शुगस्य तदनादरश्रवणात्तदाद्रवणात् सूच्यते हि । मनुष्यव्यतिरिक्तवस्वादिदेवताविशेषाणामर्थित्वसामर्थ्यसंभवादधिकारोऽस्तीत्युक्तम् । अर्थार्थित्वसामर्थ्ययोः प्रयोजकत्वे मनुष्यविशेषाणां शूद्राणामप्यधिकारः स्यादिति शङ्कया सङ्गतिरित्याह - ब्रह्मविद्यामीति । किं ब्रह्मविद्यायां शूद्रस्याधिकारोऽस्ति, नेति विचारः । तदर्थं तस्य तदुपसंहारसामर्थ्यमस्ति, नेति । किं ब्रह्मविषयमनोवृत्तिरूपा ब्रह्मविद्याऽनधीतवेदस्यापि संभवति, नेति । किं वेदादेव ब्रह्मावगतिः, उत इतिहासपुराणाभ्यामपि संभवतीति । किं तयोर्वेदोपबृंहणं कुवर्तोरेव ब्रह्मावगतिहेतुत्वम्, उत स्वातन्त्रेणेति । किं जानश्रुतेः शूद्रेत्यामन्त्रणमितिहासपुराणयोर्निरपेक्षब्रह्मावबोधकत्वमुपोद्बलयति, नेति । किं तत्र शूद्रशब्दो रूढ्या जातिपरः, उत यौगिकतया शोकत्वपरः इति । यदा रूढः, तदा शूद्रशब्दस्य इतिहासपुराणयोर्नैरपेक्ष्योत्तम्भकतया तयोः स्वातन्त्र्ेण ब्रह्मावगतिहेतुत्वात् ब्रह्मविषयस्मृतिसन्ततिरनधीतवेदस्यापि संभवतीति सामर्थ्यलाभात् शूद्रस्याप्यधिकारः संभवतीति पूर्वः पक्षः । यदा शूद्रशब्दो यौगिकः, तदा शूद्रेत्यामन्त्रणस्य इतिहासपुराणयोर्बह्मावबोधननैरपेक्ष्यानवगमकतया स्वातन्त्र्ेण ब्रह्मावबोधकत्वाभावात् वेदादेव ब्रह्मावगतिरिति अनधीतवेदस्य तदसंभवेन सामर्थ्याभावान्न ब्रह्मोपासनाधिकार इति राद्धान्तः ।
ननु कर्म काण्डापशूद्राधिकरणे शूद्रस्य वैदिकसर्वकर्मस्वनधिकार उक्तः; तत् कथमत्र तत्संभव इत्यत्राह यद्यपीति । विद्यावेदविद्या(अध्ययनम्) । अग्निः आहितः । परिहरति तथापीति । ननु विद्यायाः कर्माङ्गत्वं वक्ष्यते, तत् कथं साङ्गब्रह्मविद्यायां सामर्थ्यमित्यत्राहशास्त्रीयेति । ननु तस्माछूद्रो यज्ञेऽनवक२प्तः" इत्यत्र यज्ञग्रहणस्योपलक्षणार्थत्वाद्विद्यायामप्यनधिकारः सिध्यति । न ह्यसावर्थः श्रुत्येकसमधिगम्यः; येन यावद्वचनता स्यात्, परिसंख्या वा; किंतु न्यायसिद्धः । न्यायश्च अग्निविद्यासाध्येषु अनग्निविद्यस्याधिकारानुपपत्तिरूपः कर्मोपासनसाधारणः । अतोऽधिकार इत्यत्राह तस्माच्छूद्र इति । सत्यमसावनुवादः । नैतावता ब्रह्मविद्यानधिकारः, अग्निविद्यासाध्यकर्म
