॥ आनुमानिकमप्येकाषामिति चेन्न शरिररूपकविन्यस्तगृहीतेदर्शयति च ॥ प्रथमपादश्चिदचिद्विलक्षणकारणत्वायोगव्वच्छेदपरः, अन्ययोगव्यवच्छेदपरायां त्रिपाद्यामस्पष्टस्पष्टजीवादिलिङ्गकवाक्यविषयौद्वितीयतृतीयौ, स्पष्टतरजीवादिप्रतिपादकवाक्यविषयः चतुर्थ इति पादसङ्गतिर्द्वितीयपादारम्भे कथिता । सूत्रकारैस्तु अन्ययोगव्यवच्छेदस्य त्रिपादीकृत्यत्वं चतुर्थपादारम्भे कण्ठोक्तम् “आनुमानिकमप्येकेषा” मिति ह्युक्तम्, अतो भाष्यकारश्चतुर्थपादारम्भे त्रिपाद्यर्थस्पुटीकरणमुखेन सङ्गतिं विवक्षन् प्रथमपादार्थानुभाषणपूर्वकं द्वितीयतृतीययोरर्थं वृत्तं दशर्यति - उक्तमिति । प्रधानादेरित्यादिशब्देन प्राणाकाशादिग्रहणम् । विलक्षणमित्यन्तेन प्रथमपादार्थ उक्तः । वैलक्षण्यञ्चोभयलिङ्गतयेति दर्शयन् द्वितीयतृतीययोरप्यर्थं दर्शयति समस्तशब्देन चिद्गतमचिद्गतं च हेयं विवक्षितम् । गन्धशब्देन मुक्तव्यावृत्तिः । समस्तकल्याणगुणात्मकनिरूपपरम् । सर्वज्ञमित्यादिपदैर्द्वितीयपादार्थः सूचितः “यस्सर्वज्ञः” “भारूपः सत्यसङ्कल्पः” इत्यादिवाक्यजातं हि तद्विषयः । अर्न्तयामिवैश्चानरद्युभ्वाद्यधिकरणसिद्धर्मथमाह - सर्वान्तरात्मभूतमिति “एष सर्वभूतान्तरात्मा " इति सुबालोपनिषद्यन्तर्यामिविषयतया श्रूयमाणत्वात् “पभ्द्यां पृथिवीह्येष सर्वभूतान्तरात्मा” इति मुण्डकोपनिषद्वाक्यस्य सपक्षत्वेनोपन्यासात्तत्समर्थनाच्च । निरङ्कुशैश्चर्यमिति तृतीयपादार्थसूचनम् , ““एतस्य वा अक्षरस्य प्रशासने गार्गि” “ईशानो भूतभव्यस्य” “सर्वस्य वशी सर्वस्येशानः”” इत्यादिवाक्यजातं हि तद्विषयः । वतिर्ष्यमाणमाह - इदानीमिति प्रधानकारणत्वप्रतिपादनच्छायानुसारीणीति न केवलं लिङ्गप्रतिपादकानि, किन्तु लिङ्गिनामेव प्रधानादीनां जगत्कारणत्वप्रतिपादनशङ्कास्पदानीति, अतो जीवादिविषयतायाः स्पष्टतरत्वमिति भावः। प्रधानपुरुषादिप्रतिपादनमुखेन प्रधानकारणत्वप्रतिपादनच्छायानुसारीणीति । प्रधानपुरुषादिस्वरूपप्रति
पादनप्रकारः तन्त्रार्थप्रत्यभिज्ञापकः, तेन प्रधानकारणत्वप्रतिपादनं फलितमित्यर्थः । ब्रह्मैककारणत्वस्थेम्न
इत्यत्र एकशब्देन त्रिपद्या अन्ययोगव्यवच्छेदपरत्वं सूचितम्, स्थेमन इत्यनेन चतुर्थपादार्थः सूचितः,
पूर्वपादद्वयप्रतिपन्नस्य अन्ययोगव्यवच्छेदस्य स्थैर्यमस्मिन् पादे प्रधानादिकारणत्वप्रतिपादनव्युदसने कृते हि भवति । अत्रानन्तरपूर्वाधिकरणे मुक्तादपि वैलक्षण्यमुक्तम् तदयुक्तम् प्रत्यगात्मनपरस्य निषेधादिति शङ्कया अवान्तरसङ्गतिरिति च अर्थसिद्धम्, बद्धमुक्तोभयावस्थाद्विलक्षणमिति ह्युक्तम् । विषयमाह- कठवल्लीष्विति । तन्त्रसिद्धतत्वक्रमप्रत्यभिज्ञाभासजनकानि वाक्यानि विषयः । तन्त्रसिद्धक्रमतदविपर्ययप्रतीतिभ्यां संशयः । सिद्धान्ते अव्यक्तशब्दस्य प्रधानवाचकत्वात् उत नेति संशयशिरोऽन्तरं कृतम्, अन्यथा उत ब्रह्मात्मकं प्रधानमिति हि शिरोऽन्तरं वक्तव्यम । कठवल्ल्याम् अब्रह्मात्मकप्रधानकारणत्वप्रतिपत्तिरस्ति न वेति प्रथमविचारोऽभिप्रेतः । तदर्थम् “इन्द्रियेभ्यः पराः” इत्यत्राव्यक्तशब्दः किमब्रह्मात्मकप्रधानपरः उत नेति विचारः । तदर्थं किमस्मिन्मन्त्रे तन्त्रसिद्धतत्त्वगणनक्रमप्रत्यभिज्ञानमस्ति, न? इति । तदर्थं अव्यक्तात्पूर्वापरनिर्दिष्टमहत्पुरुषशब्दाभ्यां महज्जीवतत्त्वे निर्दिश्येते, उत जीवपरौ इति । किमिहेन्द्रियादिशब्दैः पूर्ववाक्यस्थरूपकरूपितेन्द्रियादिप्रतिपत्तिरस्ति नेति । किमत्र परत्वं कारणभावेन? उत वशीकायर्तयेति । यदा कारणभावेन तदा रूपितेन्द्रियादिप्रतिपत्त्यभावेन महत्पुरुषशब्दयोर्महज्जीवतत्त्वसमर्पकतया तान्त्रिकप्रक्रियाप्रत्यभिज्ञानादव्यक्तशब्देनाब्रह्मात्मकं प्रधानमुच्यत इति तस्यैव कारणत्वं प्रतीयत इति पूर्वः पक्षः । सिद्धान्ते तु यदा वशीकार्यतया परत्वं विवक्षितं तदा पूर्वरूपितेन्द्रियादिप्रतिपत्त्या महत्पुरुषशब्दयोः जीवपरमात्मपरत्वेन तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञानाभावात् अव्यक्तशब्दो नाब्रह्मात्मकप्रधानपर इति न तस्यात्र कारणत्वप्रीतीतिरिति फलफलिभावः । शङ्कया अनुत्सूत्रत्वमाह - तदिदमुक्तमिति । शङ्कानुवादिनं सूत्रखण्डं व्याचष्टे - एकेषामित्यादिना । परि
हारखण्डं व्याचष्टे शरीराख्येति शरीरमेव रूपकविन्यस्तम् , रूप्यतेऽनेनेति रूपकम् , दृष्टान्तः । रूपकत्वेन विन्यस्तम् , रूपितमित्यर्थः । शरीरं हि रथत्वेन रूपितं “शरीरं रथमेव च " इति । ननु
रूपकविन्यस्तशरीरगृहीतेरिति वक्तव्यम् ; विशेषणस्य पूर्वनिपातित्वादिति शङ्कापरिहाराय शरीराख्येत्युक्तम् । अस्मिन् वाक्ये रूपकविन्यस्तं वस्तु प्राधान्येन विवक्षितम् , विशेषणापेक्षया विशेष्यं प्रधानम् ; अतो
रूपकविन्यस्तपदं विशेष्यसमर्पकम् , कीदृशं तदित्यपेक्षायां शरीराख्यं रूपकविन्यस्तमिति शरीरशब्देन तद्विशेष्यते , यथा खण्डशब्देन गौः , अतो रूपकविन्यस्तप्रधान्याभिप्रायः शरीरशब्दपूर्वनिपात इत्यभिप्रायः । कानि कथं रूपितानीत्यत्राह - आत्मेति । रूपकाभिधायि वाक्यं किम् ? रथिरथादिभावेन रूपितानामत्र ग्रहणं तत्राप्यव्यक्तशब्देन शरीरस्य ग्रहणमिति च कथमवगम्यते ः रथ्यादित्वेन रूपितानामस्मिन् वाक्ये कीर्तनं किमर्थमित्यत्राह - एतदुक्तमिति ।“आत्मान " मित्यादिकं रूपकाभिधायि वाक्यम् , तेषामत्र ग्रहणं वशीकार्यतायां प्रधान्यज्ञापनार्थम् स्वशब्दैरेव प्रत्यभिज्ञानाद्रथिरथादिभावेन रूपितानामात्र ग्रहणमिति ज्ञातम् । पारिशेष्यादव्यक्तशब्देन शरीरग्रहणमितीदमर्थजातमुच्यते । पूर्वत्र हीत्यादिना रूपणस्य प्रयोजनमाह । यस्यैत इति वशीकार्यत्वज्ञापनाय रथिरथादिभावेन रूपणमित्यर्थः । रूपकरूपितानामिह ग्रहणं वशी
