॥ दहर उत्तरेभ्यः ॥ पूर्वाधिकरणे “परात्परं पुरिशयं पुरुष” मित्युक्तस्य परमात्मत्वं साधितम्, अत्र पुरिशयस्याकाशशम्दवाच्यस्यापरमात्मत्वं निरस्यते इति सङ्गतिः । पूर्वं ब्रह्मलोकशब्दस्य परमात्मस्थानपरत्वमुक्तम्, तद्वदिहापि
ब्रह्मलोकशब्दब्रह्मपुरशब्दयोः स्थानपरत्वं स्यादिति शङ्कया सङ्गतिः, पूर्वत्रान्तरिक्षशब्दस्य प्रसिद्धान्तरिक्षपरत्वं व्यावत्तिर्तम् ; एवं दहराकाशशब्दस्य प्रसिद्धाकाशादन्यपरत्वमुच्यत इति सङ्गतिः । तर्हि “अक्षरमम्बरान्तधृते” रित्यस्यानन्तरं दहरादिकरणं प्राप्तम्, उभयत्राकाशशब्दस्य विषयवाक्येषु श्रुतत्वात् । ईक्षतिकर्मेत्यधिकरणं दहरादिकरणानन्तर्यमर्हाते,तत्र ह्यन्तरिक्षशब्दः श्रूयते, न त्वाकाशशब्दइति चेन्न; अक्षरेक्षतिकर्माधिकरणयोः आकाशान्तरिक्षशब्दवाच्यादर्थान्तरस्य परमात्मनिणर्येन परस्परसङ्गत्यतिशयात् । दहराधिकरणे त्वाकाशशब्दवाच्यस्यैव परमात्मत्वं विवक्षितमित्यस्य पूर्वाधिकरणद्वयानन्तरत्वं युक्तम् । विषयादिकं दर्शयति - इदमित्यादिना । परस्मिन्नन्वेष्टव्यान्तरप्रतीत्यनुपपत्तेः पक्षान्तरद्वयेऽप्युपमानोपमेयभावाद्यनुपपत्तेश्च संशयः । किं दहराकाशो भूताकाशः, उत जीवः, अथ परमात्मा ? इति । तदर्थमन्वेष्टव्यान्तरनिर्द्देशः किं दहराकाशस्य परमात्मत्मविरोधि, उत न ? तस्मिन्यदन्तरिति निर्द्देशः किं दहराकाशस्य गुणजातविषयः, उतार्थान्तरपरः ? एष आत्मेतिवाक्योक्तमपहतपाप्मत्वादिकं किं प्रजापतिवाक्योक्तजीवधर्मः, उत न ? जीवधर्मत्वेऽपहतपाप्मत्वादिश्रुतिस्वारस्यमस्ति, न ? इति विचारः । यदा तस्मिन्पदन्तरितिनिर्देशोऽर्थान्तरपरः तदाऽन्वेष्टव्यशब्दस्य विषयत्वाभावेन दहराकाशस्य भूताकाशत्वं स्यात्, यदा एष आत्मेति वाक्योक्तगुणाष्टकस्य प्रजापतिवाक्योक्तजीवधर्मत्वे स्वारस्यमस्ति तदानीम् एष आत्मेतिवाक्यस्य जीवविषयतया दहराकाशो जीवः स्यादिति पूर्वपक्षे फलफलिभावः । यदा तस्मिनूयदन्तरिति
गुणजातविषयोक्तिः तदा अन्वेष्टव्यशब्दस्य गुणजातविषयत्वादहराकाशो भूताकाशातिरिक्त इति स्यात्, यदा “एष आत्मा” इतिवाक्यस्य प्रजापतिवाक्योक्तजीवधर्मविषयत्वे स्वारस्यं नास्ति तदा स्वरसतो गुणाष्टकविशिष्टपरमात्मप्रतिपादकतया दहराकाशः परमात्मा स्यादिति राद्धान्ते फलफलिभावः । आकाशशब्दस्य क्वचित्परमात्मपरत्वं दृष्टमिति तद्य्वावृत्त्यर्थं प्रसिद्धिप्रकर्षादित्युक्तम् । “एष आत्माऽपहतपाप्मा” इत्यादिभिरस्याकाशस्य परमात्मगुणेषु श्रूयमाणेषु सत्सु कथं प्रसिद्धिप्राचुर्यात् भूताकाशत्वेन प्रत्यवस्थानमित्यत्राह - तस्मिन् यदन्तरिति । एतच्चोत्तरत्राथ स्यादित्यादिना व्यक्तीभविष्यति ।
राद्धान्तमाह - एवं प्राप्त इति । न हि परमात्मधर्माणामुत्तरत्वाधरत्वादिकमस्ति, तस्माद्धेतोरुत्तरत्वं वाक्यद्वारकमित्याह - वाक्यगतेभ्य इति । उत्तरेभ्य इत्युक्ते चतुर्थ्यन्तत्वशङ्का माभूदिति पञ्चमीस्फुटीकरणाय हेतुभ्य इत्युक्तम् । “षष्ठी हेतुप्रयोगे” इति नियमः प्रयोजनतया, हेतुत्वविवक्षायाम् न सर्वदा; यथा “अल्पस्य हेतोर्बहु हातुमिच्छन्” इति । उत्तरवाक्यगतहेतून् दर्शयति - एष इत्यादिना । निरुपाधिकात्मत्वमिति - देवादिकतिपयशरीरविशेषानवच्छिन्नत्वं निरुपाधिकत्वम्, अपहतपाप्मत्वादेरपि निरुपाधिकत्वमभिप्रेतम् । यद्वा आकाशस्यापि स्वकार्यव्याप्त्या यौगिक आत्मशब्द उपपन्न इति शङ्काव्यावृत्त्यर्थो निरुपाधिकशब्दः । यौगिकत्वाश्रयणं च क्लिष्टम्, स्वतः शरीरप्रतिसम्बन्धिनियन्तृरूपव्याप्तरि ह्यात्मशब्दपयोग इति भावः । अपहतपाप्मत्वादिकमित्यादिशब्देन सत्यकाम
