29 चमसाधिकरणम्

चमसवदविशेषात् ॥ कार्यशरीरवाचिपदस्य रूपके श्रवणात्तदव्यक्तशब्देनोच्यत इत्युक्तम् , अत्र तु कार्यशरीरवाचिशब्दाश्रवणात् कारणम् प्रधानमेवोच्यत इति शङ्कया सङ्गतिः, व्याख्यान्तरैर्गौणवृत्त्या तेजोऽबन्नपरत्वेन व्याख्यातम् , किमिदं वाक्यं प्रधानपरम् ? उत तेजोऽबन्नपरमिति विचारश्च कृतः तद्दूषयितुं किं श्रुत्यन्तरस्यार्थमेवं व्याख्यातम् ? उत स्ववाक्यस्वारस्यार्थमिति विकल्पमभिप्रेत्य स्ववाक्यस्वारस्याभावमुत्तरत्रवक्ष्यन् प्रथमं प्रधानस्य प्रामाणिकतया तन्निरासे श्रत्यन्तरास्वारस्यज्ञापनाय प्रधानविषयं वाक्यजातमुदाहर्त्तुमाह - अत्रापीति । विकारजननीमित्यादि - अष्टरूपत्वम् “भूमिराप"इत्याद्युक्तप्रकारेण अजाम् उत्पत्तिरहिताम् ध्रुवां- नाशरहितां ध्यायते परमात्मना सङ्कल्परूपज्ञानेन ज्ञायते अध्यासिता अधिष्ठिता तन्यते- विस्तार्यते, स्थूलत्वावस्थं क्रियते समष्टिभूतरूपेण क्रियते, प्रेर्यते व्यष्टिसृष्टयर्थं प्रेर्यते । पुरुषार्थम्- पुरुषाणामर्थनीयं भोग्यभोगोपकरणभोगस्थानरूपं जगत्सूयते,गौरित्यादि ।जनित्री भूतभाविनीति समष्टिव्यष्टिसृष्टिरुच्यते, सितासिता च रक्ता च गौण्या वृत्त्या सत्त्वयजस्तमोमयी । यद्वा तेजोऽबन्नद्वारा सितासिता रक्ता विभोः- ईश्वरस्य सर्वकामदुघा लीलारसदोग्घ्रीम् अविषयां

भोक्तृकर्मानुगुणपरिणामत्वादपक्षपातिनीम् अविज्ञाताः स्वात्मभिर्देहेभ्यो विविच्यापरिज्ञाताः एकस्त्विति । कर्मवश्य

बहुभोक्तृव्यावृत्त्यर्थमेकः स्वच्छन्द इत्युक्तम् ध्यानक्रियाभ्याम् सङ्कल्पसर्गादिव्यापाराभ्यां ऐक्षत असृजतेति द्वयमपि

हि मातरं क्षीरक्षरणार्थं पीडयित्वा मुञ्जते तद्वत्कर्मवश्यैरात्मभिर्भोक्तव्यफलानुरूपं परिणाम्यमानामित्यर्थः । अत्रेति - प्रकृत्यादीनां प्रकृतिपुरुषमहदादीनाम् स्वरूपमभिहितम् । एषु वाक्येषु ईश्वरप्रतिपादनं प्रधानादीनामीश्वरतादधीन्यविशिष्टत्वपरमिति भावः । एवं ब्रह्मात्मकप्रधानपरवाक्यान्युक्तानि । अथ तदन्तर्यामिभगवत्प्रतिपादकं वाक्यं दर्शयितुमाह- यदात्मका इति । षड्िवंशकत्वं कालस्य विशेणत्वेन प्रकृतितद्विकारेप्वन्तर्भावात् , सप्तविंशकत्वं कालस्य तदन्तरर्भावविवक्षया, पञ्चविंशकेप्वेव लब्धैश्वर्यः कश्चिदुक्तः पञ्चविंशकस्तुत्यर्थमित्यन्यथासिद्धिरीश्वरप्रतिपादनस्य वक्तुमशक्या, सङ्खयातः पृथङ्निर्देशादित्यभिप्रायः प्रकृतेः प्रामाणिकत्वमात्रदर्शनार्थमुक्तम् - अष्टौ प्रकृततय इति । अत्रापि वाक्यान्तरैकार्थ्यात् ब्रह्मात्मकत्वं सिद्धमिति भावः । एतत् त्रयं यदा विन्दते तदा ब्रह्म भवति मुक्तोभवतीत्यर्थः । अभिध्यानम्- आरम्भनसंशीलनं, योजनं योगः तत्वभावः- तत्त्वाविर्भावः साक्षात्कारः, अवयवभूतैरंशभूतै