कार्यतायां प्रधान्याप्राधान्यज्ञापनार्थमित्याह । यानि येभ्य इत्यादिना - ननु वशीकार्यतायां प्रधान्यस्य विवक्षितत्वं कथमवगम्यते ? उच्यते ; " इन्द्रियेभ्यः पराः " इत्यादिमन्त्रे परशब्दस्तावन्नान्यवचनः , अर्थेभ्यः इन्द्रियादीनां भेदस्य लोकसिद्धत्वेन उपदेशवैयर्थ्यात् ; अतः परशब्दः प्रकर्षपरः । प्रकर्षश्च न तावत्कारणत्वनिबन्धनः , अर्थानामिन्द्रियकारणत्वमभावात् इन्द्रियाणां विषयसिद्दयर्थतया तच्छेषत्वात् साध्यत्वलक्षणः प्रकर्ष इति च न वाच्यम् ; तथा सत्यर्थापेक्षया मनसः परत्वायोगात् । न चान्तरङ्गत्वलक्षणः प्रकर्षः सन्द्रियमनोबुद्धीनां तत्सम्भवेऽपीन्द्रियापेक्षया बाह्मानामर्थानां परत्वायोगात् , अतः
पारिशेष्याद््रथिरथादिभावरूपणेन उपासनोपकरणत्वावगमात् तत्रैव “यस्त्वविज्ञानवान् भवत्य युक्तेन मनसा सह । तस्येन्द्रियाण्यवश्यानि दुष्टाश्चा इव सारथेः । यस्तु विज्ञानवान् भवति युक्तेन मनसा सह । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः । यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारञ्चाधिगच्छति । अस्तु विज्ञानवान्
भवति समनस्कस्सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते " इतीन्द्रियादिवशीकारावशीकारयोरर्थानर्थदर्शनात् " यच्छेद्वाड्मनसी प्राज्ञः " इतीन्द्रियादीनां वशीकारप्रकारदर्शनाच्चास्मिन्मन्त्रे वशीकार्यतायां प्राधान्यं परशब्देन विवक्षितमित्यवगम्यते । तत्रार्थादीनामिन्द्रियादिभ्यः परत्वमुपपादयति - तत्रेति । ननु “अष्टौ ग्रहाः अष्टावतिग्रहाः " इति घ्राणजिह्वावाकूचक्षुः श्रोत्रमनोहस्तत्वगिन्द्रियाणां ग्रहत्वम् ,गन्धरसनामरूपशब्दकामकर्मस्पर्शाख्यानां विषयाणामतिग्रहत्वञ्च श्रुतम् ; तस्मादग्रहेभ्य इन्द्रियेभ्य अतिग्रहशब्दोक्तनामर्थानां परत्वं किं न स्यात् ? उच्यते ; यदि ग्रहेभ्योऽतिग्रहाणां परत्वमिह विवक्षितं तदा अर्थेभ्यो मनसः परत्वकथनमयुक्तम् , मनसो ग्रहान्तर्गतत्वार्थानामतिग्रहशब्दोक्तत्वाच्च ; अतः स्वसन्निधाविन्द्रियणां दुर्निग्रहणत्वापादनमेवार्थानां वशीकार्यत्वे परत्वम् , तत्वशीकरणं च असन्निधापनं हेयतया ज्ञापनञ्ज । तेभ्योऽपीति - स्वावधानाभावे विषयासन्निधेः अकिञ्चित्करत्वहेतुकं मनसः प्राधान्यम् । तस्य वशीकरणं नाम तस्य मुहुर्मुहुर्विषयदोषचिन्तनेन तेभ्यो निवर्त्तनसंशीलनम् “अभ्यासेन च कौन्तेय वैराग्येण च गृह्यते " इति ह्युक्तम् । तस्मादपीति - बुद्धिशब्दोऽध्यवसायरूपज्ञानविशेषपरः । न त्वन्तकरणपरः । “यदा कर्मगुणोपेता बुद्धिर्मनसि वर्त्तते । व्यवसायगुणोपेता तदा सम्पद्यते मनः “इत्यादिषु बुद्धिशब्दस्यान्तःकरणपरत्वं तत्कार्यभूतव्यवसायस्य पृथङ्निर्देशादिभिरवसीयते , इहतु बुद्धिशब्दस्य भावार्थत्वस्वारस्यात्तदपवादाभावाच्च व्यवसायपरत्वमित्ध्यवसायाभावशब्दं प्रयुञ्जानस्याभिप्रायः । यद्वा बुद्धिशब्दोऽन्तःकरणपरः , इदानीमध्यवसायाभाव इत्यनेन तत्कार्यभूताध्यवसायाभाव इत्युक्तं
स्यात् । अल्पास्थिरत्त्वदुस्साधत्वदुःखमिश्रत्वादिदोषदर्शनेन विषयाणां हेयत्वाध्यवसायोऽध्यवसायशब्देन विवक्षितः तदभावे ह्यन्यत्र व्यासङ्जादिना क्वचिद्विषये प्रावण्यरहितमपि मनः कदाचित्तत्प्रवणमपि स्यात् ; अतो बुद्धेः परत्वम् तस्याश्च वशीकरणं नाम विषयदोषदर्शनसंशीलनेन तद्दृढीकरणरूपं मनोनिवर्त्तनपाटवापादनम् । आत्मा कर्तृत्वेन प्राधान्यात्पर इति कर्तृत्वेन अध्यवसायस्याश्रयत्वेन । बुद्धिशब्दस्यान्तःकरणपरत्वपक्षे तु उपकरणित्वेनेत्यर्थः । अणोरात्मनः कथं महच्छब्दविशेष्यत्वमित्यत्राह । सर्वस्य चेति - अस्य सवर्स्यइन्द्रियादरध्यवसायपर्यन्तस्य । इन्द्रियाणि जेतव्यानि , सम्यगर्थविषयोऽध्यवसायः सम्पाद्य इत्येवंरूपेच्छायत्तत्वादित्यर्थः । अनेनात्मनो वशीकरणं नामात्मरूपयाथात्म्याध्वसायप्रावण्यरूपेच्छापादनमेवेति च
फलितम् । तस्मादपि रथरूपितं शरीरं परमिति - शरीरस्य परत्वं नाम स्गतगुणोन्मेषानुगुणमात्मगतज्ञानापादकत्वम् रजस्तमोऽनुदयसत्त्वप्राचुयर्करररिशुद्धाहारेण सत्त्वोद््रिक्ततापादनं शरीारस्य वशीकरणमित्यर्थः । जीवभेदस्याविद्याकल्पितत्वात् अविद्यासंज्ञमव्यक्तं जीवात्परम् , तत्कार्यत्वाच्छरीरस्य परत्वमुपचर्यत इति कैश्चिदुक्तम् । तदयुक्तम् ; कारणकरपरत्वस्य कार्ये उपचरणे स्वारस्याभावात् जीवभेदस्याविद्याकल्पितत्वाभावाच्च । आत्मपर्यन्तस्य - स्वावधिकस्य । यद्वा जीवपर्यन्तस्येत्यर्थः
। नास्मिन्वाक्ये वशीकार्यतया परत्वे निर्दिष्टः क्रमो विवक्षितः , किन्तूपकरणितया प्राधान्यम् ; अत एव हि “आत्मानं रथिनं विद्धी “ति शरीरात् पूर्वनिर्देशः । उपरसनोपकरणकोटिनिवेशः परस्य कथम् ? अव्यक्तात्परस्य पुरुषत्वमात्रं श्रुतम् , न परमत्वम् ; तत्कथमश्रुतपरमशब्दार्थाङ्गीकार इत्यत्राह । स खल्विति - उपासननिर्वाहकत्वाद्वशीकार्यत्वमित्यर्थः । सा काष्ठेति श्रुतिवाक्यखण्डं व्याचष्टे - वशीकार्योपासनेति वशीकार्यशब्द उपायविशेषकः । रूपितेष्वर्थेषु परत्वेन रूपितस्य पदस्यात्राकथनाद्वक्ष्यमाणपरिशेषासिद्धिशङ्कां परिहर्त्तं " सा परा गति “रित्यनेनैव पारत्वरूपितपदस्यापि प्रतिपादितत्वमाह - परमेति “पुरुषान्न परं किञ्चित् " इत्युपायकोटिकाष्ठाभूतमस्मात्परं न विद्यत इति व्यतिरेक उक्तः
