27 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

आकाशोऽर्थान्तरत्वादिव्यपदेशात् । पूर्वं दहराकाशस्य परब्रह्मत्वे साध्यमाने, “अल्पश्रुतेरिति चेत् तदुक्तम्” इति सूत्रेणाल्पश्रुतिः परिहृता । अल्पश्रुतिप्रसङ्गेनाङ्गुष्ठप्रमितस्य परत्वं साधितम् । तत्प्रसङ्गेनाधिकरणत्रयमुक्तम् । अथ पूर्वप्रकृतदहरविद्याया बुद्धिस्थत्वेन तदनन्तरभूतस्य, “आकाशो वै नाम” इत्यादिप्रकरणस्य जीवपरत्वमाशङ्क्य परिह्रियत इति सङ्गतिः । मुक्तस्य प्रकृतत्वान्मुक्तात्मपरमात्मविषयसंशयमाह किमयमिति ।

परैस्तु भूताकाशः पूर्वपक्षितः । तथा च सति अनारम्भणीयतयैव स्यात्; आकाशस्तल्लिङ्गादित्यनेनैव चरितार्थत्वात् । तत्र हि, “अस्य लोकस्य का गतिरिति आकाश इति होवाच” इत्याकाशश्रुत्या भूताकाशपरत्वमाशङ्कय सर्वभूतकारणत्वज्वायस्त्वपरायणत्वादीनां भूताकाशेऽन्वयानर्हत्वात् बहुश आकाशशब्दाभ्यासे सत्यपि तद्बाधेन परमात्मपरत्वं निर्णीतम् । इहापि नामरूपयोर्निर्वोढृत्वब्रह्मशब्दामृतत्वादिभिराकाशस्य ब्रह्मत्वं निश्चीयते इति न वैषम्यम् । दहराकाशस्य तदन्तर्वत्यर्न्वेष्टव्यान्तरप्रतीतेरन्वेष्टव्यस्यैव तत्रत्यं परमात्मलिङ्गम्, न तु दहराकाशस्येति शङ्काविशेषसंभवात् दहराधिकरणोत्थानं युक्तम्; इह तु न तथा शङ्का दृश्यते । नन्ववकाशप्रदानद्वारा नामरूपनिर्वहणहेतुत्वमाकाशस्य युज्यते, अतः स्ववाक्ये परमात्मलिङ्गाभावो वैषम्यमिति । उच्यते । किमत्र स्ववाक्ये परमात्मलिङ्गाभावः स्वरसार्थस्वीकारेण

वर्ण्यते, उत क्लिष्टार्थकल्पनया ? न प्रथमः; स्वयमप्यन्येन निर्वाह्यनामरूपस्याकाशस्य सर्वनामरूपनिर्वोढृत्वानुपपत्तेः । तस्य च परमात्मलिङ्गभूतस्य स्ववाक्यस्थत्वेन “सर्वाणि ह वा” इत्यादिवाक्यादविशेषात् । न द्वितीयः; अवकाशप्रदानद्वारा सर्वभूतोत्पत्तिकारणत्वस्याप्याकाशे संभाविततया स्ववाक्ये परमात्मासाधारणधर्माभावस्य तत्र चात्र चाविशेषात् । अपरैस्तु ब्रह्मशब्दस्य मुक्तात्मपरत्वं वदद्भिरेवाकाशशब्दस्य भूताकाशपरत्वं पूर्वपक्षितम् । तत्राप्याकाशविषयनिरूपणस्य कृतकरत्वं तुल्यम् । अतः परपक्षे पूर्वपक्षानुदय एव । अतः परमात्मलिङ्गानां भूताकाशेऽन्वयानर्हतया आकाशशब्दस्य यौगिकार्थे ग्राह्ये सति अनन्तरपूर्ववाक्ये मुक्तात्मनः प्रकृतत्वात् नामरूपनिर्वोढृत्वादिलिङ्गाच्च मुक्तात्मपरमात्मविषयत्वेन संशयोत्थानं युक्तमित्यभिप्रायेण मुक्तात्मपरमात्मविषयत्वेन संशयं दर्शयति तत्रेति ।

