30 संख्योपसंग्रहाधिकरणम्

न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च । स्वतन्त्रप्रकृत्युस्थापकत्वे विशेषाभावाद्वाक्यान्तरानुरोधेन प्रकृतेर्ब्रह्मात्मकत्वं साधितम् , तदत्रानुपपन्नम् परमात्वपरत्वे सङ्ख्याधिक्यात् परमात्मना विनाऽपि सङ्ख्यापूरणेनाब्रह्मात्मिका प्रकृतिरिति विशेषनिश्चयसम्भवादिति शङ्कया सङ्गतिः । विषयादिकमाह - वाजेति

। पञ्चविंशतिसङ्ख्यान्वयतत्त्वाधिक्यादिप्रतीतिजनकमिदं वाक्यम् , एवंजातीयकवाक्यानि सन्ति चेत्तान्यपि विषयः , पञ्चविंशतिसङ्खयान्वयतत्त्वाधिक्यप्रतीतिभ्यां संशयः, “यस्मिन् पञ्च पञ्चजना " इति मन्त्रः किं कापिलतन्त्रसिद्धतत्त्वपर ? उत नेति । किं पञ्चपञ्चजनशब्देन पञ्चविंशतितत्त्वप्रतीतिरस्ति नेति ? किमाकाशस्य पृथग्निर्देशोऽवान्तरसङ्खयाऽन्वयनिमित्तविरोधि ? उत नेति किं वाक्यशेषेण पञ्चजनशब्दस्य प्राणादिविषयत्वनिश्चयः शक्यः ? उत नेति । यदा न विरेधि, यदा च निश्चयो न शक्यः तदाऽन्तरसङ्खयान्वयनिमित्तसम्भवेन समासस्य समाहारविषयतया पञ्चपञ्चजनशब्देन पञ्चपञ्चकान्युच्यन्त इति पञ्चविंशतितत्त्वप्रतीतेरयं मन्त्रस्तन्त्रसिद्धतत्त्वप्रतिपादनपर इति पूर्वः पक्षः, यदा आकाशस्य पृथग्निर्देशोऽवान्तरसङ्खयान्वयनिमित्तविरोधी वाक्यशेषेण च प्राणादिविषयत्वनिश्चयः शक्यः । तदाऽन्तरसङ्खयान्ववनिमित्ताभावेन समाससंज्ञाविषयतया पञ्चपञ्चजनशब्देन पञ्चपदार्था उच्यन्त इति पञ्चविंशतितत्त्वाप्रतीतेरयम्मन्त्रो न तन्त्रसिद्धतत्त्वप्रतिपादनपर इति राद्धान्तः । यद्यपि “स्युः पुमांसः पञ्चजना " इति मनुष्यनामतया पठितस्य सङ्खयापूर्वसमासत्वं नाऽस्ति सप्तर्षीणामेकैकस्य सप्तस्वन्यतमाभाववन्मनुष्याणां दानवविशेषस्य च पञ्चस्वन्यतमत्वाभावेन सङ्खयान्वयप्रतीत्यनुपपत्तेः समाससामथ्यर्ाभावः, तथाऽप्यस्य तु पञ्चजनशब्दस्य सङ्खयाप्रतीतिस्वारस्यानुरोधे सम्भवति तत्परित्यागायोगात् सङ्खयापूर्वसमासत्वं युक्तमित्यभिप्रेत्याह - पञ्चजनशब्दविशेषितादिति।