श्शरीरभूतैरित्यर्थः । स्मृतिं दर्शयति - स्मृतिरपीति । एवं प्रधानस्य प्रमाणिकत्वादतत्परत्वेन

व्याख्यानमनुपपन्नम् इत्युक्तन्ततः किमित्यत्राह - तस्मादिति । प्रकृत्यादयइत्यादिशब्देन महदादिरभिप्रेतः । विषयादिकं दर्शयति - श्वेतेति प्रकृतेरेव कतृत्वप्रतीतिजनकवाक्यजातं विषयः अचेदनत्वसृजमानपदस्वारस्याभ्यां संशयः, श्वेताश्वेतरे “अजामेका “- मितिमन्त्रे अजाशब्दो यौगिकः किमब्रह्मात्मकप्रकृतिपरः ? उत ब्रह्मात्मकप्रकृतिपर ? इति विचारः अजाशब्दसृजमानशब्दौ किमजायाः स्वातन्त्र्ेण सृष्टृत्वमवगमयतः ? नेति । तैत्तिरीयके अजामेकामितिमन्त्रे प्रतिपन्नाया अजायाः किं ज्योतिरुपक्रमात्वामस्ति नेति ? किमजात्वज्योतिरुपक्रमात्वे विरुध्येते नेति । यदे विरुध्येते तदा तैत्तिरीयकमन्त्रसिद्धाया अजाया ज्योतिरुपक्रमात्वाभावेन तदैकार्थ्यादजांसृजमानामिदिपदयोः स्वातन्त्र्ेण स्त्रष्टृत्वावगमकत्वात् श्वेताश्वतरमन्त्रस्थाजाशब्दो ब्रह्मात्मकत्वशून्यप्रकृततिपरः । यदा न विरूध्येते तदा तैत्तिरीयकमन्त्रसिद्धाया अजाया

ज्योतिरुपक्रमात्वेन तदैकार्थ्यात् अजां सृजमानामितिपदयोः स्वतन्त्रस्त्रष्टृत्वावगमकत्वाभावात् श्वेताश्वतरमन्त्रस्थोऽजाशब्दोपि ब्रह्मात्मकप्रधानपर इति - अजामिति । ब्रह्मत्माकत्वपक्षे अजात्वं न सम्भवति तत्कार्यत्वाभ्युपगमादित्यर्थः , स्वातन्त्रेणेति - सृजमानामिति कर्त्तरि शानच् , स्वतन्त्रः कर्त्ता अतो न ब्रह्मपरतन्त्रत्वमित्यर्थः । एवं प्राप्त इति -अत्राऽपि कापिलतन्त्रसिद्धप्रक्रिया निरस्यत इत्युपक्रमस्थं प्रतिवाक्यमनुषज्यत इति मत्वा हेतुनाह - न जायत इतीति । अथवा न जायते इतीत्यादिना हेतुपदं विवृण्वन् चमसवदिति सौत्रं पदं प्रतिज्ञापरम्मन्यमानःतेन हेतुपदस्यान्वयं दर्शयति - चमसवदिति । विशेषाप्रतीतेरित्यन्तं हेतुपदव्याख्यानम् , अवयवशक्तयाऽजात्वमात्रप्रतिपादनेन विशेषाप्रतीतेश्चमसवत्भवति वाक्यान्तरमन्तरेण विशेषतो

