्वस्मिन् प्रकृतिगतकर्त्तृत्वाध्यसेनेत्यर्थः । नेति । पदानुषङ्गसिद्धार्थ उक्तो नाभिधीयते इत्यन्तेन । सौत्रहेतुबलसिद्धं पतिज्ञांशमाह - अपि त्विति । यादृशस्य कर्मशब्स्य जगद्वाचित्वं युक्तं तादृशत्वं सूत्रकाराभिप्रेतमिति मन्वानः कर्मशब्दं विशिनष्टि -एतच्छब्दान्वितस्येति । नन्वेतच्छब्दः प्रकृतपामर्शी तत्कथमप्रकृतजगत्पयामर्श इत्यक्षाह -

एतच्छब्दो हीति । अर्थप्रकणादिभिरिति - अर्थशब्देन स्ववाक्यस्थपदान्तरान्वययोग्यत्वं विवक्षितम् । प्राचीनवाक्यनिचयः प्रकरणम् , आदिशब्देन उपरितनवाक्यानि विवक्षितानि,यद्वा पूर्वापरवाक्यजातं प्रकरणम् , आदिशब्देन तात्पर्यलिङ्गानि विवक्षितानि असङ्कुचितवृत्तिरिति । लिङ्गवचनविरोधात् पुरुषपरामर्शोऽनुपपन्नः । पुण्यपापरूपं कर्माप्रकृतम् । अप्रकृतमपि कर्त्तृत्वकारणतया परिकल्प्यधीस्थत्वापादानमत्यन्तविलम्बितम् । पुरुषनिर्माणरूपव्यापारम् “एतत्कर्मे “ति निर्दिश्य यस्येति तत्सम्बन्धे विवक्षिते पुनरुक्तिः स्यात् , निर्माणव्यापाराश्रयत्वस्य कर्त्तृशब्देनैवाभिहितत्वात्; अतः सङ्कोचकाभावादसङ्कुचितवृत्तिरिति भावः। तर्ह्यप्रकृतं जगत् कथपुपस्थाप्येतेत्यत्राह- प्रत्यक्षादीति । एतच्छब्दः सन्निहितपरामर्शी, सन्निधिश्च बुद्धिस्थितिः साच प्रकरणतो वा प्रकृतार्थान्तरसम्बन्धित्वेन वा प्रसिद्धितो वा भवति । तत्र प्रकरणादिना सङ्कोचानुपपत्तेः परिशेषात् प्रसिद्धार्थपरामर्शित्वे सति तत्रापि सङ्कोचकाभावात् निखिलचिदचिन्मिश्रजगद्विषय इत्यर्थः ।चिदचिन्मिश्रेति जगदेकदेशभूतस्यादित्यादेः प्रकृतत्वादेकदेशि च जगत्तद्द्वारा बुद्धिस्थम् , अतश्च जगत्परामर्शो युक्त इति भावः । रूढे

र्योगात् प्राबल्यमेतच्छब्दस्वारस्यं च तुल्यम् , तत्कस्यानुरूपोऽर्थनिश्चय इत्यपेक्षायामाह - न च पुण्येति । तुल्यत्वनिवारकबलीयस्त्वसिद्धये हेत्वन्तरमाह - ब्रह्म त इति । ततः किमित्यत्राह - पुण्यापुण्येति । क्रियामात्रवाची वेति दृष्टान्ततयोक्तम् । यथा वेदितव्यतया प्रकृतस्य प्राणनामभिमन्त्रणाश्रवणादिना प्राणवैलक्षण्यस्य स्फुटत्वात्प्रकरणस्य बालाक्यविदितपुरुषविशेषज्ञापनप्रवृत्तत्वाच्च मुख्यप्राणस्य लोकविदितत्वाच्च कर्मशब्दो न मुख्यप्राणव्यापारभूतक्रियामात्रवाची, एवमेव पुण्यापुण्यमात्रवाची न भवतीत्यर्थः । आदित्यमण्डलाद्यधिकरणानां पुरुषाणामिति - अस्य वाक्यस्य “यः कर्त्ता " इत्यनूद्य वेदितव्यविधिपरत्वात्