विषयत्वात् न्यायस्य; यज्ञादिकर्मणामेव अग्निविद्यासाध्यत्वात् ब्रह्मविद्यास्तन्निरपेक्षत्वाच्चेत्यर्थः । अत्रार्थात् हेत्वन्तरं चोक्तं भवति । यज्ञाधिकारो नास्तीत्यनेन उपासनाधिकारोऽनुमतो भवतीत्यभिप्रायेण यज्ञादिकर्मानधिकार एवेत्युक्तम् । न्यायसिद्धोऽनूद्यत इति । कर्मकाण्डापशूद्राधिकरणन्यायसिद्ध इत्यर्थः । मा भूदग्नि(विद्या)साध्ययज्ञापेक्षा ब्रह्मविद्यायाः, तथाप्यध्ययनसाध्यवेदजन्यज्ञानापेक्षाऽस्तीति चोदयति नन्विति । श्रावयेदिति । प्रयोज्याभावे प्रयोजकासिद्धेः प्रयोज्योपादानमर्थसिद्धमिति भावः । न च “अन्नाद्यकामं याजयेत्” इतिवत् प्रयोज्यव्यापारविधिः; अधिकारविशेषाश्रवणात् । एतदभिप्रायेण इतिहासपुराणश्रवणानुज्ञेत्युक्तम् । यदा चैवं सिद्धं श्रवणम्, तदा सामर्थ्याद्विचारोऽपि सिद्धः; इतिहासपुराणयोः संशयविपर्ययग्रस्तत्वे सति सम्यङ्निश्चयानुपपत्तेः । अतो निरपवादः शूद्रस्याप्यधिकारो ब्रह्मविद्यायाम् ।न च वाच्यम्- यज्ञादिकर्मणामपीतिहासपुराणेषूपदिश्यमानत्वात् तत्रापि शूद्राधिकारप्रसङ्ग इति; कर्मणामितिहासपुराणेषु सामान्यतः कीर्तनेऽपि विशेषोपदेशाभावात् वैदिकेषु विशेषोपदेशेषु शूद्रस्यानधिकारस्थितेरिति । यदि ब्रूयात्- नेदमितिहासपुराणविषयं श्रवणानुज्ञानमर्थज्ञानावधिकम्; किंतु, “श्माशानवच्छूद्रपतितौ” इति प्रतिषिद्धस्य समीपपाठस्य प्रतिप्रसवमात्रमिति- तन्न; “य इदं शृणुयान्नित्यम्” इत्युपक्रम्य, “शूद्रःसुखमवाप्नुयात्"इति श्रवणफलनिर्देशात् । श्रवणकीर्तने हि यथायोग्यमन्वीयेते । “शूद्रयोनावहं जातो नोतोऽन्यद्वक्तुमुत्सहे” इति ह्युक्तम् । हेत्वन्तरमाह दृश्यन्ते चेति । कर्मकाण्डेऽपशूद्राधिकरणे अधिकारो निर्णीतश्चेत्, किमत्र चिन्तनीयमिति शङ्कायां ब्रह्मोपसनेऽपशूद्राधिकरणन्यायप्रवृत्तौ तत्रापरिहृतामधिकयुक्तिमाह तथोपनिषत्स्वपि संवर्गेति ।
राद्धान्तमारभते- इतिप्राप्त इति संवर्गविद्यावाक्यगतशूद्रशब्दनिर्वाह इव सौत्रः । अन्यत् पूर्वपक्षहेतुजातं सूत्रकाराभिप्रेतं स्वयमुपन्यस्तं प्रथमं व्युदस्य पश्चात् सूत्रमवतायिष्यन् प्रथमं पूर्वपक्षहेतून् प्रतिक्षिपति न शूद्रस्येत्यादिना । सामर्थ्याभावमुपपादयति नहीति । अर्थित्वं हस्तीत्यत्राह असमर्थस्य चेति । उपासनोपायश्रवणधारणादिक्षमत्वलक्षणं सामर्थ्यं तस्यापि लोकसिद्धमित्यत्राह असामर्थ्यञ्चेति । अलौकिकसामर्थ्याभावादित्यर्थः । ब्रह्मोपासनविधिना शूद्रस्याप्यधिकारः कल्प्यः; यथा रथकारादीनां विधिबलेन तत्तत्कमर्ाधिकारः तदपेक्षितमन्त्राध्ययनाधिकारश्च सिध्यतीत्यत्राह यथैव हीति । ज्ञानतदुपायादीनिति । आदिशब्देन अध्ययनव्रतोपनयनादय उच्यन्ते । अपरान्- अत्रैवर्णिकमतान् ज्ञानतदुपायादीन् नापेक्षन्त इत्यर्थः । विधयः स्ववैयर्थ्यपरिहारायानुष्ठातृसापेक्षास्सन्तः अनुष्ठानस्य ज्ञानपूर्वकतया ज्ञानतद्धेतुभेताध्ययनव्रतोपयनयनादीन् अपेक्षन्ते, तत्रानन्यार्थम्, स्वयं क्लेशसाध्यतया प्रयोजनसाकाङ्क्षं संनिहितत्रैवणिर्कगतज्ञानं क२प्तत्वात् कर्मविधिभिः संबध्यते । तेन कमर्विधयोऽत्रैवर्णिकगतज्ञानादिनिरपेक्षत्वात् तदधिकारं न कल्पयन्ति; एवं ब्रह्मोपासनविधयोऽपि त्रैवर्णिकगताध्ययनसिद्धानन्यार्थसाकाङ्क्षज्ञानतो लब्धानुष्ठानतयाऽन्यथासिद्धत्वान्न शूद्राधिकारं कल्पयन्ति । अनन्यथासिद्धं हि कल्पकम् । किञ्च अध्ययनस्यापि प्रयोजकतया कल्पनागौरवं स्यात् । “रथकारोऽग्नीनादधीत” इति विधिरध्ययनसिद्धज्ञानत्रैवर्णिकनिर्वृत्तानुष्ठानतया अनन्यथासिद्धत्वादधिकारं कल्पयतीति वैषम्यम् । किञ्च रथकारादीनां “रथकारोऽग्नीनादधीत” इति विधिवाक्येनैवाधिकारित्वेन
विशेषतः श्रुतत्वात् तदपेक्षितमन्त्रभागाध्ययनाधिकारमात्रं कल्प्यम् । इह तु विशेषतः शूद्राद्युद्देशेनोपासनविधानाभावादुपासनाधिकारस्तदौपयिकाध्ययनाधिकारश्च कल्प्य इति गौरवं स्यात् । अतोऽनधिकार इति । संवर्गविद्यायां शूद्रशब्दश्च नोपासनाधिकारज्ञापकः; रथकारादिशब्दवत् विधिवाक्यगतत्वाभावात् । तथा सति ह्यधिकारः कण्ठोक्तः स्यात् । शूद्रशब्दो ह्यर्थवादगतः । नन्वर्थवादस्यापि स्वार्थे प्रामाण्यमुक्तम् । तत्तु बाधकाभावे सति भवति । वैदिकविधीनामध्ययनसिद्धस्वाध्ययजन्यज्ञानसापेक्षत्वं बाधकम् । अध्ययनस्यापि प्रयोजकत्वे गौरवं स्यादित्युक्तम् । वक्ष्यमाणो रूढिप्रतिकूललिङ्गसद्भावोऽवयवशक्तयनुकूललिङ्गसद्भावश्च बाधकः । रूढिप्राबल्यमर्थाविरोधेऽनुकूललिङ्गसद्भावे च भवति; न त्वर्थविरोधे । अत एव हि गङ्गायां घोष इत्यत्र गङ्गापदस्य लक्षणा । “रथकारोऽग्नीनादधीत” इत्यत्रापि, “सौधन्वनाः ऋभवः शू(सू)रचक्षसः” इति सौधन्व त्वमनुकूललिङ्गं दृश्यते । ब्राह्मणादेश्च शिल्पनिषेधोऽवगम्यते । अतोऽर्थविरोधात् शूद्रशब्दस्य रूढिर्दुर्बला । अतोऽनधिकारः । अयञ्चार्थः शुगस्येति सूत्राभिप्रेत इह प्रतिपत्तिसौकर्यायोक्तः ।