निणर्ेतुमशक्या भवतीत्यर्थः । तदेव विवृणोति - यथाऽर्वागिति । अस्य यथाशब्दस्य तथाऽत्रापीतिभाष्येणाऽन्वयः, चमसशब्दार्थं विशदयति - भक्षणसाधनत्वमात्रमिति । चम्यतेऽनेनेति चमसशब्दव्युत्पत्तिरिति भावः । मात्रशब्देन विशेषव्यावृत्तिः, इतिशब्दो हेतुपरः विशेषप्रतीत्यभावादित्यर्थः, विशेषप्रतीत्यभावे चमसः साधर्म्यदृष्टान्ततया व्याख्यातः चमसवदित्यनेनेर्थसिद्धं दृष्टान्तदार्ष्टांन्तिकसाधारणाकारं हेतुं दृष्टान्तोपपादकत्वेन दर्शयति - यौगिकशब्दानामिति । साधारणमवयवार्थं बोधयतां यौगिकशब्दानामित्यभिप्रायः, तेनासाधारणरवयवार्थबोधकबलभिदादिशब्दाव्यावृत्तिः, अर्थः वस्तुसामर्थ्यं आदिशब्दः स्ववाक्यस्थविशेषशब्दादिपरः, विशेषनिश्चयायोगादित्यस्य पूर्ववाक्येनान्वयः, अवयवशक्तोस्साधनमात्रप्रत्यायकत्वादर्थप्रकरणादिभिर्विना विशेषनिश्चयायोगाच्चमसशब्देन यथा न चमसविशेषप्रतीतिरित्यर्थः । ननु यथा चमसविशेषो वाक्यशेषावसेयः तद्वदजाविशेषोऽपि हेत्वन्तरेण निश्चेतुं शक्यत इति शङ्कायां परपक्षे तथा निश्चयस्याशक्यतां दर्शयितुं स्वपक्षे विशेषनिश्चयप्रकारमाह - तत्र यथेदं तच्छिर इति । यथेति श्रुतिपदं दृष्टान्ते दर्शितस्य न्यायस्य दार्ष्टान्तिकेऽप्यवर्जनीयत्वमाह - तथा अत्राऽपीति । यथा “अर्वाग्बिलश्चमस " इति मन्त्रे न चमसविशेषप्रतीतिः तत्र विशेषनिश्चयश्च निश्चायकवाक्यान्तराधीनः तथाऽत्रापि निश्चायकान्तरेणाऽजाविशेषनिश्चयः कार्य इत्यर्थः । ततः किमित्यत्राह - नचात्रेति । सृजमानामिति स्वातन्त्र्ेण स्रष्टृत्वप्रतीतिर्विशेषनिश्चायिकेत्यत्राह - न चास्या इति । स्वातन्त्र्ेण ईश्वराधिष्ठित्वमन्तरेणेत्यर्थः - स्रष्टृत्वमात्रप्रतीतेरिति । स्वव्यापाराश्रयत्वलक्षणं स्वातन्त्र्यमेव प्रत्ययवाच्यम् न त्वपरप्रेर्यत्वरूपमितिमात्रशब्दाभिप्रायः, रथो गच्छतीत्यत्र कर्तृप्रत्ययो हि स्वत्र्यापाराश्रयत्वरूपस्वातन्त्र्यं रथस्यावगमयति, न त्वपरप्रेर्यत्वं, अपरप्रेयर्त्वलक्षणस्वातन्त्र्यप्रतीत्यभ्युपगमेऽपि तादृशस्वातन्त्र्यलक्षणं कर्तृत्वं किं ? प्रकृत्याश्रयम् ? उताजाशब्दवाच्यप्रकृतिशरीरकब्रह्माश्रयम् ? इति विषये प्रकृतिमात्राश्रयमिति निश्चायकाभावश्च मात्रशब्दाऽभिप्रेतः, यदि ब्रह्मात्मकत्वं प्रमाणिकं स्यात्तदानीं इह प्रतीयमानं