ननु कथमिदमवसीयते ? पञ्चजना इत्येकं पदं न तु पञ्च पञ्च जना इतीति, तदा हि दशत्वमापद्येत , यदा च समस्तः पञ्चजनशब्दस्तदापि कथन्तन्त्रसिद्धतत्त्वप्रतीतिः पञ्चजनशब्देन पञ्चसङ्खयतया प्रतिपन्नार्थस्य पुनः पञ्चतया विशेषणे पञ्चविंशतितत्त्वप्रतिपत्तिरिति चेन्न पुनरुक्तिप्रसङ्गात्, विशिष्टस्य विशेषणाददोष इति चेत् किं विशेष्यस्य ? उत विशेषणस्य ? आहोस्विदुभयस्यः । न तावद्विशेष्यस्य तत्र पञ्चत्वसङ्खयान्वयस्य शब्दान्तरसिद्धतया पुनरुक्तत्वातसङ्खयाभ्यासेऽभिमते दशसङ्खयाप्रतीतेश्च, नाऽपि विशेषणस्य विशेष्यपर्यन्तशब्दोपस्थापितस्य विशेषणस्य पुनस्तत्पदनिर्दिष्टजातीयविशेषणान्वयायोगात् , न हि गौर्गौरिति गोत्वेन विशेष्यम् न चोभयस्य, अंशे पौनरूक्तयादंशे सङ्खयान्वयायोगात् , न च द्वे शते त्रीणि शतानीतिवद्विशेष्टुं युक्तम् , अवान्तरसङ्खयानिवेशनिमित्तैकोपाध्यभावेन समूहैक्यासिद्धेः, एकग्रामस्थित्याद्युपाधिना हि शतसङ्खयपुरुषसमूहैक्यम् तस्मिंश्च सति ह्येकत्वद्वित्वादिना पुनर्विशेषणसम्भवः, अन्यथा

बहूनामेकत्त्वद्वित्वाद्यभावात्,अतो न पञ्चविंशत्यर्थसिद्धिः, सिद्धावपि न तन्त्रोकार्थत्वनिश्चयः , निश्चायकाभावादित्याशङ्कामाह - एतदुक्तम्भवतीति । समासः समाहारविषय इति - “पञ्चानां त्वापञ्चजनानामि”-त्यत्र पञ्चजनशब्दस्य समस्ततयैकपद्यदर्शनादिहाप्यौचित्यतस्तत्प्रतिपत्तेः, द्वितीयपञ्चशब्दसमभिव्याहारबलेन इतरपञ्चशब्दस्य सङ्खयापरत्वप्रतीतेः समाहारसमासत्वं स्वीक्रियत इति भावः । तत्फलमाह -पञ्चानामिति ।

छान्दस इति त्रेभुवनादिशब्दवत् स्त्रीलिङ्गस्मृतेरपवादाभावात् छान्दसत्वमिति भावः ।

भूतत्वज्ञानैन्द्रियत्वादिकमवान्तरसङ्खयानिवेशनिमित्तमस्तीत्यभिप्रतं तद्धि स्फुटीभाविष्यति । एवं समूहसिद्धौ पञ्चतयाविशेषणोपपत्तिमाह - ते चेति । एवं पञ्चविंशतिसङ्खयासिद्धावस्य मन्त्रस्य मोक्षाधिकारात्साङ्खयतत्त्वपरत्वसिद्धिमाह - ते कतम इति । आकाशेन “यस्मिन् " इति निर्दिष्टेनात्मना च सप्तविंशतितत्त्वप्रतीतिरपि न विरुद्धा, सत्त्वरजस्तमसां पृथग्द्रव्यत्वाभ्युपगमात् आत्माकाशाभ्यां विना पञ्चविंशतिसङ्खयासिद्धेः गुणत्रयमहदहङ्काराः पञ्च वायुतेजोजलपृथिवीध्राणाः पञ्च, तन्मात्राणि पञ्च, जिह्वादिज्ञानेन्द्रियाणि चत्वारि मन इति पञ्च, कर्मेन्द्रियाणि पञ्च, इति पञ्चविंशतिसङ्खयान्वयसिद्धिरिति । यद्वा आत्मनः स्वस्मिन्नवस्थितत्वादाकाशस्यादरेण भूयः कीर्त्तनादविरोध इति पञ्चविंशतिपदार्थास्तदन्तर्भूताः आत्मनि प्रतिष्ठिताः, किमपरस्तदन्तर्गत आकाशोऽपि तस्मिन् प्रतिष्ठित इत्यादरातिशयादुक्तिर्हि सम्भवति । राद्धान्तं प्रारभते - न सङ्खयेति नानाभावादिति । नानाभावः - पृथक्तवम् अन्यत्वं विवक्षितं न तु बहुत्वम् “विना नानाहिरुक्पृथ “गिति नैघन्टुकाः, तन्त्रसिद्धतत्त्वेभ्यः पृथग्भावोन्यत्वं ब्रह्मात्मकत्वं यस्मिन्निति सप्तम्यर्थमभिप्रेत्याह- यच्छब्दनिर्दिष्टब्रह्माश्रयतयेति । यच्छब्दनिर्दिष्टस्य ब्रह्मत्वमुपपादयति - तमेवमिति । नानाभावो