ननूक्तमितिहासपुराणद्वारा शूद्रस्यापि ब्रह्मज्ञानं संभवतीतित्यत्राह इतिहासेति । उपबृंहणीयवेदज्ञानानधिका-रादुपबृंहणमात्रेणोपासनोपयोगिज्ञानपौष्कल्यं न संभवति; न हि व्याख्येयानधिकारिणो व्याख्यानमात्रेण पुष्कलज्ञानसम्भवः इति दृष्टसामर्थ्यवैकल्यम् । “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” इति वेदार्थविशदीकारहेतुतयैव तदवगमविधानात् अङ्गतया विहितस्य स्वतन्त्रतयोपादाने तज्जन्यज्ञानस्य पुस्तकपाठादिलब्धवेदार्थज्ञानस्येव शास्त्रविरोधाददृष्टसामर्थ्यवैकल्यञ्च । अतस्तदविरोधस्य न्याय्यत्वात् श्रावणविध्यवैयर्थ्याच्च शूद्रस्य श्रवणानुज्ञानं पुण्यकथावगतिद्वारेण पापक्षयफलाथम्; न तूपासनार्थमित्यर्थः । यद्येवं वेदवाक्यार्थज्ञानमुपासनाङ्गम्, कथं तर्हि विदुरादीनामुपासनसंभव इत्यत्राह विदुरादयस्त्विति । तेषामप्युपासने प्रथमप्रवृत्तिर्न शूद्रजन्मनि, अपि तु पूर्वजन्मसिद्धैव । पाश्चात्त्ये तु जन्मनि प्राक्तनज्ञानप्रमोषाभावादवर्जनीयं तदनुवृत्तिमात्रमेवेत्यर्थः । विदुरादीनामपि इतिहासपुराणश्रवणात् ज्ञानसिद्धिरिति यत् इतरैरुच्यते, तदयुक्तम्; “धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते । वर्णावरत्वे संप्राप्ताः संसिद्धिं श्रमणी यथा” इति शौनकवचनविरोधात् ।
एवमर्थसिद्धः सूत्रकाराभिप्रेतो हेत्वन्तरपरिहार उक्तः । अथ प्रधानयुक्तिपरिहारपरं सूत्रमवतारवितमाह यत्त्विति । शोचितृत्वं शूद्रशब्दार्थः; तत्र शोककारणं शोककार्यञ्च हेतुत्वेनाह शूश्रूषोरित्यादिना । अनादरवाक्यश्रवणं शोककारणम्; आद्रवणं तत्कार्यम् । शूद्रशब्दस्य शोचितृत्ववाचकत्वं कथमित्यत्राह शुचेर्दश्चेतीति । रक्प्रत्ययः प्रकरणसिद्धश्चकाराकृष्टः; “अमितम्योर्दीर्घश्च” इति सूत्रे दीर्घश्चेत्यंशोऽनुवर्तत इति भावः । परैर्निरुक्तप्रक्रियया आद्रवण
मप्यन्तर्भाव्य शूद्रशब्दनिर्वाहः कृतः; मुख्यनिर्वाहे संभवति सोऽनुपपन्न इति भावः । पाणिनीयनिर्वाहो मुख्यः । तदनन्तरमौणादिकः । ततो नैरुक्तः । तत्रौणादिकनिर्वाहस्य संभावितत्वात् स एवात्र कृतः । अनादरवाक्यश्रवणस्येव आद्रवणस्यापि शूद्रशब्दवाच्यत्वं न सूत्रविवक्षितम् । उपपादकतयोपादानस्य द्वयोरपि