॥ शब्दादेव प्रमितः ॥ अल्पश्रुतेरिति चेदित्यत्राल्पपरिमाणत्वं भगवत इत्युक्तम् । अथाल्पपरिमाणत्वविशेषः परमात्मव्यतिरिक्तस्य दृश्यत इति शङ्काया सङ्गतिः । “शुक्रममृत"मित्यन्तं विषयवाक्यमुपाददानस्यायं भावः- अङ्गष्ठप्रमितत्वमात्रं श्रुतम्, नतु स्थानविशेषः, न चोपासनम्; अतः परमात्मपरत्वानादरेण जीवपरत्वं शङ्कयते इति पूर्वपक्षं केचिदाहुः । तदयुक्तम्; “सदा जनानां हृदये सन्निविष्टः तं विद्याच्छुक्रममृत"मित्यनन्तरवाक्ये स्थानोपासनावगमात् तदनवगमस्य हेतुत्वकथनायोगादिति । परमात्मनोऽङ्गुष्ठपरिमितत्वानुपपत्तेर्जीवस्य सर्वेशानत्वानुपपत्तेश्च संशयः । अङ्गुष्ठप्रमितः किं प्रत्यगात्मा ? उत परमात्मेति । तदर्थमीशानत्वं किं देहेन्द्रियाद्यपेक्षम्, उत सर्वापेक्षम् ?
इति । उपक्रमावगतं प्रमितत्वं किमीशानत्वलिङ्गस्वारस्यविरोधि ? उत अविरोधीति । तत्प्रमितत्वं किं जीवे समञ्जसम् उतोभयत्रासमञ्जसमिति । यदा जीवे समञ्चसं तदानीं स्वसामञ्जस्यसिद्धयर्थमुपक्रमावगतं प्रतितत्वमीशानत्वलिङ्गस्वारस्यविरोधीति ईशानत्वस्य देहेन्द्रियाद्यपेक्षत्वादङ्गुष्ठप्रमितो जीव इति पूर्वः पक्षः । यदोभयमत्र प्रमितत्वमसमञ्जसं तदा प्रत्यगात्मन्यपि स्वारस्यासिद्धेस्तदर्थमीशानत्वलिङ्गस्वारस्यानुपरोधकत्वादीशानत्वं सर्वापेक्षमिति अङ्गुष्ठप्रमितः परमात्मेति राद्धान्ते फलफलिभावः । कृत्वा चिन्तेयम्, परमात्मनोऽन्यत्राङ्गुष्ठप्रमितत्वश्रवणाभावमभ्युपगम्यानेनैव वाक्येनाङ्गुष्ठप्रमितत्वं किं सिध्यति, उत न ? इति विचायर्ते । अन्यत्राङ्गुष्ठप्रमितत्वं भगवतः श्रूयते, श्वेताश्वतरे “अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः । हृदा मनीषा मनसाऽभिक२प्तो य एनं विदुरमृतास्ते भवन्ति” इति । तैत्तरीये च “अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठं च समाश्रितः । ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक्” इति । अन्तरात्मत्वं मोक्षप्रदत्वं सर्वस्य जगत ईशत्वमपि हि तत्र श्रुतम् । यदा सर्वजगच्छब्दादिकमपि क्लिष्टं कृत्वा तावपि मन्त्रौ विवादास्पदीकृतौ, तदानीं न कृत्वा चिन्तेयम् । ननु जीवस्याप्याराग्रमात्रस्याङ्गुष्ठमात्रत्वममुख्यम् अत उपासनार्थमिति निर्वाह्यम्, तत्परमात्मपरत्वेऽपि सम्भवति, उपासनार्थमल्पपरिमाणत्वं परस्यापि हि श्रुतम्, तत्कथं जीवत्वशङ्केत्यत्राह - न चेति । प्राणाधिपस्य कर्मवश्यस्याङ्गुष्ठमात्रत्वममुख्यमपि हि श्रुतम्, न तु परमात्मनः, अतो जीवस्य बुद्धिस्थत्वात्तस्य प्रतिपाद्यत्वशङ्केत्यर्थः । ईशानत्वं कथमित्यत्राह - एवं निश्चित इति । राद्धान्ते- ननु भूतभव्यस्येशान इति वाक्यम्, तच्च प्रमितत्वलिङ्गाद्दुर्बलम् । नैवम्; ईशानशब्दस्यैव शब्दशब्देन विवक्षितत्वात् । ईशानशब्दस्य देहेन्द्रियाद्यपेक्षया सङ्गोचस्य अनुपपत्तिस्फोरणार्थमीशानो भूतभव्यस्येतिशब्दादेवेति भूतभव्यशब्दोपादानम् । किमीश्वरः, किं जीवः ? इति विचारे नेश्वरसम्बन्धिलिङ्गान्निर्णयः, किं त्वीशत्ववाचिशब्दादेवेत्येवकाराभिप्रायः । यद्वा पूर्वपक्ष्यभिप्रेताया ईशानशब्दान्यथासिद्धेः प्रतिक्षेप एवकाराभिप्रेतः । तं दर्शयति- न च भूतभव्यस्येति । उत्तरसूत्रस्य शङ्कामाह - कथं तर्हीति ।
॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ वर्तमनत्वादित्यध्याहारेण योजना । यद्वा हृदीति विषयसप्तमी, हृद्विषयापेक्षयेति । सूत्रार्थं वक्तुमर्थसिद्धर्मथमाह - वर्तमानत्वादि । यदपेक्षया परस्याङ्गुष्ठप्रमितत्वव्यवहारः तस्य हृदयस्य तत्परिमाणत्वमाह - हृदयस्येति । अङ्गुष्ठमात्रत्वस्यास्वारस्यमुभयत्र तुल्यम् । को भेदः परमात्मपरिग्रहे इत्यत्राह - जीवस्यापीति । अङ्गुष्ठप्रमितस्य जीवत्वपक्षे अङ्गुष्ठप्रमितेशानशब्दयोरुभयोरप्यस्वारस्यम्, परमात्मत्वपक्षेऽङ्गुष्ठप्रमितशब्दस्यैकस्यैवास्वारस्यमिति भावः । खरतुरगादीनामनङ्गुष्ठत्वेन तद्धृदयानां तत्तदङ्गुष्ठप्रमितत्वाभावादङ्गुष्ठप्रमितत्वमननुयायीति शङ्कायां मनुष्याधिकारत्वादितिपदं व्याचष्टे - मनुष्याणामेवेति । अत्राङ्गुष्ठप्रमितस्य जीवत्वमभ्युपगम्यैव जीवस्य परमात्मैक्योपदेशपरतया प्रकरणस्य परमात्मप्रतिपादकत्वं यत्परैरुक्तम्, तदयुक्तम्, जीवत्वेश्वरत्वयोरुभयोरपि कल्पितत्वाभ्युपगमात् सर्पभूतलनयोरिव काल्पनिकयोरर्थयोरैक्योपदेशानुपपत्तेः, जीवत्वेशानत्वाद्यनादरेण वस्तुमात्रैक्यपरत्वे ईशानदिशब्दानां लाक्षणिकत्वप्रसङ्गात् । प्रासङ्गिकार्थस्य निरूपयिष्यमाणत्वं बुद्ध्वाऽऽह - स्थितं तावदिति ॥
कम्पनात् । इदं सूत्रं “प्राण एजति” इति वाक्यविषयमधिकरणान्तरं ये वर्णयन्ति, तान् प्रतिक्षिपति अनयोर्वाक्ययोर्मध्य इति । परमात्मपरत्वेनोपपादितवाक्यद्वयमध्यगतत्वादस्य वाक्यस्य, अस्मिन्नेव मन्त्रे, “य एतत् विदुरमृतास्ते भवन्ति” इति अमृतत्वप्राप्तिहेतुत्वावगमात्, प्राणशब्दस्य परमात्मवाचकत्वस्यानेकाधिकरणन्यायसिद्धत्वाच्च पूर्वपक्षानुदय इति भावः । प्राणः कम्पनादित्यश्रवणात् सूत्रास्वारस्यं च । ननु प्रकरणात् प्राणशब्दश्रुतिर्बलीयसी । धूमतेजोजलमरुत्सन्निपातरूपमेघात्मना परिणतस्य वायोरशनिरूपेण विवर्तनात् वज्रशब्दश्रुतिश्च