कारणत्वेन चाकाशादिषु यथा व्यपदिष्टोक्तेः । सर्वतत्त्वानां यस्मिन्निति ब्रह्माश्रयत्वप्रतीत्या स्वातन्त्रेण प्रधानस्य कारणत्वं निरस्तम् , अथ स्वातन्त्रेण कारणत्वं प्रतीयते ब्रह्माश्रयत्वाप्रतीतेरिति शङ्कया सङ्गतिः, तामाह -पुनरिति। अर्वजनीयाचिद्बोधव्याकुलार्थशब्दोपलक्षितकारणवाक्यसमुदायो विषयः व्याकुलत्वादेन संशयः किं जगत्कारणविषयवेदान्तवाक्यप्रतिपाद्यमव्यक्तम् ? उत ब्रह्मेति । किं “असद्वा इदमग्र आसीत् "
“तद्धेदन्तर्ह्यव्याकृतमासीदित्यत्रासदव्यकृतशब्दाव्याकृतनामरूपावस्थब्रह्मपरौ ? उताव्यक्तपरा ? विति । तदर्थं किं तदप्येषश्लोको भवतीति साक्षित्वेन निर्दोशोऽसच्छब्दस्य प्रकृतब्रह्मपरतामवगमयति नेति, स एष इह प्रविष्ट इति प्रकाशितुरनुकर्षश्चाव्याकृतशब्दस्य ब्रह्मपरतामवगमयति नेति संशयोऽर्थसिद्धः, यदा “स एष " इत्यनुकर्षो नाव्याकृतशरीरब्रह्मपरतामवगमयति, यदा च “तदप्येष " इति निर्देशः प्रकृतब्रह्मपरतामसच्छब्दस्य नावगममति, तदानीमसदव्याकृतशब्दयोरव्याकृतनामरूपावस्थ
ब्रह्मपरत्वाभावात् कारणवाक्यप्रतिपाद्यमव्यक्तमिति प्राप्नोति, यदा “तदप्येष " इति निर्देशोऽसच्छब्दस्य ब्रह्मपरतामवगमयति यदा च “स एष " इत्यनुकर्षोऽव्याकृतशब्दस्याव्याकृतशरीरकब्रह्मपरतामवगमयति, तदानीमसदव्याकृतशब्दयोरव्याकृतनामरूपावस्थब्रह्मपरत्वजगत्कारणवाक्यप्रतिपाद्यं ब्रह्मेति सिध्द्यति, वेदान्तेषु कारणवाक्यानामैककण्ठ्येन हि ब्रह्मकारणत्वमुक्तं तदनुपपन्नम् ऐककण्ठ्याभावादित्याह - न वेदान्तेष्विति । एकस्मादेकरूपात् कारण तू स्रष्टुरव्यवस्थिते - ब्रह्मकारणसादे सामाञ्जस्यमाह - प्रत्युतेति । नन्वव्याकृतात् सृष्टिः प्रतीयते न प्रधानादित्यत्राह -अव्याकृतं हीति । अव्याकृतत्वं नामरूपविशिष्टतयाऽनभिव्यक्तत्वमस्तु ततः किमित्यत्राह - अव्यक्तं प्रधानमेवेति । परस्परप्रतिक्षेपकार्थविषययोः सदसच्छब्दयोः कथं प्रधानविषयत्वोपपत्ति? रित्यत्राह - अस्य चेति । ब्रह्णीवेति वैधर्म्यदृष्टान्तः, ननु तद्धेदमिति प्रकरण एव “पश्यन् चक्षुः श्रृण्वन् श्रोत्रमि “त्यव्याकृतशबनदवाच्यस्य चेतनत्वमवगम्यते, असच्छब्दस्याप्यव्याकृतशब्दसमानयोगक्षेमत्वाच्चेतनविषयत्ममापतति प्रकरणान्तरेषु वेक्षणं श्रूयते, परब्रह्मशब्दस्य चैतनविषयत्वं श्रुतिप्रसिद्धम् , आत्मशब्दस्य चेतनैकान्त इति शङ्कायामीक्षणधर्मयोगं प्रतिवक्ति - एवमिति । एवशब्देन कारणवाक्यस्थसदसदादिशब्दानां परमात्मन्यसामञ्जस्यं प्रधाने सामञ्जस्यञ्च पूर्वोक्तत्वात्परामृश्यते - ईक्षणादय इत्यादिशब्देन “स तपोऽतप्यत, इदं सर्वमसृजते " त्यादिवाक्यप्रतिपन्नौ पूर्वापरपर्यालोचनाप्रयत्नौ विवक्षितौ कारणगता इति - अव्याकृतशब्देन प्रथमत एवाचेतनस्य प्रतिपन्नतया पश्चादवगतम्पश्यन् चक्षुरित्यादिवाक्योक्तं चेतयितृत्वं चक्षुराद्युत्पादनौन्मुख्याभिप्रायम् , एवं प्रकरणान्तरेऽष्वपीक्षणोक्तेर्धर्मिवाचिपदनिर्देशपूर्वकत्वाद्धर्मिवाचिपदानां च