तुल्यत्वात् । शुच एव ह्युपपाद्यत्वं प्रतीयते; प्रथमान्तनिर्देशात् । श्रवणाद्रवणशब्दौ हि पञ्चम्यन्तौ । तस्माच्छोक एव शूद्रशब्दप्रवृत्तिनिमित्तम् । अनादरवाक्यश्रवणादीनां वैशद्यार्थमुपन्यस्यति जानश्रुतिः किलेति । भल्लाक्षः- हंसः । समं दिवास्वर्गेण समम्, स्वर्गेपि तत्तेजः प्रसृतमित्यर्थः । यद्वा दिवसेन सममित्यर्थः, निशायामित्युक्तत्वात् । मा प्रसाङ्क्षीः- मा प्रसक्तः स्याः । मा प्रधाक्षीत्- त्वां मा दहेदित्यर्थः । परो हंस इति । श्रुतौ परशब्दो हंसवाचीति भावः । हंसान्तरवाक्यस्यानादरगर्भतां व्यनक्ति कं सन्तमिति । सयुग्वानमित्यस्यार्थमाह गुणश्रेष्ठमिति । यद्वा युग्वाशकटम्, तद्वन्तमित्यर्थः । गुणश्रेष्ठमिति प्रकरणसिद्धार्थोक्तिः । उपास्स इति मध्यमपुरुषनिर्देशाभिप्रायं व्यञ्जयन्नाह त्वदुपास्यामिति । यदुपासनात् तवेदृशी प्रशस्तिर्जाता, तं (तां?) मे ब्रूहीत्यभिप्राय इत्यर्थः । चिरकालेति । चिरकालसेवा यावच्छक्तिप्रदानं वा ब्रह्मविद्याप्रतिष्ठाहेतुरित्यर्थः । तमनुगृह्णन् । न तु रागादित्यर्थः । आजहर्थेति । आजहार भवानिति भवच्छब्दाध्याहारेण, छान्दसव्यत्ययेन वा श्रुतियोजनेत्यभिप्रायः । यद्यपि
दशाश्वमेधानाजहारेत्यादिष्वाङ्पूर्वस्य हरतेरर्थान्तरदर्शनेन, नानार्थत्वसंभवाद्धातूनाम्, प्रतिगृहीतवानस्मीत्युत्तमपुरुषतया व्याख्यातुं शक्यते, तथापि “अग्नये समिधमाहार्षम्”, “अथामेध्ये नो मध्वाजहार” इति दानार्थतया वैदिकप्रयोगप्राचुर्यदर्शनात्, “अनेनैव मुखेनालापयिष्यथाः” इत्यालापनहेतुतया प्रतिसम्धीयमानस्याऽऽहरणस्य स्वरसत आलापनसमानकर्तृकताप्रतीतेश्च मध्यमपुरुषत्वेन व्याख्यातम् ॥ 33 ॥
शूद्रशब्दस्य यौगिकार्थानुकूलहेतुरुक्तः । अथ रूढिसिद्धहेतुरुच्यते । क्षत्रियत्वगतेश्च । संजिहानः- आसनमुज्खन्; उत्तिष्ठन्नेवेत्यर्थः । उत्तरसूत्रमवतारयति तदेवमिति ।
उत्तरत्र चैत्ररथेन लिङ्गात् । कथमिति । चैत्ररथः क्षत्रियश्चेत्, जानश्रुतिरपि क्षत्रियः स्यादिति न हि नियम इत्यर्थः । उत्तरमाह अथ हेति । परिविष्यमाणौसूदेन भोज्यमानौ । ब्रह्मचारिणो भिक्षणं कापेयाभिप्रतारिणोस्त्रैवर्णिकत्वलिङ्गमित्यर्थसिद्धम् । एकत्र ब्राह्मणक्षत्रियजातिद्वयसम्बन्धितयाऽवगतायाम् अन्यत्रापि ब्राह्मणसम्बन्धितया निर्णीतायां