तत्साधिका । वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यन्यत इति ह्यर्थः । अमृतत्वहेतुता चोपपद्यते; “वायुरेव व्यष्टिर्वायुः समष्टिः । अप पुनर्मृत्युं जयति, य एवं वेद” इति श्रुतेः । अतोऽधिकरणान्तरं कार्यमिति । उच्यते; पूर्वापरपर्यालोचनेन परमात्मपरतया निर्णीतेषु प्रकरणेषु मुख्यप्राणलिङ्गे तद्वाचकशब्दे सत्यपि परमात्मन एव प्रतिपाद्यत्वम्, “प्राणस्तथाऽनुगमात्” इत्यत्र निर्णीतम् । अचेतनरूपप्रधानस्यापि मोक्षहेतुत्वानुपपत्तिः, “तन्निष्ठस्य मोक्षोपदेशात्” इत्यत्रोक्ता, । तत् कथं तत्कार्यैकदेशप्राणज्ञानस्य मोक्षहेतुत्वशङ्कोदयः ? वायोरशनिकारणत्वेपि प्राणशब्दस्य वायुमात्रवाचित्वाभावात् तन्मुख्यार्थस्य मुख्यप्राणस्याशनिकारणत्वाभावाच्च वज्रशब्देन न पञ्चवृत्तिप्राणशङ्का भवति । उद्यतशब्दोऽप्यशनिशङ्काविरोधी, अशनिर्हि निपतति, आयुधमेव ह्युद्यतं भवति; यथा “तेनेन्द्रो वज्रमुदयच्छत्” इति । अतोऽधिकरणान्तरत्वमयुक्तम् । नन्वेवं परमात्मपरत्वनिश्चयात् त्वत्पक्षेऽपि सूत्रवैयर्थ्यमिति चेन्न- उक्तहेतूतम्भनरूपप्रयोजनस्य दर्शितत्वात् । सूत्रे चशब्दाभावोऽनन्तरपूर्वाधिकरणशेषत्वभ्रमानुदयार्थः; न त्वधिकरणान्तरत्वात् ।
प्राण इति सप्तम्यन्तपदसामर्थ्यात् स्थितानामित्यध्याहारः । कुतो निस्सृतमित्यपेक्षायां प्रकृतस्यैवापादानत्वमाह तत इति । कुत एजतीत्यपेक्षायां प्रकृतस्यैव भयनिमित्तत्वमाह तस्मादिति । भयम्- आगाम्यनिष्टापत्तिज्ञानरूपं दुःखम् । एजनम्- तत्कार्यम् । श्रुतिसूत्रयोरभिन्नार्थत्वं ज्ञापयति एजनं कम्पनमिति । “एजृ कम्पने” इति हि धातुः । प्रत्यवायभयात् स्वस्वकार्येषु प्रवृत्तिः कम्पनम् । तथेहाप्यवगम्यते, “भयादस्याग्निस्तपति” इति । तपनं ह्यग्नादित्ययोः कार्यम् । धावतिशब्द इन्द्रादीनां स्वस्वव्यापारपरः । भयं विवृण्वन् वाक्यार्थं योजयति तच्छासनेति । महतो भयादिति । भयशब्दो न भयानकपरः, लक्षणाप्रसङ्गादिति भावः । वज्रादिवोद्यतादिति । वज्रशब्द आयुधपरः; न त्वशनिपरः, उद्यतशब्दविशेषितत्वादिति भावः । वज्रादिवेति इवशब्देन श्रुतिवाक्ये वज्रशब्दे उपचाराद्वज्रतुल्ये वर्तते, अध्याहारादपि गौणवृत्तेरुचितत्वादिति वज्रशब्दस्य तत्तुल्यार्थत्वं फलतो दशिर्तम् । कथं हेतुत्वावगम इत्यत्राह भयादस्येति । कथं प्रथमायाः पञ्चम्यर्थत्वमित्यत आह महद्भयं वज्रमुद्यतमितीति । न वज्रं भयदृष्टान्तः, दृष्टान्तदार्ष्टान्तिकवैघट्यात् । भयमव्यवधानेन कम्पनहेतुः; वज्रं तु भयद्वारा तद्धेतुः । अतो वज्रं भयहेतुदृष्टान्तः । उद्यताद्वज्रादिव परमपुरुषात् सञ्जातेन भयेन कृत्स्नं जगत् कम्पत इत्यर्थः; तस्मात्सञ्जातमहाभयनिमित्तमेजनमिति पूर्वग्रन्थैकाथ र्यात् ! एवं तर्हि प्रथमान्तपदसामानाधिकरण्यस्वारस्यभङ्गः, इवशब्दाध्याहारश्च स्यात् । तदुभयानादरेणार्थवर्णनं किंनिबन्धनमित्यत्राह भयादस्येति । अनन्तरवाक्ये भयादस्येनि भयतद्धेतुवाचिपदयोवर्ैयधिकरण्यदर्शनात्, भयपदस्य पञ्चम्यन्तत्वदर्शनात्, पूर्वापरवाक्ययोरैकार्थ्यस्य न्याय्यत्वात् दृष्टान्तदार्ष्टान्तिकसामञ्जस्याच्चेत्यर्थः । ननु भयशब्देन भयानकलक्षणा न्याय्या, गङ्गापदादिषु प्रकृत्यंशेन प्रकृत्यन्तरार्थलक्षणाया दृष्टत्वात् । प्रथमाया हेत्वर्थलक्षणा त्वयुक्ता; विभक्तीनां विभक्तयन्तरार्थे लक्षणाया अदर्शनात् । तच्चानुशासनविरोधात् । पाशाधिकरणेऽपि हि वहुत्वाविवक्षामात्रम्; न तु विभक्तयन्तार्थलक्षणा । अतो भयानकं वज्रमिव बह्म यत्, तस्मात् कृत्स्नं जगत् कम्पत इत्येव हि योजना युक्ता; अत आह महद्भयं वज्रमुद्यमितीति । “सुपां सुलुक्” इत्यादिसूत्रेण सर्वविभक्तिषु प्रथमायाः विहितत्वात् इयं प्रथमा पञ्चम्यर्थवाचिनीत्यर्थः । वचनव्यत्ययो वा । अयमभिप्रायः- योजनाद्वयेऽपि इवशब्दाध्याहारो वज्रशब्दस्यामुख्यत्वं वाऽवश्यं भवेत् । प्रथमान्तयोजनायां प्रथमाविभक्तिस्वारस्यं सामानाधिकरण्यस्वारस्यञ्चाभग्नं स्यात् । भयशब्दस्य तद्धेतुलक्षणाश्रयणं यत्तच्छब्दाध्याहारः पदैकवाक्यतायां सम्भवन्त्यां तत्प्रहाणेन वाक्यैकवाक्यभावाङ्गीकार इति त्रयो दोषाः । योजनान्तरे प्रथमायाः पञ्चम्यर्थताश्रयणास्वारस्यं सामानाधिकरण्यभङ्गश्च द्वौ दोषौ; भयपदप्रातिपदिकमुख्यत्वं यत्तच्छब्दानध्याहारः पदैकवाक्यतया भयादस्तेत्यनन्तरवाक्यैकरूप्यञ्चेति चत्वारो गुणाः । अतो दोषभूयस्त्वगुणलाघवयुक्तनिर्वाहादपि दोषलाघवगुणभूयस्त्वयुक्तनिर्वाहो वरमिति । कृत्स्नजगद्भयावहत्वलक्षणस्य प्रशासनस्य परमात्मधर्मत्वं श्रुत्यन्तरप्रसिद्धयोपपादयति अयञ्चेति ॥
ज्योतिर्दर्शनात् । एतत्प्रकरणहेतुपरत्वमेव युक्तमिति दर्शयति वाक्ययोर्मध्य इति । “न तत्र सूर्यः” इत्यादिमन्त्रे पूर्वार्धस्यार्थमाह सर्वतेजसां छादकमिति । उत्तरार्धस्य पूर्वपादार्थमाह सर्वतेजसां कारणभूतमिति । अनुभानम्- पश्चाद्भानम् । तेन कारणभावः सिद्धः । पौर्वापर्यनियमो हि कार्यकारणभाव इति भावः । चतुर्थपादार्थमाह अनुग्राहकमिति । “यस्यादित्यो भामुपयुज्य भाति” इत्यादिश्रुतिश्चानुग्राहकत्वे प्रमाणम् । ज्योतिर्दृश्यत इति । ज्योतिः दीप्तिः; “ज्योतिष्मद्भ्राजमानं महस्वत्” इति प्रयोगात् ।
