24 देवताधिकरणम्

॥ तदुपर्यपि बादरायणस्सम्भवात् ॥ प्रसङ्गात्सङ्गतिमाह - परस्येति । मनुष्याधिकारत्वादित्यत्र मनुष्यशब्देन तिर्यङ्यात्रं व्यावर्तितम्, उत देवादिरपीति बुभुत्सया सङ्गतिरित्यर्थः । किं ब्रह्मविद्यायां देवादीनामधिकारोऽस्ति, नेति विचारः । तदर्थं किं तेषां साङ्गब्रह्मविद्योपसंहारसामर्थ्यमस्ति, नेति । तदर्थं किं तेषां विग्रहवत्त्वं सम्भवति, नेति । किं तद्विग्रहप्रतिपादकमन्त्रार्थवादानां तत्परत्वं सम्भवति, नेति । किं मन्त्रार्थवादानाम् अनुष्ठेयार्थप्रकाशनस्तुतिपरत्वं विग्रहादिविवक्षाविरोधि, उत नेति । किं विग्रहादिमत्त्वमनुष्ठेयार्थप्रकाशनस्तुत्योरुभयोगि, नेति । यदाऽनुपयोगि तदाऽनुष्ठेयार्थप्रकाशनस्तुतिपरत्वस्य विग्रहादिविवक्षाविरोधितया मन्त्रार्थवादानां देवताविग्रहादिपरत्वाभावेन देवानां विग्रहविरहेण सामर्थ्याभावात्तदनधिकार इति फलितम् । यदोपयोगि तदाऽनुष्ठेयप्रकाशनस्तुतिपरत्वस्य विग्रहादिविवक्षानुगुणतया मन्त्रार्थवादानं तत्परत्वेन देवानां विग्रहवत्तया साङ्गब्रह्मविदयोपसंहारसामर्थ्यादस्ति ब्रह्मविद्याधिकार इति फलितम् । सामर्थ्याभावादिति - अर्थित्वाभावस्याप्युपलक्षणमेतत् । सामर्थ्याभावमुपपादयति - नहीति । उपसंहारः- अनुष्ठानम् । अशरीरत्वं कथमित्यत्राह - न चेति । वेदान्ताः प्रमाणं स्युरित्यत्राह - यद्यपीति । प्रयोजनपयर्वसायितयैव हिशब्दस्य प्रामाण्यम्, तत्र पूर्वभागवचसां प्रवृत्तिनिवृत्तिरूपप्रयोजनपर्यवसानात् तत्र तात्पर्यम्, ब्रह्मणः पुरुषार्थरूपतया तत्र वेदान्तानां तात्पर्यम्, देवादीनां विग्रहेषु तथात्वाभावान्न तात्पर्यमित्यर्थः । पूर्वभागे मन्त्रार्थबादास्तत्र प्रमाणमित्यत्राह - मन्त्रार्थवादास्त्विति । मन्त्राश्चार्थवादाश्चेत्यर्थः । अन्यपरत्वादिति । अनुष्ठेयार्थप्रकाशनस्तुत्योरन्यपरत्वादित्यर्थः । मा सैत्सीदन्यपरेण मन्त्रार्थवादेन देवताविग्रहादि, किन्तु कर्मविधिभिस्त्वेव सेत्स्यति, कर्मणो द्रव्यदेवतानिरूप्यत्वात् क्षणध्वंसिनः कमर्णः कालान्तरभाविफलसाधनत्वनिर्वाहाय देवतैश्वर्यस्यापेक्षितत्वात् श्रुतहानेनाश्रुतापूर्वकल्पनायोगाच्चेत्यत आह - कमर्विधयश्चेति । अयमभिप्रायः- यद्यपि देवतावत्सु यागहोमादिकर्मसु देवतैश्वर्याङ्गीकारेणापि फलप्रदत्वनिर्वाहसम्भवः, तथापि दानतपःप्रभृतिषु देवतानामभावात् कल्पनीयमेवापूर्वम्, तथा च समानन्यायतया यागहोमादावप्यपूर्वमेव कल्प्यताम्, किमर्थवैशसेन । किञ्च

तत्रैव कल्पे सर्वकर्मफलभोगनियमाभावाद्देवानां सृष्टिप्रलयाभ्युपगमाच्च फलप्रदातुरभावात् केषाचत्कर्मणां नैष्फल्यमेव स्यात् । अथ तत्तद्देवताशरीरकः परमात्मा तत्तर्त्माभिराराधितो नित्यैश्वर्यतया फलप्रद इति मतम्, तथा सति प्रतिमाप्रतिमेयन्यायः स्यात् यथा प्रतिमोद्देशिभिरुपचारैर्देवताप्रीतिः, एवं देवतोद्देशिभिर्द्रव्यत्यागैः परमात्मप्रीतिः स्यात्, ततश्च प्रतिमाया इव देवताया अप्युद्देश्यकारकत्वमात्रं विवक्षितम्, नैश्वर्यमपीत्यनपेक्षितं देवतैश्वर्यं न कल्प्यमिति । उक्तोपजवनेनार्थित्वाभावमाह - अत एवेति । यत एव न विग्रहवत्त्वं देवगतम् अत एवार्थित्वमपि न सम्भवति, दुःखस्य तज्जिहासायाश्च देहसम्बन्धमूलत्वादर्थित्वस्य दुःखजिहासारूपत्वाच्चेत्यर्थः । एवं प्राप्त इति - अक्षरार्थमाह - तदुपर्यपीति । आर्थित्वमुपपादयति - अर्थित्वमिति । सामथ्यर्मुपपादयति - सामर्थ्यमपीति । पटुतरशब्दो मनुष्यादिदेहादपि पटुत्वातिशयपरः । प्रमाणाकाङ्क्षायामाह - देहेति । तत्त्वोपदेशप्रधानमन्त्रब्राह्मणरूपवेदभागा उपनिषदः, ताश्च द्विविधाः तत्त्वपरा उपासनपराश्चेति । उभयीष्वपि तासु देवतानां विग्रहादिमत्त्वमवगम्यत इत्यर्थः । कानि तत्त्वप्रतिपादकवचांसि कथं तैर्विग्रहवत्त्वप्रतिपादनमित्यत्राह - तथाहीति । सदेवेत्यादि - नामरूपव्याकरणस्य कण्ठोक्त्या नामरूपाणां चातुर्विध्यस्य प्रमाणसिद्धत्वान्नामरूपव्याकरणश्रुत्यैव देवताविग्रहवत्त्वं सामान्येन सिध्यतीत्यर्थः । “इन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः” “नारायणाद्ब्रह्मा जायते” इत्यादीनि विशेषोक्तिमन्ति च वाक्यान्यभिप्रेतानि । तचुर्विधसृष्टिराम्नाता भवतु, ततः किमित्यत्राह - देवादीति । उपासनदशायां परमकारणभूतस्य उपास्यस्य लक्षणत्वेन, प्राप्यदशायां प्राप्यविशेणत्वेन विग्रहादिमत्त्वं विद्धमित्यर्थः । उपासनप्रकरणेषु दर्शयति -

तथेति । कर्मविधिशेषत्वेनापि सिध्यतीत्याह - कर्मविधीत्यादिना । तत्र प्रथमसूत्रे सिद्धवस्तुनि तात्पर्यसम्भवस्य फलत्वेन सिद्धिरुक्ता, अत्र स्तावकत्वप्रकाशकत्वहेतुतया, “फलमत उपपत्तेः” इत्यत्र फलसाधनत्वेनेति त्रिधा विभागः । “आदित्यो यूपः” इत्यादिव्यावृत्त्यर्थमाह - प्रमाणान्तराविरुद्धमिति ।

अन्यपरत्वमनूद्य व्युदस्यति - न चेत्यादिना । स्तुत्याद्युपयोगित्वादिति - आदिशब्देन अनुष्ठेयार्थप्रकाशनं मन्त्रकृत्यं गृह्यते । मन्त्रार्थवादेष्वित्युद्देशे अनुष्ठेयार्थप्रकाशनस्तुतिपरत्वाभ्यामित्यनूद्देशे चावगतक्रमोऽत्र परित्यक्तः, तत्र कारणं मन्त्रैरपि क्वचित् स्तुतिदर्शनेन स्तुतेर्व्यापकत्वम् दृश्यते हि मन्त्रैः स्तुतिः “नकिरिन्द्र त्वदुत्तरो न ज्यायोऽस्ति वृत्रहन्” तथा “अर्हन् बिभर्षि सायकानि धन्वन्नर्हन् निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमव्भुवं न वा ओजीयो रुद्र त्वदस्ति” इत्यादिभिः । अर्हन् बिभर्षीत्यादिमन्त्रस्य स्तुतिपरत्वं ब्राह्मणेनैवावगम्यते “अर्हन् बिभर्षि सायकानि धन्वेत्याह स्तौत्ये वैनमेतत्” इति । तेन विना -प्रतीयमानार्थेन विना । तत्र स्तुत्यनुपपत्तिं विवृणोति - गुणकथनेनेति । व्यतिरेकेणोपपादयति - गुणानामिति । स्तुतित्वमेव हीयेतेति - प्ररोचकत्वमेव हीयेतेत्यर्थः । शेषभूतस्य शेषिणं प्रति किञ्चित्कारोऽपेक्षितः, स न सिध्यतीति यावत् । ननु यदि गुणकथनेन स्तुतित्वम् तथा सति गुणकथनाभावे स्तुतित्वहानिः स्यात्, न गुणानामसद्भाव इत्यत्राह - न चासतेति । अनेन भासता स्तुतिरुपपद्यते" इति द्रमिडभाष्यं स्मार्यते । अर्थप्रकाशनानुपपत्तिं विवृण्वन् मन्त्राणां विग्रहादिमत्त्वे प्रामाण्यमुपपादयति - मन्त्राश्चेत्यादिना । द्रव्यदेवते हि कर्मनिरूपिके, एतद्दैवत्यमिदं कर्मेति प्रतिपत्तौ देवताविशिष्टत्वेन हि कर्मप्रतिपत्तिः । “यस्यै देवतायै हविर्गृहीतं स्यात् तां ध्यायेद्वषट्करिष्यन्” इति देवता ध्यातव्येति श्रूयते, देवता चेदृशीत्येव प्रतिपत्तव्या निर्विशेषवस्तुनः प्रतिपत्तुमशक्यत्वात्, इन्द्रत्वादिकञ्च न शुद्धात्मस्वरूपस्य विद्यते, अतो विग्रहादौ विवक्षितत्वम् । प्रतीतेरालम्बनमात्रमपेक्षितम्, नार्थसद्भाव इति चेन्न; न ह्यस्मिंस्तद्दृष्टिः फलाय विधीयते, अपि तु यथावस्थितकर्मस्वरूपबोधनं हि क्रियते, तस्मादनुष्ठेयार्थप्रकाशकत्वसिद्धयर्थं मन्त्राणां विग्रहादिमत्त्वे च प्रामाण्यमस्त्येवेत्यर्थः । अर्थसद्भावाभावेऽपि प्ररोचना दृश्यत इति चेन्न; इष्टसाधनत्वाभावेऽपि बालातुरादिषु । विप्रलम्भवाक्यानां प्रवृत्तिहेतुत्वं दृश्यत इति विधिवाक्यस्याप्ययथार्थत्वप्रसङ्गात् । अपौरुषेयतया निर्दोषं विधिवाक्यं