“चक्षोस्सूर्यो अजायत " नाभ्या आसीदन्तरिक्षम् “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवञ्च पृथिवी च " इत्यादि प्रापकवाक्येषु आदित्यादिपुरुषाणां द्युपृथिव्यादिजगतश्च पृथक् सृष्टिप्रतिपादनादिहापि पुरोवादानुरोधेनादित्यादिभिस्सह जगन्निर्देशाश्रयणं युक्तमिति भावः । क्रियत इत्यवयवार्थस्य प्रवृत्तिनिमित्तत्वज्ञापनाय जगतः कार्य्यत्ववाचीत्युक्तम् , कार्य्यभूतजगद्वाचीत्यर्थः । जगद्वाचित्वे सति अविदितार्थोपदेशपरत्वोपपत्तिमाह - एवमेवेति । अनेकहेत्वपेक्षया एको हेतुर्दुर्बलः, अतः सङ्कोचरहितैतच्छब्दस्वारस्यादविदितपुरुषविशेषोपदेशोपक्रमाच्च पुरोवादानुरोधाच्च कर्मशब्दस्य जगद्वाचित्वं युक्तमित्यर्थः । अविदितत्वं कम्रसम्बन्धरहितस्वरूपस्य पुरुषस्य भवतीत्यत्राह - पुरुषस्येति । कर्मसम्बन्धिवाचिपदस्य कर्मरहितोपस्थापकत्वममुख्यम् , न चावस्थाद्वयसाधारणात्मशब्दोऽपि प्रयुक्तः, यस्य कर्म स वेदितव्य इति हि निर्देशः, अतो लक्षणेत्यर्थः । एतच्छब्दस्य तदुक्तार्थपरत्वेऽनिष्टमाह -यस्य कर्मेति । त्वन्मतेऽपि वैयर्थ्यं दुल्यमित्यत्राह - य एतेषामिति । य एतेषां पुरुषाणां कर्त्तेति निर्देशो बालाकिनोक्तानां कार्य्यत्वेनाब्रह्मत्वज्ञापनार्थम् , तेषां कर्त्तेति प्रतिपादनमात्रेण तदुक्तादित्यादिभ्योऽपि अधिकहिरण्यगर्भादिदेवताविशेषसमन्वितकृत्स्नजगत्कारणत्वं न सिध्यतीति यस्य वैतत्कर्मेत्युक्तम् । जगत्कर्तृत्वस्य सन्निहितविषयतयाऽवच्छिन्नत्वव्यावृत्त्यर्थमेतेषां कर्तेत्युक्तमित्यर्थः। विपक्षे दूषणान्तरमाह - जगदुत्पत्तेरिति । स्वकर्मानुगुण्येनेश्वरसृष्टं सर्वं भुङ्क्त इति । न हि घटादिकर्तृत्वं विनियोगादृष्टवतः पुरुषस्य, अपि तु कुलालस्येति भावः । मुक्तपरत्वे कर्मवाचिपदलक्षणा एतच्छब्दवैयर्थ्यं कर्तृशब्दास्वारस्यं चोक्तम् । चरमं हेतुद्वयं बद्धपरत्वेऽपि तुल्यम् । अतः सर्ववेदान्तेषु परमकारणतया प्रसिद्धमिति - एतेषां यः कर्त्ता यस्य वैतत्कर्मेति यच्छब्देनानुवादरूपत्वप्रतिपत्तेः “यतो वा इमानी “त्यादिष्विव सर्ववेदान्तप्रसिद्धः परमपुरुष एवात्र कारणमनूद्यत इति भावः । एवं प्रथमवाक्यगतहेतुः परिहृतः, अथोपरितनवाक्यगतहेतुमनूद्य परिहरति ।