ननु कथं कारणत्वानुग्राहकत्वे संभवतः ? तद्धि प्राकृततेजोविजादीयम् । सजातीयतेजो हि तेजसां कारणमनुग्राहकं च दृष्टम्; यथा दीपो दीपान्तरस्य, दीपादिप्रभा च चाक्षुषप्रभाया इति । उच्यते । निमित्ततया कारणत्वोपपत्तिः । उपादानस्यैव हि साजात्यापेक्षा । आहङ्कारिकस्य विजातीयस्यापि चक्षुषस्तेजोद्रव्येणाप्यायनं च दृष्टम् ।
निमित्तकारणत्वञ्च तेजःकारणभूतवस्त्वनुग्राहकतया भवति । यथा कालस्य निमित्तत्वं कारणवस्त्वनुग्राहकतया, यथा च सलिलदहनातपादीनां घटोत्पत्तौ निमित्तत्वं मृद्द्रव्यसंयोगेन तत्र किञ्चित्करतया भवति । एवमप्राकृततेजोऽपि प्राकृततेजस उत्पत्तौ तदुपादानद्रव्यस्यानुग्राहकतया निमित्तं भवतीत्यभ्युपगन्तव्यम्, प्रमाणबलात् । उत्पन्नस्यापि तेजसः स्वकार्यकरणसामर्थ्यस्य तत्संबन्धापेक्षत्वात् तदनुग्राहकम्; यथा चाक्षुषरश्मेश्चन्द्रातपादिः; यथा शुष्ककण्ठस्य वाग्व्यवहारे पानीयास्वादनम्; यथा मनसो धारणग्रहणस्मरणादिपाटवे सम्यगाहारः । उक्तलक्षणकारणत्वानुग्राहकत्वाभिप्रायेण भगवता पराशरेण मूर्तब्रह्मशब्दवाच्यिादिव्यविग्रहविशिष्टत्वमुक्तवा, “ततो जगत् जगत्तस्मिन् स जगच्चाखिलं मुने” इत्युच्यते । स जगदिति सामानाधिकरण्ये धारकत्वनिबन्धनम् ।
अस्य वाक्यस्य परोक्तार्थोऽनुपपन्नः । तथाहि- सूर्यादिभिरप्रकाश्यत्वं न पूर्वार्धस्यार्थः, भातिशब्दस्य ज्ञानवाचित्वाभावात् । स हि दीप्त्यर्थः, । “भा दीप्तौ” इति हि धातुः । किञ्च यदि भासयितृत्वं निषिध्यते, तदा ब्रह्मविषयज्ञानहेतुत्वनिषेध इति च वक्तुं शक्यते । इह भानमेव निषिध्यते; न भासयितृत्वम् । यदि णिजर्थान्तर्भावनभिष्टम्, तदा तत्रेति सप्तमी न घटते; कर्मत्वस्यैव प्राप्तत्वात्; अतोऽर्थान्तरानुपपत्तेः, “दिवि सूर्यसहस्रस्य भवेत् युगपदुत्थिता । यदि भाः सदृशी सा स्यात् भासस्तस्य महात्मनः” इति स्मृत्यानुगुण्याच्च तदीयदीप्तिसाक्षात्कारसंभवे तेजोन्तराणामभिभूतत्वमेवात्र प्रतिपाद्यम् । तृतीयपादे चाधिष्ठानस्फुरणाधीनम् अध्यस्तस्फुरणमुच्यत इति चायुक्तम्; तमिति पुंल्लिङ्गान्तस्य तच्छब्दस्य चिदचिद्व्यावर्तकानन्तगुणविशिष्टपरमपुरुषपरत्वात् तस्मिन् भासमानेऽध्यासानुपपत्तेरध्यस्तवस्तुस्फुरणायोगात् । सर्वज्ञत्वादिगुणको निर्दोषः परमपुरुषो हि मुण्डके प्रकृतः । कठवल्लयाञ्चाकर्मवश्योऽनन्तमहिमा सर्वनियन्ता सर्वाधारो विष्णुशब्दवाच्यः सर्वस्मात्परः स एव पुरुषः प्रकृतः । श्वेताश्वतरे च सहस्रशीर्षत्वसहस्राक्षत्वादिमान् स्वाभाविकपरज्ञानशक्तयादिगुणकः