निरूपकविषयमिति याथार्थ्यमिति चेत्तर्हि मन्त्रार्थवादानामप्यपौरुषेयतया निरूपकविषयत्वादतस्मिंस्तद्दृष्टिविधानपरत्वाभावाच्च स्वार्थे प्रामाण्यमस्तीति भावः । एवमर्थशिक्षाप्रदर्शनेन प्रयोगप्रकारोऽर्थसिद्धः, विमता इन्द्रादिशब्दाः स्वरूपातिरिक्तपदार्थप्रतीतिहेतवः, अपारिभाषिकत्वे सति बोधकत्वात् निर्दोषवाक्यस्थत्वात् विधिपदवत् । विमता चतुर्थी प्रकृत्यतिरिक्तार्थनिष्ठस्वार्था, अपारिभाषिकशब्दस्थविभक्तित्वात् “दध्नेति” विमक्तिवत् । विमता सम्प्रदानकारकबुद्धिः शब्दातिरिक्तविषया, कारकबुद्धित्वात्

करणकारकबुद्धिवत् । विमता मन्त्रार्थवादाः प्रतीयमानार्थे प्रमाणानि, साधकबाधकागोचरार्थबोधकत्वात् विधिवाक्यवत् । विमतशब्देन “आपो वै शान्ताः” “आदित्यो यूपः” इत्यादिव्यावृत्तिः । विमतानि पदानि मुख्यार्थसंसर्गे प्रमाणानि, साधकबाधकागोचरार्थप्रतिपादकवाक्यस्थत्वात् विधिपदवत् । विमतानि पदानि परमार्थभूतपतीयमानार्थसंसर्गाणि, साधकबाधकागोचरार्थप्रतिपादकवाक्यस्थत्वात् विधिपदवत् । न चार्थवादानां वाक्यत्वमसिद्धम्, प्रवर्त्तकार्थानवबोधनात्, अतः पदशब्दवाच्या अर्थवादा इति वाच्यम्; अर्थवादाः न पदशब्दवाच्याः, तिङ्कारकपदसङ्घातरूपत्वात् विधिवाक्यवत् । अर्थवादाः प्रमाणभूतवाक्यरूपाः, साधकबाधकगोचरसंसर्गप्रत्यायकतिङन्तकारकपदात्मकत्वात् विधिवाक्यवत् । विमता मन्त्रार्थवादाः प्रतीयमानार्थविवक्षान्विताः, साधकबाधकगोचरार्थत्वे सति विधिनैकवाक्यत्वात् प्रयाजादिवाक्यवत् । न च प्रवर्त्तकवाक्यत्वमुपाधिरिति वाच्यम्; साधिकारविधिवाक्यत्वेन तस्यापि सोपाधिकत्वप्रसङ्गात् । प्रयोजादिविधीनामविवक्षितार्थत्वेऽनुष्ठानविरोधात्साधिकारविधिवाक्यत्वं न विवक्षितार्थत्वे प्रयोजकमिति चेत्; अनुष्ठानस्य प्रामाणिकतया वि तद्भङ्गस्यानिष्टता, एवमपवादाभावे सति स्वतस्सिध्यतः प्रमाणभावस्य भङ्गप्रसङ्गात् प्रवर्त्तकवाक्यत्वमप्रयोजकम्; तस्मान्निरुपाधिको हेतुः । विगीता अर्थवादाः परमार्थस्वार्थोपस्थापकाः, निरूपकपुरुषप्ररोचकत्वात्, रसायनायुष्यताप्रतिपादकवाक्यवत् । कारणदोषबाधकप्रत्ययविरहितत्वाद्वा, स्वर्गयागयोः साध्यसाधनभावप्रतिपादकवाक्यवत् । विमता मन्त्रार्थवादाः प्रतीयमानार्थे प्रमाणानि, विध्यपेक्षितार्थसमर्पकत्वात् “छागस्य वपायाः” इति मन्त्रवत्, रात्रिसत्रार्थवादवच्च । विमता प्राशस्त्यबुद्धिः प्राशस्त्यहेतुभूतार्थपारमार्थ्यनिबन्धना, निरूपकपुरुषाश्रयप्राशस्त्यबुद्धित्वात् औषधविषयप्राशस्त्यबुद्धिवदिति च । “आपो वै शान्ताः” “आदित्यो यूपः” इत्यादिषु प्रमाणान्तरसिद्धस्य तद्विरुद्धार्थस्य चाप्युच्यमानत्वान्न सर्वत्र प्रामाण्यमिति शङ्कायामाह - तत्र प्रमाणा

न्तरेति । बोधयित्वा- विधाय । प्ररोचयन्ति- अर्थवादाः प्ररोचयन्ति, मन्त्राः प्रकाशयन्ति । लक्षयित्वा कुर्वन्तीति - प्ररोचनप्रकाशेन कुर्वन्तीत्यर्थः । ननु विध्यपेक्षितार्थे हि तात्पर्यम् देवताविग्रहादेर्विध्यपेक्षितत्वं कथमित्यत्राह - कर्मविधेश्चेति । “फलमत उपपत्तेः” इत्यधिकरणार्थो बुद्धिसौकर्यार्थमत्र सङ्गमय कथ्यते, न चैतदधिकरणासाधारणार्थतया । असाधारणस्तु स्तावकत्वानुष्ठेयप्रकाशकत्वसिध्यर्थं प्रतीयमानार्थे प्रामाण्यमस्तीत्ययमेवार्थः, स च पूर्वमेवोक्तः । कृष्यादेरङ्कुरादिद्वारकत्वमिवाचेतनद्वारकत्वं कर्मणः स्यादित्यत्राह - वायुर्वा इति । श्रुतहानमश्रुतकल्पनञ्चानुपपन्नम्, रात्रिसत्रादिष्विवेति भावः । वाक्यार्थे सम्वीयत इति - आर्थवादिकार्थानां श्रूयमाणत्वत् तद्विशिष्टे वाक्यतात्पर्यमिति निश्चिते सति रक्तः पटो भवतीतिवदुत्थापिताकाङ्क्षत्वेन विधिनैकवाक्यतयान्वयोऽर्थवादानामिति भावः । यत्र

वाक्यशेषवशादपेक्षितदेवताप्रीतिद्वारकत्वं न सिध्यति, तत्रापि यजिसामर्थ्यात्तत्सिध्यति । अर्थवादाभावेऽपि विधिसामर्थ्यात् स्तुतिरेवेत्याह - देवपूजाभिधायिन इति । न च “यजि देवपूजासङ्गतिकरणदानेषु” इति शाब्दिकानां स्मरणं भ्रान्तिमूलमिति वाच्यम्; विध्यपेक्षितार्थसमपर्कतया स्वार्थे प्रमाणभूतत्वान्मन्त्रार्थवादानाम् अस्य स्मरणस्य तन्मूलत्वोपपत्तः । विमतो विधिप्रत्ययः चेतनप्रीत्यतिरिक्तफलसाधनकल्पननिराकाङ्क्षः चेतनप्रीत्यतिरिक्तफलसाधनवाचकत्वकल्पननिराकाङ्क्षश्च, कृतिसाध्यचेतनप्रीत्यवगमकवाक्यस्थावत्, राजानं सेवेतेतिवाक्यस्थविधिप्रत्ययवत् । विमतशब्देन जुहुयादित्यादिव्यावृत्तिः, जुहुयादित्यादिषु विधिप्रत्ययेषु

विधिप्रत्ययत्वलिङ्गेन पूर्वोक्तसाध्यद्वयं समर्थनीयम् । तदेवमिति - कृत्स्नशब्देन मन्त्रार्थवादविधयो विवक्षिताः । वाच्यापूर्ववादपक्षे अश्रुतकल्पनं नास्तीति चेन्न; वाच्यत्वस्यापि कल्प्यमानत्वात् । कल्प्यापूर्ववादे अपूर्वमेव कल्प्यम्, वाच्यपक्षे वाच्यत्वमपि कल्प्यमित्यभिप्रायेण व्युत्पत्तिसमयानवगतमित्युक्तम् । तथेत्यादि - ब्राह्मणशब्देन विध्युद्देशग्रहणम् । विध्यर्थवादमन्त्ररूपेण विभागवतामस्मदादिभिरनधीतासु अधीतासु च शाखासु तत्राप्यन्यतरप्रकरणेषु प्रसङ्गादनुप्रविष्टानां भगवता व्यासेन व्यस्तेप्वव्यस्तेषु च वेदभागेषु विप्रकीर्णानां वाक्यानामर्थाः इतिहासादिषु सङ्कलय्य कथ्यन्त इति भावः । सङ्कीर्णशब्देन नित्यानुमेयश्रुतिमूलत्वोत्सन्नशाखामूलत्वव्युदासः, तदुभयमपि ह्यनुपपन्नम्; तत्र यस्तावन्नित्यानुमेयतयाऽभिमतो वर्णसमुदायः स किं वर्णमात्रसङ्घातः, उतानुपूर्वीविशेषविशिष्टः ? प्रथमे कचटतपादिवदर्थावबोधकत्वाभावेन वाक्यत्वाभावाद्वाक्यविशेषत्वस्वरूपवेदत्वासिद्धेः स्मृतीनां वेदमूलत्वं न स्यात् । द्वितीये नित्यानुमेयत्वं व्याहतम्, स्वतः क्रमरहितानां वर्णानामुच्चारणेन विना आनुपूर्वीविशेषविशिष्टत्वायोगात् । उच्चारणयोग्यताऽस्तीति चेन्न;