त्वादिग्रहणे शक्येऽपि गुणानां विधिनिषेधरूपेण द्वैविध्यज्ञापनाय सत्यकामत्वादेः पृथगुपादानम् । उपमानेति - एकस्यैवोपमानोपमेयभावो न घटत इत्यर्थः । उपमानोपमेयभावस्य हृदयावच्छेदनिबन्धनत्वमाशङ्कय परिहरति - हृदयेत्यादिना । अत एवेदमपि नाशङ्कनीयम् “रामरावणयोर्युद्धं रामरावणयोरिव” इतिवदुपमानशून्यताज्ञानपरं वाक्यमिति, यावच्छब्दानुपपत्तेः अंशमेदोक्तेश्च । न्यूनपरिमाणस्येव अधिकपरिमाणस्यापि न मध्यपरिमाणेन साधर्म्यं युक्तमिति चोदयति - ननु चेति । अन्यूनपरिमाणत्वमात्रं साधर्म्यमिति परिहरति - नैवमिति । अथ स्यादिति यद्यपि “यावान्वा अयमाकाशः” इति मध्यगतवाक्यस्याकाश एव प्रथमानिर्द्दिष्टत्वादासन्नत्वाच्च एष इति परामर्शनीयः, तथाऽप्युपक्रमे “तस्मिन् यदन्तस्तदन्वेष्टव्यम्” इत्यादिष्वात्मनोऽन्वेष्टव्यत्वनिश्चयादिहाप्यन्वेष्टव्यस्य तदन्त
र्वर्तिनोऽन्वेष्टव्यस्यात्मनः परामर्शः, अत आत्माधिकरणतयाऽवगतत्वेन तद्य्वतिरिक्तत्वाद्युपपत्त्यनुरोधेन भूताकाश एवायं दहराकाश इत्यर्थः । पूर्वपक्षेऽन्वेष्टव्यान्तरस्याधारतया प्रतीतेश्चेत्यनेन वाक्येनाभिप्रेतोऽर्थ इहाथ स्यादित्यादिना कण्ठोक्ते भवति । परिहरति - स्यादेतदिति । ब्रह्मपुरशब्दार्थमाह - उपास्यतस्येति । न केवलं ब्रह्मणः सर्वव्यापित्वाच्छरीरेण साधारणं सम्बन्धमात्रम्, अपि तूपासनस्थानभूतहृदयाधारत्वात् सम्बन्धविशेषश्च विद्यते, ब्रह्मशब्दश्च परस्मिन्मुख्यः, अतो ब्रह्मपुरं शरीरमित्यर्थः । अत्रेदमप्यर्थसिद्धम्; दहराकाशो जीव इति पूर्वपक्षस्य साधकतया ब्रह्मपुत्रशब्दनिर्द्देशः परैरुक्तः, तदयुक्तमिति । कथम् ? उच्यते ब्रह्मणः सर्वविकारसाधारणत्वादसाधारणेन व्यपदेशस्य युक्तत्वाज्जीवस्य भोगोपकरणतया सम्बन्धविशेषसद्भावाज्जीवशरीरमेव ब्रह्मपुरमिति तद्विधेयपुराधिपो जीव इति शङ्कितम् तदयुक्तम्; मुख्यार्थस्य स्वतो ग्राह्यत्वात् परमात्मन उपास्यत्वाय शरीरान्तरवस्थानस्य “निचाय्यत्वादेवम्” इत्यत्रदर्शिततया सम्बन्धविशेषसद्भावाच्च जीवसाधकत्वशङ्कानुत्थानादिति । अल्पपरिमाणमित्यनेन
“दहरं पुण्डरीक"मित्यत्र दहरशब्दो व्याख्यातो भवति । सत्यकामत्वस्यसङ्कल्पत्वसिद्धान् गुणानाह - स्वाभाविकेति । ननु आकाशशब्दवाच्यस्य गुणित्वेन तस्य ध्येयत्वं वक्तव्यम्, तेन विना गुणध्यानायोगात् तच्छब्दस्य तदन्तर्वर्तिपरत्वत्वान्नाकाशाभिधायित्वम् गुणिनो ध्येयत्वे कथिते गुणानां ध्येयत्वमर्थसिद्धं स्यात्, न तु गुणानां ध्येयत्वे कथिते गुणिनोऽन्तर्भावः, अतोऽन्वेष्टव्यमितिपदं गुणिपरम्, न तु गुणपरमित्यत्राह - अत्रेति । तच्छब्द एवोभयपरमर्शीत्यर्थः । ननु यच्छब्दनिर्द्दिष्टं हि तच्छब्देन परामृश्यते । यच्छब्दस्त्वन्तर्वर्तिपरः, नाकाशपरः, तत्कथमुभयपरामशिर्त्वं तच्छब्दस्येति शङ्कायामस्य वाक्यस्य परोक्तार्थपरत्वं च व्युदस्यन् तच्छब्दस्य उभयपरामर्शित्वमाह यदिदमस्मिन्निति । तस्मिन् दहरपण्डरीकवेश्मनि यदन्तर्गतं दहराकाशाख्यं वस्तु तदन्वेष्टव्यम् इति परैरुच्यते, तद्य्वुदस्यति - यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्मेत्यनूद्येत्यादिना । अयमर्थः, यदिदं दहरं पुण्डरीकं वेश्म तस्मिन् दहराकाश इति दहराकाशस्य पुण्डरीकवेश्माधारत्वस्योक्तत्वात् पुनरपि “तस्मिन् यदन्त"रिति आकाशस्य पुण्डरीकवेश्माधारत्वकथनवैयर्थ्यं स्यादिति । तस्मिन् यदन्तरिति गुणविषयत्वे तु न वैयर्थ्यम्, पूर्वमनुक्तत्वात्,