॥ जीवमुख्यप्राणलिङ्गान्नेतिचेत्तद्व्याख्यातम् ॥ जीवलिङ्गान्मुख्यप्राणसङ्कीर्त्तनाच्चेति - समासान्तर्गता जीवमुख्यप्राणयोरिति षष्ठी सम्बन्धसामान्यविषया, ततश्च जीवस्य लिङ्गत्वेन सम्बन्धः, मुख्यप्राणस्य च वाच्यतया सम्बन्धः इत्यर्थवशात्सिध्द्यतीति भावः । यद्वा लिङ्गम् ज्ञापकम् । उभयोरपि यिज्ञाप्यतया ज्ञापकेन सम्बन्ध इति भावः । जीवस्य लिङ्गं ज्ञापकम् , मुख्यप्राणस्य सङ्कीत्तर्नं ज्ञापकं, मुख्यप्राणसङ्कीर्त्तनाच्च लिङ्गादिति ह्युक्तम् । कर्मशब्दस्य स्पन्दरूपक्रियावाचित्वानुपपत्तेः परिशेषात्कीर्त्तनमेव प्राणलिङ्गमित्यभिप्रायः । उपकरणभूतमुख्यप्राणज्ञापकं तत्कीर्त्तनमपि तदुपकरणिनो जीवस्य प्रतिपाद्यत्वे हेतुरित्यभिप्रायेण सूत्रे मुख्यप्राणलिङ्गमुपात्तम् , न तु प्राधान्येन मुख्यप्राणस्य प्रतिपाद्यत्वसाधकतयोक्तम् तत्प्रतिपादकशङ्कानुत्थानस्य दर्शितत्वात् । निर्वाहः - परिहारः । प्रतर्दनविद्यायां

कथं परिहृतम् ? तत्रातिदेष्टव्यांशः कः ? स चात्र कथं घटत इत्यत्राह- एतदुक्तं भवतीति । तदनुरोधेन वर्णनीयानीत्यन्तेनातिदेष्टव्यांश उक्तः, न तूपासनार्थत्वमप्यतिदेष्टव्यमिति भावः । तस्यात्र सङ्घटितत्वं दर्शयति - अत्राप्युपक्रम इति । ब्रह्मोमक्षिप्तमिति- ब्रह्मशब्दस्य परस्मिन्नेव मुख्यत्वात्तत्परत्वं स्वतःप्राप्तमुपक्रमावगतत्वात्प्रबलञ्चेति भावः । ब्रह्मैवेत्युक्तमिति- मध्यगतवाक्यस्य परमात्मपरत्वस्योपपादितत्वान्मध्येऽपि परमात्मपरत्वं प्रतिपन्नमित्यर्थः । उपसंहारे चेति । सर्वपापाहतिपूर्वकं स्वाराज्यमिति । अनेन श्रैठ्याधिपत्यशब्दयोः स्वाराज्यविशेषणत्वमेव, न तु पृथक्फलवाचित्वम् , चशब्दाभावादित्यभिप्रेतम् । “सर्वान् पाप्मनोऽपहत्ये"त्यनेन अपहतपाप्मत्वादिगुणाष्टकमुक्तम्, जरादीनामपि पाप्मान्तर्गतत्वात् , उक्तञ्च वाक्यकारैः “स्युः पाप्मानः कालजरामृत्युशोकादयः सङ्खयातत्वात्” इति । स्वाराज्यम्- स्वाधीनत्वम् । अतः सत्यकामत्वं सत्यसङ्कल्पत्वं चोक्तम्भवति । तत्स्वाराज्यं संसारिभ्योऽस्य श्रैष्ठ्यरूपमाधिपत्यम् । अधिपतिः- परमात्मा “सर्वस्याधिपतिः” इति श्रुतेः, तत्सम्बन्ध्याधिपत्यम् । गुणाष्टकं हि ब्रह्मसम्बन्धितया ब्राह्ममुच्यते, “ब्राह्मेण जैमिनि"रिति; अतो ब्रह्मसम्बन्धितया तत्साधर्म्यरूपं संसारिभ्यः श्रैष्ठयरूपं स्वाराज्यमेतीति श्रुतेरर्थ इत्यभिप्रायः । अनेन ग्रन्थेन फलविशेषकीर्त्तनस्य परमात्मपरत्वे हेतुतोपन्यासो ब्रह्माज्ञानवादिनामनुपपन्न इत्यर्थाद्दर्शितो भवति, अविद्यानिवृत्त्यतिरेकेण स्वाराज्यशब्दवाच्याभावाद्दुः

स्वाभावाभिप्रायत्वे लक्षणा । सगुणप्राप्तिविषयं वाक्यमिति चेत् सत्यम्; निर्गुणप्राप्तेरप्रामाणिकत्वाद्विशेषणवैयर्थ्यमेव । न हि ततः परं