उच्चारणयोग्यता नाम पटुतरवागिन्द्रियपुरुषबुद्धिस्थितिः, सा च योग्यता किं वणर्मात्रगता; उत आनुपूर्वीविशेषविशिष्टवर्णगता ? न प्रथमः, वर्णमात्रस्यार्थानवबोधकतया स्मृतेर्निर्मूलत्वप्रसङ्गात् । सत्यामानुपूर्व्यां स्मृतिप्रतिपन्नार्थावबोधनक्षमत्वं वर्णेष्वस्तीति चेत् तेष्वेव वर्णेष्वानुपूर्व्यन्तरे सति चैत्यवन्दनकर्त्तव्यताद्यर्थबोधनक्षमत्वमप्यस्तीति बुद्धस्मृतेरपि वेदमूलत्वप्रसङ्गः । वेदबाह्यतया सम्प्रतिपन्नत्वान्न तस्याः वेदमूलत्वानुमानशङ्कोदय इति चेत्, मेघसन्देशस्य वेदमूलत्वप्रसङ्गः, प्रवर्त्तकार्थपरत्वाभावान्न वेदमूलत्वानुमानमिति चेत् “कार्या सैकतलीनहंसमिथुनस्रोतोवहा मालिनी " इति वाक्यस्य वेदमूलत्वप्रसङ्गः । आनुपूर्विविशेषविशिष्टवर्णगता योग्यतेत्यप्ययुक्तम्, पूर्वं केनचिदुच्चारितत्वाभावादानुपूर्व्यसिद्धेः, ततश्चानाद्यानुपूर्वीविशिष्टतारूपवेदत्वं दूरोत्सारितम् । आनुपूर्वीविशेषेणोच्चारणयोग्यत्वं वर्णानामनादीति चेत्, तच्चैत्यवन्दनप्रतिपादनानुगुणानुपूर्व्या अपि तुल्यम्, अतस्तत्रापि वेदमूलत्वं स्यात् कर्तृसामान्याभावान्न तत्र वेदमूलत्वानुमानम्, श्रुतिस्मृत्यर्थयोस्तुल्यतया कर्तृसामान्यात् स्मृतेर्वेदमूलत्वानुमानमिति चेत् माभूत्कर्तृसामान्यम्, तेन मन्वादिस्मृतीनां वेदमूलत्वेऽनुमिते तुल्यन्यायतया आपतितं वेदमूलत्वं को वारयेत् ? स्वावगतार्थप्रतिपादनानुगुणानुपूर्वीविशेषेणानादिसम्बन्धयोग्यवर्णास्तित्वज्ञानं हि सर्वत्र समानम् तज्ज्ञाननियमो बुद्धादीनां ग्रन्थनिर्माणदशायां नास्तीति चेत्,

न तज्ज्ञानपूर्वकमेवेदानीं रथ्यातृणानि गणयेत् स्वर्गकाम इत्युक्तस्य वाक्यस्य वेदमूलत्वप्रसङ्गः । ननु अनेनैव स्मृत्यवगतार्थविशेषेणावच्छिन्नानुपूर्वीविशिष्टवर्णसमुदायात्मकतया वेदत्वप्रसङ्गेन अनुमेयान्तराभावान्नित्यानुमेयश्रुतिमूलत्वासिद्धेः, अतो नित्यानुमेयश्रुतिमूलत्वमनुपपन्नम् । उत्सन्नशाकामूलत्वपक्षेऽपि अधीयमानशाखास्वेव प्रगादात्कतिपयवाक्यानां क्वचित् क्वचिद्देशे प्रलीनत्वात्तन्मूलस्मृतयः प्रणीता इत्यप्ययुक्तम्, पदवाक्यसङ्खयानियमेन बहुभिरध्येतृभिरस्खलितमधीयमानत्वात् कतिपयवाक्यानां प्रलीनत्वानुपपत्तेः । स्मृतीनां मूलभूतशाखाकार्त्स्न्ेन काचिदुत्सन्ना, तन्मूलाः स्मृतयः इत्यप्ययुक्तम् तथाहि; शाखाया उत्सादो नाम किं कतिपयदेशेष्विदानीमध्येतृविरहः ? उत सर्वदेशेष्वप्यध्येतृविरहः ? प्रथमः कल्पोऽभ्युपगतः । न द्वितीयः, तपः प्रभावाधिगतसार्वज्ञ्यानां व्यासादीनां तत्तच्छाखाविशेषाभिज्ञानां तदध्ययनपरित्यागे कारणाभावात्स्वशिष्याध्यापनसम्भवाच्च । न चेदानीन्तनशिष्यबुद्धिमान्द्यादिदानीं तदध्यापनासम्भवः, बहुशास्वाध्ययनासामर्थ्येष्यस्मदादेरिव तत्तदेकशाखाध्ययनसमर्थशिष्यसम्भवात्, अतः प्राचीन एव पक्षः परिशिष्यते; अतः स्मृतीनां सङ्कीर्णवेदभागमूलत्वमेव युक्तम् । स्मृतिमूलभूतवेदभागसद्भावे स्मृतिप्रणयनवैयर्थ्यमिति चेन्न, तच्छास्वाध्येतृपुरुषविरहितदेशेषु तद्युक्तदेशेष्वपि बहुशास्वाध्ययनधारणतदर्थनिरूपणनिर्णयासमर्थपुरुषेषु च सफलत्वात्, अतः स्मृतीनां सङ्कीर्णवेदभागमूलत्वं युक्तम् । कर्मविधेश्चेत्यादौ भाष्ये इदमर्थसिद्धम्, यदुक्तं

यागादौ दानादौ च अर्थवैरूप्याश्रयणादर्थवैशसमिति । तदसत्; सर्वत्राप्यपूर्वकल्पनानभ्युपगमात् । न च फलसाधनतानुपपत्तिः, कर्मोपजनितप्रीतेः परमात्मन एव तत्सिद्धेः, “वासो ददाति सर्वदैवत्यं वै वासः सर्वा एव देवताः प्रीणाति” इत्यादिभिर्दानादीनामपि देवताप्रीतिहेतुत्वावगमाच्च । न च परमात्मप्रीत्या फलसम्भवे देवतैश्वर्यानुपयोगः,प्रधानावान्तरापूर्वकल्पनान्यायस्यात्रापीष्टत्वात् यथाहि पूर्वापरभूतानामङ्गप्रधानरूपाणामनेकेषां कर्मणां यौगपद्याभावादवान्तरापूर्वद्वारा परमा निष्पत्तिरङ्गीक्रियते, एवमेव तत्तत्कर्मजनितप्रीत्यतिशयाभिर्देवताभिः परमात्मन्यखण्डैकप्रीतिजननमातिष्ठामहे । इदमेव च देवतायाः फलदानानुगुणमैश्वर्यम्, यत्फलप्रदे परमात्मनि स्वप्रीतिद्वारा प्रीतिजननम्, उक्तं हि भगवता “यो यो यां यां तनुं भक्तः श्रद्धयाऽर्चितुमिच्छति” इत्यारभ्य “लभते च ततः कामान् मयैव विहितान् हि तान्” इति । तेन फलोपभोगस्यानियतकालत्वेऽपि न दोषः । न चैवं सति प्रतिमाप्रतिमेयन्यायेन देवताप्रीतिरनास्थेया । “यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन् “साक्षादेव देवताः प्रीणाति “तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति” “त एनं तृप्ता आयुषा तेजसा वर्चसा श्रिया यशसा ब्रह्मवर्चसेन अन्नाद्येन च तपर्यन्ति” “ये चैव देवास्सायं यावानो ये च प्रातर्यावाणस्तानेवोभयांस्तपयति त

एनं तृप्ताः प्रजया पशुभिस्तर्पयेयुः” इति देवतातृप्तेः श्रुतत्वात्तत्पहाणानुपपत्तेः, “पितरि प्रीतिमापन्ने सर्वास्तुष्यन्ति देवताः” इति न्यायात् भृत्यप्रीणनेन भूभृत्प्रीणन्यायाच्च देवताप्रीतेः परमात्मप्रीतिहेतुत्वोपपत्तेश्चेति । सूत्रार्थमुपसंहरति - अत इति । ननु कथं देवतानां ब्रह्मविद्याधिकारः ? न ह्यत्रैवर्णिकानां तेषामुपनयनाभावेनाध्ययनसिद्धस्वाध्यायलब्धविद्यत्वम्, न च तेषां विद्याङ्गभूतकमर्ानुष्ठानयोग्यत्वम्, अग्निनिष्पत्त्यनुपपत्तेः । “वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्य आदधीत शरदि वैश्य आदधीत” इति त्रैवर्णिकविषयाधानविधिः कथं देवानधिकरोति ? अत्र्यार्षेयस्य चानधिकारोऽधिकरणसिद्धः, देवानां देवर्षीणाञ्च मूलभूतऋप्यन्तराभावादत्र्यार्षेयतया चानधिकारः । अग्नीन्द्रादीनामग्नीन्द्रादिदेवताभावादग्न्याद्युद्देशेन हविःप्रक्षेपानुपपत्तिश्चेति । उच्यते; न तावदुपनयनाभावात्साङ्गविद्यानधिकारः, तस्याध्ययनाङ्गत्वात् यज्ञादिकर्मब्रह्मोपासनयोरङ्गत्वाभावात् अध्ययनाभावेऽपि हि पूर्वजातिं स्मरन्ति, किं पुनर्देवा देवर्षयश्च । न चोपनयनविरहाच्छूद्रादिवद्विद्याकर्मणोरनधिकारः, शूद्रादिनामप्युपनयनविरहप्रयुक्तत्वाभावादनधिकारस्य, स खलु तेषां सामर्थ्याभावानुगृहीतशास्त्रनिषेधप्रयुक्तः । देवानां हि विद्याकर्मणी