सा काष्ठेत्यनेन अयमेवोपायकाष्ठाभूत इत्यन्वय उक्तः । इन्द्रियादीनामप्युपायभूतत्वमात्रमस्तीति तद्य्वावृत्त्यर्थं “परागति” इति प्राप्यर्थमुच्यत इत्यर्थः ।” यस्मात्परं नापरमस्ति " इत्यादिश्रुत्यैकार्थ्यावगमातथ स्वस्मात् परान्तररहितस्य परमात्मत्वमर्थसिद्धमिति चाभिप्रायः । सर्वनियामकादस्मात् परस्याभावेन उपायकाष्ठात्वोपपादनार्थमन्तर्यामिब्राह्मणमुपादीयते- तथेति । दैवमिति कर्म वा कर्माराध्यमिन्द्रादिकं विवक्षितं
स्यादित्यत्राह - दैवमत्रेति - “न दैवं केशवात्परम् , “श्रूयतां परमं दैवं दुर्विज्ञेयं मयापि च । नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः " नारायणस्य चाङ्गानि सर्वदैवानि चाभवन् " “अन्यानि सर्वदैवानि तस्याङ्गानि महात्मनः " इत्यादिप्रयोगादित्यभिप्रायः। परम पुरुषस्याप्युपासननिर्वर्तकत्वमस्तु ,कथं सर्वस्मात्परस्यानीश्वरेण संसारिणा वशीकर्तुं शक्यत्वम् ? शक्यश्चेत्तत्प्रकारोपि क्वचिच्छ्रूयेत , न च श्रूयते “यच्छेद्वाङ्मनसी प्राज्ञः” इत्यादावनुपलब्धेरित्यत्राह - तस्य चेति । " यच्छेद्वाङ्मनसी " इत्यादौ तस्य वशीकायर्त्वश्रवणं दर्शयिष्यते । कथमव्यक्तशब्देन शरीराख्यरूपकविन्यस्ताभिधानम् ? रूपकविन्यस्तान्तराभिधानं किं न
स्यादितिशङ्कायामव्यक्तशब्देन शरीरस्याभिधानं पारिशेष्यादित्याह - तदेवमात्मानमिति - प्रधानप्रतिपादकत्वमङ्गीकृत्य तस्य ब्रह्मात्मकत्वाब्रह्मात्वकत्वविवादोऽपि कचिदस्तीति तद्य्वावृत्त्यर्थं प्रसङ्ग एव नास्तीत्युक्तम् । वशीकार्यतया परत्वमुपपादितम् , कारणत्वेन परत्वस्यानुपपत्तिमाह - न चात्रेति । प्रत्यभिज्ञानाभावमुपपादयति - इन्द्रियेभ्य इति । तदैव विवृणोति - नहीति अकारणत्वादेवेति- " इन्द्रियेभ्यः परा ह्यर्थाः " इत्यत्र तन्त्रप्रक्रियाप्रत्यभिज्ञानव्युदासहेतोरेवेत्यर्थः । अहङ्कारद्वारा बुद्धेर्मनःकारणत्वसम्भवात् “मनसस्तु परा बुद्धिः " इत्येतत्क्लिष्टगत्या निर्वोदुं शक्यमिति तदनादरेण बुद्धेरात्मेत्यत्र अनुपपत्तिमाह - तथेति । बुद्धिशब्देन महत्तत्त्वमभिधीयतां,
ततः किमित्यत्राह - न हीति । समष्टिव्यष्टिविभागेन परत्वोपपत्तिरिति चेन्न ; तत्कल्पनेन निर्वाहस्यास्वरसत्वात् इन्द्रियादिषु च अर्थान्तरेषु समष्टिव्यष्टिविभागदर्शनाद््रूपकवाक्ये पृथङ्िनर्देशाभावाच्च । अनुपपत्त्यन्तरमाह - महत
आत्मशब्देनेति । आत्मशब्दः स्वतश्चेतनैकान्तः , अगत्या क्वचित्तस्यातत्परत्वाश्रयणम् । अवयव शक्तया स्वकार्यव्याप्तिपरत्वेऽपि महत्तत्त्वादपि प्रधान एवावयवार्थप्रकर्षात् महत आत्मशब्दविशेष्यत्वमयुक्तमित्यर्थः । ननु " उइबर्हात्मनश्चैव मनस्सदसदात्मकम् । मनसश्चाप्यहहङ्कारमभिमन्तारमाश्वरम् । महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च” इति स्मृतिसिद्धप्रक्रियापत्यभिज्ञानान्महच्छब्दो महत्तत्त्वपरः , न त्वात्मविशेषक इति चेन्न ; श्रुताविन्द्रियार्थमनोबुद्धिमहतां परत्वस्य चोक्तत्वादहङ्कारस्यानुक्तत्वात् स्मृतौ मनोऽहङ्कारमहतामेवोक्तत्वादिन्द्रियार्थबुद्धीनां परत्वस्य चानुक्तत्वात् श्रुतौ स्मृत्यर्थप्रत्यभिज्ञानाभावान्मनसोऽहङ्कारमुद्वबर्हेत्यस्य तन्त्रप्रक्रियाविरोधप्रतीतेः पूर्वपक्षिणैवं परिचोदनस्यायुक्तत्वाच्च । ननु महच्छब्दस्यात्मविशेषणत्वे सति “महतः पर"मिति निर्देप्टुमयुक्तम् , अपि त्वात्मन इत्येव निर्देष्टव्यमिति चेन्न ; विशेषणवाचिपदेनापि प्रकृतविशेष्याभिदानदर्शनात् देवदत्ताद्यज्ञदत्तः
शीघ्रगतिर्योऽयमश्चारूढः- अश्वारूढाद्विष्णुमित्र इति , अवृद्धसेवी पुरुषो मूढः मूढादमूढ आदरणीय इत्यादौ । रूपकविन्यस्तानामेव ग्रहणमित्येतद्भाष्यमेतदुक्तम्भवतीत्यनेनान्वितम् ।इतिशब्दाप्रयोगोऽतिविप्रकर्षात् दर्शयति चेति सूत्रखण्डोपादानम् । तदेव वशीकार्यत्वे परत्वमेव । एष इत्यादि श्रुतिः । न प्रकाशत इत्युक्ते केषामित्यपेक्षायां " यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सह । तस्येन्द्रियाण्यवश्यानि दुष्टाश्चा इव सारथेः । यस्त्वविज्ञानवान् भवत्यमनस्कस्सदाऽशुचिः । न स तत्पदमाप्नोति संसारञ्चाधिगच्छति” इति प्रकरणिकवाक्योपजीवनेन न प्रकाशतः इत्यस्यार्थमाह- अंजित वाह्येति - वाक्छब्दस्सर्वेन्द्रियोपलक्षणार्थ इत्याह
-वाक्पूर्वकाणीति । नन्विदमयथाक्षरतमव व्याख्यातम् ,न ह्यत्र वाक्छब्दो द्वितीयान्तो मनश्शब्दश्च सप्तम्यन्तः श्रूयत इत्यत्राह -वाक्छब्द इति । ननु वाक्छब्दात् परस्याः द्वििीयायाः " सुपां सुलुक् " इत्यनुशासनेन स्वादेशाश्रयणेन द्वितीयान्तत्वं किं न स्यात् ? न ; स्वादेशेऽपि “हल्ङ्याबूभ्यो दीर्घात्सुतिस्यपृक्तं हल् " इति सूत्रेण वाक्छब्दस्य हलन्ततया सुलोपस्य प्राप्तत्वात् स्वादेशांङ्गीकारेऽपि लुकि पर्यवसानं
स्यात् , तत्र द्वितीयास्थाने स्वादेशमाश्रित्य लोपकल्पनाद्वरं द्वितीयाया एव लुगानयणमिति । सप्तम्येकवचनान्तस्य मनश्शब्दस्य दीर्घान्तत्वं कथमित्यत्राह - मनसी इति सप्तम्याश्छान्दसोदीर्घ इति - “ईदूतौ च सप्तम्यर्थे " इति प्रकृतिभावस्मरणनिबन्धनो मनसी इति निर्देशः । ननु “इयाडियाजीकारणामुपसङ्खयानम् " इत्युपसङ्खयानवशादीकारान्तत्वसम्भवे कथं छान्दसत्वाश्रयणमिति चेत् उपसङ्खयानेन निर्वाहासम्भवादिति ब्रूमः । न हि " वाङ्मनसी " इत्यत्र वाक् च मनश्चेत्यर्थस्सम्भवति , अचतुरविचतुरेत्यादिस्मरणेनाजन्ततया वाङ्मनसे इति प्राप्तत्वात् । अथ तत्रापि छान्दसत्वबलेन समासान्तो नाद्रीयते , तथा सति यथोक्तनिर्वाहे कः प्रद्वेषः ? न च निर्वाहद्वयतुल्यता , पूर्वोक्तस्य प्रकरणानुगुण्यादेकवचनोपपत्तेश्च । यच्छेदित्युक्तस्य नियमनस्य