किमाकाशशब्दनिर्दिष्टो मुक्तः, उत परमात्मेति संशयः । तदर्थं “धूत्वा शरीरम्” इति मुक्तस्यानन्तरप्रकृतत्वमाकाशशब्दस्य मुक्तपरतामवगमयति, नेति । किं मुक्तस्य नामरूपनिर्वोढृत्वं संभवति, नेति । किमत्र नामरूपभाक्तया, उत नामरूपव्याकर्तृतयेति । किं “ते यदन्तरा” इति निर्देशः कर्तृतया निर्वोढृत्वमुपपादयति, नेति । यदा नोपपादयति,

तदा नामरूपभाक्तवमेव तन्निर्वोढृत्वमिति तस्य जीवेऽपि बद्धदशायां संभवेन मुक्तात्मनः प्रकृतत्वमाकाशशब्दस्य मुक्तपरत्वाक्गमकमित्याकाशो मुक्तात्मेति पूर्वः पक्षः । यदा “ते यदन्तरा” इति निर्देशः कर्तृतया नामरूपनिर्वोढृत्वमुपपादयति, तदा नामरूपनिर्वोढृत्वं नाम तत्कर्तृत्वरूपमिति तस्य मुक्तात्मन्यसंभवात् मुक्तात्मनः पूर्वप्रकृतत्वेऽप्यस्मिन् वाक्ये मुक्तात्मनोऽवगत्यनुपपत्तेराकाशशब्दनिर्दिष्टः परमात्मेति राद्धान्तः ।

ते यदनतरेति । उभयोमर्ध्यस्थत्वात् तदस्पृष्टत्वं फलितम्; मध्यस्थस्यान्तरपक्षपाताभावात् । तेन पूर्वोक्तमुक्तप्रत्यभिज्ञाज्ञानादित्यर्थः । मुक्तस्य नामरूपनिर्वोढृत्वं कथमित्यत्राह- नामरूपेति । नामरूपयोर्निर्वहितेति श्रुत्यनुवादः; न त्वर्थानुवादः । उपलक्षणतयाऽभिमतं निर्वोढृत्वं पूर्वावस्थायामपि नास्तीत्यत्राह स एव हीति । नामरूपनिवोढृत्वं न नामरूपकतर्ृत्वम्; अपि तु नामरूपभाक्तवम् । वहनं हि धात्वर्थः । उपसर्गाणां नानार्थत्वसंभवात् नितरां वोढृत्वं निर्वोढृशब्दार्थस्यादिति पूर्वपक्षिणोऽभिप्रायः । तर्हि कथममृतत्वादिकमित्यत्राह तस्यैवेति । साम्प्रतिकीति ।

राद्धान्ते- व्यपदेशस्तावदिति । प्रदर्श्यत इति शेषः । यद्वा नामरूपयोनिर्र्वहितेति व्यपदेश इत्यन्वयः । अर्थान्तरत्वशब्दस्तदुपपादकधर्मं लक्षयति । अर्थान्तरत्वमाकाशस्योपपादयतीति ह्युक्तम् । भेदकधर्मव्यपदेशादित्यर्थः । नामरूपयोरित्यादि । नामरूपनिर्वोढृत्वञ्च स्पष्टभेदकधर्मः । अवयवशक्तया निर्वोढृशब्दस्य वहनमात्रपरत्वादपि

“रूढिर्योगमपहरति” इति न्यायात् कतर्ृपरत्वं युक्तमिति भावः । नन्वेवं सति “ते यदन्तरा” इति कथं मुक्तस्यानन्तरमभिधानमित्याह तदेवोपपादयति ते यदन्तरेतीति । कर्मकृतनामरूपभाक्तवाभावात् तयोः स्वेच्छया निर्वोढा परमात्मा । न हि कर्मपरादीनचेष्टितस्य बद्धस्य जगद्व्यापारानुगुणसङ्कल्पादिरहितस्य मुक्तस्य च नामरूपनिर्वोढृत्वं संभवतीत्यर्थः । निर्वहितेति श्रुतिस्थपदानुकारः । आदिशब्दार्थमाह आदिशब्देनेति । निरुपाधिकशब्दोऽनवच्छिन्नत्वपरः;