अतोऽपेक्षितविधेरनपेक्षितविधानं दुर्बलम् । अत्र दूषणान्तराण्यप्यभिप्रेतानि अव्यवहितदहराकाशं विहाय व्यवहितपुण्डरीकवेश्मपरमर्शोऽनुपपन्नः । किञ्च पुल्लिङ्गशब्दनिर्द्दिष्टस्य दहराकाशस्य यदिति नपुंसकलिङ्गान्तपदेन परामर्शानुपपत्तिश्च । तस्मिन् यदन्तरितिवाक्यं दहराकाशस्य पुण्डरीकवेश्माधारकत्वप्रतिपादनपरं चेत्, अनन्तरवाक्यस्य तदाक्षेपपरतया व्याख्यानं चानुपपन्नम् परमात्मनोऽर्न्वर्ति तत्कारणं सूक्ष्मं किमपि न सम्भवतीति किं तत्र विद्यत इति वाक्येनाक्षिप्य द्यावापृथिव्यादिकार्यस्य तदन्तर्वर्तितया समाधानमिति हि परैर्वर्ण्यते, दहराकाशः पुण्डरीकवेश्मवर्तीत्युक्ते किमत्राक्षेप्यम् तथा “अस्मिन् कामाः समाहिताः” “अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्” इति गुणानां तदन्तर्वर्तित्वमुक्त्वा गुणगुणिनोरुभयोरप्युपासनतत्फलप्रतिपादकोपरितनवाक्यस्वारस्यभङ्गश्च भवेत्; अतः परोक्तर्थोऽनुपपन्न इत्यभिप्रायः । दहरोऽस्मिन्नितिवाक्यं व्याचष्टे - तस्मिन् दहरेति । पुंल्लिङ्गयच्छब्दाध्याहारेण योजनायां यच्छब्दद्वयनिर्द्दिष्टमुभयं तच्छब्देन प्रतिनिर्दिश्यत इत्यभिप्रायेण यो दहराकाशः यच्च तदन्तर्वर्ति गुणजातं तदुभयमित्युक्तम् । यद्वा पुल्लिङ्गयच्छब्दानध्याहारेण दहरोऽस्मिन्नित्यादेरेकवाक्यत्वं मन्वान आह तस्मिन् दहरेति । श्रुतिवाक्ये अन्तःशब्दोऽन्तवर्र्तिपरः । अस्मिन् वर्तमानो दहराकाशस्तदन्तर्वर्ति च यत्तदुभयमन्वेष्टव्यमितिवाक्यस्यार्थ इत्यर्थः । “त्यदादीनि सवर्ैर्नित्यम्” इति पुंल्लिङ्गनपुंसकलिङ्गयोर्यच्छब्दयोरेकशेषः । “नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्” इति नपुंसकान्तत्वमेकवचनान्तत्वं च, तस्मादाकाशतदन्तर्गतान्वेष्टव्यगुणपरं
पुन्नपंसकान्तयच्छब्दद्वयार्थविषयं तदितिपदमित्यभिप्रायः । एवं “तदन्वेष्टव्य"मिति तत्पदेनैवात्मनोऽप्युक्तत्वादन्वेष्टव्यतया प्राधान्यावगतिरन्वेष्टव्यस्यात्मत्वप्रसिद्धिश्चोपपन्ने इति चोद्यपरिहारसिद्धिः । दहराकाशेति - विवक्षितार्थस्य प्रामाणिकत्वे सिद्धे हि क्लिष्टनिर्वाहाश्रय उपपद्यते, तस्मात् दहराकाशस्य परब्रह्मत्वे तदन्तर्वर्तिनो गुणजातत्वे तयोरन्वेष्टव्यत्वे च प्रमाणं वक्तव्यमित्यर्थः । प्रतिवक्ति - तदवहितेत्यादिना । “तदन्वेष्टव्यम्” “यावान्वा अयमाकाश इति वाक्ययोर्मध्ये “किं तदत्र विद्यते” इति वाक्यं श्रूयते परमात्मनोऽन्तर्वर्तिनः कस्यचिदसम्भवात् किं तदत्र विद्यते इति वाक्यमाक्षेपपरमित्याहुः परे । प्रश्नपरमिदं वाक्यमित्युचितम् । बुभुत्साख्यापनमात्रं प्रश्नः । अनुपपत्त्यद्घाटनेनार्थाक्षेपपूर्वकं परिहारबुभुत्साख्यापनं चोद्यम् अबुभुत्सितपरिहारेण वक्त्रा प्रतिषेधः प्रतिक्षेपः, “कुतस्तु खलु सोम्य” इतिवत् । न प्रतिक्षेपपरमिदम्, परिहारस्य वक्ष्यमाणत्वात् । न केवलः प्रश्नः, अनुपपत्तेर्विद्यमानत्वात् । सर्वान्तरस्य परमात्मनो ह्यन्तरभूतं तत्त्वान्तरमसम्भावितम् । अनुपपत्त्युद्घाटनमुखेनाक्षेपस्य कण्ठोक्तयभावान्न