25 मध्वधिकरणम्

॥ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ पूर्वाधिकरणे उपासनसामान्ये देवतासामान्यस्याधिकारोऽस्तीत्युक्तम् । अथोपासनविशेषे देवताविशेषस्याधिकारो निरूप्यत इति सङ्गतिः । इममर्थमाह - ब्रह्मविद्यायामित्यादिना । इदमधिकरणं न मधुविद्यामात्रविषयम्, अपि तु ईदृशसर्ववाक्यविषयम्; अत एव हि मध्वादिष्विति आदिशब्दप्रयोग इत्यभिप्रेत्योक्तम् । येषूपासनेष्विति - किं मधुविद्यादिषु या देवतोपास्या तासु किं तस्या अधि

कारोऽस्ति नेति विचारः । तदर्थम् “य एतदेवममृतं वेद” इति यच्छब्दः किं सङ्कोचेन वस्त्वादिव्यतिरिक्तविषयः, उतासङ्कुचितवृत्तिरिति । किं तस्या देवतायास्तद्विद्योपसंहारसामर्थ्यमस्ति, न ? इति । किं मधुविद्यायां वस्वादिदेवतामात्रमुपास्यम्, उत तदवस्थं ब्रह्म ? इति । किं वसुत्वमात्रं मधुविद्याफलम्, उत ब्रह्मप्राप्तिपर्यन्तवसुत्वमिति । यदा वसुत्वमात्रं फलं तदा वस्वादिदेवतामात्रस्योपास्यत्वेन तस्या देवतायास्तद्विद्योपसंहारसामर्थ्याभावात् यच्छब्दस्य तद्य्वतिरिक्तविषयत्वात्तत्रानधिकार इति । यदा ब्रह्मप्राप्तिपर्यन्तं वसुत्वं फलं तदा तदवस्थब्रह्मण उपास्यत्वेन तद्विद्योपसंहारसामथ्यर्ाद्यच्छब्दस्य तद्य्वतिरिक्तविषयत्वाभावात्तस्या देवतायास्तस्यां विद्यायामस्त्यधिकार इति । ननु तदवस्थब्रह्मण उपास्यतया सिद्धान्तश्चेत् प्रतर्दनविद्यान्यायेन गतार्थत्वादारम्भवैयथ्यर्म् । नैवम्; तत्र प्रतिपाद्य