उपाधिर्ह्यवच्छेदकः । जीवस्य ज्ञानतो बृहत्त्वम्; तच्च परमात्मप्रसादायत्तम् । बृहत्वादय इति । धर्मा इति शेषः । धृत्वेत्यादि । ब्रह्मैव लोको ब्रह्मलोकः । प्रथमानिर्दिष्टस्याभिसंभवितुः प्राधान्येन प्राकरणिकत्वस्वारस्येऽपि लिङ्गबलात् प्राकरणिकत्वस्वारस्यभङ्गो युक्त इत्यभिप्रायेणाह यद्यपीति । अवान्तरप्रकरणेन पूर्ववाक्यस्य जीवस्वरूपपरत्वमभ्युपेत्य परिहृतम् । वस्तुतस्तु ब्रह्मलोकश्रुत्यनुगृहीतमहाप्रकरणबलात् पूर्ववाक्यमपि न जीवपरम्; किन्तु तस्य परमप्राप्यभूतपरब्रह्मपरत्वमेवेत्याह किञ्चाकाशेति । प्रजापतिवाक्यस्य व्यवधायकत्वशङ्काव्यावृत्त्यर्थमाह प्रजापतिवाक्यस्येति । हेत्वन्तरमप्याह आकाशशब्दश्चेति ।

उत्तरसूत्रमवतारयितुं शङ्कामाह अथ स्यादिति । ननु कथमात्मान्तरमेव नास्तीत्युच्यते; त्रिपादी ह्यन्ययोगव्यवच्छेदपरा । प्रथमपाद एव चिदचिद्विलक्षणवस्तुसद्भावः समर्थितः । उच्यते । सिद्धिस्तावदुभयविधा साधकप्रमाणसंभवाधीना, बाधकप्रमाणव्युदासाधीना च । बाधकप्रमाणव्युदासेन साधकसत्तायत्ता सिद्धिः स्थेयसी भवति । तदभावो साधकमात्राधीना सिद्धिरस्थिरा । अस्थिरं चासत्कल्पम् । अत्र प्रथमे पादे साधकसद्भावायतसिद्धौ दशिर्तायामप्यैक्योपदेशभेदनिषेधरूपबाधकव्युदसनस्य सूत्रकारैः इतःपूर्वमकृतत्वात् साधकाधीनसिद्धेरस्थिरप्रायत्वात् नास्तीत्युक्तम् । प्रत्यगात्मनोऽर्थान्तरभूतमात्मान्तरं दृढप्रमाणसिद्धं न भवतीत्यर्थः । चतुर्थपादेऽपि ईदृशव्यपदेश उक्तार्थाभिप्रायो वेदितव्यः । यद्वा त्रिपाद्या अन्ययोगव्यवच्छेदपरत्वं प्राचुर्यनिबन्धनमिति नानुपपत्तिः । ऐक्योपदेशाद्

द्वैतप्रतिषेधाच्चेति । मुक्तप्राप्यतयोक्तस्य ब्रह्मलोकशब्दनिर्वाच्यतया बृहदारण्यके प्रत्यभिज्ञायमानस्य, “एकधैवानुद्रष्टव्यम्, “स वा एष महानज आत्मा योऽयं विज्ञानमयः”, “नेह नानास्ति किञ्चन” इति जीवेनैक्यप्रतिपादनाद् भेदनिषेधाच्चेत्यर्थः । तत्र हि, “एष ब्रह्मलोकः सम्राडिति होवाच” इति प्रकरणावसाने तस्य परमात्मनो ब्रह्मलोकशब्दनिर्देशोऽवगम्यते । चशब्दः समुच्चये । ऐक्योपदेशभेदनिषेधयोः प्रत्येकं भेदविरोधित्वात् । इतरेतरयोगे वा च शब्दः; ऐक्यस्यामुख्यत्वशङ्कानिवारकत्वात् भेदनिषेधस्य । नामरूपयोर्निर्वहितेति पूर्ववत् यथाश्रुत्यनुवादः । अत एव हि नामरूपयोर्निर्वोढृत्वमिति स्वग्रन्थे निर्दिष्टम् । आपाततोऽर्थान्तरत्वे प्रतीतेऽपि न तत् सिद्धान्तीकर्तव्यमिति शङ्काग्रन्थस्यार्थः ।