स्वातन्त्र्यलक्षणकतृत्वं हि तद्गततया ब्रह्मात्मकत्वाविरोधि स्यात् ॥ 8 ॥ उत्तरसूत्रमवतारयति - ब्रह्मात्मकेति ।

ज्योतिरुपक्रमा तु तथा ह्यधीयत एके । तु शब्दस्य पक्षव्यावर्त्तकत्वशङ्काव्युदासाय व्याचष्टे तुशब्द इति । इतरोक्तार्थव्यावृत्त्यर्थं श्रुतिप्रसिध्द्यनुरोधेन व्याचष्टे - ज्योतिर्ब्रह्मेति । तदेव दर्शयति - तं देवा इति । ब्रह्मकारणत्परतां प्रकरणे दर्शयति - अणोरणीयानिति । न हि “अजामेका “मित्यस्मिन् मन्त्रे उत्पत्तिः प्रतीयत इत्यत्राह - सर्वस्येति । यथा “इडो यजति बहिर्यजति तनूनपातं यजती त्या “दिष्वङ्गत्वा

श्रवणेऽपि “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते “त्यादिप्रकरणस्थतया तदङ्गतं निश्चीयते तद्वत् सृष्टिप्रकरणस्थत्वादुत्पत्तिस्सिद्धेत्यर्थः, अस्मिन्मन्त्रे न सृष्टिर्विवक्षिताः, सृष्टिप्रकरणस्य पूर्वमेव विच्छेदात् , अत्र “जहात्येनां भुक्तभोगामजोऽन्य” इत्युक्तस्य मुक्तस्योत्पत्त्यनुपपत्तेश्चेत्यत्राह - बह्वीनामिति । न सृष्टिप्रकरणविच्छेद इत्यर्थः, “यस्माज्जातानपरानैव किंञ्चिनाने"त्युत्तरत्राऽपि सृष्टयनुवृत्तेरिति चार्थसिद्धम् , सर्वस्य तदव्यतिरिक्तस्य वस्तुजातस्य तत उत्पत्त्या तदात्मकत्वोपदेशे प्रक्रियमाण इति ह्युक्तम् , मुक्तात्मकीर्त्तनमेतद्विशेषणत्वेन न तु सृष्टिप्रकरणविच्छेदात् , यथा बद्धात्मकीत्तर्नमित्यभिप्रेत्याह - कर्मवश्येनात्मना भुज्यमानाऽन्येन विदुषाऽऽत्मना त्यज्यमाना चेति । एवं तन्त्रसिद्धाजात्वविरोधि ज्योतिरुपक्रमात्वं शाखान्तरे दर्शितम् । अथ सृजमानामितिपदप्रतीतस्वातन्त्र्यविरोधब्रह्मात्मकत्वं स्वप्रकरणे दशर्यति - इहापीति । शक्तिरूपायाः- अपृथक्सिद्धविशेषणरूपायाः कार्योययोग्यपृथक्सिद्धविशेषणं हि शक्तिः, योनिम् जगद्योनिभूताम्प्रकृतिरित्यर्थः तस्या एव ब्रह्मात्मिकाया एव, स्वतन्त्रप्रकृतिप्रतिपत्तिगन्ध इति - न केवलं शाखान्तरैकार्थ्यात्स्वप्रकरणाञ्च ब्रह्मात्मकत्वावगमादिति भावः ॥6 ॥ उत्तरसूत्रशङ्कामाह - कथन्तर्हीति । लोहितशुक्लकृष्णाकारत्वं हि कार्यावस्थायाबुपपद्यते, तदानीं ज्योतिरुपक्रमात्वाङ्गीकारे अजात्वानुपपत्तिः, अजात्वे ज्योतिरुपक्रमात्वानुपपत्तिरित्यर्थः ।