विशेषस्यैव निरूपितत्वात्, नहीन्द्रस्य तस्यां विद्यायामधिकारोऽस्ति नेति निरूपितम्; अतोऽधिकारनिरूपणार्थमारम्भणीयत्वमिति । किञ्च तत्रोपक्रममात्रे जीवलिङ्गम्, अवयविनो महावाक्यस्य परमात्मलिङ्गमूयस्त्वादवयविविरोधेऽवयवमात्रस्य दुर्बलत्वाद्राद्धान्त उक्तः । इह तूपसंहारमात्रे परमात्मलिङ्गम्, न तु महावाक्यरूपेऽवयविनि; अतोऽधिकरणमारम्भणीयम् । नन्वेवं सति उपक्रमापेक्षया उपसंहारदौर्बल्याद्राद्धान्तानुपपत्तेरनारम्भणीयता स्यात् । नैवम्; उपक्रमोपसंहारयोर्मिथोविरोधेन उपक्रमावगतार्थपरित्यागे प्राप्ते हि तत्प्राबल्येन उपसंहारबाधः, इह तूपक्रमावगतार्थपरित्यागहेत्वभावान्नोपसंहारबाधः, कथं तर्हि संशयोत्थानम् ? अथिर्त्वाद्यसम्भवब्रह्मोपनिषत्त्वश्रवणाभ्यां संशयः । असम्भवादिति - आर्थित्वसामर्थ्ययोरितिशेषः । कर्मकर्तृविरोधात् सामर्थ्याभाव इत्याह - नहीति । प्राप्तफलत्वादर्थित्वाभाव इत्याह - नचेति । आदित्यवस्वादय इत्यादिशब्देन मरुद्रुद्रसाध्या विवक्षिताः, वस्वादित्यमरुद्रुद्रसाध्यगणा एकैकं प्रतिदिशमुपरि च स्थित्वा आदित्यं प्रधानमनुभवन्ति । वस्वादीनामेवोपा स्यत्वं वस्वादित्वस्यैव प्राप्यत्वं च किं श्रूयत इत्यपेक्षायां कर्मकर्तृविरोधं प्राप्तफलत्वञ्च श्रुत्यर्थोपन्यासेन विशदयति - मधुविद्यायामित्यादिना । ऋग्वेदादीति - “अग्नौ प्रास्ताऽऽहुतिस्सम्यगादित्यमुपतिष्ठते” इति वचनार्थोऽभिप्रेतः । आदित्यस्यांशानां वस्वादिभिर्भुज्यमानानामुपास्यत्वमिति । वस्वादिभिर्भोक्तृभिस्सह तद्भोग्यभूताः आदित्यांशाः उपास्या इत्यर्थः । ननु कथं कर्मकर्तृविरोधः ? स्वात्मविषयमपि ह्यनुसन्धानं सुकरम्, भूमविद्याधीतायां प्राणविद्यायाञ्च कमर्कर्तृविरोधाभावश्च भवदभिमतः, उच्यते; न तावत्स्मृतिसन्ततिमात्रमुपासनम्, घटादिस्मृतिसन्ततेरपि उपासनशब्दवाच्यत्वप्रसङ्गात्, अतः प्रकृष्टवस्तुविषयस्मृतिसन्ततिरेवोपासनम् नामाद्याशापर्यन्तोपासनेषु नामादीनामन्तवत्फलप्रदानामपि प्रकर्षवत्त्वं विवक्षितम्, वस्वादीनान्तु स्वस्मात्प्रकृष्टत्वाभावात् स्वापेक्षया प्रकृष्टविषयमुपासनं स्वस्मिन् कर्त्तुं न शक्यते । प्राणविद्यायामप्यवस्थाभेदेनोपास्यप्रकर्षस्सम्भवति, बद्धावस्थ उपासकः, निरतिशयभोग्यं मुक्तावस्थस्वरूपमुपास्यम्, तच्च बद्धादतीव प्रकृष्टम्, उभयविषयपरविद्यास्वपि स्वात्मांशे कर्मकर्तृविरोधोऽप्यवस्थाभेदेनैव प्रतिहृतः । मधुविद्यायान्तु वस्वादीनामेवोपास्यत्वम्, न तु परिशुद्धावस्थानम्, अतोऽवस्थाभेदेनापि अविरोधस्य दुर्वचत्वात्कर्मकर्तृविरोध इति । यद्वा स्वयमेवस्वाभीष्टसम्प्रदानाशक्तेन फलार्थिना पुरु षेण उपस्या देवता स्वोपासनप्रीता फलार्थिने फलं दिशति, वस्वादीनान्तु स्वोपासनजनितस्वप्रीत्या स्वस्य फलप्रदत्वमयुक्तमित्युपासनप्रीणनीयत्वाकारेण कर्मकर्तृविरोधः । यदा एकस्यैव फलप्रदत्वफलार्थित्वरूपप्रकर्षापकर्ष-रूपविरोधगर्भत्वात् कर्मकर्तृविरोध इति स्थिते सामर्थ्याभावः, अतः शक्तत्वाशक्तत्वविशेषप्रीणनीयत्वप्रीणयितृत्वफलप्रदत्वार्थित्वरूपविरोधगर्भत्वात् कर्मकर्तृविरोधः । ईदृशविरोधः प्राणविद्यायामपि स्थित एवात्र वक्ष्यमाणन्यायोपजीवनेन परिहार्य इति । प्राणविद्यायां

ब्रह्मात्मकत्वेनोपासनस्याविवक्षितत्वेऽपि वस्तुतो जीवान्तर्यामिणः परस्य प्रीतिजननद्वारा स्वर्गार्थयज्ञादेरिव फलप्रदत्वमित्येतावता वैषम्यम् । प्रकर्षापकर्षगर्भकर्मकर्तृविरोधस्य ब्रह्मात्मकतया परिहारस्तु समानः । अतः प्राणविद्याऽप्येतन्न्यायसापेक्षेति तत्र विरोधस्यापरिहृतत्वात् तन्निबन्धनस्य सामथ्यर्ाभावस्यात्र हेतुतयोपन्यासः । इत्यादिना । यथोक्तार्थः श्रूयत इत्यन्वयः ॥