सुषुप्त्युत्क्रान्त्योर्भेदेन । सूत्रस्याकाङ्क्षां पूरयति व्यपदेशादिति वर्तत इति । यथा, “अथ शब्दानुशासनम्” इत्यत्र केषां शब्दानामित्युक्ते समस्तस्याप्यनुशासनपदस्य विभागेन अनुषङ्गः, तथेहापीति भावः । सूत्रे सुषुप्त्युत्क्रान्त्योरिति सप्तमी । कस्य कस्माद्भेद इत्यत्राह प्रत्यगात्मन इति । अर्थान्तरत्वव्यपदेशरूपहेत्वसिद्धिशंकापरिहारपरत्वादस्य सूत्रस्यार्थसिद्धं साध्यनिर्देशं दर्शयति अर्थान्तरभूत इति । अवान्तरार्थप्रतिज्ञात्वात् सूत्रे कण्ठोक्तयभावः । प्रधानार्थप्रतिज्ञानस्य हि प्रायेण कण्ठोक्तिरुपलभ्यते । देहस्य प्राज्ञपरिष्वक्तत्वशंकाव्यावृत्त्यर्थम् विज्ञानमयः प्राणेष्विति प्रकृतस्येत्युक्तम् । उत्संजन् । शरीरमिति शेषः । क्षेत्रज्ञान्तरेण परिष्वङ्गान्वारोहौ आशंक्याह नचेति । मुक्तावस्थेनाऽऽत्मनाऽवान्तरोह इत्यत्राह इतश्चेति ।