तत्सम्बन्धिपुरुषान्तरविषयसन्देहे सति अग्य्रप्रायन्यायात् तस्य पुरुषस्य ब्राह्मणक्षत्रिययोरन्तयतरत्वम्, परिशेषेण क्षत्रियत्वं च निश्चीयत इत्यर्थः । सौत्रं लिङ्गादिति पदं व्याख्यातुं चोद्यमुखेनाकाङ्क्षां दर्शयति नन्विति । अभिप्रतारिणश्चैत्ररथत्वं तस्य क्षत्रियत्वं च नावगतमित्यर्थः । किमत्र लिङ्गं विवक्षितमित्यत्राह अथ हेति ।
कापेयसाहचर्यात्- कापेयसहपाठादित्यर्थः । कापेयसहपाठबलेन कापेयसम्बन्धः सिद्धः । तेन तत्पुरोहितकस्य चैत्ररथत्वं सिद्धम् । तेन क्षत्रियत्वमवगतमित्यर्थः ॥
उत्तरसूत्रसङ्गतिमाह तदेवमिति । शूद्रशब्दस्य रूढिसिद्धार्थविरोधिलिङ्गं यौगिकार्थानुगुणलिङ्गं चेत्युभयविधं लिङ्गमपि शूद्रानधिकारज्ञापकमित्यर्थः । इदानीमिति । अयमनधिकारः श्रुतिस्मृतिभिरनुगृह्यत इत्याहेत्यर्थः ॥
संस्कारपरामशर्ात् तदभावाभिलापाच्च । संस्कारः परामृश्यताम्, ततः किमित्यत्राह शूद्रस्येति । न शूद्रे पातकं
किञ्चित्- सन्ध्यावन्दनाद्यभावनिमित्तं पापं नास्तीत्यर्थः चतुर्थो वर्ण एकजातिः । न तु द्विजातिरित्यर्थः ॥
तदभावनिर्धारणे च प्रवृत्तेः ॥ तच्छब्दस्य पूर्वसूत्रप्रकृतसंस्कारवाचितयामेतत्सूत्रविषयवाक्यानुगुण्याभावात् तच्छब्दः परमप्रकृतपरामर्शीति आह शूद्रत्वाभावेति ॥
श्रवणाध्ययनार्थप्रतिषेधात् ॥ अर्थशब्देन तदनुष्ठानं विवक्षितम् । पद्युजङ्गमम् । समीपोच्चारणप्रतिषेधादेव श्रवणाध्ययनप्रतिषेधोऽर्थसिद्धः । अर्थानुष्ठानप्रतिषेधं दर्शयति तस्माच्छूद्र इति । ननु तत एवार्थानुष्ठाननिषिधोऽपि सिद्धः । सत्यम्; साक्षादेव त्वसौ श्रूयते, तत्र किं प्रणाड्युपजीवनेनेति पृथगुच्यते । पशुबाहुल्यवत्त्वं यज्ञाद्यर्हत्वौपयिकम्; कथमनेनायज्ञीयत्वसिद्धिरित्याशङ्काव्यावृत्त्यर्थं बहुपशुशब्दं व्याचष्टे पशुसदृश इत्यर्थ इति । ईषदसमाप्तपशुत्व इति वक्तव्ये सदृशशब्दग्रहणम् ईषदसमाप्तेः सादृश्यपर्यवसानज्ञापनार्थम् । “विभाषा सुपो बहुचू पुरस्तात्तु” इति पाणिनीयसूत्रेण ईषदसमाप्त्यर्थे बहुच्प्रत्ययास्तस्य पुरस्तात् प्रयोगश्च विहितः । अध्ययनादिनिषेधोऽर्थसिद्धोपीत्याह अनुपृण्वत इति । “शूद्रो नाधीयीत” इति वाक्यमप्यनुसन्धेयम्; अनेन यज्ञे विशेषनिषेधादन्यत्र वैदिके कर्मणि शूद्रस्याधिकारशङ्का च निरस्ता भवति ॥