सप्तम्यपेक्षा प्रकरणसिद्धा , तद्यच्छेत् ज्ञान आत्मनि ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छेच्छान्त आत्मनीति हि श्रूयते । वाक् च मनश्चेत्यर्थोऽभिमतश्चेत्तदिति पुनः परामर्शश्च न घटते , ते इति द्विवचनान्ततया हि निर्देष्टव्यम् ; अत उक्त निर्वाह एवोपपन्नः । तद्यच्छेद्ज्ञान आत्मनीति वाक्यं मनसोऽहङ्कारे नियमनपरं केचिद्य्वाचक्षते , तदनुपपन्नं मन्वान आह - तन्मनो बुद्धौ नियच्छेदिति - अहङ्कारपरत्वानस्वरसम् , बुद्धिपरत्वन्तु स्वरसमित्यभिप्रायेणाह- ज्ञानशब्देनेति - पूर्वोक्ता बद्धिः , अनात्मात्मविषयहेयोपादेयताध्यवसायः । ज्ञानसामान्यवाचिशब्दस्य ज्ञानविशेषवाचित्वं मुख्यमिति भावः । आत्मशब्दसमानाधिकरणज्ञानशब्दस्य बुद्धिपरत्वमयुक्तमित्यत्राह - ज्ञान आत्मनीति । ज्ञान शब्दस्य स्वतश्चेतनैकान्तत्वादनन्तरवाक्यस्थात्मशब्दस्यास्य चैकरूपार्थत्वे स्वारस्याच्च सामानाधिकरण्यमात्र स्वारस्यमुपेक्ष्यमित्यभिप्रायः । वैयधिकरण्यफलितमाह -आत्मनि वर्त्तमान इति - सप्तम्यर्थस्य स्फुटीकरणाय वर्त्तमानपदमध्याहृतम् । ज्ञानशब्दस्याहङ्कारपरत्वाश्रयणम् किं शब्दस्वारस्यात् , उतार्थवशात ? । न प्रथमः , दत्तोत्तरत्वात् । नापि द्वितीयः , अर्थसामर्थ्यादर्शनात् । मनोमहतोर्मध्यगतत्वमर्थ्यसामर्थ्यमिति चेत् ; यदि शब्दतः प्रयभिज्ञानभावेऽपि ज्ञानशब्दो
मनोमहतोर्मध्यगतत्वरूपार्थसामर्थ्यादहङ्कारपरः तर्हि तुल्यन्यायत्वात् “मनसस्तु परा बुद्धि “रित्यत्रापि बुद्धिशब्दयाहङ्कारपरत्वं स्यात् तदप्यस्त्विति न वाच्यम : स्वग्रन्थविरोधात् । अथ बुद्धिशब्देनाहङ्कारं ब्रूयुः तथापि तन्त्रसिद्धस्याहङ्कारस्य प्रत्यभिज्ञा नोपपद्यते , बुद्धिशब्देन व्यवहाराभावात् महच्च न तन्त्रसिद्धमिह प्रत्यभिज्ञायते आत्मशब्देन सामानाधिकरण्यादिति हि अन्तिमसूत्रव्याख्याने तैरुक्तम् । अथोच्येत तत्र यद्यपि मनोमहतोर्मध्यगते बुद्धिशब्दः तथापि नाहङ्कारपरः , महच्छब्दस्यात्मशब्दोपपदपीडितत्वेन महत्तत्त्वाभिधायकत्वाभावादिति । तह्यत्रापि सप्तम्यन्तमहच्छब्दस्यापि आत्मशब्दोपपदपीडितत्वेन महत्तत्त्वोपस्थापकत्वाभावान्मनोमहतोर्मध्यगतत्वरूपमर्थसामर्थ्यं न विद्यते । यद्यत्रोपपदं न पीडकम् ,तर्हि तत्रापि पीडनासामर्थ्यात् “मनसस्तु परा बुद्धिरित्यप्यहङ्कार उक्त स्यात् । ततश्चाधिकरणप्रयासवैयर्थ्यमेव स्यात्
,तन्त्रप्रक्रियास्थिरत्वसिद्धेरित्यलमनेन । ज्ञानमात्मनीत्यस्य अर्थमाह - बुद्धिमिति । वाचो मनसि नियमनम् मनोऽननुगुणप्रवृत्तिवैमुख्यापादनम् । मनसो बुद्धौ नियमनम् अध्यवसायानुगुणप्रवृत्तितापादनम् । बद्धिः -अर्थेषु हेयताध्यवसायरूपा । तस्या बुद्धेरात्मनि नियमनं नाम स एवोपादेयतया साक्षात्कार्य इत्यादर्थविषयत्वापादनम् । शान्ते - स्वतः उूर्मिषट्कप्रतिभटे । शान्त आत्मनि महत आत्मनो जीवस्य नियमनमं नाम तच्छेषताप्रतिपत्तिः , सैव परस्यापि वशीकरणं भवति । न तदिति निर्देष्टव्यम् , आत्मशब्दस्य पुल्लिङ्गत्वात्तच्छब्दस्य चात्मपरामर्शित्वादित्यत्राह व्यत्यनेन तदिति नपुंसकलिङ्घतेति - अत्रः तदिति व्याख्येयपदम् “सुप्तिङ्य्ुग्रहलिङ्गनराणां कालहलच्स्वरकर्त्तृयङां च व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन " इति शाब्दैरुक्तलिङ्गव्यत्ययेन तदिति नपुंसकलिङ्गतेत्यर्थः । नन्वस्मिन्मन्त्रे रूपकरूपितानां वशीकरणप्रकार उच्यत इत्युक्तम् तदयुक्तम् ; विषयाणां शरीरस्य चात्र नियमनानुक्तेरिति चेन्न , तन्नियमनस्यार्थसिद्धत्वात् । विषयाणां नियमनं हि नाम तदसन्निधापनम् शारीरस्य नियमनं नाम सात्त्विकाहारेण परिशोधनम् । न हि दूरतोऽनुज्खितविषयस्य दुष्टाहारसेवामलिनमनसः इन्द्रियादिनियमनं सम्भवति , अतोऽर्थसिद्धस्येह कण्ठोक्तयभावः । तन्निमित्तमिदं विषयसन्निधिपरिवर्जनं सात्त्विकाहारसेवनञ्च योगाद्युत्पादनकाले सम्पाद्यम् , तदानीं वाक्चक्षुरादिकर्मज्ञानेन्द्रियाणां नात्यन्तव्यापारनिषेधः । अत्यन्तनिषेधस्तु योगकाल एव कर्तव्यः , अतो योगकाल एव कर्तव्यस्य नियमनस्यास्मिन् मन्त्रे विधानात् " इन्द्रियेभ्यः " इत्यस्मिन्मन्त्रेऽपि वशीकार्यत्वे परत्वं विवक्षितमिति तन्त्रसिद्धकार्यकारणतत्त्व प्रत्यभिज्ञानाभावात् रूपकरूपितेषु परिशिष्टं शरीरमव्यक्तशब्देनोच्यत इति स्थितम् । उत्तरसूत्रशङ्कामाह- अव्यक्तेति । पारिशेष्याच्छरीररव्यक्तशब्दयोरैकार्थ्ये अवशयम्भाविनि सति उपक्रमाधिकरणन्यायेन उपक्रमस्थशरीरशब्दानुगुणमव्यक्तशब्दे नेये तत्राव्यक्तशब्दस्य वृत्तिः कथमित्यपेक्षायामाहेत्यभिप्रायः ।
सूक्ष्मं तु तदर्हत्वात् । द्रव्यैक्यलक्षणसम्बन्धात् कार्ये कारणशब्दोपचार इत्याह- भूतसूक्ष्ममिति - कारणभूताव्यक्ते कार्यवाचिशरीरशब्दोपचारः किं न स्यादित्यत्राह - तदर्हत्वादिति । व्याख्येयवस्सौत्रस्तच्छब्दस्तस्येति व्यस्य निर्दिष्टः । सूक्ष्मत्वं स्वशब्देनोपस्थापितम् , स्थूलावस्थं शरीरमव्यक्तशब्दविषयतया बुद्धिस्थम् , अतस्तथाविधाचिदृूव्यपरामर्श इति भावः । अवस्थाद्वयानुगतवस्तुलक्षणनिमित्तमाकारमाह- अचिद्वस्तुन इति । ज्ञानसङ्कोचविकासरूपविकारापत्तिश्चिद्वस्तुनोऽप्यस्ति , तद्य्वावृत्त्यर्थमचिद्वस्तुन एव विकारापन्नस्येत्युक्तम् । अर्हत्वं कार्यापेक्षम् , तद्विशेषप्रकरणसिद्धमभिप्रेत्याह - पुरुषार्थेति । औपचारिकत्वाविशेषेऽपि पुरुषार्थप्रवृत्त्यनर्हतारूपार्थविरोधात् तत एवाव्यक्तस्य वशीकार्यत्वायोगाच्च न कारणे कार्योपचाराच्छरीरशब्दो भूतसूक्ष्मपरत्वेन व्याख्यात इत्यर्थः । यादवप्रकाशीयास्तु- सूक्ष्मं शरीरमिह गृह्यते , तस्याव्यक्तशब्दार्हत्वात् ; पूर्वत्रापि तदेव रथत्वेन रूपितम् , लोकान्तरप्राप्तेरपि