सत्त्वप्रवर्त्तको महापुरुषः प्रकृतः । सवज्ञत्वादयश्च गुणाः समस्तचिदचिद्व्यावर्त्तकाः; तैर्विशिष्ट एव तच्छब्देन परामृश्यते; न वस्तुमात्रम्; तच्छब्दस्य प्रकृतपरामर्शित्वस्वारस्य भङ्गात्; पुंल्लिङ्गनिर्देशस्य प्रकृतपुरुषविषयत्वज्ञापकत्वाच्च । अतः, तमेव भान्तमिति तं भान्तमेवेति ह्यन्वयः; तमेवेत्यन्वये सति व्यवच्छेद्यतेजोन्तरासम्भवात् । तथाऽन्वयेऽपि न विरोधः । यद्यधिष्ठानस्फुरणाधीनम् अध्यस्तस्फुरणमित्युच्येत, “तस्य भासा सर्वमिदं विभाति” इति पुनरुक्तिश्च स्यात् । तस्य वृत्तिरूपज्ञानेन सर्वं भातीत्यर्थ इति चेन्न; भाश्शब्दस्य वृत्तिज्ञानवाचित्वाभावात् । अतो भगवत्तेजसः सर्वतेजोनुग्राहकत्वमेव चतुर्थपादार्थः । अतः प्रकरणस्थरुक्मवर्णश्रुतिपुरुषशब्दप्रत्यभिज्ञापितादित्यवर्णश्रुतिप्रसिद्धदिव्यविग्रहद्वारकदीप्तिविशिष्टोऽनेन मन्त्रेण प्रतिपाद्यते ।
परमात्मपरतया निर्णीतप्रकरणस्थतया प्रत्यभिज्ञायमानत्वाच्चास्य मन्त्रस्य परमात्मसाधकत्वमित्याह अयमेव श्लोक इति । एवं शब्दतः प्रत्यभिज्ञानं हेतुतयोक्तम्; अर्थतः श्रुत्यन्तरप्रत्यभिज्ञानञ्चास्य मन्त्रस्य परमात्मत्वसाधकत्वोपपादकमित्यभिप्रायेणाह परज्योतिष्ट्वञ्चेति । आदिशब्देन “तच्छुभ्रं ज्योतिषां ज्योतिः”, “नारायणपरो ज्योतिः”
इत्याद्यभिप्रेतम् ।
एवं स्वपक्षसाधकतया श्रुत्यन्तरस्थवाक्यत्रयोपादनेन अर्थात् परपक्षव्युदासश्च सिद्धः । परैः खल्विदं सूत्रम्; “एष
संप्रसादोऽस्माच्छरीरात्समुत्थाय” इत्यादिवाक्यविषयमधिकरणान्तरं व्याख्यातम् । तत्र च ज्योतिश्शब्दस्यादित्यपरत्वं पूर्वपक्षीकृत्य परब्रह्मपरत्वं सिद्धान्तितम् । तदयुक्तम्; पूर्वपक्षानुत्थानात् । ज्योतिश्शब्दश्रुतिर्हि प्रकरणाद्बलीयसी; अत उत्थानमिति चेन्न- किं ज्योतिश्श्रुतिरादित्यासाधारण्यात् तत्साधिका, उत साधारण्येऽपि प्रवृत्तिनिमित्तभूतप्रकाशकत्वपौष्कल्याद्वा(त्?) । न प्रथमः, “आपो ज्योतिश्च पञ्चमम्”, “अग्निर्ज्योतिरहः शुक्लः”, “ज्योतीहषि शुक्राणि च यानि लोके”, “ज्योतींषि विष्णुर्भुवनानि विष्णुः” इति बह्वर्थसाधारणतया प्रयुज्यमानत्वात् । न द्वितीयः; “नारायणपरो ज्योतिः” “तच्छुभ्रं ज्योतिषां ज्योतिः”, “तं देवा ज्योतिषां ज्योतिः” इति नारायण एव प्रवृत्तिनिमित्तपौष्कल्यदर्शनादित्यभिप्रायेण “तं देवा ज्योतिषाम्” इति वाक्यमुपात्तम् । ज्योतिषां ज्योतिरित्युक्तत्वात् ज्योतिष्ट्वं तत्प्रकर्षश्च ह्यवगम्यते । अतो ज्योतिश्शब्दस्य साधारण्यं भगवत्येव प्रवृत्तिनिमित्तपौष्कल्यञ्च तेन सिद्धम् । आदित्यासाधारण्याभ्युपगमेऽपि