स्मृतेश्च ॥ अथ हेत्यादि अध्ययनादौ प्रायश्चित्तस्मरणमुपदेशनिषेधस्मरणञ्च । अनधिकारज्ञापकत्वात् (तत्) उभयमपि स्मृतिशब्दविवक्षितमिति भावः । “रथकारोऽग्नीनादधीत” इत्यादिषु “रूढिर्योगमपहरति” इति न्यायेन रूढा(ट्य?)र्थः स्वीकृतः । तदपवादोऽर्थविरोधः । अनुकूललिङ्गसद्भावे विरोधिलिङ्गाभावे च रूढेः प्राबल्यम्; विरोधिलिङ्गसद्भावस्तदपवाद इत्युक्तं भवति । “रथकारोऽग्नीनादधीत” इत्यत्रापि, सौधन्वना ऋॄभव इत्यनुकूललिङ्गं ह्युपलभ्यत इति ॥
अस्मिन्नधिकरणे परेषामनवकाशं दर्शयति ये त्वित्यादिना । अनुपनीतस्येति । न हि, नायं सर्पो रज्जुरेषेति वाक्यात् भ्रमनिवृत्तेरुपनयनादिसंस्कारापेक्षेति भावः । तत्त्वमस्यादिव्यतिरिक्तवाक्येन ज्ञानं नोत्पद्यत इत्यत्राह न चेति । अपुरुषतन्त्रत्वे हेतुमाह सत्यामिति । व्यतिरिक्तवाक्येनोत्पन्नमपि ज्ञानं न निवर्तकं भवतीत्यत्राह न च वेदवाक्यादिति । येन केनापीति सामान्येनार्थशरीरोक्तिः । पक्षमाह पौरुषेयादपीति । भ्रमनिवृत्तेः । भ्रमनिवृत्तेर्न्याय्यत्वादित्यर्थः । सपक्षमाह यथेति । ततः किमित्यपेक्षायां दृष्टान्तोक्तमर्थं पक्षेऽतिदिशति तद्वदिति । शङ्कान्तरमुक्त्वा
परिहरति न चेत्यादिना । वेदशिरसि (वर्तमानतया?)- वेदान्तनिष्ठत्वात् । यद्वा वेदस्यापि शिरसि निहितचरणत्वादिति यावत् । निषेधशास्त्रकिङ्करत्वाभावादिति । अनेन, “दग्धाखिलाधिकारत्वाद्ब्रह्मज्ञानाग्निना मुनिः । वर्तमानः श्रुतेर्मुर्ध्नि नैव स्याद्वेदकिङ्करः” इति नैष्कर्म्यसिद्धिग्रन्थः स्मार्यते ।
मुखान्तरेण ज्ञानोदयसंभवमाह अतिक्रान्तेति । प्रत्यक्षविरोधमाशङ्कय परिहरति नचेत्यादिना । शूद्रस्य निदिध्यासनेऽनधिकारान्न वाक्यार्थज्ञानोत्पत्त्या बन्धनिवृत्तिरित्यत्राह निदिध्यासनं हीति । न हि निदिध्यासनमदृष्टद्वारा किञ्चित् करोति; निवर्त्यसत्यत्वप्रसङ्गात् । अदृष्टद्वारा किञ्चित्करत्वे सति हि यज्ञादाविव शूद्रस्यानधिकारः । न च तदस्ति । अतो नायं सर्प इति वाक्येन सर्पमिथ्यात्ववासनायामिव शूद्रादेरपि निदिध्यासनेऽधिकारो न निषेद्धुं शक्यत इति भावः । शूद्रस्य यज्ञादिकर्मानधिकारात् तत्सापेक्षं वाक्यार्थज्ञानं न जायत इत्यत्राह वेदानुवचनादीन्यपीति । शूद्रस्यापि जन्मान्तरानुष्ठितयज्ञादिकर्मणः सञ्जातविविदिषस्य शूद्रजन्मनि निदिध्यासनमाप्तवाक्यावगताद्वैतविषयं कर्तुं शक्यमिति भावः ।