केवलं चोद्यमित्यप्युचितम्, अतो विनयं प्रकाशतया शिष्येणानुपपत्तिमभिप्रेत्य तामस्फुटं बुवता बुभुत्साख्यानपनं क्रियत इति प्रश्नवाक्यतुल्यं फलतश्चोद्यपरमिदं वाक्यम् । तच्छब्दनिर्दिष्टयोराकाशतदन्तर्वर्तिनोरन्तर्वर्तिर्विशेषानवगमादुक्तानुपपत्तिगर्भस्तदन्तर्वर्त्यंशविषयः प्रश्नः किं तदत्रेति । स ब्रूयात्- आचार्यो ब्रूयादित्यर्थः । प्राकरणिकानामिदमेतच्छब्दानामाकाशपरामर्शपरत्वार्थं च यावान्वा अयमित्यादि प्रदर्श्यते, इदं वाक्यं दहराकाशस्याल्पत्वनिवृत्तिपरमित्यभिप्रायेणातिमहत्तामित्युक्तम् । प्रकृतमेवेति - अन्तर्वत्यन्वेष्टव्यम् आकाशशब्दव्यवहितत्वान्नेदं शब्दविषय इति भावः । दह
राकाशस्यानुगत्यविच्छेदं दर्शयति - तमेवेति । अस्येति व्याख्येयम्, उपासकस्येति व्याख्यानम् । इदंशब्दः षष्ठ्यन्तो बुद्धिस्थपर इत्यर्थः । अन्वेषणविजिज्ञासयोः कर्तृत्वेन उपासको हि बुद्धिस्थः । अस्येहास्ति नास्तीति अस्तित्वनास्तित्वयोः सप्रतियोगिकत्वावगमानन्तरं चोदयितुरनुभाषणवाक्ये “सर्वे च कामाः” इत्यनुभाषणाद्यच्छब्दो भोग्यजातपर इत्यभिप्रायः । फलितमर्थमाह - निरतिशयभोग्यत्वमिति । यथा समुद्रे गोष्पदपल्वलादीनामन्तर्भाववचनात् समुद्रस्यानवधिकजलौघत्वं सिध्द्यति, एवं “सर्वं तदस्मिन् समाहित"मित्यनेन निरतिशयभोग्यत्वसिद्धिरित्यर्थः । ननु कथमस्य वाक्यस्यामुख्यार्थत्वमाश्रीयते ? जीवभोग्यवस्तूनामाधारत्वमुक्तं किं न स्यात् ? उच्यते; अस्येतिपदं तावन्न ब्रह्मपरम्, यच्चास्य नास्ति सर्वमस्मिन् समाहितमिति व्याघातात् । न च जीवमात्रपरम्, जीवविशेषस्योपासकस्य बद्धिस्थत्वात् । उपासकस्य रूर्याथादिकं न भोग्यमिति तदाधारत्वकथनमनुपपन्नम्, तस्य च ब्रह्मैप्राप्तं तस्यापरिच्छिन्नत्वमितरफलान्तवत्त्वं चेहैवानन्तरमुच्यते, अतो निरतिशयभोग्यतापरत्वम्; अन्वेष्टव्यतोपयुक्तत्वाच्च निरतिशयभोग्यतापरत्वं युक्तम् । नन्वानन्दत्वस्य स्वरूपनिरूपकधर्मतया सर्वविद्यानुयायित्वादर्थसिद्धमिति निरतिशयभोग्यत्वं न पृथग्वाच्यम् । नैवम्; स्वरूपनिरूपकस्य सत्यत्वस्यात्र पृथगुक्तत्वात् अपेक्षितेष्वर्थेषु अनुक्तस्य ह्यन्यतो ग्राह्यत्वम्, न तूक्तपरित्यागोनान्यतो ग्राह्यत्वं युक्तम्, अतो यथोक्त एवार्थः । “अथ तं चेद्ब्रूयु” रित्यादिचोद्यपरिहारवाक्यानामर्थं हृदि निधायाह - तस्य दहराकाशस्येति । अस्मिंश्च यदिदं बह्मपुरे सर्वं समाहितं सर्वाणि भूतानि सर्वे च कामाः यदैनं जराऽवापनोति प्रध्वंसते वा किं ततोऽतिशिष्यते” इति चोद्यम्, किं तदत्र विद्यत इति प्रश्नस्य प्रतिवचनम् अस्मिन् कामासमाहिता इति वक्ष्यते । मध्ये चोद्यान्तरमिदमुत्थितम्, शरीरान्तर्वर्तिनि दहराकाशे सर्वं द्यावापृथिव्यादिकं स्थितं चेद्देहप्रध्वंसे तदन्तर्गतस्याकाशस्यापि हृत्पुण्डरीकस्येव प्रध्वंससम्भवात् तस्य
द्यावापृथिव्याद्याश्रयत्वमनुपपन्नम्, देहप्रध्वंसेऽपि द्यावापृथिव्याद्यवस्थानात्, अस्थिरत्वादेव निरतिशयभोग्यत्वं च अनुपपन्नमिति, एवं चोद्योत्थानबीजं सूचयति - देहावयवभूतहृदयार्न्वर्तित्वेऽपीति । “यदैनं जराऽवाप्नोति” इत्ये