ज्योतिषि भावाच्च । ततः किमित्यत्राह - देवमनुष्येति । देवा एव ज्योतिरुपासते, देवा ज्योतिरेवोपासते इति वा वाक्यभङ्गी स्यात् । तत्र न प्रथमः कल्पो युज्यते; मनुष्याणामनधिकारप्रसङ्गात् । तस्मात् ज्योतिरेवोपास्यमित्यर्थः । अन्यथा विशेषवचनवैयर्थ्यं स्यादित्यभिप्रायः ॥

॥ भावं तु बादरायणोऽस्ति हि ॥ अक्षरार्थमाह आदित्येत्यादिना । अर्थित्वसामर्थ्याभावं परिहरति अस्ति हीति । स्वावस्थब्रह्मोपासनशब्देन कर्मकर्तृविरोधः परिहृतः । वस्वादित्वस्य प्राप्तत्वात् नार्थित्वसम्भव इत्यत्राह इदानीमिति । उपासनस्य ब्रह्मपर्यन्तत्वे, फलस्य ब्रह्मप्राप्तिपर्यन्तत्वे च प्रतिपाद्ये सति हि, कर्मकर्तृविरोधाभावः प्राप्तफलत्वाभावश्च । तत् कथमित्यत्राह अत्र हीति । आदित्यादिनामतद्रूपविशिष्टजीवशरीरकं ब्रह्म कार्यावस्थम्; तदुपासनं विहितमित्याह असौ वा इत्यादिना । इदानीमादित्यादिनामरूपभाजोऽपि सृष्टेः पूर्वमादित्यादिनारूपरहितजीवमात्रस्यान्तर्यामि ब्रह्म कारणावस्थम्; तदुपासनं विधीयत इत्याह अथ तत ऊर्ध्व उदेत्येत्यादिनेति । ब्रह्मोपासनं विहितं चेत्, कथं तद्विरुद्धफलश्रवणमित्यत्राह तदेवमिति । उदाहृतवाक्ये कार्यकारणावस्थादित्यस्यैवोपासनं वस्वादित्वमात्रफलप्राप्तिश्च प्रतीयते; न त्वादित्यादिशरीरकब्रह्मोपासनं तत्प्राप्तिश्चेत्यत्राह न ह वा इति । ब्रह्मोपनिषदं वेद - ब्रह्मविद्यां वेद; ब्रह्मोपासनं करोतीत्यर्थः । ओदनपाकं पचतीतिवत् । अत एवमिति । अब्रह्मोपासनपरत्वेन यैर्व्याख्यातम्, तन्मतादस्य प्रामाणिकत्वं दर्शयति तदाह वृत्तिकार इति ।

परेऽन्ये च मध्वादिष्वसंभवादित्यादिसूत्रत्रयं तदुपर्यपीत्यादिभिः सूत्रैरेकाधिकरणं मन्वाना एवं व्याचक्षते- ब्रह्मव्यतिरिक्तविषयेषु मध्वादिविद्याविशेषेषु अर्थित्वाद्यसंभवात् सर्वासु विद्यास्वनधिकारं जैमिनिर्मन्यते । कथं क्वचिदनधिकारादन्यत्राप्यनधिकारः । न हि राजसूयानधिकारिणो ब्राह्मणस्य बृहस्पतिसवानधिकार इति शङ्कायाम्, आदि

त्यादिज्योतिषि मण्डलाद्याकारत्वात् अचेतनेऽपि सवित्रादिशब्दप्रयोगसद्भावात् अग्न्यादीनां चाचेतनत्वात् मन्त्रार्थवादयोरन्यपरत्वेन विग्रहादिमत्त्वाभावेन च अर्थित्वसामर्थ्याभावान्नाधिकारः इति सूत्रद्वयं व्याख्याय, भावंत्विति तृतीयसूत्रेण मन्त्रार्थवादयोरपि प्रतीयमानार्थे प्रामाण्योपपादनमुखेन अर्थित्वादिसद्भावात् विद्याधिकारोऽस्तीत्युज्यत इति ।