मुखान्तरेण ज्ञानसंभवमाह अथवेति । तर्कानुगृहीतादिति । त्वदुक्तानां प्रमाणानुपपत्तिप्रमेयानुपपत्त्यादीनां तर्काणामवगमो हि न श्रुत्यपेक्ष इति भावः । सुशोभन इति । इतःपूर्वमविद्यमानमीश्वरेशितव्यादिभेदज्ञानं जनयद्वेदवाक्यं हित्वा केवलाद्वैतज्ञानजनकतर्कावलम्बिनामेव ब्रह्मविद्याधिकारः सुलभ इत्यर्थः । श्रुतिवैयर्थ्यमनुपपत्त्यन्तरमाह अनेनैवेति । “अप्राप्ते हि शास्त्रमर्थवत्” । अतः प्राप्तार्तत्वात् भेदज्ञानजनकत्वाच्च ब्राह्मणादेरपि श्रुतिरनादरणीयेत्यर्थः । तपस्विनी शोचनीया; देशकालव्रताद्यनेकनियमवतीति भावः (वाऽर्थः?) । नचेति । नैसर्गिकशब्दोऽनादित्वपरः । प्रसञ्जकत्वेन श्रुतिरपेक्षितेति शङ्काग्रन्थार्थः । दूषयति यत इति । साङ्खयहैरण्यगर्भनैयायिकवैशेषिकबौद्धार्हतादिभिरेव प्रत्यक्षानुमानादिमुखेन वस्तुनिरूपणं प्रसक्तम्; अतो न श्रुत्यपेक्षेत्यर्थः । सुविवेचमिति । त्वयैव हि युक्तय उप्रन्यस्ता इति भावः । तर्कागोचरविशेषान्तरसिद्ध्यर्थं श्रुत्यपेक्षेत्यत्राह एवम्भूत इति । श्रुतेस्तात्त्विकविशेषानवबोधकत्वमुपपादयति अध्यस्येति । आनन्दत्वज्ञानाय तदपेक्षेत्यत्राह न चेति । असुखव्यावृत्तिर्ह्यानन्दत्वम्; तत् सकलेतरव्यावृत्तिसाधकयुक्तयैव सिध्यतीत्यर्थः ।
स्वपक्षे सर्वमुपपन्नमित्याह यस्यत्विति । तदेवमिति । देवादीनामधिकारनिरूपणं प्रसक्तम्; इतराधिकरणद्वयमनुप्रसक्तम् । परब्रह्मभावोत्तम्भनमिति । “ईशानो भूतभव्यस्य” इत्यवगतस्य नियमनस्य जगत्सर्वमेजतीति सर्वविषयत्वतत्कार्यकम्पनज्ञापनादुत्तम्भनम् ईशानशब्दस्य अस्वरसनिर्वाहे चिकीर्षितेऽपि तस्य विरोधीत्यर्थः ।
नन्वधिकारनिरूपकं “तदुपर्यपी"त्याद्यधिकरणत्रयं तृतीयस्य चतुर्थे पादे निवेश्यम् । सत्यम् । तथापि सङ्गत्यतिशयात् समन्वयाध्याये निवेशितम् । मनुष्याधिकारत्वप्रसङ्गेन तावत् सङ्गतिः स्थिता । कार्यभूतदेवादीनां प्रामाणिकत्वसमर्थनं ब्रह्मणः परमकारणत्वोपयोगि; कार्यकारणावस्थादित्यादिचेतनान्तर्यामिण उपास्यत्वं मधुविद्यायामुक्तम्; अपशूद्राधिकरणे च संवर्गविद्यायाः परमात्मविषयत्वं ज्ञापितम्; अतः कारणानुबन्धिनो निरूपणस्य समन्वयलक्षणसङ्गतत्वात् तत्राप्यस्मिन् पादे मनुष्याधिकारप्रस्तावाच्चाधिकरणयिं निवेशितमिति ॥ 39 ॥