व्याख्यातः । अथातिरेकं व्याचष्टे -तन्त्रेति । अतिरेकः सङ्खयाधिक्यम् अतस्तं षड्विंशकमिति कालस्य प्रकृतिविकाराणां विशेषणतयाऽन्तर्भावेन षड्विंशकत्वं कालस्य स्वतन्त्रवस्तुत्वाभिप्रायेण सप्तविंशकत्वमित्यर्थः । साङ्खयप्रसिद्धादपि श्रुतिप्रसिद्धं ग्राह्यम् अन्तरङ्गत्वादिति भावनामाह -श्रुतिप्रसिद्धेति । अपि शब्दाभिप्रेतमर्थमाह - न सङ्खयेत्यादिना । पञ्चभिरारब्धसमूहपञ्चकाभावादिति । अनेन पञ्चस्वनुगतोपाध्यभावादित्युक्तम्भवति , एकोपाधिगृहीतत्वं हि समूहत्वम् , पञ्चस्वनुगतानुपाधीनाशङ्क्याह - न च वाच्यमिति । आकाशस्य पृथक्करणात् घ्राणपञ्चमेषु वाय्वादिषु मनःपञ्चमेषु रसनादिषु गुणत्रयमहदहङ्कारेषु चानुगतोपाध्यभावादित्यर्थः । भूतसमूहासिद्धेरित्युपलक्षणं सत्त्वरजस्तमसां गुणत्वेन श्रुतिस्मृतिप्रसिद्धानां द्रव्यत्वाभावादात्माकाशाब्यां सप्तविंशतितत्त्वप्रतीतिरपि परस्याऽनुपपन्ना । किञ्च “सात्त्विको राजसश्चैव तामसश्च त्रिधा महान् । त्रिविधोऽयमहङ्कारो महत्तत्त्वादजायत " इति महदहङ्कारयोश्च त्रिविधत्वावगमादेकत्रिंशत्सङ्खयात्वन्तत्त्वानां प्रसजेत् अतश्चैतन्मन्त्रपतिपन्नतत्त्वसङ्खयाविरोधः, अतस्सत्त्वरजस्तमसां द्रव्यतया बहुत्वेन निर्वाहोनुपपन्नः, यस्मिन्निति निर्देशस्य स्वे महिम्नीतिवत् निर्वाहोऽनुपपन्नः, सप्तम्यन्तस्ववाचिपदाश्रवणेन स्वप्रतिष्ठितत्वकल्पनायोगात् , आकाशस्यादरातिशयात् पृथगुक्तिरित्यप्ययुक्तम् , ततोऽपि तत्कारणतत्त्वानां वैपुल्ये सति तदनादरेणाकाशस्य पृथगुक्तयनुपपत्तेः ।