विवक्षितत्वादिति व्याचक्षते तदयुक्तम् , उपक्रमस्थशरीरशब्दस्य स्वरसतः स्थूलशरीरप्रतिपत्तिहेतुत्वात् “यच्छेद्वाङ्मनसी प्राज्ञः " इत्यादिना पुरुषार्थसाधनप्रवृत्तिविशेषप्रतिपादनेन पुरुषार्थसाधनप्रवृत्त्यर्हत्वविवक्षामूलं रथत्वेन रूपणमित्यवगमाच्च । पुरुषार्थसाधनप्रवृत्त्यर्हत्व हि स्थूलशरीरस्य , लोकान्तरप्राप्तिः फलानुभवार्थेति तत्साधनस्य सूक्ष्मदेहस्य नोपायानुष्ठानार्हता , अतोऽव्यक्तशब्दमात्रस्वारस्यादपि उपक्रमस्थशरीरशब्दस्वारस्यादुपायदशायामुपयोगप्रतीतिस्वारस्याच्च यथोक्त एव सूत्रार्थ इत्येतदभिप्रायेणाह- रथत्वपुरुषार्थसाधनप्रवृत्त्यर्हत्वादिति । उत्तरसूत्रशङ्कामाह- यदीति भूतकारणमेवेति- त्वयापि यदभ्युपेतं भूतकारणत्वेन तदेवेति भावः ।
॥ तदधीनत्वादर्थवत् ॥ न हि प्रयोजनवत्त्वाप्रयोजनवत्त्वे चोदिते , प्रधानाङ्गीकारः प्रधानवाददूषणञ्च व्याहतमिति ह्युक्तम् , तत्कथं परिहृतं भवतीत्यत्राह- एतदुक्तमिति तदात्मकत्वविरहेणेति - नाभ्युपगच्छाम इत्यन्वयः । तदधीनशब्दस्य प्रवृत्तिमात्रे तादधीन्यपरत्वशङ्काव्यावृत्त्यर्थं परमपुरुषशरीरतया तदात्यकत्वेनेत्युक्तम् । तेन प्रवृत्तौ पराधीनत्वेऽपि सत्तास्थित्योः कुलालानपेक्षदण्डचक्रादिव्यावृत्तिः , स्वातन्त्र्येण किं नाभ्युपगम्यत इत्यपेक्षायामर्थस्थितिमाह तदात्मकत्वेनैव हीति - हि शब्दः प्रमाणप्रसिद्धिद्योतकः । स्वप्रयोजनम्- कायम् । प्रकृतेः कार्यं हि महानेव , महदादीनामपि तत्तत्कार्यमेव प्रयोजनम् पुरुषस्य भोगापवर्गरूपं वा । उक्तमर्थमुपपादयति - अन्यथेति । अन्यथा तदात्मकत्वविरहे । स्वरूपस्थितिप्रवृत्तिभेदास्तेषां न स्युरिति - “न तदस्ति विना यत्स्यात् " “मयि सर्वमिदं प्रोतम् "
मत्तः सर्वं प्रवर्तते " इत्यादिभिः स्रूपस्थितिप्रवृत्तितादधीन्यसिद्धिः , स्वरूपम् व्यवहारार्हत्वम् मानसम्बन्धार्हत्वं वा । तस्य कालान्तरावच्छिन्नाकारविरहः स्थितिः । प्रवृत्तिः - कार्योत्पत्त्यनुगुणव्यापारः । स्वरूपस्थिती न स्याताम्, ततश्च प्रवृत्त्यभावः कैमुत्यन्यायसिद्धः , यथा शरीरस्यात्मविश्लेषे इत्यर्थः । सूत्रे अर्थवच्छब्दस्तदुपयुक्तार्थतादधीन्यस्यापि प्रदर्शनार्थः ।अर्थोपयोगित्वात्प्रवृत्तेः प्रवृत्त्युपयोगित्वाच्च स्वरूपस्थित्योरित्यभिप्रायः । पूर्वोक्तव्याघातस्य परिहृतत्वं दर्शयति - तथाऽनभ्युपगमादेवेति - अब्रह्मात्मकप्रधानवाद एव दूप्यः , ब्रह्मात्मकप्रधानं स्वीकृतमिति न व्याहतिरित्यभिप्रयेण प्रक्रियानिरसनमित्युक्तम् । हिशब्दाभिप्रेतं तदात्मकत्वे प्रमाणं दर्शयति - श्रुतिस्मृत्योर्हीति । प्रलयश्रुतिः " पृथिव्यप्सु लीयते " इत्यादिः , महिमवादश्रुतिः " यस्य पृथिवी शरीर “मित्यादिः । प्रलयपरत्वश्रुतेरपि “तमः परे देव एकीभवती " त्येतदन्तत्वात्तदात्मकत्वसिद्धिः । " तस्मात्तमः सञ्जायते " इत्युत्पत्तिवाक्यं द्रष्टव्यम् , अप्ययपूर्वकत्वात्सृष्टेः , प्रलयश्रुत्युपादानं सृष्टिवाक्यप्रदर्शनार्थम् । शरीरस्य जीवात्मापेक्षया परत्वं कथमिति शङ्कायां जीवस्य शरीराधीनप्रवृत्तित्वाज्जीवापेक्षया शरीरस्य परत्वम् , यथेन्द्रियेभ्योऽर्थानां परत्वमिति परिहारपरमिदं
सूत्रमितरैर्व्याख्यातम् - तदयुक्तम् , अपेक्षितविधेरनपेक्षितविधानदौबर्ल्यात् । न हि वेदान्तिभिः प्रकृतिः स्वरूपेण नाभ्यपगम्यते ; अतस्तदभ्युपगमतन्निरासयोर्व्याघातः परिहर्त्तव्य इति तत्परिहारोपेक्षणमपेक्षिताकरणा स्यात् । ननु शरीरस्य जीवात् परत्वानुपपत्तिशङ्का च परिहर्त्तवायाः अतो नानपेक्षितविधानं स्यादिति चेत् , एवं तर्हीन्द्रियेभ्यः कथमर्थानां परत्वमिति शङ्कायाश्च परिहर्त्तव्यत्वात्तत्परिहाराय सूत्रान्तरं प्रणेयं स्यात् , सा च " अर्थव “दित्यनेन परिजिहीर्षितेति चेत्; तर्हि अर्थवदिति दृष्टान्ततयोक्तिर्न घटते अर्थेभ्यो मनसः परत्वं कथमिति शङ्कापरिहाराय सूत्रान्तरं वक्तव्यञ्च स्यात् , अर्थमनोबुद्धयादीनां परत्वं यथाकथञ्चित् व्यवहारे प्राधान्यादिविवक्षया निरूह्यत इति, न तत्र परिहर्त्तव्यमिति चेत् ; अव्यक्तस्य परत्वमपि यथाकथञ्चिन्निरूप्यत इति न सूत्रापेक्षा । केन युक्तिबलेन यथाकथञ्चिन्निर्वाह इति चेत् ; अर्थमनोबुद्ध्यादीनां यथाकथञ्चित्परत्वनिर्वाहः केन युक्तिबलेन ? प्रकरणपारिशेष्याभ्यामाद्यसूत्रविवक्षिताभ्यामव्यक्तशब्दस्य रूपकविन्यस्तशरीरविषयत्वानिश्चयबलेनेति चेत् ;
तेनैवायामपि निर्वाह आद्यसूत्रेणैव सिद्ध इत्यनपेक्षितविधानं स्यादेव , अतः उक्तार्थपरमेवेदं सूत्रम् ।
॥ ज्ञेयत्वावचनाच्च ॥ व्यक्ताव्यक्तज्ञविज्ञानादिति साङ्खयग्रन्थ एव स्ववाक्ये निवेशितः ।
॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् । अव्यक्तस्य ज्ञेयत्वमिति - व्यक्तधर्मभूतशब्दादिनिषेधानामव्यक्तपर्यवसानस्य न्याय्यत्वान्महतः परत्वोक्तेश्च सामान्येन यत्तच्छब्दनिर्दिष्टमपि कारणमव्यक्तमिति भावः । विज्ञानसारथिरिति - अनेन ज्ञेयस्य प्राज्ञस्य परमपुरुषासाधारणविष्णुशब्देन प्रकृतत्वं
दर्शितम् - एष सर्वेप्विति । निचाय्येत्युक्तस्य ज्ञानस्य दृश्यत इतिपदेन प्राज्ञविषयतया प्रकृतत्वं दर्शितम् । अवान्तरचोद्यपरिहारपरेऽस्मिन् सूत्रे परमप्रकृतपूर्वपक्षयुक्तिनिरासश्च अर्थसिद्ध इत्याह - अत एवेति । व्यक्तधर्मनिषेधानामव्यक्तपर्यवसानचोद्यस्यादृश्यत्वाद्यधिकरणे परिहृतत्वमाह - तस्य चेति । महतः परत्वादव्यक्तमिह विवक्षितमित्यत्राह - महत इति । इन्द्रियादिपरिकरवत्त्वलक्षणप्राधान्यविवक्षातिशयान्महच्छब्देनात्मनिर्देशः ॥ प्रकरणस्य प्राज्ञैकपरत्वं नास्ति , प्रधानस्यापि प्रतिपाद्यमानत्वात् तस्मात्प्राज्ञपरत्वं न प्रधानपरत्वविरोधीत्यत्राह सूत्रकारः ।