पत्यादिशब्देभ्यः । सूत्रे पत्यादिशब्देभ्य इति निर्दिष्टत्वात् तदनुरोधाय श्रौतपाठक्रमानादरेण सर्वस्याधिपतिरिति वाक्यं प्रथममुदाहृतम् । सूत्रे च तथा निर्देशः किमर्थ इति चेत्- उच्यते । र्कमसंबन्धप्रतिषेधमुखेन सर्वेश्वरत्वादिगुणानां निरुपाधिकत्वज्ञापकस्य, “स न साधुना कर्मणा भूयान्” इत्यादिवाक्यस्य पूर्वं सर्वस्याधिपतिरित्यादि वाक्यम् । पश्चात् एष भूताधिपतिरिति वाक्यम् । हेयसंबन्धराहित्यपरवाक्यस्य तत्पूर्वापरवाक्यानां च तन्त्रेण क्रोडीकरणार्थम् अभ्यासरूपतात्पर्यलिङ्गज्ञापनार्थं च पत्यादिशब्देभ्य इति निर्देशः । अधिपत्यादीत्यनुक्तिः, पतिं विश्वस्यात्मेश्वरमित्यादिभिरस्य प्रकरणस्यैकार्थ्येन विशेष्यस्य परमात्मनो नारायणत्वद्योतनार्था । अत एव हि अयं परिष्वञ्जकः परमात्मेति भाष्ये निर्देशः । स खलु, पतिं विश्वस्येति प्रकरणस्थम्, “तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः” इति परमात्मशब्दं स्फोरयति । मुमुक्षूपास्यत्वरूपमहागुणवाचिशब्दत्वात् पत्यादिशब्दैस्सह तमेतमित्यादिवाक्यमुपात्तम् । अन्नादः- अन्नदः । अधिपत्यादिशब्दोक्तानां धर्माणां मुक्तव्यावर्तकत्वं दर्शयति एते चेति । मुक्तस्य जगद्व्यापाररहितत्वान्न संभवन्तीत्यर्थः । किं जीवमात्रादर्थान्तरत्वे विप्रतिपत्तिः ? उत मुक्तादर्थान्तरत्वे इति विकल्पे प्रथमं शिरः पूर्वसूत्रेण प्रत्युक्तम्, अनेन तु द्वितीयं शिर इति विभागः । यद्वा सूत्रद्वयोक्तैर्धर्मैर्मुक्तव्यावृत्तिसिद्धिः कथमित्यत्राह एतेचेति । एतच्छब्दः सूत्रद्वयोदाहृतगुणपरः । अतः आदिशब्दो परिष्वङ्गान्वारोहावन्तर्भूतौ । सुषुप्त्युक्रान्त्योः परिष्वङ्गस्यान्वारोहस्य च जगद्व्यापारान्तर्भूतत्वात् मुक्तस्य तद्रहितत्वाच्च तौ च तस्मिन्न संभवतः । एते अकर्मसम्पाद्या इति चाभिप्रायः; “स न साधुना कर्मणा भूयान्” इति श्रुतत्वात् । तेन बद्धान्मन्यसंभवः, मुक्तैश्वर्यस्य जगद्व्यापारवर्जत्वान्मुक्तात्मन्यसंभव इत्यर्थः । एवमनेन सूत्रद्वयेन परमात्मनश्चिदचिद्वैलक्षण्ये प्रमाणदार्ढ्यस्योपपादितत्वादैक्योपदेशभेदनिषेधौ तदनुरोधेन वर्णनीयाविति शङ्काबीजं परिहृतं भवति । एतावदेवैतदधिकरणकृत्यम् । एवं प्रबलतरभेदश्रुत्यनुरोधेन निर्वाहे कर्तव्ये सति ऐक्योपदेशभेदनिषेधयोरमुख्यतयाऽपि निर्वाहे प्राप्ते सूत्रकारैरेव श्रुतितोऽर्थतश्च वक्ष्यमाणं श्रुतिसिद्धं मुख्यनिर्वाहं तत्र प्रसङ्गे पूर्वमपि स्वेनोक्तमिह स्मारयति ऐक्योपदेशस्त्विति । कार्यकारणैक्यनिबन्धनः, न तु जीवेश्वरैक्यनिबन्धन इत्यर्थः । तत एव

कार्यकारणैक्यादेव । ऐक्योपदेशशेषत्वात् भेदनिषेधश्रुतिश्च कुतर्कसिद्धकार्यकारणभेदप्रतिषेधपरेत्यर्थः । अत्र भेदनिषेधस्य प्रकार्यैक्यनिबन्धनत्वमप्यर्थसिद्धम्; प्रकारप्रकारिभावस्य जगत्कारणत्वनिर्वाहकत्वात् । तत्राऽऽरम्भणाधिकरणे कार्यकारणैकत्वसमर्थनं श्रौतम्, तेन ऐक्योपदेशस्य मुख्यत्वमार्थम् । सामानाधिकरण्यस्य शरीरशरीरिभावनिबन्धनत्वम्, “अवस्थितेरिति काशकृत्स्नः” इति वक्ष्यते । तत्राऽऽकृतिनयगोचरतया मुख्यत्वसमर्थनं सिद्विषयमचिद्विषयञ्च “अंशो

नानाव्यपदेशात्”, “उभयव्यपदेशात्” इत्यधिकरणद्वयेन कृतम् । एवं वक्ष्यमाणो मुख्यनिर्वाह इह स्मारितः । पादद्वयोक्तमर्थमभिप्रेत्याह इत्यनवद्यमिति ।