सर्वशास्वाप्रत्ययन्यायेन अव्याकृतशब्दतुल्यार्थत्वात्तद्गता ईक्षणादयः सृष्टयौन्मुख्याञ्चि
प्राया इत्यर्थः । यद्वा कारणगता इति ब्रह्मकारणवादिनाऽीन प्रधानन्तस्यानादितया परमकारणतवं चानुमतम् तस्य वेदान्तवाक्यप्रसिद्धत्वात् ,अतश्चिदचिदीश्वरसमुदायस्य कारणत्वादीक्षणस्यांशे मुख्यत्वभङ्गः स्वीकार्य्यः, ततश्चाचिदतिरिक्तवस्तुनि वेदान्तवाक्यानां सामञ्जयस्याभावेन अमानतया वैपरीत्यभङ्गेन सर्वत्रेक्षणं गौणमास्थेयमित्यभिप्रायः, भूयसां बलीयस्त्वशङ्काऽप्यनेन निरस्ता, सर्वकारणवाक्येष्वपीक्षणस्यांशे गौणतयाऽर्द्धजरतीयप्रहाणेन गौणत्वावश्मम्भावात् । ब्रह्मात्मशब्दयोः प्रधानपरत्वबुपपादयति - ब्रह्मात्मेति । अनेन ईक्षत्यधिकरणाक्षेपः फलितः । अधिकयुक्त्यन्तरमाह - स्मृतिन्यायेति । नन्वयोग्यव्यवच्छेदनिषेधेनोत्थितस्याधिकरणस्य कथं त्रिपाद्यां सङ्गतिः ? अस्यां सङ्गतस्य वा कथमयोगव्यवच्छेदप्रतिक्षेपेणोत्थानम् ? किञ्च न चात्र निरूपणीयमस्ति पूर्वापरवाक्येषु समाकर्षणेन ह्यर्थो निष्कृष्यते, सिद्धान्ते पूर्वापरवर्णनं चासच्छब्दस्यानन्दमयाधिकरणे कृतम् ,अतः संशयोत्थानाभावादनारम्भणीयत्वच्चेति नैवम् , प्रधानप्रतिपादनच्छायानुकारिवाक्यविषयत्वात् , न चानन्दमयाधिकरणेन चरितार्थता, असच्छब्दस्य प्रधानपरत्वशङ्कायास्तत्रानपाकृतत्वात् पूर्वापरवाक्यानां परविषयत्वे निरूपितेऽपि प्रकरणाच्छुतेर्बलीयस्त्वादसच्छब्दस्य ब्रह्मपरत्वं हि दुरवगमं तर्हि “अस्मिन्नस्य च तद्योगं शास्ती “ति सूत्रस्यानन्तरमेवानन्दित्वप्राप्तिनिमित्तस्य वस्तुनोऽसच्छब्दवाच्यतया प्रधानत्वमाशङ्कय तत्रैव निराकरणं कर्त्तव्यमिति चेन्न प्रधानप्रतिपादनच्छायानुकारिवाक्यविचारस्य पादसङ्गत्यभावात् , अतोऽत्रैव निरूप्यत्वे सति पूर्वपक्षयुक्तिवशादयोगव्यवच्छेदनिषेधः फलितः, कारणवाक्यानां ब्रह्मपरत्वे अनुपपन्ने सति पूर्वपक्षिणाऽपि वेदप्रामाण्यमभ्युपगच्छता तेषामानर्थक्यपरिहाराय कस्यचिदर्थस्य प्रतिपादकत्वेऽवश्याभ्युपगन्तव्ये च न्याय्ये सति प्रधानातिरिक्तकारणसद्भावानुपपत्तेः, अतस्त्रिपाद्यारम्भे तस्या अन्ययोगव्यवच्छेदपरत्वाभिधानं प्रायिकत्वाभिप्रायं मन्तव्यमिति । इति प्राप्त इति - त्वर्थेन चशब्देन फलितां प्रतिज्ञायमाह - सर्वज्ञादिति । परस्माद्ब्रह्मण एवेत्येवकारेण नेतिपदानुषङ्गफलितप्रधानप्रतिक्षेपः सूचितः, यथाव्यपदिष्टमित्युक्ते