प्राप्यान्तरमुक्तम् , उपनिषदः समाप्तत्वात् । स्वाराज्यं फलं श्रूयते, ततः किमित्यत्राह - अतोऽस्येति । अत्र निर्वाहप्रकारं दर्शयितुं तत्रोक्तं विशेषमाह -पातर्दने हीति । त्रेविध्येनेति हेतौ तृतीया । प्रयोजनता च हेतुत्वम्, उपासात्रैविध्यसिद्ध्यर्थमित्यर्थः । तस्मिन्निर्वाहेऽत्र सम्भवदंशमाह - अत्रापीति । प्रातर्दनोपन्यासन्यायेन प्राणलिङ्गस्य ब्रह्मपरत्वमुक्तमित्यर्थः । जीवलिङ्गस्य तु प्रकारान्तरेण निर्वाहप्रतिपादकमनन्तरसूत्रमवतारयितुं जीवलिङ्गनिर्वहणाकाङ्क्षां दर्शयति - जीवलिङ्गानामिति ।

अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके वा जीवप्राणलिङ्गयोरपि निर्वाहमुक्तवा मतान्तरेण तयोर्निर्वाहमाहेतिशङ्कव्यावृत्त्यर्थमाह - तुशब्द इति । तुशब्दो न पूर्वोक्तनिर्वाहव्यावृत्त्यर्थः । अपि तु पूर्वपक्षव्यावृत्त्यर्थ इत्यर्थः । व्याख्येयं पदं सविशेष्यमाह - अन्यार्थमिति । अन्यः कः ? तदर्थत्वं कथमित्यत्राह जीवातिरिक्तेति । प्रबुद्धप्राणस्यैव- अनुपरतव्यापारप्राणवत इत्यर्थः । प्राणनामभिरिति - प्राणनामशब्देन बृहत्पाण्डरवासस्सोमराजशब्दा विवक्षिताः “तौ ह सुप्तं पुरुषमीयतुः तं हाजातशत्रुरामन्त्रयाञ्चके बृहन् पाण्डरवासस्सोमराजन्” इति हि श्रुतिः “प्राणो वा व ज्येष्ठश्च " इति ज्यैष्ठयश्रैष्ठयगुणबृहत्त्वात् बृहन्नित्यामन्त्रणम् , पाण्डरवासस्त्वञ्च प्राण

धर्मः “किं मे वासः” इति प्राणेन पृष्टे “आपो वासः” इति अपां प्राणवासस्त्वोक्तेः “यच्छुक्लं तदपा “मिस्यपां शुक्लवर्णश्रवणाच्च । सप्तान्नब्राह्मणे “अथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रः” इति चन्द्रज्योतीरूपत्वदर्शनात् चन्द्रसम्बन्धेन सोमेत्यामन्त्रणं लक्षणया । “प्राणो वै सम्राट् परं ब्रह्मे"ति सम्राट्त्वश्रवणात् राजन्नित्यामन्त्र्यते, अतः प्राणनामभिरित्युक्तम् । ननु कथमामन्त्रणस्य प्राणविषयत्वनिश्चयः ? तन्निश्चये सति ह्येवं निर्वाह इति । योग्यतासहकृतात् पारिशेष्यात् प्राणविषयत्वनिश्चय इति ब्रूमः, स्वापदशायां काष्ठकल्पत्वाद्दहस्मानात्मत्वं स्फुटम्, इन्द्रियाणान्तु पाण्डरवासस्त्वादिकमनुपपन्नम् , अतः स्वापेऽप्यनुपरतव्यापारस्य प्राणस्याचेतनत्वेनानात्मत्वख्यापनमपेक्षितम् , पाण्डरवासस्त्वादीनां तद्विशेषणत्वं श्रुतिसमाधियोग्यञ्च; अतो यथोक्त एवार्थ इति । नन्वत्रैव बालाक्यजातशत्रुसम्वादे “स होवाच य एवासौ चन्द्रे पुरुषः” इति प्रकान्ते चन्द्रपर्याये “बृहत्पाण्डरवासाः सोमो राजे"ति चन्द्रविषयतया श्रुतानामेषां नामधेयानां प्राणविषयत्वं कथम् ? उच्यते; सुषुप्तपुरुषं गत्वा चन्द्रामन्त्रणस्याघटमानत्वाद्वाक्यस्य देहातिरिक्तात्मबोधनपरत्वावगमादर्थान्तरेषु पदानामनन्वयात् प्राणेऽन्वयार्हत्वाच्च तद्विषयत्वमिति । केचित्तु एतानि चन्द्रनामान्येव, पाण्डरैरंशुभिर्जगच्छादकत्वात् पाण्डरवासस्त्वम् “मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रोऽधिदैवत"मिति मनसश्चन्द्रदैवत्यत्वाल्लक्षणयेन्द्रियवर्गप्रधानस्य मनस आमन्त्रणम् , तच्चेन्द्रियातिरिक्तत्वप्रतिबोधनार्थमित्याहुः, तत्रापि न दोषः, तदानीं भाष्ये प्राणनामभिरित्यत्र प्राणशब्दः