कृतकरत्वज्ञापनाय अथ यदतः पर इति वाक्यमुदाहृतम्; “अथ यदतः परो दिवो ज्योतिर्दीप्यत” इत्येतद्वाक्यविषयेण, “ज्योतिश्चरणाभिधानात्” इत्यधिकरणेन ज्योतिश्शब्दश्रुतेः परिहृतत्वात् । तत्र हि “पादोऽस्य सवर्ा भूतानि” इति प्रकरणम् । स्थितमपि तदनादृत्य ज्योतिश्शब्दस्य तमःप्रतिद्वन्द्विनि प्रसिद्धतया आदित्यविषयत्वं परैरेवोक्तं परिहृतञ्च । अतः कृतकरत्वम् । परशब्दविशेषितज्योतिश्शब्दोऽपि न आदित्ये रूढः । परत्वस्य निरतिशयस्य तस्मिन्नसंभवादेव गुणयोगादपि नादित्यप्रतीतिः । उत्थानश्रुतिः क्तवाश्रुतिश्च पूर्वपक्षहेतुरिति चेन्न; परब्रह्मविषयत्व एव तयोरुपपत्तेर्वक्ष्यमाणत्वात् । माऽस्तु तयोः परब्रह्मविषयत्वसम्भवः; तथापि नारम्भणीयता; “उत्तराच्चेदाविर्भूतस्वरूपस्तु” इति सूत्रेणास्य वाक्यस्य परब्रह्मप्राप्तिप्रतिपादकत्वस्य समर्थितत्वात् । “यत्तत् परं ज्योतिरुपसम्पत्तव्यं श्रुतम्, तत् परं ब्रह्म । तच्चापहतपाप्मत्वादिधर्मकम् । तदेव च जीवस्य पारमार्थिकं रूपम्” इति हि तैरुक्तम् । “श्रुतिकृतं विवेकज्ञानं शरीरात्समुत्थानम्, विवेकज्ञानफलं स्वरूपेणाभिनिष्पत्तिः” इति समुत्था नादिश्रुतिनिर्वाहश्च तैस्तत्रैव कृतः । अतः कृतकरत्वम् । इह परब्रह्मोपसम्पत्त्याऽऽविर्भूतस्वरूपविषयत्वसमर्थनमुपजीव्य दहराकाशस्य परमात्मत्वं तत्र समर्थितमिति चेत्- तर्हि उत्तराच्चेदिति सूत्रानन्तरं “ज्योतिर्दर्शनात्” इति सूत्रं निवेशयितव्यम्; हेतुप्रयोगानन्तरमेव हेत्वसिद्धेः परिहरणीयत्वात् । अपहतपाप्मत्वादिगुणकस्याऽऽत्मनो वक्तव्यत्वेन अनुवृत्तिदर्शनेन हि तदसिद्धिरिह परिहिृयते । इदञ्च तत्रैवोक्तम्; अपहतपाप्मत्वादिगुणकमात्मानं प्रस्तुत्य, “एतं त्वेव ते भूयोऽनुव्याख्यास्यामि” इति तमाकृत्य तस्य स्वप्नसुषुप्त्याद्यपन्यासक्रमेण परमार्थस्वरूपाविर्भावोपदेशपरमिदं वाक्यमिति तत्र तैरेव प्रतिपादनात् । तदप्रतिपादने चास्य वाक्यस्याऽऽविर्भूतस्वरूपविषयत्वासिद्धेः । अतः कृतकरत्वम् । अन्यथा तत्रैवैतत्सूत्रनिवेशनं वा प्रसजेत् ।
अपरे त्वाहुः-शरीरादुत्थानस्य स्वेन रूपेणाभिनिष्पत्तेश्च मध्ये श्रूयमाणा परज्योतिः प्राप्तिर्नाम आदित्यप्राप्तिः; अर्चिरादिमार्गप्रत्यामज्ञानात् । तत्र हि आदित्यादिप्राप्तिर्मध्ये श्रूयते । आदित्यस्य परत्वञ्च अर्चिराद्यपेक्षयेति पूर्वपक्षोत्थानमिति तदप्यत एव निरस्तम्; उत्तराच्चेदिति सूत्र एवास्य वाक्यस्य परब्रह्मोपसंपत्त्याऽऽविर्भूतस्वरूपात्मविषयत्वस्य समर्थितत्वादिति ॥ 41 ॥
॥ इति प्रमिताधिकरणशेषः ॥