तच्छब्दः पूर्वप्रकृतं व्यवहितमपि ब्रह्मपुराख्यं शरीरं परामृशति, जरादिस्पर्शाभिधानात् । न तु तदन्तर्वर्तिपरामर्शी, तस्य सत्यत्वस्य वक्ष्यमाणत्वादित्यभिप्रायेण देहावयवेत्युक्तम् । चोद्यपरे श्रुतिवाक्ये “सर्वं समाहित"मिति द्यावापृथिव्याद्युपलक्षितभोग्यभोगोपकरणभोगस्थानाधारत्वमनूदितम्, सर्वाणि भूतानीति सूर्याचन्द्रमोनक्षत्रोपलक्षितभोक्तृवर्गाधारत्वमनुदितम्, सर्वे च कामा इति निरतिशयभोग्यत्वमनूदितम्, पुरोवादिवाक्यानुगुणत्वादनुवादिवाक्यस्य । ननु सर्वशब्दसङ्कोचेन जीवभोग्याधारपरमिदं वाक्यम्, मुख्यत्वोपपत्तेरिति । नैवम्; अमुख्यत्वं सोढव्यम् प्रथमश्रुतसर्वशब्दसङ्कोचस्यायुक्तत्वात् पुरोवाद्यानुरूप्यसिद्धेरुपासकफलस्य निरतिशयतया वक्ष्यमाणत्वानुगुणत्वाच्च । न च गुणाष्टकविषयोऽयं चोद्यवाक्यस्थः कामशब्दः, अस्मिन् कामा इति तस्य वक्ष्यमाणस्य पूर्वमुक्तत्वायोगात् उक्तानुभाषणरूपत्वाच्चास्य वाक्यस्य, अतः सर्वे च कामा इति निरतिशयभोग्यत्वानुवादः । “न जीर्यति न हन्यते, इत्यनेन प्रतिवचनवाक्येनार्थसिद्धमाकारमाह - परमकारणतयाऽतिसूक्ष्मत्वेनेति । कार्याद्वाय्वादेः कारणमाकाशादिकं हि सूक्ष्मम्, तत एव वाय्वादिविकारोऽप्याकाशस्य न तादृशविकारसम्भव इति तत्तत्कारणतत्त्वान्तरात्मनो निरतिशयसूक्ष्मत्वान्निर्विकारत्वमिति भावः । तत एवेति - श्रुतिवाक्यस्थसत्यशब्दस्य निर्विकारत्वमर्थ इति भावः । षष्ठीतत्पु
रुषव्यावृत्त्यर्थमाह- ब्रह्माख्यमिति । सत्यशब्दसामानाधिकरण्यान्न प्राकृतशरीरमित्यभिप्रायः । पुरशब्दविषयत्वहेतुं गुणमाह - निखिलजगदिति । “सत्यं ब्रह्मपुरमित्यन्तमवान्तरचोद्यपरिहारपरम्, अस्मिन् कामा इति तु प्रथमचोद्यप्रतिवचनम् । दहराकाशमस्मिन्निति निर्द्दिश्येति । अव्यवहितैतत्सत्यं ब्रह्मपुरमित्यादिशब्दोपस्थापिततत्वादस्येति भावः । गुणानां कामशब्दवाच्यत्वमुपपादयति - काम्यभूतानिति । अवयवशक्तयेत्यर्थः । समाहिता इति । पदस्यार्थमाह - दहराकाशान्तर्वर्तित्वमिति । एवं दहराकाशस्य कामवैशिष्टयमुक्तम् । तदेवेति - को दहराकाशः ? स च कैः कामैर्विशिष्टः ? इत्यपेक्षायाम् “एष आत्मा” इति वाक्यं गुणविशेषविशिष्टधमिर्विशेषप्रतिपादकमित्यर्थः । अपहतपाप्मेत्यादिवाक्ये सत्यकामशब्दो न कामनायास्सत्यत्वपरः, इच्छाविशेषवाचकतया व्युत्पन्नस्य कामशब्दस्य भोगवाचित्वाभावात् । नापि काम्यन्त इति व्युत्पत्त्या गुणमात्रपरः, कतिपयगुणान्तराणां पृथगुक्तत्वात् असङ्कुचि
तावयवार्थसम्भवे गोबलीर्वदन्यायेनानुक्तगुणविषयतया सङ्कोचायोगाच्च, अतो भोग्यभोगोपकरणभोगस्थानरूपा नित्याः काम्या अस्य सन्तीत्युच्यते “तदक्षरे परमे व्योमन्” इत्युक्तनित्यविभूतिविशिष्टत्वं सत्यकामशब्दार्थः । स्फुटीकृत्येति - आकाङ्क्षितगुणगुणिविशेषप्रदर्शनं स्फुटीकारः । गुणगुणिनोरुभयोरप्युपास्यत्वं फलवाक्ये दर्शयिष्यन्मध्यगतवाक्यानामर्थं वदति - यथा ह्येवेति । “यथा ह्येवेह प्रजा अन्वाविशन्ति यथाऽनुशासनं यं यमन्तयभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति तद्यथेह कर्मचितो लोकः” इत्यादि, प्रथमस्य यथाशब्दस्य तथोपजीवन्तीत्यर्थः । इह लोके प्रजाः यथाऽनुशासनम् राजशासनं यथा तथा अन्वाविशन्ति लभन्ते । किमित्यत्राह - यं यमन्तमिति । अन्तः फलम् । साधनानुष्ठानावसानभावित्वात् । यं यमन्तम्- फलं क्षेत्रजनपदादिकं प्रति, अभिकामाः अन्यर्थिनो भवन्ति तत्तत्फलं तथोपजीवन्तीति लौकिकराजसेवादिप्रवृत्त्या लौकिकफलभोगावुक्तौ । तस्य क्षयित्वमाह एवमेवामुत्रेति । दहराकाशतद्गुणानुपासकानामन्तवत्फलभाक्तवमाह - तद्य इहात्मानमननुविद्येत्यादिवाक्येन । अननुविद्य अनुपास्य । व्रजन्ति परलोकमिति शेषः । भाष्ये - कर्म कुर्वतामिति । तद्यथेह कर्मचित इत्यादिश्रुत्यर्थोऽभिप्रेतः । अकामचारशब्दार्थमाह - असत्यसङ्कल्पत्वञ्चेति । अनाविर्भूतगुणाष्टकत्वं विवक्षितम् । अथ य इहात्मानमनुविद्येति । अत्रात्मानमेतांश्च सत्यान् कामानिति दहराकाशतदन्तर्वर्तिशब्दार्थानुवादः, कामचारो भवतीति सत्यसङ्कल्पत्वपर्यन्तगुणाष्टकाविर्भावो विवक्षितः ।
एतांश्च सत्यन्कामानितिवाक्ये कामशब्दोऽपहतपाप्मत्वादिगुणाष्टकपरः, न तु सत्यकामपदोक्तकामपरः, एतांश्चेत्यतच्छब्दस्य प्रकृतगुणविषयतया कामशब्दस्य काम्यन्त इत्यवयवशक्तया वृत्त्युपपत्तेः, अस्मिन् कामाः समाहिता इति वाक्यस्थकामशब्दैकार्थ्याच्च । सत्यशब्दविशेषितत्वं प्राक्तननिर्विशेषकामशब्दार्थप्रत्यभिज्ञाविरोधि सत्यकामपदवाच्यप्रत्यभिज्ञापकं चेति चेन्न; ततः पूर्वं श्रुतस्यैतच्छब्दस्य प्रकृतगुणपरामर्शक्षमतया पश्चाच्छ्रुतस्य सत्यशब्दस्य तदनुविधायित्वात्, त इमे सत्याः कामा इति प्रकृतानां कामानां सत्यशब्दविशेषितत्वाच्च; अनेन श्रुत्यर्थोपन्यासेन पूर्वप्रस्तुतशङ्कायाः परिहृतत्वं दर्शयति - अतो दहराकाश इति । ननु उपक्रमानुगुणमुपसंहारो वर्णनीयः, तत्कथमुपसंहारानुगुणमुपक्रमार्थवर्णनमिति चेन्न; उपक्रमावगतस्य तदन्तर्वर्तिनोऽन्वेष्टव्यत्वस्य बाधाभावात् । उपसंहारावगतस्य आत्मनोऽप्यन्वेष्टव्यत्वस्य उपक्रमे विवक्षितत्वमात्रं ह्युक्तम्, न तु उपक्रमावगतप्रहाणम् । ननु उपक्रमवाक्यमन्तर्वर्तिन एव अन्वेष्टव्यत्वपरं स्यात्, आत्मनोऽन्वेष्टव्यत्वं तु उपसंहारवाक्यादेव अवगतं स्यात् । किं क्लिष्टनिवर्ाहेणेति चेन्न; फलवाक्यगतोपासनानुवादस्य पुरोवादस्य चैकरूपताया अवश्याभ्युपगन्तव्यत्वात् । न ह्यप्राप्तं गुण्युपासनमनुवदितुं शक्यम्, न च “अथ य इहात्मान” मितिवाक्यं विशिष्टविधिपरम्, गुणांशस्य प्राप्त्वात्, नापि गुणानुवादेन गुण्युपासनविधायकम्, उभयानुवादेन फलप्रतिपादनपरत्वात्; अतोऽप्राप्तस्यानुवादायोगात् फलवाक्यानूदितस्य गुण्युपासनस्य गुणोपासनस्येव तदन्वेष्टव्यमितिवाक्येनैव विहितत्वमवश्याभ्युपगन्तव्यमिति दहराकाशगुणाष्टकयोरुभयोरप्युपासनं तदन्वेष्टव्यमिति विहितम् । अथान्तर्वतिर्नः कामत्वं सम्प्रदायो दृढयति - तदेतदिति । सूत्रार्थमुपसंहरति - अत एवेभ्य इति ।
॥ गतिशब्दाभ्यां तथाहि लिङ्गं च ॥ अहरहर्गच्छन्त्य इति सुषुप्तौ गमनं विवक्षितम्, तच्च पृथक्प्रतिपत्तिव्यवहारानर्हतया स्थितिः । निर्गमनं पृथक् प्रतिपत्त्यर्हतापत्तिः । कथमनयोरिति । कथम् श्रुतिषु परमात्मधर्मत्वेन अन्वयदर्शनाद्वा जीवादिप्रतिपादकवाक्येष्वदर्शनेन जीवादिष्वसम्भावितत्वाद्वा गतिशब्दयोः परमात्मसाधकमित्यर्थः । तथा हि दृष्टमिति सूत्रखण्डं परमात्मपरसपक्षभूतवाक्येष्वन्वयदर्शनभूतपरं व्याचष्टे - तथा हीति । गतेः श्रुत्यन्तरप्रसिद्धिं दर्शयति - परस्मिन्निति । शब्दस्यान्यत्र