इन्द्रियविषयो योजनीयः, न हि मुख्यप्राणनामभिरित्युक्तम् , अतः प्राणनामभिरिति निर्देशस्य इन्द्रियाभिप्रायत्वं घटते जीवव्यतिरिक्तब्रह्मप्रतिबोधनपरः प्रश्नो दृश्यत इत्यन्वयः । क्वैष इति स्वप्नस्थापनप्रश्नः । प्राणादिव्यतिरिक्तस्य

जीवस्य यष्टिघातोत्थापनादिनाऽवगतत्वात् प्रश्नस्य जीवातिरिक्तविषयत्वमित्यर्थः । अत एव प्रतिवचनस्यापि जीवातिरिक्तविषयत्वसिद्धिः, व्याख्यानम् - प्रतिवचनम् । सप्तम्यन्तः प्राणशब्दः प्राणशरीरकपरमात्मवाची । प्राणाः - जीवाः। देवाः - इन्द्रियाणि । लोकाः - लोकनानि ज्ञानानि । जीवादर्थान्तरपरमात्मपरत्वं कथमित्यपेक्षायां श्रुत्यन्तरेण तदुपपादयति - तथा हीति । सद्विद्यावाक्यस्य परमात्मपरत्ववैशद्याय सुषुप्तिविषयं श्रुत्यन्तरमुपादत्ते प्राज्ञेनेति- जीवकीर्तनस्य तदतिरिक्तबोधनार्थत्वं निगमयति

अत इति- अनेन निर्वाहवैषम्यप्रदर्शनेन अतिदेशसूत्रस्याधिकशङ्कापरिहारौ दर्शितौ भवतः। प्रतर्दनविद्यायामुपक्रमे जीवलिङ्गावगमः, महावाक्यस्वारस्यन्तु परमात्मपरत्वे । इह तूपक्रमोपसंहारमध्येषु जीवलिङ्गावगमात्, अत एव परमात्मनश्चिद्विशिष्टतापरत्वाभावेन उपासात्रैविध्याप्रतिपत्तेः प्रातर्दनन्यायानवकाश इत्यधिकाशङ्का । त्रिविद्योपासनाभावेपि जीवातिरिक्तब्रह्मबोधनरूपप्रयोजनान्तर सम्भवादस्त्यवकाश इत्यनन्तरसूत्रे विवक्षितोऽधिकः परिहार इति ह्यवगम्यते । अथ प्रतिवचनवाक्यस्य पूर्वपक्षितमर्थं यदुक्तमित्यादिनाऽनूद्य दूषयति । तदयुक्तमिति । नाडीनां स्वप्नस्थानत्वादिति - “तासु तदा भवती"त्यत्र तदाशब्दः स्वप्नावस्थापरः “यदा सुप्तः स्वप्नं न कथञ्चन पश्यत्यथास्मिन् प्राण एवैकधा भवति” इत्यनन्तरवाक्ये अथशब्देन तदाशब्दनिर्दिष्टावस्थायाः सुषुप्तेश्च अवस्थान्तरत्वावगमादुत्तरवाक्ये स्वप्नप्रतिषेधेन पूर्ववाक्यस्य स्वप्नप्रसञ्जकतया तद्विषयत्वावगमाच्चेति भावः। ननु यदा स्वप्नं न पश्यति तदा तासु नाडीषु भवति, तदनन्तरमेवास्मिन् प्राण एवैकधा भवति करणग्राम इतीत्थं किं न स्यात् ? नैवम्; अथशब्दास्वारस्यप्रसङ्गात् प्रश्नप्रतिवचनवैषम्यप्रसङ्गाच्च । यदा स्वप्नं न पश्यति तदा तासु भवति, अथास्मिन्नेकधा भवति करणग्राम इत्युक्ते स्वप्नाभावावच्छिन्नकालादनन्तरं करणग्रामोपरम इति प्रतीयते, तथा सति प्रबोधदशायां करणग्रामाप्यय उक्तः स्यात् । तदनुपपन्नम्; सुषुप्तिप्रथमक्षणादनन्तरं करणग्रामाप्यय इति चेत् तदानीं तदाशब्दस्य क्लिष्टता स्यात् । यदा न पश्यति तदेत्युक्ते हि स्वप्नाभावावच्छिन्नकृत्स्नकालपरत्वं तदाशब्दस्य प्रतीयते, नहि तत्र स्वापारम्भवाचिशब्दः श्रूयते, अतः “तदा भवति” यदा सुप्त” इति प्रतिवचनवाक्यद्वयं स्वप्नसुषुप्त्यवस्थाद्वयपरम् । किञ्च “क्व वा एतदभू"दितिप्रश्नस्य करणग्रामपरत्वमयुक्तम्; एतच्छब्दस्य प्रकृतपरामर्शित्वात् करणग्रामस्य चाप्रकृतत्वात् “पुरुषोऽशयिष्टे"ति पुरुषस्य प्रकृत्वात् एतच्छब्दः पुरुषविषयः। लिङ्गव्यत्ययस्तु न