साक्षान्निर्वाहमाह - अयं त्विति । सञ्ज्ञाविषयत्वोपपादनाय समाहारविषयत्वे शाब्ददूषणमाह - अन्यथेति । लिङ्गव्यत्ययश्च क्लिष्ट इत्यर्थः । अर्थदूषणं हि समूहासिद्धिलक्षणमुक्तं पञ्चजन शब्दस्य तन्त्रसिद्धार्थविषयत्वे व्युदस्ते अर्थान्तरसद्भावमाह - पञ्चजनानामिति । पञ्चशब्दस्य च तेष्वर्थवत्त्वमाह - ते चेति । ननु सञ्ज्ञात्वेऽप्यजहदवयवार्थैव पञ्चजनशब्दवृत्तिः , अन्यथा निरर्थकतत्त्वसङ्खयावाचित्वाभावेन समाससामर्थ्यामावात् , न हि निरर्थकशब्दस्य समाससामर्थ्यम् , ततश्च सङ्ख्याविशिष्टार्थप्रतिपत्तौ पुनः सङ्खययाविशेषणमनुपपन्नमिति शङ्कां निराचिकीर्षुराह - सप्त सप्तर्षय इति वदति । सप्त सप्तर्षयोऽमला इति श्रीमद्वैष्णवपुराणप्रयोगोऽभिप्रेतः, तत्राऽयमभिसन्धिः, सञ्ज्ञिपदप्रतिपन्ना सङ्खया शाखावदुपलक्षणभूता सञ्ज्ञिप्रतिपत्त्यर्था, न दु सञ्ज्ञिनि ज्ञापये विशेषणतयाऽन्तर्भूता , अतो यथा गच्छतीति मौरिति व्युत्पत्तावपि गमनस्य तटस्थतत्वात्तात्पर्याविषयतया वाख्यार्थान्वयित्वाभावेन गौर्गच्छति गौस्तिष्ठतीत्यत्र न पुनरुक्तिव्याघातो वा, तटस्थस्यास्य वाक्यार्थान्वये अविवक्षिते प्रतिपादनस्याकाङ्क्षितत्वान्न तिष्ठतीति व्याघातः । एवं सञ्ज्ञिपद प्रतिपन्नसङ्खयाया व्युत्पत्तिसमये तटस्थत्वेनावगतायास्तात्पर्याविषयत्वात् पुनः वाक्यार्थान्वयित्वज्ञापनाय पञ्चशब्देन सङ्खयाया विशेषणत्वज्ञापनं युक्तम् ,पदद्वयस्य सामर्थ्यं चेदमेव यद्विग्रहवाक्येऽर्थाभिधानशक्तिः, अत समास उपपन्नः, अतोऽर्थस्याविवक्षितत्वात् पुनस्तया सङ्खयया विशेषणं सफलमिति, अन्यैस्तु नानाभावादिति पदमेकाकारोपाध्यभावात् समूहासिद्धिपरं व्याख्यातन्तदानीं शब्दस्वारस्याभावः स्फुटतरः, अपि शब्दवैयर्थ्यं च स्यात् , अपिशब्दो हि पञ्चविंशतितत्वप्रतिपत्त्यभ्युपगमेन दूषणोक्तिं द्योतयति, अतः पञ्चभिरारभ्धसमूहपञ्जकासम्भवकं पञ्चविंशतितत्वाप्रतिपत्तिहेतुमभिप्रेत्य पुनस्तदभ्युपगमेऽपि तन्त्रप्रसिद्धतत्वपरत्वं यदा व्युदस्तं भवति तथा भाष्ये दर्शितैव योजना युक्ता शब्दानुरोधिनी च । उत्तरसूत्रस्याकाङ्क्षां दर्शयति - के पुनरिति । सङ्खयापूर्वसमासत्वमयुक्तमस्मिन्वाक्ये सङ्खयेयविशेषाप्रतिपत्तेरित्यर्थः ।