न क्वचित्प्रतिषिद्धे प्राक्तनज्ञानाप्रमोषात्सामर्थ्यं च स्थितम् न चात्रैवर्णिकत्वादग्न्याधानाभावादत्र्यार्षयतया च विद्याङ्गकर्मानधिकारः, मनुष्यकर्तृकाधानस्यैव त्रैवर्णिकत्र्याषर्ेयाधिकारित्वनियमात् । किमत्र नियामकमिति चेत् “देवा वै सत्रमासत” “विश्वसृजः प्रथमास्सत्रमासत” इत्यादिश्रुतिभिर्देवादीनां क्रत्वनुष्ठानत्वदर्शनात्, विशेषत इन्द्रादीनां वृत्रवधादिजनितकल्मषक्षालनाय क्रत्वनुष्ठानसम्रणाच्चेति ब्रूमः । यद्वा ब्राह्मण्यादिकं देवतादीनामप्यस्ति, तत्खल्वदृष्टविशेषसम्बन्धरूपम्, न तु जातिरूपं ब्राह्मणादिभिर्ब्राह्मण्यादिषूत्पत्तिमात्रं वा, अन्यथा आदिकाले ब्रह्मणो मुखबाहूरुप्रभवानां पश्चाद्विश्वामित्रप्रभृतीनाञ्च ब्राह्मण्याद्यभावप्रसङ्गात् । सन्तानविशेषप्रसूतत्वञ्च तादृगदृष्टवत्त्वसूचकम्, सन्तानविशेषोत्पत्तेः प्रकृष्टादृष्टकार्यत्वात् अलौकिकप्रकर्षविशेषकारणत्वाच्च । ईदृशं ब्राह्मण्यादिकं देवतास्वपि सम्भवति, अवगम्यते च तत् वाजपेयं प्रकृत्य “तं बृहस्पतिरुदजयत्तेनायजत तेनेन्द्रमयाजयत्” इति बृहस्पतिना इन्द्रेण च वाजपेयस्यानुष्ठितत्वमुक्तवा तत एव हेतोः “स वा एष ब्राह्मण्यस्य चैव राजन्यस्य च यज्ञः” इति वाजपेयस्य ब्रह्मक्षत्राधिकारत्वमुच्यमानं बृहस्पतेर्ब्राह्मण्यमिन्द्रस्य क्षत्रत्वमपि ह्यवगमयति । “ब्रह्मा बृहस्पतिः क्षत्रमिन्द्रः” इति च श्रूयते । तथा “मरुतो वै देवानां विशः” इति मरुतो विशः श्रूयन्ते; अतो देवादिविशेषाणां ब्रह्मक्षत्रविड्िवभाकसिद्धेरग्निसम्बन्धो युक्तः । विद्यानुग्राहकं ब्रह्मचर्यादिकञ्च देवानां श्रूयते “एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास” इत्यादिषु, अतो विद्याङ्गकर्मगुणपौष्कल्यात् सामर्थ्यं सिद्धम्, न च यष्टव्यदेवतान्तराभावाद्यजनानुपपत्तिः, अग्नीन्द्रादिशब्दप्रवृत्तिनिमित्तानां ज्ञानशक्तयैश्वर्यविशेषाणां निरुपाधिकाश्रयतया तच्छब्दवाच्यस्य परमात्मनोऽव्यवधानेन देवताभिराराध्यत्वात् अग्नीन्द्रानान्तु तत्तद्यज्ञभागभागित्वं स्वाराधनप्रीतेन भगवता दत्तम्; न

तु स्वाभाविकम्, यथोक्तं भगवता व्यासेन कृष्णद्वैपायनेन मोक्षधर्मे यज्ञाग्रहाराध्याये “ततस्ते विबुधास्सर्वे ब्रह्मा ते च महर्षयः । वेददृष्टेन विदिना वैष्णवं क्रतुमाहरन् । तस्मिन् सत्रे तदा ब्रह्मा स्वयं

भागमकल्पयत् । देवा महर्षयश्चैव सर्वे भागानकल्पयन् । ते कार्त्तयुगधर्माणो भागाः परमसत्कृताः । प्रापुरादित्यवर्णं तं पुरुषं तमसः परम्” इत्यव्यवधानेन भगवतो यष्टव्यत्वमुक्तम् । तत्र भगवद्वचः “येन यः कल्पितो भागः स तथा समुपागतः । प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्” तत्र “यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः । कल्पयिष्यन्ति वा भागान् ते नरा वेदकल्पितान् । यो मे यथा कल्पितवान् भागमस्मिन् महाक्रतौ । स तथा यज्ञभागार्हो वेदसूत्रे मया कृतम्” इत्यत्र भगवता यज्ञभागभाक्तवेदेवानां दत्तमिति स्पष्टतरम्; अतो देवानां कर्माधिकाराभ्युपगमेन विद्यामात्राधिकारवादोऽनुपपन्नः, अतस्माङ्गब्रह्मविद्योपसंहारसामर्थ्यं देवानामस्तीति सिद्धं देवानां ब्रह्मविद्याधिकारित्वम् ॥

॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ विग्रहाभ्युपगमे तद्वदार्थवादिके आह्वानागमने चाभ्युपेये तदा युगपदनेककर्मस्वाह्वाने विरोधः, शरीराधीनत्वादागमनस्येत्यर्थः । आगमनमात्रे प्रामाणिके सति हि तद्यौगपद्ये विरोध इत्यागमने प्रमाणमाह - दर्शयति चेति । नेत्यादिकं व्याचष्टे - तन्नेति । दर्शनादित्येतद्य्वाचष्टे - दृश्यते हीति । “आत्मनो वै शरीराणि बहूनि मनुजेश्वर । योगी कुर्याद्बलं प्राप्य तैश्च सर्वां महीं चरेत्” इति भारतवचनादि द्रष्टव्यम्, योग्यानुपलम्भस्तु मन्त्रौषधादिभिर्मनुष्याणामिव शक्तिविशेषैर्देवानामपि सम्भवतीति न विरोध इति भावः । ननु यदि देवा इहागत्य हविरदन्ति तर्ह्यन्यत्र मन्त्रार्थवादप्रतिपन्नमग्नेर्हव्याहत्वं भज्येत, अवगम्यते न तत् “हव्यवाडग्निरजरः पिता नः” इति, “अवाढ्ढव्याणि सुरभीणि कृत्वा प्रादाः पितृभ्यः स्वधया ते अक्षन्” इति, “अग्नेस्त्रयो ज्यायांसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त” इत्यादिषु । इह प्रक्षिप्तस्य हविषो लोकान्तरप्राप्तिश्च श्रूयमाणाऽनुपपन्ना, अग्निहोत्राहुती प्रकृत्य “ते वा एते आहुती हुते उत्क्रामतः ते अन्तरिक्षमाविशतः ते अन्तरिक्षं तर्पयतः ते दिवमाविशतः ते दिवं तर्पयतः ते तत आवर्तेत ते इमामाविशतः” इति । स्मर्यते च “अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिवृष्टेरन्नं ततः प्रजाः” इति । तत आवर्त्तेत इति इह हविषोरावृत्तिश्चानुपपन्ना, कथं देवैर्भक्षितस्यावृत्तिः ? प्रत्यक्षेण दग्धस्य हविषः कथं

देवैर्भक्ष्यमाणत्वञ्च युक्तम् ? इति । उच्यते “आवाढ्ढव्याणि सुरभीणि कृत्वा प्रादाः” इति श्रवणादग्निना परिणाभ्यमानस्य हविषः सूक्ष्मं रूपं किमप्यलौकिकं विद्यत इत्यभ्युपेत्यम्, श्रेयस्साधनत्ववत्; तच्च देवानामिच्छावशादतीव वर्धते, तथा हि ब्राह्मणं “यद्वै देवा हविर्जुषन्ते अल्पमप्येकामाहुतिमपि तद्गिरिमात्रं वर्धयन्ते” । इति अतोऽपरिमितत्वेन किञ्चिद्भुज्यते किञ्चिन्नीयत इति सर्ववाक्यानुगुण्येन कल्प्यम् । यद्वा इह सन्निधायापि हविर्गृहीत्वा तत्स्वस्थानं गत्वा भुञ्जतां को बाधः ? हविषोरिहावृत्तिर्नाम तत्फलभूतवृष्टयादेरिह सम्भव उपचारादुक्तः । यद्वा “इन्द्र आगच्छ हरिव आगच्छ मेघातिथे” “अग्निमग्नमावह सोममावह” इति येष्विष्टयादिकर्मसु देवताह्वानतदागमने श्रुते, तेष्वेव कर्मसु इहागत्य हविरदनम्, अन्यत्र त्वग्निभिर्हविष उन्नयनमिति विभागः । “ते वा एते आहुती हुते उत्क्रामतः” इति वाक्यमपि ह्यग्निहोत्राहुतिविषयम्, न तत्र देवताह्वानागमने । ननु तत्रापि सायंयावप्रातर्यावसंज्ञानं देवानामागमनं श्रूयते “सायंयावानश्च वै देवाः प्रातर्यावाणश्चाग्निहोत्रिणो गृहमागच्छन्ति” इति । सत्यम्; ते तु नाग्निहोत्राहुतिभोक्तारः “सजूर्देवैस्सायं यावभिरिति सायं संमृशति सजूर्देवैः प्रातर्यावभिरिति प्रातः ये चैव देवाः सायं यावानो ये च प्रातर्यावाणस्तानेवोभयांस्तर्पति” इति संमर्शनमात्रतृप्तिश्रवणोत्तेषाम् । हुतहविर्भोक्तृत्वन्तु सूर्यादीनामेव, न च तत्र सूयर्ादीनामाह्वानम्; अतो देवताह्वानवत्सु कर्मस्विहागत्य हविरदनम् अन्यत्र हविष उन्नयनमिति विभाग उपपन्नः, अतोऽग्नेर्हव्यवाहत्वश्रुतिराहुत्योरुत्क्रमणश्रुतिः “अग्नौ प्रास्ताऽऽहुतिस्सम्यगादित्यपुपतिष्ठते” इति स्मृतिश्च चरितार्था, अतोऽनेकशरीरप्रतिपत्त्या देवानां सन्निधानान्न कर्मणि विरोधः । इतरैस्तु “कति देवाः” इत्युपक्रम्य “त्रयश्च त्रीणि च शता त्रयश्च त्रिसहस्रेति” इति निरुच्य “कतमे त” इत्यस्यां पृच्छायां “महिमान एवैषामते त्रयस्त्रिंशत्त्वेव देवाः” इति निर्ब्रुवन्ती श्रुतिरेकैकदेवताया अनेकरूपतायां प्रमाणत्वेनोपन्यस्ता अत्र त्रयस्त्रिंशतां देवानां प्राधान्यमितरेषां तद्गुणभावश्च प्रतीयते, महिमान एवैषामेत इति हि श्रूयते, महिमशब्दस्य शरीरवाचित्वेन व्युत्पत्त्यभावात् एत इति च न शरीरमात्रनिर्देशः, अपि तु सशरीरचेतनव्यपदेशः, कति देवा इत्युपक्रमस्थदेवशब्दसामानाधिकरण्यादेतइतिपदस्य, न हि देवशब्दो देहमात्रपरः । न च देवशब्दनिर्दिष्टा देवा जीवान्तराणां शरीरभूताः, शरीरलक्षणस्य सर्वथाऽनुपपत्तेः । “कतम एको देव” इति पृष्ट्वा “प्राण” इति प्रतिवचनवाक्येऽपि प्राणशब्दो न प्रसिद्धप्राणपरः, अपि तु परमात्मपरः, अतोऽस्याः श्रुतेरेकैकदेवताया अनेकरूपताप्रतिपादकत्वानुपपत्तिमभिप्रेत्य अत्र सैषा श्रुतिरनुदाहृता । व्याख्यात्रन्तरैः “अनेकप्रतिपत्ते"रित्यस्य शब्दस्य युगपदनेकार्थोपलम्भसामर्थ्यपरत्वेन व्याख्यातत्वेऽपि “आगच्छन्ती “ति श्रुत्यक्षरस्वारस्यानुगुणमनेकशरीरप्राप्तिपरतया व्याख्यातम् ।