कल्पनोपदेशाञ्च मध्वादिवदविरोधः । प्रसक्तेति - चस्त्वर्थः अविरोधशब्दार्थमाह - अस्या इति । अतणिस्तद्भावारोपणपरत्वव्युदाशाय कल्पनशब्दस्य सृष्टिवाचित्वं धातोः सृष्टिवाचित्वेन दर्शयति - कल्पनं कॢप्तिरिति । कॢप्तिशब्दं विशदयति - सृष्टिरिति । क्लृप्तशिख इतनयादिप्रयोगो लोकसिद्ध इति मत्वा श्रौतप्रयोगं दर्शयति - यथेति “प्राकल्पयद्यो भुवनानि सप्ते “त्यादिस्मृतिप्रयोगश्च प्रसिद्धः अतो ज्योतिःकल्पनशब्दौ वैदिकशब्दनिर्देशानुसारिणौ तथा निर्देशश्च मुनिसमाधिः “सम्प्रसादादध्युपदेशात्” समानो

ज्योतिषे “त्यादिषु दर्शनात् , अजात्वज्योतिरुपक्रमात्वयोरविरोधसिद्धिं दर्शयति - अनेनेति । अवस्थाद्वयं विवृणोति सा हीति - ब्रह्मतापन्ना कारणावस्था ब्रह्मतापन्ना ननु कथं प्रकृतेर्ब्रह्मतापत्ति न ह्यन्यद्द्रव्यं द्रव्यान्तरम्भवति सत्यम् , नाऽत्र केवलप्रकृतेर्ब्रह्मतापत्तिर्विवक्षिता किन्तु प्रकृतिशरीरकब्रह्मणः कारणावस्थाप्राप्तिः, भाष्ये प्रकृत्यपस्थापकं सेतिपदं हि ब्रह्मपर्य्यन्तं कारणावस्थं ब्रह्मैव प्रकृतिशब्देनाऽभिधीयते ब्रह्मव्यतिरिक्तवस्त्वन्तराभावादिति प्रकृत्यधिकरणे वक्ष्यमाणत्वात् कार्यावस्था ज्योतिरुपक्रमेति कार्यावस्थाजाशरीरकं ब्रह्म कार्यम् ,कारणावस्थाजाशरीरकं ब्रह्म कारणमित्यर्थः, सूत्रखण्डं व्याचष्टे- मध्विति । उदयास्तमयमधुत्वकल्पनानि तदभावाश्चादित्यश्चावस्थाद्वयेन यथोपपद्यते तथा अजात्वज्योतिरुपक्रमात्वे अवस्थाभेदेन प्रकृत्याख्यके धर्मिण्यविरुद्धे इत्यर्थः । एकस्य - ईश्वरेणैकस्याविभक्तनामरूपस्येत्यर्थः, ज्योतिरुपक्रमेत्यादिसूत्रद्वयस्य परोक्तमर्थं निराचिंकीर्षुस्तत्र प्रथमस्य सूत्रस्यार्थन्दूषयति - अन्ये त्विति । दूषयितुं विकल्पयति - किमिति । एकाजात्वेन परिकल्प्यमानं वस्तु किन्तेजोबन्नान्येवेत्यर्थः, अजात्वैकत्वसिध्द्यर्थं ब्रह्मकारणवादानुगुण्यार्थञ्च ब्रह्मानुबन्धित्वेन मध्यमं शिरो दर्शितम् , तेजोबन्नरूपम् - तेजोपन्नावस्थं ब्रह्म किमेकच्छागत्वेन कल्प्यत इत्यर्थः । तेजोबन्नकारणभूता काचिदिति । तेजोबन्नवाचिशब्देन लक्षिता तत्कारणभूता काचिदेकाऽजात्वेन किं रूप्यत इत्यर्थः। प्रथमं शिरो दूषयति - प्रथमेति । एकत्वविरोधपरिहारमाशङ्कयाह - न च वाच्यमिति । कुत इत्यत्राह - त्रिवृत्करणेऽपीति । बहुत्वानपगममुपपादयति