प्राणादयो वाक्यशेषात् । ननु किमनेन सूत्रेण कमर्मीमांसायां “सन्दिग्धे तु वाक्यशेषादिति " वाक्यशेषात्सन्देहनिरासस्य कर्त्तव्यत्वं हि निर्णोतं शास्त्रैक्यञ्चाभिमतम् , अत एव हि स्मृत्यधिकरणादिषु कर्मविचारोक्तन्यायैः कृतकरत्वमाशङ्खय भाष्ये परिह्वियत इति नैवं वाक्यशेषात्सन्देहव्युदासः कार्य्य इत्येतावत्युपजीव्येऽपि वाक्यशेषयोरेव निर्णीतार्थत्वानिर्णीतार्थत्वरूपवैषम्यात् “तेजो वै घृत " मिति वाक्यस्य घृतसमर्पकत्वे हि न सन्देहः, इह तु अनिन्द्रियवाचिप्राणान्नशब्दसमभिव्याहारात् वाक्यशेषस्येन्द्रियपरत्वे सन्देहानपगमात् , प्राणादिषु पञ्चसङ्ख्यानिवेशनिमित्तैकोपाध्यभावात् प्राणादीनामेव पञ्चजनशब्दवाच्यत्वानुपपत्तेः, इन्द्रियत्वरूपैकोपाधिविद्धयुपपादनेन वाक्यशेषार्थनिर्णयाय सूत्रप्रणयनं प्रयोजनवत् सन्देहव्युदासकश्चात्राग्रयप्रायन्यायोऽभिप्रेतः, प्राणान्नशब्दौ द्वौ चक्षश्श्रोत्रमनः शब्दास्त्रयः अतस्तदनुगुणतया प्राणान्नशब्दयोरपीन्द्रियपरत्वात् प्राणादयः पदार्था इन्द्रियाणीति त एव पञ्चजना इत्यर्थः । अनन्तरसूत्रस्य शङ्कामाह अथ स्यादिति - पञ्च पञ्चजनाः प्राणादय इति न शक्यं वक्तुमिति काण्वानामन्नपाठवैकल्येन प्राणादिषु पञ्चसङ्खयानिवेशानुपपत्तेः पञ्चजनत्मयुक्तमिति भावः । ननु सर्वशाखाप्रत्ययन्यायेन माध्यन्दिनपाठस्य काण्वपाठोऽप्युपजीव्यत्वात् पञ्चसङ्खयोपपत्तेर्न सूत्रान्तरापेक्षा, सत्यम् , मा भूच्छाखान्रीयं वाक्यमिति कृत्वा स्वप्रकरणेनैव प्राणादीनां पञ्चसङ्खयोपपत्त्या पञ्चजनत्वसिद्धिप्रतिपादनार्थं सूत्रमग्रयप्रायन्यायतिरस्कारकानुपपत्त्यन्तरशङ्कापरिहारश्चार्थात्सिध्यति; सर्वशाखाप्रत्ययन्यायेन अनुक्तस्यान्नपाठस्याऽन्यतो ग्रहणेऽपि कश्चिद्धेतुभिः प्राणादीनामिन्द्रियत्वनिश्चयदोस्थनयेन पञ्चसङ्खया निवेशनिमित्ताभावात् पञ्चजनत्वमनुपपन्नमिति शङ्काऽवतिष्ठते । प्राणादीनामिन्द्रियत्वे हि प्राणान्नशब्दयोरस्वायस्यद्वयं स्यात् प्राणशब्दश्चोपक्रमस्थो न भञ्जनीयः, अन्नशब्दस्य तन्त्रेणार्थद्वयपरत्वं च क्लिष्टम् , अतोऽग्रयप्रायन्यायस्यानेकहेत्वभिभूतस्याकिञ्चित्करतया प्राणादीनामिन्द्रियत्वमशक्यनिश्चयम् , अतः काण्वपाठेऽपि माध्यन्दिनाधीतान्नपाठोपजीवनमनपेक्षितं स्यात् , प्राणादीनामिन्द्रियत्वानिश्चयात्तन्निश्चये सति ह्यनुक्तेन्द्रियग्रहणापेक्षा, एवमिन्द्रियत्वानिश्चयेन पञ्चसङ्खयानिवेशनिमित्तैकोपाध्यभावात् क्वचित्यूनतया च

पञ्चसङ्खयानिवेशायोगात् , न प्राणादीनां पञ्चजनतमिति शङ्कापरिहारार्थं सूत्रम् । नन्विन्द्रियत्वानिश्चयहेतवः शङ्काग्रन्थेऽनुक्ताः, सत्यम् उत्तरत्र परिहारादिहाभिप्रेतत्वमवगम्यते, यथाऽन्तरादित्याधिकरणे सिद्धान्ते परिहारदर्शनात् पूर्वपक्षेऽप्यभिप्रेतत्वावगमः ॥