॥ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॥ शब्दशब्दं विशिनष्टि - वैदिक इति । अभिप्रेतं हेतुमाह - अनित्यार्थसंयोगादिति । हेत्वर्थं विवृणोति - विग्रहवत्त्वे हीति । अर्थशून्यत्वमनित्यत्वत्वेति - देवदत्तादिविनाशे देवदत्तादिशब्दस्येवानर्थकत्वम् अनित्यत्वम् अनुच्चार्यमाणत्वम्

नित्यत्वे अर्थशून्यत्वम् विग्रहादिमदिन्द्राद्यर्थस्य यावच्छब्दभावित्वाभावात् । अर्थवत्त्वे अनित्यत्वं वा, शब्दस्य यावदर्थभावित्वादर्थानां चानित्यत्वादित्यर्थः । ननु कथमर्थशून्यत्वं शब्दानाम् ? अतीतानागतभूतभविष्यदादयश्शब्दा ह्यर्थसमकालत्वाभावेऽप्यर्तवन्त एव । न हि तेषां कदाचिदप्यर्थसमकालत्वसम्भवः, न च तेषामर्थशून्यत्वम् । यथा विन्ध्यस्थेनोच्चारितो मेरुशब्दो देशविप्रकर्षेऽप्यर्थवान् भवति एवमिन्द्रादिशब्दाश्चेन्द्रादिव्यक्तीनां कालविप्रकर्षेऽप्यर्थवन्तः कस्मान्न भवन्ति ? क्वचित् कदाचिदर्थस्य प्रामाणिकत्वं हि शब्दस्यार्थवत्त्वनिबन्धनमिति । उच्यते; अनभिज्ञा भवन्तो भाष्यहृदयस्य, य एवं परिचोदयन्ति; एतदपाकरणाय हि शब्दे तु वैदिक इति विशेषितं सौत्रं पदम्; इहापीन्द्रादिशब्दानां वैदिकानामित्युक्तम्; अयमभिप्रायः- “इन्द्र आगच्छ हरिव आगच्छ” इत्यादिकं मन्त्रजातं वैदिककर्मसु विनियुज्यते, तत्र पूर्वमेवेन्द्रव्यक्तौ विनष्टायामिन्द्रशब्दवाच्यव्यक्तेः पाश्चात्ययज्ञकर्मण्यागमनाभावात् इन्द्र आगच्छेत्यादिशब्दानामुच्चार्यमाणानामर्थशून्यत्वमनुच्चार्यमाणत्वं वा स्यादिति । इन्द्रव्यक्तयत्यन्तरेणार्थवत्त्वमिति चेत् तद्य्वक्तयन्तरं पूर्वव्यक्तिसमानाकारायुधपराक्रमविभूतिकं वा, न वा ? प्रथममनुपपन्नम्, स्रष्टृस्वातन्त्र्यस्यानिवार्यत्वात् सरूपसृष्टिनियमानुपपत्तेः वैरूप्यसम्भवात् । ततश्चान्याकारवाचिनामिन्द्रादिशब्दानां प्रवृत्तावाकान्तरस्य निमित्तत्वायोगादर्तशून्यत्वमवर्जनीयम् । द्वितीये तु व्यक्तिरिन्द्रशब्दविषयत्वेनाभिमता स्यात्

तस्यां व्यक्तौ तच्छब्दप्रवृत्तिनिमित्तस्य कस्यचिदभावादेव तदवाचकतयाऽर्थशून्यत्वम्; तथापि स्रष्टृपुरुषबुध्द्यधीनसङ्केतवशात् प्रयोगश्चेत् शब्दसङ्केतगोचरस्यार्थस्यसङ्केतयितृपुरुषबुध्द्यगोचरत्वे सङ्केतानुपपत्तेः देवदत्तादिशब्दानामिवेन्द्रादिशब्दानां पुरुषान्तरबुद्धिसापेक्षप्रवृत्तित्वाद्वेदस्यानपेक्षत्वलक्षणं प्रामाण्यं न स्यात् । यदि प्रधानकालपरमात्मशब्दवदेकैकव्यक्तिवाचित्वमिन्द्रादिशब्दानां स्यात्तदा सङ्केतनैरपेक्ष्येण निरपेक्षत्वलक्षणं प्रामाण्यं स्यात्, अत इन्द्रादीनां प्रधानादीनामिव नित्यत्वाभावात्तन्नाशेऽर्थशून्यत्वानुच्चार्यमाणत्वयोरन्यतरप्रसङ्गो दुर्वार इति । नातः प्रभवादित्येतद्य्वाचष्टे - तन्नेत्यादिना । शब्दादर्थस्योत्पत्तिः कथम् ? ततश्चार्थशून्यत्वानित्यत्वपरिहारः कथमित्यत्राह - एतदुक्तमिति । धाता तदाकारमेवेतिपदैः “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्” इति श्रुतिः “यर्थतुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु” इति स्मृतिश्च स्मायर्ते । धीस्थस्य शब्दस्य ततदाकृति

स्मारकतया हेतुत्वम् । तदेव दृष्टान्तेन विशदयति - यथेति । मनसि विपरिवर्त्तमानत्वम्- आलोच्यमानत्वम् । श्रुतिस्मृतिभ्यामिति - प्रत्यक्षग्राह्यो वेदः प्रत्यक्षशब्दवाच्यः, स्वानुरूपवेदानुमापिका स्मृतिरनुमानशब्दवाच्येत्यर्थः । सतासतीचिदचित्ती रूपे व्याकरोत्- विविधकमरोदित्यर्थः । परैस्तु- अनित्याच्छब्दाज्जगतः प्रभवानुपपत्तेरनित्यवणर्ातिरिक्तो नित्यः शब्दः स्फोट इत्येकदेशिमतेनोपन्यस्य तद्वयुदस्य वर्णानां नित्यत्वं प्रसाध्य वर्णानित्यत्वेऽपि तद्गतजात्या सम्बन्धग्रहणादिकं जगतस्ततः प्रभवादिकं चोपपन्नमित्युक्तम् । तदयुक्तम्; इहानुपयोगाद्विरोधाच्च । तथा हि; न तावच्छब्दो जगदुपादानम्, ब्रह्मोपादानत्वाभ्युपगमात् । निमित्तत्वञ्च न दण्डचक्रादिवत्कारकतया, किन्तु बुद्धिस्थित्या अर्थस्मारकतया; तत्र च धर्माधर्मयोरनित्ययोरपि विषमजगदुत्पत्तौ निमित्तत्वमभ्युपगतम्, दण्डचक्रादीनाञ्चानित्यानामपि निमित्तत्वं दृश्यते, किं कार्यमात्रस्य अनित्यादुत्पत्तिरनुपपन्ना ? उत जगद्रूपकार्यविशेषस्य ? न प्रथमः, दण्डचक्रादीनां घटादिकारणत्वदर्शनात् । न द्वितीयः, धर्माधर्मयोर्जगन्निमित्तत्वाभ्युपगमात्; एवं सत्तयोपकारकाणामप्यनित्यानां कारणत्वं यदा सम्भवति तदा स्मर्यमाणतयोपकारकाणां शब्दामनित्यत्वेऽपि कारणत्वसम्भवः किम्पुनर्न्यायसिद्धः, अतो नित्यत्वस्यानुपयोगात् स्फोटवादो न प्रस्तोतव्यः, दूरे तस्य निरसनीयता; वर्णानाञ्च नित्यत्वसमर्थनमत एव निष्फलम् । किञ्च नित्यानामपि वर्णानां न वर्णत्वाकारेणार्थवाचित्वम्, किन्त्वानुपूर्वीविशेषविशिष्टपदवाक्यरूपेण विभुतया नित्यतया च देशतः कालतश्च क्रमरहितानामानुपूर्व्या उच्चारणनिबन्धनत्वात्, तस्य च क्षणभङ्गुरत्वादर्थावबोधं प्रयोजनमपेक्ष्य वर्णनित्यत्वसाधनं तद्गतजात्यवस्थानवचनं च विफलम्, अर्थावबोधकरूपस्यानित्यत्वस्थितेः, यथोदकाहरणरूपं प्रयोजनमपेक्ष्य पृथिवीस्थिरत्वसमर्थनं पृथिवीत्वजात्यवस्थानवचनं च नोपयुज्यते, पृथिव्या घटरूपेणोदकाहरणसाधनत्वात् पाथिर्वाक्यवरचनाविशेषलब्धरूपस्य घटस्य चानित्यत्वात्; तद्वत् । किञ्च वर्णानां नित्यत्वं नाम किमाप्रलयावस्थायित्वम् ? उत उभयावधिकाराहित्यम् ? प्रथमे पूर्वोक्तं वैयथ्यर्ं स्थितम्, पृथिव्या