परैस्तु सुषुप्त्युत्क्रान्त्यारित्यादि सूत्रद्वयं बृहदारण्यके, “कतम आत्मा योऽयं विज्ञानमयः” इत्यादिप्रकरणविषयमधिकरणान्तरं व्याख्यातम् । तत्र चोपक्रमे, “योऽयं विज्ञानमयः प्राणेषु” इति शारीरलिङ्गदर्शनात्, उपसंहारे च “स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु” इति शारीरापरित्यागात्, मध्ये च बुद्धान्तादि(सुषुप्त्यादि)सांसारिकतत्तदवस्थाप्रतिपादनादत्र संसारिस्वरूपं प्रतिपाद्यमिति पूर्वपक्षं कृत्वा सुषुप्त्युत्क्रान्त्योः प्राज्ञाद्भेदव्यपदेशेन पत्यादिशब्दैश्चासंसारिस्वरूपं प्रतिपाद्यमिति सिद्धान्त उक्तः । उपक्रमादिषु शरीरलिङ्गकथनमनुवादरूपम् । तस्य परेण ब्रह्मणैक्योपदेशार्थं कृतम् । योऽयं विज्ञानमयः”, “स वा एष महानज आत्मा” इति परमेश्वरेणैकत्वमुपदिश्यते । “अत ऊर्ध्वं विमोक्षायैव ब्रूहि” इति पदेपदे प्रश्नात्, “अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः” इति पदेपदे पुण्येनानन्वागतत्वादिकथनरूपप्रतिवचनाच्चासंसारिस्वरूपप्रतिपादनपरत्वसिद्धिरिति शारीरलिङ्गदशर्नपरिहारश्चोक्तः ।

एवमधिकरणभेदवर्णनमयुक्तम्; द्वितीयतृतीयपादान्तर्गताधिकरणान्तरसूत्रवैरूप्यात्; निरूपणीयाभावाच्च । न ह्यत्र सूत्रद्वये प्रतिज्ञावाक्यं श्रूयते; विवक्षिततत्तत्प्रकरणस्थधर्मिवाचकशब्दाभावात्, प्रतिक्षेप्यव्युदासकशब्दाभावाच्च । “ईक्षतेर्नाशब्दम्”, “आनन्दमयोऽभ्यासात्” अन्तस्तद्धर्मोपदेशात्" इति हि सूत्रशैली । अतोऽत्र तथाभावाभावादध्याहारः स्यात् । स चानध्याहारेण निर्वाहे सति अनुपपन्नः । इह च पूर्वप्रकृतसाध्यहेतुसमर्थकत्वेऽध्याहारोऽनपेक्षितः । चतुर्थेऽपि पादेऽधिकरणान्तरारम्भेषु धर्मिवाचिपदाश्रवणं न दोषः; तस्य प्रधानादेः प्रतिपाद्यत्वव्युदसनपरत्वाद्धर्मिवाचिपदनैरपेक्ष्यात् । “आनुमानिकमप्येकेषामिति चेन्न” इति, “न सङ्खयोपसङ्ग्रहादपि” इति च व्युदसनप्रतिज्ञा श्रूयते । नेति पदस्योत्तरत्रानुषङ्गेऽपि न दोषः । प्रधानादिपरत्वव्युदासस्य परमात्मपरत्वोपपादनशेषत्वात् परमात्मपरत्वस्य प्राधान्येन प्रतिपिपादयिषिततया सर्वत्र तद्विवक्षायां प्रतिज्ञाखण्ड(वाक्य) श्रवणात् क्वचिदध्याहारदर्शनेऽपि, गत्यन्तरसद्भावे सति गत्यभाव इव निर्वाहोऽनुपपन्नः । अतः परमात्मपरत्वसमर्थनपराधिकरणवैरूप्यादयुक्तम् । निरूपणीयाभावाच्चाधिकरणान्तरत्वमयुक्तम् । सन्दिग्धे हि न्यायप्रवृत्तिः । यत्रेकस्मिन् वाक्ये प्रकरणे वा परस्परविरुद्धार्थद्वयं प्रधानप्रतिपाद्यतया प्रतीयते, तत्र सन्देहे सति न्यायावतारः । इह च तादृशसंशयविषयो न दृश्यते(विद्यते)।