ज्योतिषैकेषामसत्यन्ने ॥ ज्योतिषा षष्ठयन्तज्योतिश्शब्देनेत्यर्थः, सूत्रेऽपि ज्योतिश्शब्दः शब्दस्वरूपार्थः, श्रुतिवाक्यस्वारस्यसिध्द्यौपयिकत्वात् , सूत्रस्थज्योतिश्शबनदास्वारस्यं सोढव्यमिति भावः । परैर्हि “तन्देवा ज्योतिषांज्योति “रिति द्वितीयान्तज्योतिश्शब्दनिर्दिष्टब्रह्मणा पञ्चसङ्खयासिद्धिरुक्ता, तदानीमेकस्य मन्त्रस्य शाखाद्वयगतस्य एकार्थत्वप्रत्यभिज्ञानभङ्गेन ब्रह्मपञ्चमतयाऽन्नपञ्चमतया च पञ्चजनशब्दनिर्वाहस्वारस्यमवर्जनीयं स्यात् । किञ्च यस्मिन्नित्याधारतया ब्रह्मणो निर्दिष्टत्वेन प्राणादिषु पञ्चमस्यापि प्राणादिचतुष्टयवत् ब्रह्मव्यतिरिक्तत्वप्रतीतेश्च ब्रह्मणः पञ्चमत्वमयुक्तम् , “स्वे महिम्नि प्रतिष्ठित " इतिवन्निर्वाह इति चेन्न सप्तमीप्रतिष्ठितशब्दयोर्मुख्यार्थे सम्भवत्यमुख्यार्थस्वीकारायोगात् , अतः पञ्चजनशब्दसप्तमीविभक्तिप्रतिष्ठितशब्दानामर्थवैरूप्यास्वारस्यप्रसङ्गात् , ज्योतिः पञ्चमत्वपरत्वमनुपपन्नमिति मन्वानेन भगवता भाष्यकारेण षष्ठयन्तज्योतिश्शब्दस्वरूपपरतया ज्योतिः पदं व्याख्वातम् , इन्द्रियाणीति ज्ञायन्ते चेत्कथं वाक्यशेषेचतुष्टयकीर्त्तनमित्यत्राह - तेषामिति । ज्योतिश्शब्दस्य कोऽर्थः तेनेन्द्रियाणीति कथं ज्ञायन्ते ततः किमन्नपाठवैकल्यचोद्यस्येत्यत्राह - एतदुक्तमिति । ब्रह्माधीनस्वकायाणीत्यनेन प्राणस्य प्राणामित्यादेरर्थ उक्तः,

पवित्राणाम्पवित्रमितिवदिति भावः । ज्योतिषीत्यनेन प्रकाशकत्वमभिप्रेतन्ततश्च कर्मेन्द्रियादिव्यावृत्तिसिद्धिः तेषां प्रकाशकत्वाभावात् कानिचिदिति । आदित्यादिज्योतींषि न वेति संशयविशेषनिर्धारणाकाङ्क्षा तिष्ठतीति भावः । ततः किमित्यत्राह - तानि चेति अनिर्धारितविशेषनिर्देशेनेति सङ्खयेयविशेषोपस्थापकवाक्यान्तरसाङ्काक्षत्वं द्योतितम् , ततश्च तत्र श्रुतपञ्चसङ्खयाविशेषितत्वात् पञ्चसङ्खयाज्योतिरन्तरप्रसिध्द्यभावाच्च परिशेषेणेन्द्रियत्वावगमः, एवं वाक्यशेषस्याप्युपक्रमभूतेन परस्परसाकाङ्क्षेण मन्त्रद्वयेनेन्द्रियाणाम्प्रतिपादितत्वात् षष्ठयन्तज्योतिश्शब्दोक्तनां तेषां चक्षुषः श्रोत्रस्य मनस इति षष्ठयन्तैः पदैः प्रत्यभिज्ञायमानत्वाच्च वाक्यशेषस्येन्द्रियपरत्वमभिप्रेत्य प्राणशब्दं व्याचष्टे - प्राणस्येतीति वायुसम्बन्धित्वाद्वाय्वाप्यायितत्वात् प्रसिद्धः प्राणः कस्मान्न गृह्यत इत्यत्राह -मुख्यप्राणस्य ज्योतिश्शब्देन प्रदर्शनायोगादिति । ज्योतिश्शब्देन ज्योतिरित्यत्र षष्ठयन्तज्योतिश्शब्देनेत्यर्थः, अनेन मुख्यान्नस्य च ज्योतिश्शब्देन प्रदर्शनायोगो विवक्षितः, स्पष्टार्थानामपि