आप्रलयावस्थायित्वसमर्थनस्य घटेनोदकाहरणेऽनुपयोगात् । द्वितीये शब्दगुणकाकाशसृष्टिप्रलयश्रुतिविरोधः । वर्णानित्यत्वेऽभ्युपगम्यमानेपि तद्गतजात्यभ्युपगमश्च विरुद्धः, कृत्स्नव्यक्तयनवस्थाने जात्यवस्थानानुपपत्तेः । महाप्रलये कतिपयव्यक्तयवस्थानान्तु कारणवाक्यविरुद्धम् “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” इति हि श्रुतिः । अवधारणद्वितीयनिषेधौ कथं कतिपयव्यक्तयवस्थानं जात्यवस्थानं च सहेते ? किञ्च वर्णनित्यत्वादिकं किं बोधकत्वोपयोगितया समर्थ्यते ? किं वा जगतः प्रभवोपयोगितया ? प्रथमे वर्णनित्यत्वादिकं सर्वमपि “अथातो ब्रह्मजिज्ञासा” इत्यत्रैव वक्तव्यम्, अनवबोदकत्वस्य शास्त्रानारम्भहेतुत्वात् । द्वितीये च जन्मादिसूत्रे तत्सर्वंसमर्थनीयम्, लक्षणसिध्द्युपयोगित्वात् । किञ्च वर्णनित्यत्वादिकं सर्वाधिकरणेषु यथाकथञ्चित् घटयितुं शक्यते, अत एवैतदधिकरणासाधारणार्थानुपयोिाद्विरोधाच्चात्र वर्णनित्यत्वादिप्रपञ्चनमयुक्तम् “प्रत्यक्षानुमानाभ्याम्” इति सौपदमन्यथा व्याख्यातम्, घटादिनिर्माणस्य शब्दपूर्वकत्वस्य प्रत्यक्षसिद्धत्वात् जगत्सृष्टावप्येतदनुमानादिति । तथा सति न तयोस्समुच्चित्य हेतुत्वमेकसाध्ये सिध्यति, जगत्सृष्टेः शब्दपूर्वकत्वे अनुमानस्यैवाव्यवधानेन प्रवृत्तेः प्रत्यक्षस्य व्याप्तिग्रहणौपयिकत्वेन तच्छेषभूतत्वात्, ततश्च प्रत्यक्षानुमानाभ्यामिति द्विवचनं क्लिष्टं स्यात्, न हि दण्डपुरशुभ्यां वृक्षः छिद्यत इति व्यपदिश्यते, दण्डस्य परशूपकरणत्वात्; अतः प्रत्यक्षमूलानुमानादिति निर्देष्टव्यम्, तथा च न निर्दिष्टम् । यदि क्वचिदेवमपि दृष्टं तद्गत्यभावात् स्यात्, इह च गत्यन्तरसम्भवादयुक्तम् । कल्पादिकालीनसृष्टेः शब्दपूर्वकत्वं सृष्टित्वादनुमातुं च न शक्यम्, मूककर्तृकघटादिसृष्टौ हेतोरनैकान्त्यात्; अतो यथोक्त एवार्थः । एवमर्थद्वारकमनित्यत्वमाशङ्कय परिहृतम् । अथ शब्दद्वारकमनित्यत्वं परिह्रियते -

॥ अत एव च नित्यत्वम् ॥ उक्तसङ्गतिर्मन्त्रकृतो वृणीत इत्यादिना अभिप्रेता । यत एवेति अर्थवादानां प्रतीयमानार्थे तात्पर्यमस्तीति चेत् “मन्त्रकृत” इत्यादिवाक्येष्वपि मन्त्रकृत्त्वे तात्पर्यसम्भवात् अनि

त्यत्वमिति शङ्का । इयमपीन्द्रादिशब्दानामाकृतिवाचित्वात्तत्तच्छब्देन तत्तदर्थस्मृतिपूर्वकतत्तदर्थसृष्टया परिहृतेत्यर्थः । उक्तशङ्कापरिहारपरं सूत्रं ये न व्याचक्षते तेषां मते सूत्रवैयर्थ्यं स्फुटम् । शङ्कायाः परिहृतत्वं स्पष्टयति - एभिरेवेति । मन्त्रकृत्त्वं नाम अनधीत्यैव मन्त्राणामस्खलितक्रमस्वरवर्णतया दर्शनम्, तच्च तत्तन्मन्त्रस्मृतिपूर्वकं प्रजापतिना यथापूर्वं सृष्टैस्तत्तन्नामरूपभाग्भिः प्रवाहपरम्परया आगतैर्वसिष्ठादिभिः क्रियत इति वेदनित्यत्वमन्त्रकृत्त्वाविरोध इत्यर्थः । नियुङ्क्ते- मन्त्रदर्शनानुगुणं तपश्चरतेति नियुङ्क्त इत्यर्थः । अस्खलितान् पश्यन्ति- पूर्वकल्पाधीतवेदमन्त्रत्वप्रत्यभिज्ञानपूर्वकं पश्यन्ति, न त्विदम्प्रथमतयेत्यर्थः । श्रुतिरपि ऋषिज्ञानपूर्वकमेव मन्त्राणामनुष्ठानं दर्शयति “यो ह वा अविदितार्षेयच्छन्दोदैवतेन मन्त्रेण यजति याजयति वाऽध्यापयति वा स्थाणुं वर्छति गर्तं वा पद्यते प्रवामीयते पापीयान् भवति यातयामान्यस्यच्छन्दाँसि भवन्ति अथ यो मन्त्रे मन्त्रे वेद स सर्वमायुरेति श्रेयाँश्च भवति अयातयामान्यस्यछन्दाँसि भवन्ति तस्मादेतानि मन्त्रे मन्त्रे विद्यात्” इति । शौनकादिभिश्च स्मर्यते “दाशत्रय्यो मधुच्छन्दप्रभृतिभिर्दृष्टा” इति । उक्तं च भगवता व्यासेनैव “युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयम्भुवा” इति । एवमादि चात्र प्रमाणं द्रष्टव्यम् । ननु इतिहासानामप्यपौरुषेयत्वम् वेदस्य वापौरुषेयत्वं प्रसजेत्, अस्मिन् वचने वेदानामितिहाससहपाठेन तुल्ययोगक्षेमत्वादिति चेन्न; इतिहासशब्देन वेदशब्दान्तर्गतानां पुरावृत्तानां विवक्षितत्वात् । यथा “वातरशना ह वा ऋषयः श्रमणा ऊर्ध्वमन्थिनो बभूवुः “पृथुर्वैन्योऽभिषिच्यत “उशन्ह वै वाजश्रवसः सर्ववेदसं ददौ” इत्यादीनि पुरावृत्तानि हि श्रूयन्ते, ततश्च सेतिहासानित्यनेन वेदानामर्थज्ञानेन सह लब्धत्वमुक्तं भवति, अतो न प्रबन्धविशेषवाचकोऽयमितिहासशब्दः, अङ्गेषु धर्मशास्त्रादिषु च सत्स्वपीतिहासमात्रोपादानस्य प्रयोजनाभावात्, तथाऽन्यत्र “ऋषीणां नामधेयानि थाश्च चेदिषु दृष्टयः । शर्वर्यन्ते प्रसूतान तान्येवैभ्योददात्यजः” इति वेददर्शनप्रदानं च स्मर्यते, काठकादिशब्दश्च कल्पादावृषिभिस्तपसा लब्ध वेदभागानां प्रवर्तितत्वमुत्तम्नाति, न तावत्कठेनादौ प्रोक्तं काठकमिति वेदपौरुषेयत्ववादिनोऽप्यभीष्टम्, ईश्वरप्रणीतत्वविरोधात् । अथ काठकादिसमाख्याः प्रवचननिमित्ताः । न; इदानीन्तनप्रवक्तृसंज्ञाभिश्च व्यपदेशप्रसङ्गात्, कठादिभ्यः

पूर्वपुरुषसंज्ञाभिश्च समाख्यानप्रसङ्गात्, पूर्वे त्वनेकशाखाध्यायिनः, कठादयस्त्वेकैकशाखाध्यायिन इति तमाम्ना समाख्यानमिति न वाच्यम्, सर्वेषां तत्पूर्वपुरुषाणां बहुशाखाध्यायित्वनियमस्यामानकत्वात्, दृष्टविपर्ययेण कल्पनानुपपत्तेश्च । अथ कल्पादिषु प्रथमप्रवचननिबन्धनाः कठादिसमाख्याः । तन्निबन्धनत्वं च जगन्नित्यत्ववादेऽनुपपन्नम्, प्रथमप्रवचनासम्भवात्, अतः काठकादिसमाख्यान्यथाऽनुपपत्तिश्च महर्षीणां तपसा दृष्टवेदभागत्वे प्रमाणम् । एवं “यो वै वेदांश्च प्रहिणोति” “ब्रह्मा स्वयंभ्वभ्यानर्षत्” इत्यारभ्य “त एतं ब्रह्मयज्ञमपश्यन् “वाचा विरूपनित्यया “वेदेन रूपे व्याकरोत्” “अनादिनिधना ह्येषा “याश्च वेदेषु दृष्टयः “वेदशब्देभ्यो एवादौ” “युगान्तेऽन्तर्हितान् वेदान्” इत्यादिवचनैः, आद्ये कल्पे प्रथमं वेदोच्चारणं यथापूर्वक्रमविशेषविशिष्टम्, वेदोच्चारणत्वात्, इदानीन्तनवदित्यादिभिरनुमानैरुपपत्तिभिश्च वेदनित्यत्वस्याप्रकम्प्यत्वात् तदनुरोधाय मन्त्रकृत्त्वादिपदान्यस्वारस्येन व्याख्यातानि ।

उत्तरसूत्रं शङ्कयाऽवतारयति - अथ स्यादिति । महाप्रलये तत्तदर्थस्मृतिपूर्वकस्रष्टृसम्प्रदायप्रवर्त्तकस्य प्रजापतेस्तत्प्रवर्त्यस्य शब्दस्य चाभावान्न शब्दनित्यत्वमिति प्रपञ्चप्रवाहानादित्वमाश्रयणीयमिति चोद्यपरिहारार्थमिदं सूत्रमित्यर्थः । ॥