इमा इति - न समुदायैकत्वम् अपि तु समुदायत्रयमेवेत्यर्थः । द्वितीयं शिरो विकल्पयति - किमिति तेजोबन्नरूपा ब्रह्मणो विकाराः किमजाशब्देनोच्यन्ते ? उत स्वरूपम् ? इति विकल्पग्रन्थार्थः , प्रथमे शिरस्यवस्थाबहुत्वादेकत्वविरोधमाह - प्रथममिति । मध्यमे शिरसि द्वितीयकल्पं दूषयति - द्वितीयेऽपीति ।

ब्रह्मस्वरूपस्य लोहितशुक्लकृष्णत्वाभावात् श्रुत्यस्वारस्यमित्यर्थः। तेजोबन्नादिसर्वात्मकस्य ब्रह्मणः किन्नोपपद्यत इत्यत्राह - स्वरूपेणेति । यद्वा सूत्रास्वारस्यमप्याह -स्वरूपेणेति । ज्योतिरुपक्रमेति हि सौत्रम्पदम् , ज्योतिरुपक्रमशब्दस्तेजोबन्नवाचीति हि तैर्व्याख्यातम् , न हि ब्रह्मस्रूपं तेजोबन्नशब्दवाच्यम् , अतस्सूत्रास्वारस्यमित्यर्थः, तेजोबन्नावस्थाविशिष्टं ब्रह्माजाशब्दवाच्यमिति पक्षे किमस्थाविशिष्टत्वं सद्वारकम् ? अद्वारकं वा ? लोहितशुक्लकृष्णत्वविरोधः, “अरसमलोहित” मिति श्रुतेः । सद्वारकत्वेऽस्मत्पक्ष एव परिगृहीतः स्यादिति विकल्पपरिहारयोः स्पष्टत्वान्न तत्कण्ठोक्तिः । प्रथमविकल्पितशिरस्त्रये तृतीयं शिरो दूषयति -तृतीय इति । लोहितशुक्लकृष्णत्वाजात्वैकत्वसिध्द्यर्थमयं पक्षः शङ्कितः। तत्र दूषणमुच्यते -अजाशब्देनेति । तेजोबन्नानामवाचकस्याजाशब्दस्य तेजोबन्नपरत्वमारोप्य तेन तत्कारणस्य लक्षणयोपस्थापनादपि मुख्यवृत्त्या कारणप्रतिपादनपरत्वाश्रयणं युक्तमित्यर्थः । कल्पनोपदेशादिति सूत्रस्य परोक्तार्थं दूषयति - यत्पुनरस्या इति । सर्वत्र रूढितोऽवयवशक्तया वा प्रतिपाद्यमानमुख्यार्थपरिग्रहः स्वतः प्राप्तः , गौणार्थपरिग्रहैस्तु मुख्यार्थानुपपत्त्या क्रियते, तत्रौचित्यातिशयलाभोऽनेकपदमुख्यार्थत्वसिद्धिश्च प्रयोजनम् , तत्र

मुख्यार्थानुपपत्त्यभावः प्रदर्शितः अजात्वज्योतिरुपक्रमात्वयोरवस्थाभेदेन अविरोधस्योक्तत्वात् , अतोऽर्थौचित्यलाभरूपप्रयोजनाभावरूपं दूषणमाह -निष्प्रयोजनत्वादिति । प्रयोजनाभावस्य दूषणत्वज्ञापनाय कल्पनस्य प्रयोजनसिध्द्यर्थतां दर्शयति - यथाऽऽत्मानमिति - विरोधं दर्शयति - कृत्स्नेति । एकरूपेति दुग्धादिरेव प्रयोजनमित्यर्थः, अचेतनाया इत्यनेन स्वसम्बन्धिपरित्यागासामर्थ्यं सिद्धमिति तत्प्रत्यनीकाकारमाह स्वसम्बन्धीति । परिमितकार्यकरत्वादित्यत्र विरोध उक्तः। दूषणान्तरमाह - अजामिति - अर्थैकरूप्यं शङ्कते सर्वत्रेति । तत्र विरोधान्तरमाह - जहातीति । एवमर्थौचित्यलाभरूपप्रयोजनाभावो दर्शितः,सर्वत्र च्छागत्वपरिकल्पनशङ्कोपन्यासेनैवानेकपदान्तरमुख्यार्थत्वसिद्धिरूपप्रयोजनाभावश्च फलितः, एवं हेत्वाभावात्