तथा हि- जाग्रत्स्वप्नाद्यवस्थाप्रतिपादकवाक्यानां जीवविषयत्वं न संशयपदम् । न च तदपाकर्तुं शक्यम् । अतस्तन्निरूपणपरत्वमधिकरणस्यायुक्तम् । “असङ्गो ह्ययं पुरुषः” इत्यादिवाक्यानां शुद्धस्वरूपपरत्वमपि न संदेहास्पदम्, निरवधिकानन्दनिरङ्कुशैश्वर्यप्रतिपादकानाम्, “सएको ब्रह्मलोक आनन्दः”, “सर्वस्य वशी सर्वस्येशानः” इत्यादिवाक्यानां परमात्मपरत्वेऽपि न सन्देहः, अत एतत्समर्थनमनपेक्षितम् । समानाधिकरणवाक्यानां ब्रह्मात्मकत्वोपदेशपरत्वेऽपि न विशय इति न तत्समर्थनार्थमधिकरणारम्भो युक्तः । जीवस्वरूपकथनं ब्रह्मात्मकत्वविधानायानुवाद इत्ययमर्थो निरूपणीय इति चेन्न; प्राप्तार्थानां वाक्यानामनुवादकत्वस्य अप्राप्तार्थानां वाक्यानां विधायकत्वस्य च स्वत एव स्पष्टत्वात् न खलु “अग्निहिमस्य भेषजम्” इत्यस्य वाक्यस्य अनुवादकत्वम्, “स्वगकामो यजेत” इतिवाक्यस्य विधित्वं चात्र निरूपणीयम् । अतो जीवस्वरूपकथने प्राप्तविशेषणोक्तेरनुवादत्वं न समर्थनीयम् । अप्राप्तधर्मप्रतिपादनस्य विधित्वं च न साध्यम् । विहितधर्मनिषेधेन स्वरूपैक्यप्रतिपादनं चानुपपन्नम् । सूत्राक्षरप्रातिकूल्याच्च नेदं सूत्रद्वयं ब्रह्मात्मकत्वोपदेशसमर्थनपरम् । भेदसमर्थनपरत्वं ह्यक्षरस्वारस्यादवगम्यते । न च मृषावाद्यभिमतं ब्रह्मात्मकत्वमस्मिन् प्रकरणे दृश्यते; “स वा एष महानज

ौत्मा योऽयं विज्ञानमयः य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः” इतीश्वरतादात्म्योपदेशपरत्वावगमात् । तन्मतेऽधिष्ठानतादात्म्यं ह्युपदेश्यम् । न हीश्वरोऽशेषजगदध्यासाधिष्ठानम्; ईश्वरस्यापि सन्मात्रवस्तुनि कल्पितत्वात् । न हि रज्जुकल्पितः सर्पः तत्कल्पितभूदलनाम्बुधाराधिष्ठानम् । किञ्च ईश्वराध्यस्तजीवदर्शनं नेश्वरकर्तृकम्; ईश्वरस्य सर्वज्ञतया स्वारोपिताकारविषयभ्रमानुपपत्तेः । न चान्यकर्तृकम्; अधिष्ठानभूदेश्वरस्य संसार्यगोचरत्वात् । न ह्यधिष्ठानानवभासेऽध्यस्तप्रतीतिरुपपद्यते । घटः सन्, पटः सन्निति सन्मात्रमेवाधिष्ठानतयाऽनुवृत्तमवभासत इति च तदीयप्रक्रिया; न त्वीश्वरोऽधिष्ठानतया प्रतीयत इति । अत सर्पभूतलनयोरन्योन्यतादात्म्योपदेशवत् जीवेश्वरतादात्म्योपदेशोऽनुपपन्नः । ईश्वरधर्माश्च अविवक्षिता इति चेत्- पदानां लक्षणा । किञ्च ्रअप्राप्तानां धर्माणामनुवादासंभवात् विहितस्य निषेधायोगात्, “एष सर्वेश्वर एष भूताधिपतिरेष भूतपालः” इति तात्पर्यलिङ्गदर्शनाच्च तेषां धर्माणामविवक्षितत्वं दुर्वचम् । सिद्धान्त्यभिमतं तु तादात्म्यं तदुपासनञ्चोत्तरत्र निरूपयिष्यते । अतः सूत्राक्षरप्रातिकूल्यात् संशयविषयाभावात् स्वाभिमतार्थशरीरस्यानुपपन्नत्वात् प्रामाणिकतादात्म्यनिरूपणस्यान्यत्र क्रियमाणत्वाच्चाकाशशब्दनिर्दिष्टस्य परमात्मत्वोपपादकं सूद्वियमिति सिद्धम् ।