॥ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॥ पूर्वोक्तात्समाननामरूपत्वादेवेति - पूर्वसूत्रद्वयोक्तया तत्तच्छब्देन तत्तदर्थस्मृतिपूर्विकया तत्तदाकृतिविशिष्टवस्तुसृष्टया समाननामरूपत्वमुक्तमिति फलितम्,

अतः पूर्वोक्तादित्युक्तम् । एवकारेण सूत्रस्थश्चशब्दोऽवधारणार्थ इति गम्यते । समाननामरूपत्वमनुपपन्नम्, तत्तच्छब्दस्मृतिपूर्वकतत्तदर्थस्रष्टुरभावादित्यत्राह - तथा हीति । स इति श्रुतिप्रसिद्धिं द्योतयति । भगवानिति ज्ञानशक्त्यादिवैचित्र्यम् । भगवत्पुरुषोत्तमशब्दाभ्यां “सर्वव्यापी च भगवान् महान्” “प्रभुर्वै पुरुषः” इत्यादिश्चेताश्वतरवाक्यं शक्तिरस्ति, न तु तत्कार्यं भोक्तृत्वादिकमिति भावः । चतुर्मुखादेरेव स्वतन्त्रस्रष्टृत्वभ्रमनिरासायाह - स्वयमपीति । “तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित्क्वचित्” इति चतुर्मुखवचनम् “सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते” इति भगवद्वचनम् “तदनुप्रविश्य” इति सामान्यविषयां श्रुतिञ्च प्रमाणमभिप्रेत्याह - तदन्तरात्मतयेति । अनेन चतुर्मुखपरमात्मनोः कर्तृत्ववचसामैककण्ठ्यसिद्धिः - सर्वमुपपन्नमिति । समाननामरूपत्वतत्कृतवेदनित्यत्वतत्सार्थकत्वान्यूपपन्नानीत्यर्थः । शब्दस्योत्पत्तिविनाशाभ्युपकमेऽपि कथं वेदनित्यत्वसिद्धिरित्यत्राह - एतदेव चेति । अक्षराणां पदानां वा नित्यत्वं वेदनित्यत्वं चेत् कालिदासादिवाक्यानामपि नित्यत्वप्रसङ्गः । वर्णानुपूर्वी नित्यत्वं चेत् तदप्यनुपपन्नम्, युगपत्सर्गप्रलयमयनभ्युपगच्छद्भिर्वर्णानां विभुत्वाभ्युपगमात् न देशत आनुपूर्वी सम्भवति, नित्यत्वाभ्युपगमाच्च न कालतः; तस्मात् उच्चारणगतः क्रम इति तैरभ्युपेत्यम्, उच्चारणन्तु उत्पत्तिविनाशवदेवेति क्रमनित्यत्वमप्यनुपपन्नम्; तस्मात्पूर्वपूर्वोच्चारणक्रमविशेषो यादृशस्तादृशेनैव क्रमेणोत्तरोत्तरमुच्चार्यत्वं नित्यत्वमित्यस्मदभिमतमेव तैरपि स्वीकर्त्तव्यमित्यभिप्रायेणएतदेवेत्युक्तम् । ननु पूर्वान्ताभावः पुरुषकृतत्वाभावो वा,स्यादपौरुषेयता, उत्तरान्ताभावः उभयान्तविरहो वा नित्यता, क्रमविशेषेणोच्चार्यत्वन्तु वेदस्य स्वरूपम्, कथमेषामेकत्वम् ? सत्यम्, द्विविधावधिवैधुर्यरूपनित्यत्वमेव वेदे विवक्षितम्, तथापि पूर्वावथिविधूननं प्राधान्येन सिषाधयिषितम्, स्वतन्त्रपुरुषविश्रान्तेर्निरसनीयत्वात् तन्निरसने च प्रतिकल्पं तथा भावेनोत्तरावधि वैधुर्यसिद्धेश्च; अतो वेदस्य नित्यत्वमपौरुषेयत्वञ्चैकमिति फलितम् तच्चापौरुषेयत्वं नित्यत्वं वा वेदक्रमविशेषविशिष्टोच्चारणभाक्तवे पर्यवसितम्, अपूर्वक्रमविशिष्टोच्चारयितृपुरुषसद्भावातिरेकेणानित्यत्वपौरुषेयत्वयोरभावान्नित्यत्वापौरुषेयत्वयोः तद्विपरीतरूपत्वाच्च । यद्वा तेनैव क्रमेण सर्वदोच्चार्यमाणत्वमपौरुषेयत्वनित्यत्वयोस्साधकमिति हेतुहेतुमद्भावादभेदव्यपदेशः । एवमेव भगवताप्युच्चार्यमाणत्वाद्युगपत्सर्वोत्पत्तिसंहारेऽपि

नित्यत्वमुपपन्नमित्यभिप्रायेणाह - तदस्मास्विति । सर्वेश्वरोऽपि

पूर्वक्रमविशेषं स्मृत्वोच्चारयति चेत्तत्संस्कारोद्बोधात् पूर्वमज्ञत्वमन्याधीनज्ञानत्वञ्च स्यादित्यत्राह - इयांस्त्विति । अस्माकं स्वोच्चारणजनितसंस्कारानपेक्षोच्चारणमध्यापयितृसापेक्षम्, अध्यापयितृनिरपेक्षोच्चारणं स्वोच्चारणजनित संस्कारसापेक्षम्, एतदुभयं व्यावर्त्तयति संस्कारानपेक्षं स्वयमेवेति, स्वयमेवेत्यध्यापकोच्चारणजनितसंस्कारापेक्षाव्यावृत्तिः । यद्वा संस्कारानपेक्षम् अध्यापकोच्चारणस्वोच्चारणजनितसंस्कारानपेक्षमित्यर्थः । स्वतन्त्रस्येश्वरस्य क्रमान्तरापरिकल्पनेन पूर्वक्रमेणैवोच्चारणे को नियामक इत्यत्राह - स्वयमेवेति । वेदाख्यं शब्दराशिं पूर्वपूर्वक्रमविशिष्टमेव उच्चारणीयम्, न तु क्रमान्तरं कल्पनीयमिति “बहु स्याम्” इतिवत् स्वसङ्कल्पादेव क्रमान्तरमपरिकल्पयन् यथापूर्वमनुसन्धत्ते, न त्वन्यपरतन्त्रतयेत्यर्थः । अनुसन्धत्तेजानातीत्यर्थः । स्मरणार्थत्वे संस्कारानपेक्षत्वव्याघातात् । ननु “संस्कारास्तेऽभवन्वेदाः” इति स्मृत्या वेदानामीश्वरस्मृतिविषयत्वमवगम्यते नैवम्; संस्कार शब्दस्य स्मृतिविषयवाचित्वाभावात् । स्मृतेः संस्कारकार्यतया तद्विषयो लक्षितलक्षणया प्रतिपाद्यत इति चेत्तर्हि प्रमाणविरुद्धलक्षणायाः प्रमाणानुसारिणी लक्षणा बलीयसी, ईश्वरस्य च स्वतः सर्वदा सम्यक् सर्वार्थसाक्षात्कारित्वं “यः सर्वज्ञस्सर्ववित् “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च” इति श्रुति सिद्धम् । ज्ञानस्य स्वाभाविकत्वम् इन्द्रियादिनैरपेक्ष्यम् विविधत्वं विषयवैविध्यात्, परत्वम् याथाथ्यर्ापरोक्षत्वरूपप्रकर्षः, अतस्तदनुगुणया लक्षणया भवितव्यम् । ततश्च संस्कारा इति- संस्कारबोध्याः, यथापूर्वं बुद्धिस्था इत्यर्थः । यद्वा संस्कारवत्स्वस्मिन्नवस्थिता इत्यर्थः । नन्वीश्वरस्य सर्वज्ञतया शब्दानां सर्वा अप्यानुपूर्व्यः सदा बुद्धिस्था इति सर्ववाक्यानामनाद्यानुपूर्वीविशिष्टतया वेदत्वं स्यात्, पौरुषेयापौरुषेयविभागश्च न स्यात् नैवम्, ईश्वरस्य सार्वज्ञ्यादेव सर्वविभागसिद्धेः सर्वासामानुपूर्वीणां तद्बुद्धिस्थत्वेऽपि यादृशक्रमविशिष्टशब्दराशेर्याथार्थ्यं स्वरादिनियमवत्त्वं देशकालादिनियमवत्तयैवोच्चार्यत्वञ्च, तमेव शब्दराशिं वेदाख्यं मन्वानसादृशक्रमविशिष्टं तमेव प्रतिब्रह्माण्डसर्गं प्रमाणतया प्रवर्तयति, न त्वनयच्छब्दजातम्, अतो याथार्थ्यसनियमकोच्चार्यत्वाभ्यां वेदावेदविभागसिद्धिः । सर्वदा पूर्वपूर्वक्रमपरामर्शसापेक्षोच्चारयितृकत्वं तन्निरपेक्षवक्तृकत्वं चेति पौरुषेयापौरुषेयवैषम्यमिति न काचिदनुपपत्तिरिति । दर्शनात् स्मृतेश्चेतिसौत्रपदद्वयस्य शङ्कामाह - कुत इति । युगपत्सर्वसृष्टौ भगवतो यथापूर्ववेदसम्प्रदायप्रवर्त्तकत्वे च श्रुतिस्मृती दर्शयति - दर्शनन्तावदित्यादिना । उदाहृतश्रुतिस्मृतिवाक्येषु सर्वेषु चतुर्मुखस्य भगवता सृष्टत्वं दृश्यते, वेदोपदेशस्तु केषुचिन्न दृश्यते, तत्र “अनुक्तमन्यतो ग्राह्य"मितिन्यायात् वेदोपदेशोऽपि सृष्टयुपयोगित्वात्सिध्यतीति भावः । सम्प्रदायप्रवर्त्तकसद्भावमात्रे प्रमाणं वा स्यात्तद्वचनजातम् । उदाहृतवचनजातं प्रदशर्नार्थम्, ईदृशानि वचनान्तराण्यपि