॥ त्रयाणामेन चैवमुपन्यासः प्रश्नश्च ॥ प्रथमश्चशब्दो हेतुसमुच्चये , द्वितीयश्चशब्दः प्रश्नोपन्यासयोः समुच्चये , कथमत्र त्रयाणामुपन्यासः ? प्रश्नवाक्यं हि मुक्तमात्रविशयमिति शङ्कायां प्रतिवचनप्रकारेण प्रश्नार्थस्य विज्ञेयत्वात् प्रश्नवाक्येपि त्रयमपि पृष्टं भवतीत्यभिप्रायेण प्रश्नस्य पश्चादुक्तिः । अस्मिन्नित्यादि - त्रयाणामितिपदमग्निजीवपरमात्मपरं परैर्व्याख्यातमिति तद्य्वासृत्त्यर्थमाह - उपायेति - एवमुपन्यास इति व्याख्येयं पदम् । एवंपदं व्याचष्टे - ज्ञेयत्वेनेति । ज्ञेयत्वावचनाच्चेति पूर्वसूत्रस्थज्ञेयत्वमेवंशब्देन परामृश्यत इत्यर्थः । तदुपपादयति - तथा हीति नचिकेता इत्यादि - प्रथमवरवरणं द्वितीयपादे “अता चराचरग्रहणा “दित्यधिकरणे विस्तृतत्वादिह प्रतिलभ्येत्यन्तेन साङ्क्षितम् । तत्र साङ्क्षिप्तत्वात् द्वितीयवरवरणं विस्तरेण दर्शयति - द्वितीदेनेति मोक्षोपायभूतामिति - नाचिकेताग्निविद्यायाः मोक्षोपायत्वमङ्गिद्वारा भवति , तच्च तस्याः परमात्मात्मकत्वात्मानुसन्धानगर्भत्वात् , तथाहि तदुभयं श्रूयते “लोकादिमग्निं तमुवाच तस्मै " इत्युपक्रम्य “ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति " त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशात् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके " इति वाक्येन
परमात्मतदात्मकस्वात्मतदनुसन्धानगर्भाग्नि विद्याज्ञानपूर्वकं चिन्वानस्य शोकातिगत्वमुक्तम् । " यो वा एतां ब्रह्मजज्ञात्मभूतां चितिं विदित्वा चिनुते नाचिकेतम् । स एव भूत्वा ब्रह्मजज्ञात्मभूतः करोति तद्येन पुनर्नजायते " इति वाक्येन ब्रह्मात्मकचेतनदृष्टया वा तादृशदेवताधिष्ठितत्वेन वाऽनुसन्धानपूर्वकमग्निं चिन्वानस्यापुनर्भवहेतु भूतब्रह्मोपासनद्वारा मोक्षप्रप्तिर्ह्युक्ता ; तृतीयवरवरणश्लोकार्थनिष्कर्षौपयिकतया द्वितीयवरवरणश्लोकमुपादाय तत्र व्याख्येयस्य स्वर्ग्यपदस्य प्रकृत्यंशं व्याचष्टे - स्वर्गेति । मोक्षशब्दो मोक्षस्थानपरः , लोकशब्दसामानाधिकरण्यात् भाष्ये तत्रस्थस्येति वक्ष्यमाणत्वाच्च । स्वर्गशब्दस्य मोक्षवाचित्वोपपादकः परमपुरुषार्थलक्षणशब्दः ,स्वर्गशब्दस्य प्रकृष्टसुखोपलक्षणत्वात् मोक्षस्य निरवधिकानन्दरूपत्वाच्च स्वर्गशब्दवाच्यत्वमिति भावः । प्रसिद्धस्वर्गपरत्वं किं न स्यादित्यत्राह - अमृतत्वमिति । तत्रस्थस्येति - स्वर्गलोका
इति हि बहुव्रीहिः, निरतिशयसुस्वरूपपरमव्योमस्था इति भावः। मोक्षवाचित्वे हेत्वन्तरमाह उत्तरत्रेति - तृतीयवरवरणप्रश्ने “श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः । अपि सर्वं जीवितमल्पमेव " इति, तथा “जीविष्यामो यावदीशिष्यसित्वं वरस्तु मे वरणीयः स एव " इति तत्र नचिकेतसैव क्षयिफलस्य निन्दितत्वात् क्षयिफलविमुखेन नचिकेतसा क्षयिफलसाधनप्रश्नानुपपत्तेरित्यर्थः । द्वितीयवरवरणप्रतिवचनावगतं हेत्वन्तरमाह - त्रिणाचिकेत इति । त्रिणाचिकेतः “अयं वा वयः पवते " इत्याद्यनुवाकत्रयाध्यायी । त्रिकर्मकृत्, यजनाध्ययनदानकृत् , पाकयज्ञहविर्यज्ञसोमयज्ञकृद्वा । त्रिभिरग्निभिर्हेतुभिः सन्धिं -परमात्मोपासनेन सम्बन्धम् प्राप्य जन्ममृत्यू तरतीत्यर्थः। “करोति तद्येन पुनर्नजायते “इत्यनेनैकार्थ्यात् । तृतीयेनेति - येयं प्रेत इतिमन्त्रस्य देहातिरिक्तजीवस्वरूपमात्रप्रश्नपरत्वव्युदासायाह - मोक्षेति । अत्रोपायोपेयप्रश्नो गर्भित इति भावः । प्रतिवचनप्रकारेण प्रश्नार्थस्यावगन्तव्यत्वात् । प्रेते -परित्यक्तचरमशरीरे इत्यर्थः । “न प्रेत्य? संज्ञाऽस्तीति " प्रयोगात् , अन्यथा पूर्ववरद्वयवरणानुपपत्तिः हेतुः पूर्वमुक्तत्वादिह न कण्ठोक्तः , इदं च विस्तरेणोपपादयिष्यामः । अस्मिन् प्रकरणे " नचिकेतो मरणं मानुप्राक्षी " रिति मरणशब्दश्चरमशरीरवियोगपरः , उक्तहेतोरेव “पञ्चविंशतितत्त्वज्ञःपरमात्मा भवेन्मृतः । स मुक्तस्तत्त्वसन्तानात् परेण समतां व्रजेत् " इति परमात्मसाम्यामन्ने मुक्तेऽमृतशब्दस्य कपिलासुरिसंवादे प्रयुक्तत्वात् , “देवैरत्रापि विचिकित्सितं पुरा " इत्यारभ्य “धृत्या धीरो नचिकेतोऽत्यस्त्राक्षी ः " इत्यन्तेनोच्यमानं दुरवगमत्वविविधप्रलोभनप्रश्नप्रतिषेधादिकमभिप्रेत्याह तदुपदेशयोगयतां परीक्ष्येति
। दुर्दशं- द्रष्टुमशक्यम् कुतः ? गूढम्- गुणत्रयतिरोहितत्वात् । अनुप्रविष्टम्- शरीरानुप्रविष्टम् । तत्रापि
गुहाहितम् - हृदयगुहागतम् । गह्वरेष्ठम्- तदन्तर्गते वस्तुनि स्थितम् , जीवान्तः स्थितमित्यर्थः । जहातीत्युपदिदेशेत्यन्वयः , येयं प्रेत इत्यादिवाक्यस्य जीवमात्रप्रश्नपरत्वे परमात्मविषयतया प्रतिवचनवैघट्यं स्यादित्यभिप्रायः । अस्मिन्वाक्ये स्वोक्तमर्थत्रितमपि विशदयति - तदेवमिति । अध्यात्मयोगशब्दः प्राप्तृस्वरूपविषययोगपर इत्यभिप्रत्यन्नाह - वेदितव्यतयेति । तं दुर्दर्शमितिमन्त्रेण त्रितयमप्युक्तं चेच्छ्रोतव्याभावात् पुनः प्रश्नानुपपत्तिरिति शङ्कापनोदनाय प्रश्नाकाङ्क्षाप्रयोजने दर्शिते - सामान्येनेति । स्वरूपविशोधनाय पुनः पप्रच्छेति च