प्रसिद्धिं दर्शयति - तथेति । लिङ्गं चेति सूत्रखण्डं जीवादिप्रतिपादकविपक्षभूवाक्येष्वदर्शनरूपव्यतिरेकाद्गतिशब्दयोः साध्यसाधकत्वपरं व्याचष्टे - माभूदिति । तत्र गतेः श्रुत्यन्तरऽन्वयदर्शननैरनेक्ष्येण साधकत्वमाह - एतदेव त्विति । श्रूयमाणमिति - निधिदृष्टान्तसचिवमिति भावः । तद्यथेत्यादेवर्ाक्यस्योदाहृतत्वादत्र निधिदृष्टान्तस्य श्रुतत्वान्निधिदृष्टान्तावगतपरमपुरुषार्थभावस्येति योजनान्तरे अनन्तरमेवोच्यमानत्वाच्च । निधिदृष्टान्तश्च परमपुरुषार्थत्वज्ञापकः, अतो दृष्टान्तानुगृहीतमहरहर्गमनमेकं पर्याप्तं लिङ्गमित्यर्थः । शब्दस्य च न्यायविशेषानुगृहीतस्य श्रुत्यन्तरेऽन्वयनिरपेक्षं साध्यसाधकत्वमाह - तथा ब्रह्मलोकेति । ननु कथं ब्रह्मलोकशब्दस्य समानाधिकरणवृत्तित्वावगमः ? व्यधिकरणवृत्तावपि तदेव हि शब्दरूपमिति शङ्कायां विवक्षितमनुग्राहकं दर्शयति - निषादेति । “एतया निषादस्थपतिं याजयेत्” इत्यत्र कमर्धारयपरिग्रहे निषादजातीयस्य स्थपतेरग्निविद्ययोरसम्भवेन स्वतो निरधिकारत्वात् षष्ठीसमासपरिग्रहे च त्रैवर्णिकान्तर्भूतस्थपतिकटाक्षेणापि निषादस्थपतिशब्दनिर्वाहसम्भवात् षष्ठीसमासपरिग्रहेणापशूद्राधिकरणन्यायानुरोधो युक्त इति प्राप्तेऽभिहितं “स्थपतिर्निषादः स्याच्छब्दसामर्थ्यात्” इति । अयमर्थः, षष्ठीसमासपक्षे निषादसम्बन्धविशिष्टोऽभिधेयः, कर्मधारयपक्षे निषादत्वविशिष्टः । तत्र षष्ठया अश्रवणान्निषादप्रातिपदिकेन विभक्तयर्थो लक्षणीयमः । न चेदं युक्तम्, श्रौतार्थपरिग्रहे विरोधाभावात् । न चाग्निविद्याराहित्यं दोषः, द्रव्यक्देतदुपयोग्यग्निविद्ययोरपि यथाकथञ्चिदार्जनस्य विध्यमनुमतिसम्भवात्, तस्मात् कर्मधारय एव न्याय्य इति; एतन्न्यायानुग्रहीतो ब्रह्मलोकशब्दः श्रुत्यन्तरेऽन्वयनिरपेक्षः परमात्मत्वसाधक इत्यर्थः । तर्हि “स सामभिरुन्नीयते ब्रह्मलोक” मित्यत्र कथं ब्रह्मलोकशब्दस्य वैयधिकरण्यम् ? उच्यते; नयतिः प्राप्तिवचनः
। नित्यप्राप्तस्य ब्रह्मणः प्राप्तिर्नामानुभवः, स च “परात्परं पुरुषमीक्षते” इत्युक्तः, अतो ब्रह्मानुभवः पुनर्न वक्तव्य इति उन्नीयत इत्युत्पूर्वनयतिरुपरिस्थितप्राप्तिवाची, न बुद्धिवाची, प्राप्यश्च लोक इति वैयधिकरण्यम्, अत्र तु तादृशानुपपत्त्यभावात्सामानाधिकरण्यमिति । ब्रह्मलोकशब्दस्य चतुर्मुखलोकपरत्वशङ्कानिवर्तकलिङ्गमहरहर्गमनम्, न हि प्रजाः प्रत्यहं चतुर्मुखलोकं गच्छन्तीत्येदर्थपरं लिङ्गं चेति सूत्रखण्डमन्यैर्व्याख्यातम्, तदानीं गतिशब्दयोः परस्परोपपाद्योपपादकभावेन समुच्चित्य परमात्मत्वसाधकत्वं स्यात्, न त्वेकैकस्य ततोऽपि परं प्रत्येकं पर्याप्तलिङ्गसिद्धिरित्यभिप्रायेण तदनादृत्यैवं व्याख्यातम् । गतिशब्दमात्रस्य योजनान्तरमाह - अथवेति । पूर्वयोजनायां दृष्टान्त एवोपरिशब्दान्वयः, अत्र तु दार्ष्टान्तिकेऽपि - दहराकाशस्योपरीति - धर्म्यैक्याभिप्रायेणैवमुक्तम्, अन्तरात्मतया स्थितत्वेन ह्याधारः, न तु उपासकानुग्रहतया स्थितत्वेन । उपरि तन्नियमितानामिति । अस्मिन् प्रकरणे सत्यशब्दनिर्वचनावगतं हि चेतनाचेतनयोर्नियन्तृत्वं परस्य “य आत्मानमन्तरो यमयती” त्यादिश्रुत्यन्तरप्रसिद्धं चेत्यभिप्रेतम् । अस्य परब्रह्मत्वे पर्याप्तं लिङ्गमिति लिङ्गमित्यस्यैवार्थः ।
॥ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ अस्य- परमात्मनः महिमा धृतिः । तस्यास्मिन्- दहराकाशे उपलब्धेरित्यर्थः । धृतिः- विधृतिः । अतो दहराकाशः परं ब्रह्मेति - भूताकाशादन्यत्वे तात्पर्यम्, भूताकाशत्वं प्रतिक्षिप्तमिति हि वक्ष्यते, स एव वस्तुगत्या परमात्मेति परं ब्रह्मेत्युक्तम् ।