अस्मिन्नर्थे द्रष्टव्यानि; यथा “सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवञ्च पृथिवीं चान्तरिक्षमथो सुवः” “यर्थतुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु” इतिश्रुतिस्मृत्योर्वेदान्तसारे दर्शितत्वात् । “हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते” इत्यनेन पूर्वसृष्टिसारूप्यं प्रतीयते । किञ्च “तथाभिमानिनो नीतास्तुल्यास्ते साम्प्रतैरिह । देवदेवैरतीतैर्हि रूपैर्नामभिरेव च । “यस्मिन् यो यः पुरा क२प्तो यस्मिन् देशे यथा स्थितिः । तस्य तस्यानुरूप्येण प्रजासर्गः प्रवर्त्तते “ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः” इत्यादि । किञ्च “अग्निर्वा अकामयत अन्नादो देवानां स्यामिति स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत् ततो वै सोऽन्नादो देवानामभवत् अग्निर्वै देवानामन्नादः” तथा “इन्द्रो वा अकामयत ज्यैष्ठयं देवानामभिजयेयमिति स एतमिन्द्राय ज्येष्ठाय पुरोडाशमेकादशकपालं निरवपन्महाव्रीहिणां ततो वै स ज्येैष्ठयं देवानामभ्यजयत्” इत्यादिना पूवपूर्वाग्नीन्द्रादियजनेन पाश्चात्याग्नीन्द्रादीनामैश्वर्यप्राप्तिरित्यवगम्यते, प्रथमान्ताग्न्यादिशब्दा यजमानं चेतनं सिषाधयिषितरूपेण निर्दिशन्ति, इदानीमिन्द्रः पूर्वास्मा इन्द्राय निरवपदित्यर्थः । अतः पूर्वपूर्वाग्नीन्द्रादिसरूपतयोत्तरोत्तराग्नीन्द्रादिसृष्टिरिति निश्चीयते । किञ्च कर्मविधानमिष्टप्राप्त्यनिष्टनिवृत्तिफलम्, पुरुषप्रवृत्तिश्च सुखलिप्सादुःखजिहासामूला, रागद्वेषौ च दृष्टानुमितश्रुतसुखदुःखतत्साधनभूतभोग्यतदुपकरणतत्साधनविषयौ, न त्वप्रतिपन्नविषयौ; अतः पूर्वकल्पावगतेन्द्रादिपदकामनासञ्चितधर्मफलभोगानुगुणोत्तरोत्तरसृष्टिश्च पूर्वसृष्टिसजातीया भवितुमर्हति, अतो वेदनित्यत्वं नाम प्रत्युच्चारणं पूर्वपूर्वक्रमसुसदृशानुपूर्वीविशिष्टतयोच्चार्यमाणत्वम् । अर्थनित्यत्वं नाम प्रतिसर्गमिन्द्राद्यर्थानां पूर्वपूर्वार्थाकारसुसदृशसंस्थानविशिष्टत्वम् तथाविधार्थप्रतिपादकत्वमेव वेदस्य नित्यार्थसंयोगः । ननु प्रलयदशायामेकस्य प्रतिभातो वेदः कृतकादविशिष्टः स्यात्, एकस्य प्रतिभातः कुमारसम्भवो हि कृतक इति चेत् उच्यते; कृतकादविशिष्टत्वं वदतः कोऽभिप्रायः ? एकस्य प्रतिभातत्वं कृतकत्वव्याप्तमिति वा, कृतकत्वशङ्काजनकमिति वा ? न प्रथमः, बहुषु सुप्तेषु जाग्रत एकस्य प्रतिपन्ने स्वात्मनि व्यभिचारात् । न ह्यात्मा कृतकः, एकस्य प्रतिभातवाक्यत्वं विवक्षितमिति चेत् किमेकस्य प्रतिभातत्वं नाम एकस्य प्रतिपन्नत्वम् ? उत एकस्य प्रथमप्रतिपन्नत्वम् ? न प्रथमः, दृष्टान्तस्य साधनविकलत्वात् । न हि कुमारसम्भवोऽस्माकमन्येषां च कदाचिदप्रतिपन्नः । द्वितीये हेत्वसिद्धिः, पक्षीकृतेषु वेदेषु ह्येकस्य प्रथमप्रतिपन्नत्वं नास्ति, सर्गप्रवाहस्यानादित्वात् । यस्य कल्पस्यादौ प्रतिभानं प्रथममिति विवक्षितम्, ततः पूर्वकल्पेऽपि तेषामेव वेदानां प्रतिभातत्वात् प्राथम्यासिद्धिः, तेषामेव वेदानां तत्तत्पूर्वकल्पेऽपि प्रतिभातत्वं वेदोच्चारणत्वेन लिङ्गेन सिद्धम् । विगीतं वेदोच्चारणं पूर्वाध्ययनसिद्धक्रमविशिष्टविषयम्, वेदोच्चारणत्वात्सम्प्रतिपन्नवदिति । न च वाच्यं वेदाः कृतकाः, कल्पादावेकस्य प्रतिभातत्वात्; चतुर्मुखवक्तृकप्रथमवाक्यतदिति । दृष्टान्तस्य साधनविक

लत्वात्, चतुर्मुखस्य प्रथमवाक्यं हि स्वतस्सर्वज्ञेन तदन्तरात्मना ज्ञायते । कल्पादावेकक्षेत्रज्ञस्य प्रतिपन्नत्वं हेतुरिति चेन्न; असिद्धेः । असिद्धिश्च यौगपद्येन प्रवाहतश्चाण्डबाहुल्येन चतुर्मुखतत्सृष्टमहर्षिबाहुल्यात् । एकस्मिन् ब्रह्माण्ड इति हेतुर्विशेष्य इति चेत् तर्ह्येकस्मिन् गृहे दिवसादावेकस्य प्रतिपन्नत्वादुपाध्यायवक्तृकप्रथमवाक्यवद्वेदस्य तदुक्तत्वं किं न स्यात् ? देशकालान्तरवर्त्तिपुरुषप्रतिपन्नत्वात्तेनाप्युपाध्यायेन पूर्वसिद्धत्वेन प्रतिपन्नत्वाच्च तद्वक्तृकत्वस्य बाधितत्वादिति चेत्तुल्यम् । तथा हि; एकस्मिन्नण्डे कल्पदावेकक्षेत्रप्रतिपन्नत्वरूपहेतुसिद्धिः कुतः ? “यो वै वेदांश्च प्रहिणोति तस्मै” इत्यादिश्रुतेरिति चेत्तर्हि सैव श्रुतिर्वेदानां पूर्वसिद्धत्वमवगमयतीति हेतुग्राहकप्रमाणेन बाधितविषयता स्यात्, एकस्य प्रतिभातवाक्यत्वं कृतकत्वशङ्कावहमिति चेत् । न, आप्ततया परिज्ञातेन तेनैव पुरुषेण अनादिसिद्धतयोपदिष्टवाक्ये कृतकत्वशङ्कानुदयात् । ईश्वरेण प्रथमसृष्टाश्चतुमुखादयः प्राचीनसुकृतातिशयादीश्वराप्त्यवगमानुगुणज्ञानान्विता एव जायन्त इति न शङ्कोदयः । नन्वीश्वरसिद्धौ वेदसम्प्रदायाविच्छेदसिद्धिः, तत्सिद्धौ वेदनित्यत्वसिद्धिः, तत्सिद्धौ वेदप्रामाण्यसिद्धिः, तत्सिद्धावीश्वरसिद्धिरिति चक्रकमिति । एवं तर्हि पूर्वमीमांसायामपि वेदप्रामाण्यसमर्थनपरे प्रथमेऽध्याये प्रथमे पादे बाह्यहेतूत्थाप्रामाण्यं निराकृत्य त्रिपाद्या अवान्तरहेतूत्थाप्रामाण्यनिरासे क्रियमाणे त्वदुक्तं चक्रकं प्रसजेत् । तथाहि “सन्दिग्धे तु वाक्यशेषात्” इत्यादिषु “अक्ताः शर्करा उपदधाति” इत्यादिवेदवाक्यानामञ्जनसाधनद्रवद्रव्यविशेषानुपस्थापनेन सन्देहलक्षणाप्रामाण्ये पूर्वपक्षिणोक्ते “तेजो वै घृत"मित्यादिवाक्यशेषप्रामाण्यसिद्धौ अक्ताश्शर्करा इत्यादिवाक्यविशेषस्य सन्देहलक्षणप्रामाण्यनिराससिद्धिः, तत्सिद्धौ कृत्स्नवेदप्रामाण्यसिद्धिः तत्सिद्धौ कृत्स्नवेदान्तर्गतवाक्यशेषप्रामाण्यसिद्धिरिति चक्रकं प्रसज्यत एवेति । न प्रसज्यते; प्रथमे पादे शब्दस्य स्वतःप्रामाण्यसमर्थनादपवादहेतोश्च अपूर्वक्रमविशेषविशिष्टोच्चारयितृविशेषरूपकर्त्तुः स्मर्तव्यत्वे सति अस्मर्यमाणत्वलक्षणयोग्यानुपलब्धिनिरस्तत्वात् वेदप्रामाण्यसिद्धौ तदन्तर्गतवाक्यविशेषस्याभिधानवृत्तिः प्राक्सिद्धप्रामाण्यविरोधिनीव प्रतिभातीति शङ्कामात्रस्य वाक्यशेषादिकृत्स्नपदान्वितवाक्यपर्यालोचननान्नाभिधानवृत्तिस्तथा प्रतिभातीति परिहारमात्रस्य क्रियमाणत्वादिति चेत्, तदस्मत्पक्षेऽपि समानमिति परितुष्यतामायुष्मता । ये तु “अक्ताश्शर्करा” इत्यादिवाक्यमात्रस्याप्रामाण्यशङ्का, न तु कृत्स्नवेदस्य, तावन्मात्रस्य परिहारश्चेति वदन्ति तन्मतेऽपि इयमेव प्रतिबन्दी, अक्ताः शर्कराः इत्यादिकतिपयवाक्याप्रामाण्येन कृत्स्नप्रामाण्यशङ्का हि दुर्निवारा, वेदत्वाविशेषात् । अक्ताः शर्करा इति वाक्याप्रामाण्यनिरासे कृत्स्नवेदाप्रामाण्यशङ्कानिवृत्तिः, तन्निवृत्तौ “तेजो वै घृतम्” इत्यादिवाक्यशेषाप्रामाण्यशङ्कानिवृत्तिः, तन्निवृत्तौ अक्ताश्शर्करा इत्यादिवाक्यस्य सन्देहलक्षणाप्रामाण्यनिवृत्तिरिति परिहारस्तुल्यः । अधिकरणार्थमुपसंहरति - अत इति ॥