तदयुक्तम्; वृत्तिकारानभिमतत्वात्, अध्याहारसापेक्षत्वात्, अपेक्षितार्थापरीक्षणायोगात्, कृतकरत्वप्रसङ्गात्, अधिकरणान्तरवैरूप्याच्च । तत्र वृत्तिकारानभिमतिर्भाष्ये कण्ठोक्तया दर्शिता । तत्र हेतुरितरहेतुजातम् । असंभवान्मध्वादिष्वनधिकारं मन्यत इति अनध्याहारेण योजनासंभवेऽपि मध्वादिष्वसंभवात् कुत्रानधिकार इत्यपेक्षायां सर्वासु विद्यास्वप्यनधिकार इत्यध्याहारेण योजनाऽनुपपन्ना । “सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद” इति ब्रह्मविद्यात्वं तदनुगुणफलं चावगम्यते; वस्वादीनामुपास्यत्वं च प्रतीयते; कथमिदं घटते इति व्युत्पन्नशब्दस्य संशयो भवति । तस्मादियम् अब्रह्मविद्या वा ब्रह्मविद्या वेति निरूपणमपेक्षितम् । तस्यानिरूपितत्वात् बुभुत्सितापरीक्षणं स्यात् । तदुपर्यपीति सूत्रेणैव मन्त्रार्थवादयोर्विग्रहादावप्रामाण्यस्य परिहृतत्वेन ज्योतिषीत्यादिसूत्रद्वयस्यान्यपरत्वशङ्कापरिहारपरत्वेन व्याख्यानस्य कृतकरत्वं च स्यात् । संभवादित्युक्तस्यार्थित्वादिसंभवरूपस्य हेतोरसंभवव्युदासाधीनात्मलाभत्वादाद्यसूत्रेण परिहृतत्वमवगम्यते । अनन्तरमेव युगपदनेकत्र संनिधिविरोधादिपरिहारश्च विग्रहादिसिद्धिनिबन्धनत्वादन्यपरत्वस्य परिहृतत्वमवगमयति । यद्याद्यसूत्रेणासम्भवशङ्कापरिहारौ न विवक्षितौ, तर्हि तच्छङ्कापरिहारपरेण ज्योतिषीत्यादिसूत्रद्वयेनाद्यसूत्रानन्तरेण भवितव्यम् । स्वपक्षसाधकोपन्यासानन्तरमेव तद्दौःस्थ्यशङ्कापरिहारस्याधिकरणान्तरेष्वपि दृश्यमानत्वात् । यथा “ईक्षतेर्नाशब्दम्”, “गौणश्चेन्नात्मशब्दात्”, यथा “ज्योतिश्चरणाभिधानात्”, “छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगमात्” इति, “आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च”, “सूक्ष्मं तु तदर्हत्वात्” इति च । ततो भिन्नाधिकरणत्वं युक्तम् । अधिकरणभेदमभ्युपगम्य वसुसमुदायस्योपास्यत्वम् एकैकवसोरुपासकत्वम्, रुद्रादिष्वप्येवं समुदायप्रत्येकभेदादुपास्योपासकभावः; उपास्यत्वं च वस्वादिभोग्यादित्यांशमात्रस्य, न तु ब्रह्मणः; फलं च वस्वादित्वमात्रमिति कैश्चिदुक्तम् । तत् अपवर्गरूपफलब्रह्मोपनिषत्त्वश्रवणविरुद्धत्वात् वृत्तिकारस्यानभिमतमित्यनादरणीयम् । नतु “तदुपर्यपि”, “मध्वादिष्वसंभवात्” इत्यधिकरणद्वयेन किं प्रयोजनम् ? देवानां देवताविशेषाणां च अर्थित्वसामर्थ्यसंभवनिर्णयान्न मनुष्याणां प्रयोजनम्, तेन विनाऽप्यमीषामुपासनोपपत्तेः । न च देवानां किमपि प्रयोजनम्, तेषां स्वकीयपटुतरदेहादिमत्त्वे अर्थित्वसद्भावे चाधिकरणन्यायनिरपेक्षनिणर्यकत्वादिति । उच्यते- परं ब्रह्म सामान्येन देवानामप्युपास्यं फलप्रदञ्च; देवताविशेषाणामप्युपासनविशेषैरुपास्यं फलविशेषप्रदञ्चेत्येवंविधैश्वर्यविशिष्टत्वेन मनुष्यैरुपासकैर्ब्रह्मणोऽनुसन्धेयत्वात् तथानुसन्धानमेव प्रयोजनमिति ।