पुरुषपरत्वविरोधी, प्रातिपदिकस्य

प्रधानस्य प्रकृतपरामर्शित्वाद्विभक्तेरप्रधानत्वाच्च, तस्मात् “क्वेष एतत्, क्व वा एतदि"तिप्रश्नयोः स्वप्नसुषुप्तिविषयत्वं युक्तम्; अन्यथा सुषुप्तिमात्रप्रश्नस्य स्वप्नसुषुप्तिविषयप्रतिवचनस्य च वैघट्यं स्यात्, अपृष्टस्य प्रतिवचनायोगात् । प्रतिवचनस्यावस्थाद्वयविषयत्वमुपपादितम् । अपृष्टः करणग्रामाप्यायः कथमुच्यत इति चेन्न; तस्य पृथक् प्रश्नानपेक्षत्वात् । सुषुप्तेस्सकलबाह्यान्तः करणोपरतिरूपतया सुषुप्त्यन्तर्भूतत्वात्तस्य; अत एव करणग्रामस्य सुषुप्तावप्ययो नाम व्यापारापरतिरेव, न तु स्वरूपनाशः। करणग्रामाप्ययोक्तिश्च जीवस्यैकधाभावोपपादनरूपत्वात्कृता, तत्करणद्वारकनानाविधज्ञानप्रसराभावो हि तस्यैकधाभावः, अतो नाडीनां स्वप्नस्थानत्वम् । सुषुप्त्याधारस्य प्राणशब्दोक्तस्य परमात्मत्वे हेतुमाह - उक्तरीत्येति । उदाहृतश्रुत्यन्तरैकार्थ्यलक्षणयेत्यर्थः। ननु प्राणशब्दः प्रथमान्तो जीवविषयो मुख्यप्राणविषयो वा किं न स्यात् ? उच्यते; जीवविषयत्वे लक्षणा स्यात् , प्राणशब्दस्य तत्सहचारिणि वृत्तेः। परमात्मपरत्वे तु न लक्षणा, शरीरवाचिशब्दस्य शरीरिपर्यन्ततया मुख्यत्वात् । नन्वेकथाभवनस्य कर्त्ताऽध्याहार्य्य इति चेन्न; स्वप्ने यदा न पश्यती तदेकधा भवतीति यत्तदोर्नित्यसम्बन्धेन प्रत्यासत्त्यतिशयात् एकवाक्यतुल्यत्वात् सुषुप्तस्यैवैकधाभवनकर्तृत्वसिद्धेः, अस्मिन्नितिपदस्य विशेष्यं चाकाङ्क्षितम्; अतः सप्तम्यन्तत्वं युक्तम् । अन्यथा अस्मिन्नितिपदमासन्नजीवपरं स्यात् तदा जीवः स्वस्य स्वयमेवाधार इत्युक्तं स्यात् । तदयुक्तम्; श्रुत्यन्तरविरोधात् । तर्हि मुख्यप्राणस्याधारोऽस्त्विति चेन्न, तस्य सुषुप्तावेकधाभावस्य प्रत्यक्षविरुद्धत्वात् “स यदा प्रतिबुध्यते” इत्यनन्तरोक्तप्रबोधस्यैकधाभवनसमानकर्तृकत्वस्वारस्यात् सुषुप्तस्यैव प्रबोधसम्भवात् मुख्यप्राणस्य स्वापाभावाच्च । तच्छब्दो हि स्वतः प्रथमानिर्दिष्टपरामर्शी, न तु तदनादरेणाधिकरणपामर्शी । मुख्यप्राणः प्रथमान्तप्राणशब्दोक्तश्चेत्प्राण एवेत्यवधारणानुपपत्तिश्च, वागाद्यपययेऽपि प्रतिपाद्यमाने कथमवधारणं घटते? अत एव प्रथमान्तत्वे प्राणशब्दस्य करणग्रामविषयत्वमप्ययुक्तम् , तस्य प्रबोधकर्तृत्वायोगात् , अत एव