यादवप्रकाशपक्षेऽपि निरूपणीयाभावादनारम्भणीयत्वदोषः स्थितः । पूर्वपक्षसिद्धान्तवर्णनप्रकारश्चानुपपन्नः । परिष्वङ्गान्वारोहाभ्यां प्राज्ञस्यात्मनः शारीराद्भेदः स्थित इति विषयशोधकमाद्यं सूत्रं व्याख्याय, स प्राज्ञः किं भोक्ता विद्याकर्मातिशयलब्धैश्वर्यो जीवः उत परः इति विशये, भोक्तुर्विज्ञानमयस्य प्रकरणस्थतया वशित्वेशानत्वादीनां

विद्याकर्मलब्धतया जीवत्वमुक्त्वा, पत्यादिशब्दानां शाखान्तरे परमात्मविषयत्वदर्शनात् अन्यत्र सुषुप्तौ परमात्मनि सम्पत्तिश्रवणाच्च परमात्मत्वं साधितम् । तत्र तावत् आद्यसूत्रव्याख्यानमयुक्तम्; विषयशोधकत्वमात्रे सूत्रवैयर्थ्यात्; पूर्वपक्षपरत्वे शाब्दस्य हेतोर्विरुद्धत्वात्; भोक्तुः प्रकृततया कर्माधीनैश्वरत्वस्य पूर्वपक्षहेतोरशाब्दत्वाच्च । तच्छङ्काव्युदसनासमर्थभेदानुभाषणे प्रयोजनाभावात् सूत्रवैयथ्यर्म् । किञ्च शारीराद्भेदकौ परिष्वङ्गान्वारोहौ प्राज्ञकर्तृकौ श्रूयेते । प्राज्ञत्वं च स्वाभाविकम्, पतित्वादयश्च स्वाभाविका एवात्र प्रतिपाद्यन्ते; उपाध्यनुक्तेः । तथैव, “स न साधुना कर्मणा भूयान्” इत्युपाधिनिषेधाच्च । अतस्तदनादृत्य पत्यादिशब्दानां शाखान्तरप्रसिद्धया परमात्मसाधकत्वोक्तिरचुतरा । सद्विद्यासंवादस्तु यद्यपि प्राज्ञस्य जगत्कारणत्वावगमकः, तथापि कारणस्य चिदचिद्वैलक्षण्ये तु संवादानिरपेक्षहेतुः पाज्ञत्वं निरुपाधिकैन्वर्यवत्त्वञ्च । संवादान्तरापेक्षणेऽनवस्था स्यात् । एतच्छ्रुत्यपेक्षणेऽन्योन्याश्रयः स्यात् । अतोऽधिकरणान्तरकल्पनं तन्निर्वहणं चानुपपन्नम् । अतः सूत्रत्रयमेकाधिकरणम् ॥

इति श्रीहारीतकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयेन

श्रीमद्वदाचार्यपादसेवासमधिगतभगवद्रामानुजविरचितशारीरकमीमांसा

भाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां श्रुतप्रकाशिकायां

प्रथमस्याध्यायस्य तृतीयः पादः ॥

श्रीमते रामानुजाय नमः