श्रुतौ व्यपदिष्टमिति शङ्काव्यावृत्त्यर्थमाह -जन्माद्यस्य यत इत्येवमादिष्विति । अत्राऽयमभिसन्धिः, परैस्तु “यथा व्यपदिष्टोक्तेरिति पदमेव व्याख्यातम् यथा श्रुत्यन्तरेषु व्यपदिष्टन्तथेहाप्युक्तेरिति तदयुक्तम् श्रुत्यन्तरेष्वपि प्रधानमेवोक्तम् स्यादित्युक्ते किमुत्तरम् तेषु परब्रह्मणः परमकाणत्वेन प्रतिपादितत्वं हेतुतया वर्णनीयम् ,
अतः कक्ष्यान्तरसापेक्षयुक्तिप्रतिपादकत्वादपि निरपेक्षहेतुप्रतिपादकत्वस्य समुचित्वादिति,आकाशादिषु
कारणत्वेन आकाशादीनां कारणत्वेनेत्यर्थः, अर्थस्वारस्येनाऽत्र व्याख्यातम् , दीपे तु सप्तमीस्वारस्येनाऽऽकाशादिपदचिह्नितेषु तेषु वाक्येप्वित्युक्तम् - तस्माद्वा इति स्वतश्चैतनैकान्तात्मशब्दोपेतप्रकरणस्मारणार्थमाकाशादिष्वित्यु-क्तमिति भावः, न त्वसच्छब्दोपेतप्रकरणम् विवक्षितम् तद्धि उत्तरसूत्रे विवक्षितम् भूयसां बलीयस्त्वमेवास्मिन् सूत्रे हेतुंतया विवक्षितम् , अत एव हि सद्विद्यावाक्यमुपादीयते, तत्तेजोऽसृजतेति, आदिशब्देन बुणडकोपनिषदादि विवक्षितम् धर्मिवाचिनोऽव्याकृतादिपदस्य प्रथमश्रुतत्वाच्चरमावगतमीक्षणादिकं तदाऽनुगुण्येन गौणमित्युक्तमिति शङ्कायां तेषु प्रकरणेषु सर्वज्ञत्वादिगुणकस्यैव कारणत्वेन प्रतिपादितत्वमुपपादयति - तथा हीति कारणत्वप्रतिपादनात् प्रागेव कारणत्वधर्मिणः प्रथमत एव चेतनत्वप्रतिपादनं दर्शयति - सत्यं ज्ञानमिति सम्भव इति सृष्टिमतिपादनात्पूर्वमेव प्रयुक्तः स्वतश्चेतनैकान्त आत्मशब्दः प्रबलतरः, ततः पूर्वमेव तस्य कारणस्य विपश्चित्त्वप्रतिपादनादात्मशब्दस्य क्लिष्टनिर्वाहशङ्का दूरोत्सारितेत्यभिप्रायेणाह -प्रकृतं विपश्चिदेवेति । तथेति “तत्तेजोऽसृजते " ति कारणत्वप्रतिपादनात् पूर्वमेव “तदैक्षतेति " ईक्षितृत्वप्रतिपादनादीक्षणानुगुणङ्कारणत्वम् नेयम् , न तु कारणत्वानुगुणमीक्षितृत्वं नेयमित्यर्थः, ततः पूर्वनिर्दिष्टं सदिति पदं तत्साधारणत्वात् न प्रधानपरतया स्वतः प्रतीयते ईक्षणदर्शनात् , प्रधानविलक्षणङ्कारणे दिश्चीयत इति नोपक्रमविरोधः, सच्छब्दस्य इदंशब्दसामानाधिकरण्यं तु सम्भवतीत्ययमर्थः “ईक्षतेर्नाशब्द “मित्यत्र समर्थित इत्यभिप्रायः, एवं सर्वत्रेति - “आत्मा वा इदमेक एवाग्र आसीत् , स ईक्षत लोकान्नु सृजा " इति “स इमान् लोकानसृजत " “यस्सर्वज्ञः सर्ववित् यस्य ज्ञानमयन्तपः तस्मादेतद्ब्रह्म नाम रूपमन्नञ्च जायते " “एको ह वै नारायण आसीत् " इत्यारभ्य “स एकाकी न रमेत सोऽन्यं कामम्मनसा ध्यायीत तद्धिरण्मयमण्डमभवत् तत्र चतुर्मुखोऽजायत । अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयमिति, “नारायणाद्ब्रह्मा जायते " इत्यादिषु सृष्टयुक्तेः पूवेमेव परमचेतनतदसाधारणेक्षणादिकमवगन्तमित्यर्थः । उपक्रमस्थबहुश्रुतिविरोधादव्याकृतश्रुतिमात्रदोर्बल्यमर्थसिद्धम् । उत्तरसूत्रशङ्क्यामाह- नन्विति ।