पुनः पप्रच्छेति पाठः । उपायोपेयोपेतॄणां त्रयाणामपि सामान्येनोपदिष्टत्वात् स्वरूपसोधनाकाङ्क्षापि सर्वसाधारणी, तत्कथम् “अन्यत्र धर्मा “दिति मन्त्रेण परमात्ममात्रविषयप्रश्नः ? इति शङ्कायां प्रश्नस्य त्रितयविषयत्वमनुभाषणव्याजेन दर्शयंस्तदनन्तरमन्त्रस्यापि त्रितयविषयत्वमाह - एवं सकलेतरेति ।कालत्रयसम्बन्धित्वं हि वक्ष्माणत्रित - यस्याप्यस्ति , तत्कथं विलक्षणत्वमिति शङ्काव्यदासार्थ इतरशब्दः । वर्त्तमानशब्देन कृताकृतशब्दो व्याख्यातः , प्रारब्धमसमाप्तं हि वर्तमानमुच्यते । अन्यत्रेति वैलक्षण्यं विवक्षितम् , धर्मः- उपायः । धर्मादन्यत्र प्रसिद्धोपायविलक्षण उयाद इत्यर्थः । अधर्मः- धर्मेतरः, उपेयः ।अदर्मादन्यत्र प्रसिद्धसाध्यविलक्षणं फलमित्यर्थः । अस्मादिति बुद्धिस्थस्तत्साधको विवक्षितः ,स एव उपेता , स हि प्रसिद्धोपेतृसाधकविलक्षणः, साधकावस्थायामितरफलविरक्तत्वात् फलदशायामाविर्भूतगुणाष्टकविशिष्टस्वरूपत्वाच्च । कृताकृतादिति धर्मादीनां विशेषणम्, कृताकृताद्धर्मादेर्विलक्षणं यत् भूतादव्याच्च धर्मादेर्विलक्षणं यदित्यर्थः । यद्वा धर्मादधर्माच्च अन्यत्र यदित्युपासनप्रश्नः, पुण्यापुण्यरूपसाधनविलक्षणत्वादुपासनस्य । कृताकृताद्भूताद्भव्याच्चान्यत्र यदिति कालापतिच्छिन्नमुपेयं पृष्टम् उपेतुरपि चेतनस्य नित्यत्वात् प्राप्यान्तर्भावाच्च तत एव तस्यापि तन्त्रेणप्रश्नः । तदन्तर्गतञ्च प्राप्तृस्वरूपमिति हि वक्ष्यते । त्रय इति - यत्तच्छब्दौ त्रितयपराविति भावः । ननु धर्माधर्मसाध्यत्रिकालवर्त्तिवस्तुविलक्षणपरमात्मविषयोऽयं मन्त्रः किं न स्यात् ? उच्यते; धर्मादन्यत्रेत्युक्ते तदसाध्यत्वं न प्रतीयते, न ह्यदृष्टादन्यद्दृष्टमित्युक्ते सत्यदृष्टासाध्यत्वं दृष्टस्यप्रतीयते । धर्माधर्मादिविलक्षणब्रह्मविषयप्रश्नः स्यादिति चेन्न, प्रयोजनाभावात् ।कृतृाकृताद्भूताद्भव्याच्चान्यत्रेत्यनेन कालपरिच्छिन्नार्थविलक्षणं वस्तु पृष्टं स्यात् , ततश्च धर्माधर्मवैलक्षण्यप्रश्नो विफल एव, धर्माधर्मयोरपि कालपरिच्छिन्नवस्त्वन्तर्गतत्वात् अतः इतरोपायोपेयोपेतृविलक्षणत्रयप्रश्नपरत्वमुपपन्नम् । प्रणवं प्रशस्येति - “सर्वे वेदा " इत्यादिपादत्रयोक्तपरब्रह्मप्रतिपादकतया प्रशस्येत्यर्थः । “तत्ते पदं सङ्ग्रहेण ब्रवीभ्योमिति " इति प्रणवेन ब्रह्मप्रतिपादनं ह्युच्यते । प्राप्यस्वरूपमिति - पदशब्दः पद्यत इति व्युत्पत्त्या प्राप्यवाचीति भावः । तदन्तगर्तम्- प्रणववाच्यान्तर्गतम् , प्रणववाच्यैकदेशम् प्रणवैकदेशवाच्यो ह्युपेता जीवः । यद्वा प्राप्ये प्रणववाच्ये परमात्मनि प्रकारतयान्तर्गतमित्यर्थः । परिशुद्धजीवस्य प्राप्यान्तर्भावात् पदशब्दवाच्यान्तर्भूतत्वमिति भावः । वाचकरूपं चोपायमिति - उपायोपायतया प्रणवस्यो पायत्वम् उपायो हि - ध्यानम् । वाचकशब्दश्च वाच्यस्मरणोपायः “ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् "
“ओमित्यात्मानं ध्यायथ " ओमित्यनेनैवाक्षरेणं परं पुरुषमभिध्यायीत " इति ध्यानोपायत्वं हि प्रणवस्यावगम्यते । तपांसि ज्ञानप्रधाना उपरिभागाः । ननु तत्ते पदं सङ्ग्रहेण ब्रवीमीति प्राप्यस्वरूपपरत्वं हि प्रतीयते , तत्कथं त्रितयख्यापने तात्पर्यम् ? कथं ब्रह्मणो जिज्ञास्यत्वे प्रतिज्ञाते तदनुबन्धिनां जिज्ञास्यत्वसिद्धिः ? तदुपयुक्तत्वादुत्तरत्र निरूप्यमाणत्वाच्च अर्थतः प्रतिज्ञातत्वसिद्धेरिति चेत् ; इहापि ब्रह्मवेदनोपयोगित्वादुत्तरत्र प्रतिपाद्यमानत्वाच्च , उपायोपेत्रोरपि प्रतिपाद्यत्वम् । न केवलमुपयोदिमात्रात् , किन्तु पदशब्दवाच्यान्तर्भावश्च दर्शितः । एतद्धयेवाक्षरं ब्रह्मेत्यादिवाक्याभिप्रायेणाह - पुनरपि प्रणवं प्रशस्येति । “न जायते म्रियते वा विपश्चित् " इत्यादिमन्त्रद्वयस्य परमात्मपरत्वानुपपत्तिं मन्वान आह - प्राप्तुतः प्रत्यगात्मन इति । का पुनरनुपपत्तिः ? उच्यते; इदं मन्त्रद्वयं तावदेकविषयम् , “न हन्यते हन्यमाने शरीरे " इत्येतद्विवरणरूपत्वात् द्वितीयमन्त्रस्य हन्ता चेदितिमन्त्रश्च जीवविषय एव, लोकस्य परमात्मनि हन्तृहन्तव्यभावप्रतिपत्त्यभावात्तत्प्रतिषेधानुपपत्तेः । परमात्मा हि प्रत्यक्षागोचरः, कथं तस्मिन् वध्यतादिप्रतिपत्तिः ? “अहमेनं हन्मि अयं मां हन्तुमागच्छती “ति वध्यघातुकभावाभिमानो हि जीवविषय एव देहिनां भवति । ननु “नास्य जरयैतज्जीर्यते न वधेनास्य हन्यते " इतिवत् परमात्मन्यपि हनननिषेध उपपद्यत े; सत्यम् । तत्र दहराकाशस्य देहान्तस्स्थित्या शङ्कितविकारादिप्रतिषेध उपपद्यते, इह तु लोकभ्रान्तिरनूद्य प्रतिषिध्यते “हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतः " इति । परमात्मनि वध्यघातुकभ्न्रान्तिः न कस्यचिदप्यस्ति । अतोऽनुवादनिषेधावनुपपन्नौ ; न जायत इतिमन्त्रश्च तेनैकार्थः , अतो मन्त्रद्वयमपि जीवविषयम् । “अणोरणीया “नित्यादेरर्थमाह- प्राप्यस्येति । “न जायते म्रियते " इत्यादिना “अणोरणीया “नित्यादिना च जीवपरयोः स्वरूपे कथिते " ऋतं पिबन्तौ इति मन्त्रेण तयोः प्रतिपादनवैयर्थ्यशङ्कापरिहारायाह - सूपासतामुक्तवेति । एतद्वाक्यस्योपादानं परकृतव्याख्याननिरासफलकतयेति वक्ष्यामः । उपसंहृतमिति - प्रकृतोपसंहारस्यापेक्षितत्वात् अर्थान्तरपरत्वस्यासङ्गतत्वाच्चेति भावः । सूत्रार्थं निगमयति - अतस्त्रयाणामिति । सूत्रार्थं परमप्रकृतार्थेन घटयति -