चक्षुश्श्रोत्रादिपदानां

व्याख्यानं किमर्थम् षष्ठयन्तज्योतिश्शब्दाभिहितानां षष्ठयन्तपदैरेकैकश उच्यमानत्वज्ञापनार्थम् ,तेन हि पूर्वसूत्राभिप्रेतस्याग्रयप्रायन्यायस्य हेत्वन्तराभिभूतस्य पूर्वमन्त्रद्वयसाहचर्योत्तम्भितत्वेन इदानीं प्राबल्यं ज्ञायते, एवञ्च सति प्राणशब्दस्य उपक्रमस्थत्वमकिञ्चित्करं तस्याप्युपक्रमभूतमन्त्रद्वयप्राबल्यादतो न प्राणान्नशब्दमुख्यार्थानुगुणमितरपदानि व्याख्येयानि, पदत्रयस्वारस्यानुगुणपदद्वयस्य व्याख्येयत्वात् , न ह्यनेकपदस्वारस्यभङ्ग उचित इत्यभिप्रायेण चक्षुःश्रोत्रमनांसि त्रीण्यपि स्वशब्देनैव व्याख्यातानि, एवमुपक्रमैकार्थ्यात् प्राणादीनामिन्द्रियत्वे निश्चिते सत्यनुक्तेन्द्रियस्वीकारस्याऽपेक्षितत्वात् सर्वशाखाप्रत्ययन्यायेन काण्वपाठेऽप्यन्नपाठः सिद्ध इति उभयसाधारणमन्नशब्दं व्याचष्टे - अन्नस्येति । ननु “यस्मिन् " इत्यादिमन्त्रे पञ्चसङ्खयावगमाद्धिज्योतिषामिन्द्रयत्वमध्यवसितम् अतो वाक्यशेषस्येन्द्रियपरत्वनिश्चय उपक्रममन्त्रसापेक्षः, मन्त्रश्च विशेषकीर्त्तनाय वाक्यशेषसापेक्ष इत्यन्योन्याश्रय इति नैवम् , उपक्रमस्थमन्त्रद्वयस्येन्द्रियपरत्वनिश्चयो वाक्यशेषानाकाङ्क्षत्वात् वाक्यशेषस्येन्द्रियपरत्वनिश्चय एव ह्युपक्रमसाकाङ्क्षः, एवमुपक्रमादेवेन्द्रियत्वेऽवगते प्रत्येककीत्तनं वाक्यशेषस्थमिति न तावताऽन्योन्याश्रय इति, अन्नशब्दं व्याचष्टे - अन्नस्येति । अन्नशब्दस्य घ्राणरसनोपस्थापकत्त्वङ्कथमित्यपेक्षायाम् अन्नशब्दस्य घ्राणवाचित्वन्दर्शयति अन्नशब्दोदितेति - पृथिवीसम्बन्धित्वात् पृथिव्याप्यायित्वाल्लक्षणयेत्यर्धः । रसनावाचित्वमुपपादयति - अद्यत इति लक्षणया बोधकत्वन्दर्शयितुमन्नशब्दवाच्यभोग्यवस्तुविनियोगे कारणतया सम्बन्धः प्रदर्श्यते - अद्यतेऽनेनेति अद्यतेऽनेनेत्येवंरूपसम्बन्धादन्नमिति रसनेन्द्रियं गृह्यते अन्नशब्देन रसनेन्द्रियं लक्ष्यत इत्यर्थः। अनेन घ्राणस्याऽऽप्याय्यतया सम्बन्धः तद्विनियोगकरणतया रसनायाः, अतोऽन्नसम्बन्धिवस्तुलक्षयताऽन्नशब्देन