प्रयोजनाभावाच्च छागत्वपरिकल्पनं व्युदस्तम् । ननु नार्थविरोधः कायर्कारित्वप्रयोजनसाधनत्वचेतनसङ्गादिमात्रस्य विवक्षितत्वात् , न हि दृष्टान्तगतसर्वधर्माणां विवक्षानियमोऽस्ति तथा सति सर्वत्र दृष्टान्तोपन्यासभङ्गप्रसङ्गात्, “गौरनाद्यन्तवती " “आत्मानं रथिनं विद्धी “त्यादिषु च प्रकृत्यादेर्गोत्वादिपरिकल्पनं दृश्यते , तच्च सर्वथा साधर्म्यविवक्षायां न घटत इति उच्यते “आत्मानं रथिनं विद्धी “त्यत्र पृथगेव रूप्यरूपकवाचिपदश्रवणाद्रूपकानङ्गीकाररूपक वाचिपदवैयर्थ्यप्रसङ्गात् , येनाकारेण साधर्म्यं योग्यं प्राप्त्युपायतादिरूपं तदाकारमात्रन्तत्र विवक्षितमिति निश्चितं प्रयुक्तपदवैयर्थ्यपरिहारार्थम् । “अजामेका “मिति वाकयं तु रूप्यरूपकवाचिपदद्वयाश्रवणात् अर्थौचित्यं नावगम्यते, तेन गौणवृत्वनङ्गीकारेऽपि न वैय्यर्थ्यम् , “गौरनाद्यन्तवती “त्यत्र रूप्यवाचिपदाश्रवणात् , अजाशब्दवद् गोशब्दस्यावयवशक्तया प्रकृत्युपस्थापनासामर्थ्याच्च गत्यभावाद् गौणी वृत्तिराश्रिता , अनाद्यन्तवती - सर्वकामदुघेत्याद्युचितविशेषणश्रवणादर्थौचित्यमवगम्यते, अजाशब्दे तु न तथा गत्यन्तराभावः उचितावयवार्थसम्भवात्, उचितविशेषणं च रूढिसिद्धाजाव्यावर्त्तकं न श्रूयते, पु†ल्लिङ्गाजाशब्दयोश्चामुख्यत्वं “बह्वीः प्रजा " इत्यादिपदानां सङ्कोचश्च विफलः, अतः प्रयुक्तपदवैयर्थ्यपरिहारपदान्तरस्वारस्यार्थौचित्यसद्भावासद्भावरूपवैषभ्यात् “आत्मनं रथिनं विद्धी “त्यादिवद्रूपणपरत्वमयुक्तम् कार्यकारित्वाद्यर्थमात्रविवक्षायामर्थविरोधाभावो य उक्तः स चेन्मुख्ययैव वृत्त्या लभ्यते तदा गौणवृत्तिपरिग्रहो निष्फलत्वादनुपपन्नः, एवं परोक्तज्योतिरुपक्रमेत्यादिसूत्रार्थस्य एकशब्दार्थविरोध उक्तः, कल्पनोपदेशादिति सूत्रस्याजाशब्दस्वारस्यं दुषणतयोक्तम् , यद्यपि ज्योतिरुपक्रमाशब्देन तेजःप्रमुखत्वङ्कल्पनशब्देनातस्मिस्तद्भावारोपणञ्च परोक्तं सूत्राक्षरानुगुणमिव प्रतीयते तथाप्यनुपपत्तिपराहतम् , अस्मदुक्तार्थस्तु वैदिक निर्देशसमाधिना स्वरस उपपन्नश्चेतिभिदा, “चमसवदविशेषा” दिति सूत्रं परस्यास्वरसञ्चमसशब्दस्य यौगिकत्वाद्रूढार्थपरत्वाभावाच्च ॥ 10 ॥