पूर्वपक्षिणोक्तमस्मिन्नितिपदस्य जीवपरत्वं तद्वैयधिकरण्येन प्राणशब्दस्यापि सप्तम्यन्ततयैव करणग्रामाप्ययाधारत्वमपि निरस्तम् । वैयधिकरण्ये स्वतः प्राप्तसामानाधिकरण्यस्वारस्यभङ्गात् एकधाभवनकर्तृत्वेन करणग्राम इत्यध्याहारप्रसङ्गात् “स यदा प्रतिबुध्यते” इत्युक्तप्रबोधस्य एकधाभवनस्य च समानकर्तृकत्वप्रतिपादकतच्छब्दस्वारस्यभङ्गाभावात् सामानाधिकरण्ये प्राणशब्दस्य लक्षणा पूर्वोक्ता; अतः प्राणशरीरकतया तच्छब्दवाच्ये बह्मणि सुप्तुसौ जविावस्थितिपरम् “अथास्मिन् प्राण एवैकधा भवती “ति

वाक्यमित्यभिप्रेयणाह- प्राणशब्दनिर्दिष्टे ब्रह्मण्येवेति । सूत्रखण्डं व्याचष्टे - अपिचैवमेक इति । क्वैष तदाऽभूत् क्व शब्द इत्यर्थः । प्राणानां विज्ञानेन विज्ञानमादाय प्राणशब्दवाच्येन्द्रियजन्यं ज्ञानं मनसा साहादयेत्यर्थः। उपरतव्यापारं मन इत्यर्थः । अनेनेन्द्रियाणामपि व्यापारोपरतिः फलिता । तेषां मनस्सापेक्षत्वात् । “य एषोऽन्तहहृदय

आकाश " इत्यत्राकाशशब्दस्य भूताकाशव्यावृत्तिसमानप्रकरणस्थप्राणशब्दश्रवणसिद्धा प्राणशब्दस्य च मुख्यप्राणव्यावृत्तिराकाशशब्देन न साध्येति नान्योन्याश्रयणम् । जीवलिङ्गनिर्वाहमुपसंहरति - अत इति । परमात्मगुणान्वयस्य परमात्मशब्दसामानाधिकरण्यस्य वा श्रवणे सति तत्तद्विशिष्टोपासनार्थत्वनिर्णयः, अतोऽत्र परमात्मधर्मान्वयश्रवणाभावात् वैयधिकरण्यनिर्देशाच्च अन्यथासिद्धत्वान्नोपासनार्थत्वं जीवलिङ्गस्य, अपि तु भेदज्ञापनार्थत्वमित्यर्थः। कृत्स्नवेदान्तस्य पुरुषप्रधानपरत्वासिद्धिमुपसंहरति - तस्मादिति । इह प्रधानोपादानं जीवस्य तेन विना कारणत्वानुपपत्त्यभिप्रायकृतम् । यद्वा, अनेनाधिकरणद्वयेन ईक्षत्यानन्दमयाधिकरणाक्षेपद्वयस्य परिहृतत्वज्ञापनार्थम्। जगद्वाचित्वाधिकरणं समाप्तम् ॥