तस्मान्नेहेति । ननु त्रयाणामितिपयमग्निजीवपरमात्मपरं किं न स्यात् ? तेषां हि प्रश्नोपन्यासौ दृशनयेते " स त्वमग्निं स्वर्ग्यमध्येपि मृत्यो प्रब्रूहि " “येयं प्रेते " “अन्यत्र धर्मात् " इति त्रयाणां क्रमेण प्रश्नः “लोकादिमग्निं तमुवाच तस्मै या इष्टकाः " “हन्त त इदं प्रवक्ष्यामि गृह्यं ब्रह्म सनातनम् । यथा हि मरणं प्राप्य आत्मा भवति गौतम । न जायते म्रियते वा विपन्चित् " इति प्रतिवचनञ्च । न च जीवविषयप्रश्नस्य परमात्मविषयप्रतिवचनवैघठ्यम् , ऐक्यस्य विवक्षितत्वादुपपत्तेरिति उच्यते; अत्रानतिविरोधेऽपि भाष्यकारोक्तार्थ एव
युक्ततरः । तथाहि; जीवस्तावदुपेता, परमात्मा चोपेयः, अग्निविद्या च ब्रह्मोपासनाङ्गत्वेनोपायान्तर्भूता, तदन्तर्भावश्च प्राकरणिकवाक्यैर्दर्शितः, अग्नेरपि पृथगेव विवक्षितत्वे अग्निजीवपरमात्म तदुपासनानां चतुर्णां प्रतिपाद्यत्वदर्शनात् त्रयाणामेवेत्यवधारणमयुक्तम् , अतोऽग्नेरप्युपायान्तर्भावविवक्षाऽङ्गीकर्तव्या , तथासति उपायोपेयोपेतॄणामेव व्याख्यानं युक्ततरम् । उपासनोपदेशश्चात्र स्फुटतरमुपलभ्यते " नायमात्मा प्रवचनेन लभ्यः , “नाविरतो दुश्चरितात् " इत्यादिना केवलश्रवणादिविलक्षणः परमात्मवरणीयता हेतुभूतः प्रकृष्टज्ञानविशेषो हि उपायतयाऽभिधीयते । अवधारणं प्रधान्यव्यावृत्तिपरम् , उपायस्योपेयप्राप्त्यर्थतया परमात्मन्यन्तर्भावात् त्रित्वाविरोध इति चेत्तर्हि त्रयाणामुपन्यासः प्रधानस्याप्रतिपाद्यत्वे हेतुरेव न भवितुमर्हति, अर्थान्तरान्तर्भावसहत्वात् । प्रश्नोपन्याससमुच्चयस्त्रयाणामेव , न ह्युपायस्य प्रश्नो दृश्यते, अतोऽवधारणोपपत्तिरिति चेन्न; अस्मिन् प्रकरणे प्रश्नोपन्याससमुच्चयस्य प्रतिपाद्यत्वे हेतुत्वाभावात्तदभावेन प्रतिपाद्यत्वाभावस्य दुर्वचत्वात् । उप्रायो ह्यपृष्ट एवोपन्यस्तः , सोऽप्यर्थतः पृष्ट इति प्रश्नोपन्याससमुच्चयोस्मिन् प्रकरणे प्रतिपाद्यत्वे हेतुरिति चेत् , तर्हि चतुर्णामिति वक्तव्यम् , शब्दतोऽर्थतश्च चतुर्णां प्रश्नोपन्यासम्भवात् । यदि कण्ठोक्त्यैव प्रश्नोपन्याससमुच्चयो विवक्षितः , तस्य प्रतिपाद्यत्वे प्रयोजकत्वाभावस्य प्रतिपाद्यमानोपासन एव दृष्टतया समुच्चयाभावस्याप्रतिपाद्यत्वे हेतुत्वायोगात् । किञ्च येयं प्रेत इत्यस्य देहातिरिक्तजीवसद्भावासद्भावप्रश्नविषयत्वं चानुपपन्नम् , देहातिरिक्तात्मसद्भावनिश्चयरहितस्य पितृसौमनस्याग्निविद्यावरणयोरनुपपत्तेः । अग्निप्रश्नवाक्य एव “स्वर्गलोका अमृतत्वं भजन्ते " इति देहातिरिक्तात्मज्ञानवत्त्वमवगम्यते । तत्प्रतिसचन एव “त्रिकर्मकृत्तरति जन्ममृत्यू " “करोति तद्येन पुनर्न जायते " इत्यपवर्गरूपपुरुषार्थोपयोगित्वमग्निविद्याया अवगतम् , कुतो देहातिरिक्तात्मसन्देहसम्भवः ? तस्मादपवर्गप्रकारविशेष एव सन्देहसम्भवः , अतस्तत्प्रकारविशेषप्रश्नपरत्वं येयं प्रेत इत्यादिवाक्यस्य युक्तम् , यदीदं देहातिरिक्तात्मसद्भावासद्भावप्रश्नपरत्वम् अस्य " तं दुर्दर्शम् "
इति परमात्मविषयप्रतिवचनं च न घटते । जीवपरयोरैक्यज्ञापनार्थं तथा प्रतिवचनमिति चेन्न, परमात्मविषयप्रतिवचन एव “ऋतं पिबन्तौ सुकृतस्य लोके " इति जीवपययोर्भेदप्रतिपादनेन तद्विरुद्धार्थाभिप्रायकल्पनानुपपत्तेः । न च भेदानुवादः सर्वज्ञताद्याकारेण जीववैलक्षण्यस्य लौकिकप्रमाणागोचरत्वात् विहितस्य निषेधायोगाच्च । न च बुद्धिजीवपरयोऽयं मन्त्रः, गुहां प्रविष्टावित्यत्रास्य मन्त्रस्य बुद्धिजीवपरत्वं पूर्वपक्षीकृत्य जीवपरमात्मपरत्वस्य भवद्भिरेवास्य गौर्द्वितीय इति न्यायेन सिद्धान्तितत्वात् “यदेवेह तदमुत्र यदमुत्र तदन्विह " इति हृदयायतने उपास्यतया स्थितस्य परमपुरुषस्यादित्यमण्डलान्तर्वर्तित्वमुच्यत इति न जीवपरयोरैक्यप्रतीतिः । “मृत्योस्य मृत्युमाप्नोती " ति वाक्यमुपसंहारगतमेतदपेक्षया दुर्बलं
भेदसामान्यनिषेधरूपत्वाद्विहितभेदविशेषव्यतिरिक्तविषयञ्च, अतः श्रुतभेत विरुद्धाभिप्रायकल्पनायोगात् प्रतिवचनवैघट्यमेव । किञ्च येयं प्रेत इति प्रथमखण्डस्थं प्रश्नं प्रति प्रश्नान्तरव्यवहितस्य पञ्चमखण्डस्थस्य “हन्त त इदं प्रवक्ष्यामि " इति वाक्यस्य प्रतिवचनत्वं चायुक्तम् । अर्थक्रमः पाठक्रमाह्वलीयान् इति तेन तह्वाध इति चेन्न, मध्ये जीवविषयवाक्यस्यसद्भावात् तञ्च दशिर्तम् । किञ्च “यन्म यञ्च जगद्ब्रह्मन्” इत्यादाविव यदा प्रतिवचनाव्यहिताः प्रश्नाः प्रश्नाव्यहितानि च प्रतिवचनानि स्युः तदा क्रमकोप उपपद्यते, को देवदत्तः ? दण्डी, को यज्ञदत्तः ? कुण्डली , को विष्णुमित्रः ? कमण्डलुमानितिवदेकैकप्रश्नान्तरं तत्तत्प्रतिवचनदर्शनाद्यज्ञदत्तप्रश्नोत्तरस्य देवदत्तप्रश्नोत्तरत्वकल्पनवत् क्रमकोपकल्पनमत्यन्तानुपपन्नम् , येयं प्रेत इति च न जीवसद्भावासद्भावमात्रप्रश्न इत्युक्तम् , अतो “येयं प्रेते " इति श्लोकः शब्दतोऽर्थतश्च मोक्षानुबन्धितया ज्ञातव्यार्थत्रयविषयः, तथा च सति- “तं दुर्दशर् “मित्यादिप्रतिवचनमतीव घटते, “अन्यत्र धर्मा “दिति पुनः प्रश्नाकाङ्क्षा तस्यार्थश्च दर्शितौ, अर्थत्रयस्य चैकश्लोकेन पृष्टत्वस्य विवक्षितत्वात्प्रतिवचनाच्च त्रयाणामेवेत्यवधारणं च युक्तम् ; अत एव न जायत इति जीवविषयवाक्यस्य “अणोरणीया “निति परविषयवाक्यस्य नायमात्मेत्युपायविषयवाक्यस्य च प्रतिवचनत्वं सुघटितम् , प्रश्नप्रतिवचनान्तराव्यवहितत्वं च सिध्यति, एकप्रश्नेनैवार्थत्रयस्य पृष्टत्वे सूत्रस्थप्रश्नोपन्यासशब्दगतैकवचनस्वारस्यं च भवति, न ह्युपन्यासाः प्रश्नाश्चेत्युक्तम् यतो “येयं प्रेत " इति प्रश्नोऽर्थत्रयविषयः, अत एवेह प्रशंसाप्रलोभनविद्याऽविद्यासिभागकथनादिकमञ्जसोपपद्यते, अतो यथोक्त एव सूत्रार्थः ।
॥ महद्वच्च ॥ तन्त्रसिद्धमहत्तत्त्वाग्रहणे सूत्राभिप्रेतं हेतुमाह - “आत्मशब्दसामानाधिकरण्यादिति । आनुमानिकाधिकरणम् समाप्तम् ।