समाकर्षात् । “असद्वा इद"मित्यादिना समाकर्षः प्रतिज्ञातः । “ब्रह्मणा विपश्चिता अन्योऽन्तर आत्मानन्दमयः सोऽकायते “ति वाक्यान्यभिप्रेत्य विपश्चित्त्वादिकमुक्तम् , प्रतिज्ञातार्थविषयवाक्यबुभुत्सां दर्शयति - कथमिति । तस्माद्वा इत्यात्मशब्देन कारणविषयेण निर्दिष्टस्य विपश्चिदानन्दमयस्य स इति पुंल्लिङ्गान्तशब्देन सत्यसङ्कल्पादिगुणकस्य “तदप्येष " इति तच्छब्देन च समाकर्ष उपपादितो भवति पूर्वस्माद्वाक्यादसद्वा इति वाक्ये समाकर्ष उक्तः, अनेन प्रकरणाच्छ्रुतिर्बलीयसीत्येतदपि परिहृतम् , ज्ञानविपश्चिदादिबहुश्रुतिप्राबल्यसिद्धेः तस्मादुत्तरत्र समाकर्षमाह - तथोत्तरत्रेति । भीषाऽस्मादित्यत्र अस्मादित्ययं शब्दो ब्रह्मण आकर्षकः प्रकृपरामर्शित्वात् । असच्छब्दार्थमाह -तदानीमिति । श्रुत्यन्तरस्थस्याप्यसच्छब्दस्य उक्तार्थपरत्वमाह -असदेवेदमिति । तथापि “असद्वा इद " मिति वाक्यस्थकारणविषयासच्छब्दैकार्थ्यात् सत्यसङ्क
ल्पत्वादिकं सिद्धमित्यभिप्रायः, तत्रासच्छब्दोक्तस्य “तत्सदासी “दित्यनुकर्षाप्रदर्शनं सच्छब्दस्य चिदचित्साधारण्यनिबन्धनम् ,सच्छब्दो हि तुच्छव्यावर्तकः, न त्वचिद्य्वावर्तकः । कारणावस्थायामसद्य्वावृत्तिर्ह्यारम्भणाधिकरणावसेया । तद्धेदमित्यादिश्रुतावप्यनुकर्षं दर्शयति - यदुक्तमिति तद्धेदमितिश्रुत्युक्तानुप्रवेशनामरूपव्याकरणयोः परमात्मधर्मत्वेन प्रसिद्धिमाह - तत्सृष्ट्वेति । प्रधानस्यापि स्वकार्यानुप्रवेशो युक्त इत्यत्राह - अन्तः प्रविष्ट इति । “पश्यन् चक्षुः श्रृण्वन् श्रोत्रम् " इति वाक्यात् व्याकरवाणीति सङ्कल्पश्रवणाञ्च प्रधानव्यावृत्तिसिद्धावप्यधिकहेतुज्ञापनार्थं परिहारान्तरमुक्तम् , वेदान्तवाक्यविशेषविवक्षितोऽनुप्रवेशविशेषो न सम्मवतीत्यर्थः । अनुप्रविश्य नियमनस्य पुरुषव्यावर्तनक्षमत्वेऽपि अत्रापेक्षितं प्रधानव्यावर्त्तनमात्रमिति प्रधानमात्रस्य तदसम्भवोक्तिः, अन्येन व्याकृतत्वशङ्काव्युदसनार्थं “तन्नामरूपाभ्यां व्याक्रियते “तिवाक्यखण्डमुपादाय व्याचष्टे - तदेवेति असच्छब्दोक्तकारणविषयेण “तदात्मानं स्वयमकुरुत " इत्यनेनैकार्थ्यादिति भावः । असदव्याकृतादिशब्दानां ब्रह्मण्यघटमानत्वेन पराभिमतानामुपपन्तोक्ता । अथेक्षणादीनां ब्रह्मण्येवोप्रपन्नत्वं प्रधानेऽनुपपन्नत्वं चाह - एवञ्चेति ।
असदव्याकृतादिशब्दा ईक्षणादयश्च ब्रह्मण्युपपन्नाः, प्रधाने त्वीक्षणादयोऽनुपपन्ना इति वैषम्यं दर्शितं भवति । अधिकरणार्थमुपसंहरति - अत इति ॥