घ्राणरसनयोरेकव्यापारेण लक्षणा भवतीति भावः । न तर्हि पञ्चत्वसिद्धिः मनसः षष्ठत्वादित्यत्राह - घ्राणरसनयोरिति । पञ्चत्वमप्यविरुद्धमिति -पञ्चत्वं न निर्देशयापेक्षया किन्तु निर्द्देशापेक्षयेत्यर्थः तन्त्रेणोपादानकल्पकं किमित्यत्राह - प्रकाशकानीति । प्रकाशकत्वं पञ्चसङ्खयाविशिष्टत्वं मनः पर्यन्तमिन्द्रियाणामुक्तत्वेन पारिशेष्यञ्च घ्राणरसनयोस्तन्त्रेणोपादानकल्पकं घ्राणरसनसमुदायगतमेकत्वं पञ्चजनविशेषणभूतायाः बञ्चसङ्खयाया अवान्तरसङ्खयात्वेन विवक्षितमित्यर्थः, अवयवगतद्वित्वानादरेण समुदायगतैकत्वविवक्षया पञ्चसङ्खयानिर्देशश्च श्रुतिसमाधिः, यथा द्वादशमासाः पञ्चर्तव इति षट्के सत्यपि हेमन्तशिशिरसमुदायगतैकत्वविवक्षया हि तत्र पञ्चत्वसङ्खयाव्यपदेशः, “वसन्तमृतूनां प्रीणामि ग्रीष्ममृतूनांप्रीणामि “त्यादिना सर्वानृतून् प्रत्येकं निर्दिश्य हेमन्तशिशिरावृतूनां हीति सह

व्यपदेशाद्धेमन्तशिशिरसमुदायगतैकत्वं पञ्चत्तर्व इत्यत्र विवक्षितमिति ज्ञायते, एवमस्मिन्वाक्ये फलितमर्थमाह- तदेवमिति । पञ्चजनशब्दनिर्दिष्टानि प्रदर्शितानीत्यर्थः, अत एव हीन्द्रियाणीत्युक्तम् न तु ज्ञानेन्दियाणीति

महाभूतशब्देन भूततन्मात्राण्यपि विवक्षितानि सर्वतत्वानां सर्वाश्रयत्वप्रतिपादनादित्यक्तेः, एवं सङ्खयाभ्युपगमात्तदनभ्युपगमाच्च द्विधा पीरहृतम् , एवम्परिहारद्वयकथनस्याऽपि प्रयोजनं वदन्नुपसंहरति -अत इति । सर्वत्र वेदान्ते सङ्खयोपसङ्ग्रहे तदभावेचेति -अनेन ग्रन्थेन अनन्तरसूत्रस्य यादवप्रकाशमतयोजनाव्युदासे हेलया कृतो भवति, स खलु कारणत्वेनेत्यादिसूत्रं तदुत्तरसूत्रात्पृथगधिकरणत्वेन वर्णयन् “स वा एष पुरुषः पञ्चधा पञ्चात्मे “ति वाक्यं विषयमुदाहरत् , तदयुक्तं कृतकरत्वादित्यनेन दर्शितम्भवति, पञ्चसङ्खयाभिनिवेशनिमित्तैकाकारेसिध्द्यासमूहपञ्चकासिद्धेः पञ्चविंशतितत्त्वप्रतिपादनायोगस्तावस्थितः, पञ्चात्मेति मृदात्मा घट इतिवदर्थोनुपपन्नः पुरुषस्य प्रकृतिप्राकृततत्त्वैः स्वरूपैक्यायोगात् ततश्च प्रत्येकं पञ्चघाभूतपञ्चतत्त्वसङ्घातानामात्मेत्यर्धः स्यात् । तथा सति पञ्चविंशतितत्त्वातिरिक्तात्मा परमपुरुषःस्यात् पञ्चविंशतितत्त्वानां तदात्मकत्वादब्रह्मात्मकेभ्यस्तन्त्रसिद्धतत्त्वेभ्यो विलक्षणत्वं च स्यादिदं चाभ्युपगम्योक्तम् , वस्तुतः एकैकशःशिरः पक्षातिरूपेण पञ्चविधान्नमयप्राणमयादिरूपतया सद्वारकमद्वारकञ्च पञ्चप्रकारत्वमुच्यत इति पूर्वाधिकरणसमर्थितादर्थान्न कश्चिद्विशेषः,तस्मादधिकरणान्तरवैयर्थ्यमिति; एवमन्यत्रापि सङ्खयासम्भवे तथा वर्णनीयम् , असम्भवे च सङ्खयानादरेण निर्वाह्यमिति ज्ञापनंप्रयोजनमित्यर्थः।