॥ प्रसिद्धेश्च ॥ प्रसिद्धिप्राचुर्यं हि भूताकाश इत्यत्राह - अपहतेति । पूर्वसूत्रचतुष्टयकृत्यं वदन्नुत्तरेषां सूत्राणां कर्तव्यमाह - एवं तावदिति । पूर्वोक्तहेतूनां स्वरसतो जीवव्यावर्तनक्षमत्वेऽपि वक्ष्यमाणशङ्काप्रतिक्षेपानन्तरमेव स्वारस्यस्यानपोद्यत्वसिद्धिः, अतो भूताकाशत्वव्युदसेन तात्पर्यमिति भावः । तत्परत्वे व्युदस्ते हेत्वन्तरेण जीवपरत्वमाशङ्कयोक्तहेतुभिरेव तन्निरासः क्रियतेऽनन्तरसूत्रेण । उपक्रमत इत्यनेन अनन्तरसूत्रं नाधिकरणान्तरमिति सूचितम्, अविच्छेदप्रतीतेः ।
॥ इतरपरामर्शात्स इति चेन्नासम्भवात् ॥ इतरशब्दस्य प्रतिसम्बन्धिसापेक्षत्वादाह - परस्मादिति । जीवस्यैवेति - दहराकाशस्य परमात्मत्वं वदतोऽपि अस्य वाक्यस्य जीवपरत्वं सम्प्रतिपन्नमिति एवकाराभिप्रायः । साक्षात्परामर्शादिति - न जीवसम्बन्धिलिङ्गद्वारा परामर्शः, किन्तु तद्वाचकशब्देन परामर्शः तस्मादित्यर्थः । “अथ
य एष” इत्येतच्छब्दो हि प्रकृतपरामर्शी, अतः पूर्ववाक्येष्वपि जीव एव पतिपाद्यत इति परामर्शशब्दाभिप्रायः । जीवपरामर्शसहकारिणी तदन्तर्वत्यन्वेष्टव्यान्तरप्रतीतिश्च जीवत्वहेतुरनुसन्धेयः, अणोर्जीवस्य विपुलतरप्रसिद्धाकाशोपमेयत्वसर्वाधारत्वाद्यनुपपत्तेर्भूताकाशप्रतिक्षेपयुक्तिभिरेव जीवत्वशङ्कापि प्रतिक्षेप्तेत्याह - यद्यपीति । उपमानोपमेयभावाद्यस्वारस्यं वाक्यशेषवशात्सोढव्यमिति भावः । न ह्यपहतेति - परामर्शान्यथासिद्धेर्वक्ष्यमाणत्वादपहतपाप्मत्वादिश्रुतिस्वारस्यमनपोदितमिति भावः ।
॥ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ सूत्रे शङ्काखण्डस्याक्षरार्थमाह - उत्तरादिति । उत्तरवाक्यानुसारेण दहरवाक्येऽपि जीवस्यैवेति निश्चीयत इत्यर्थः । किमिदं प्रजापतिवाक्यं तत्रापहतपाप्मत्वादिः प्रतीतोऽपि परमात्मन एव स्यादित्यत्राह एतदुक्तमिति । जीवपरमेवेति - “स उत्तमः पुरुषः” इत्यनेन परमात्मपरत्वं न शङ्कयम्, तदुक्तिः प्रासङ्गिकीति भावः । मघवत इति । यद्यपि विरोचनोऽपि प्रजापतिमुपासदत् तथापि छायापुरुषाधिगममात्रतृप्ततया अपक्रान्तोऽतस्तदनुक्तिः, इन्द्र एवार्थतत्त्वबुभुत्सया स्थित इति सच्छिष्यत्वात्तन्निर्देशः । खण्डपञ्चकस्यार्थं सङ्घेपेणाह - जागरितेति । “नाहमत्र भोग्यं पश्यामी “त्यस्यार्थमाह - तत्र तत्र भोग्यमपश्यत इति । “य आत्मे"त्यादिप्रजापतिवाक्यं परिशुद्धजीवस्वरूपाभिप्रायम्, तच्छ्रुत्वा पश्चादुपसन्नयोरिन्द्रविरोचनयोः प्रजापतिरुपदिशति “य एषोऽक्षिणि पुरुषो दृश्यत”
इति । नेहाक्षिपुरुषः परमात्मा, एतत्त्वेव ते भूयोऽनु व्याख्यास्यामि” इत्युपक्रम्य स्वप्नाद्यवस्थाभिधानात् न चेह जीवस्याक्षिणि स्थितिरुपदिश्यते, किन्तु अक्षिविकाराविकाराभ्यां जीवस्य स्थितिगती निश्चीयेते, अतोऽक्ष्णोः जीवस्थितिगतिसूचकत्वादक्षिणि दृश्यत इत्युक्तम्, अस्मिन् कर्मणि अस्य सामर्थ्यं दृष्टमितिवत् । ततश्च गृहे
स्थित्वा निर्गच्छन् पुरुषो यथा गृहादन्यः, एवं शरीरे स्थितिगतिमानात्मा देहातिरिक्त इत्युक्तं भवति । “अमृत"मिति निरतिशयसुखस्वरूपत्वम्, अभयमिति दुःखासम्भिन्नत्वम्, ब्रह्मेत्यसङ्कुचितज्ञानतया बृहत्त्वं ब्रह्मात्मकत्वं वोक्तम् । एवं प्रजातिहृदयानभिज्ञानेन छायापुरुष उपदिष्ट इति मत्वा पुनः पप्रच्छतुः कतम एव इत्यादिना, सर्वेष्वेतेषु नेत्रादि
स्थानेषु परिख्यायते कतम एष इत्यर्थः । पुनश्चाक्षुषदेहस्यानात्मत्वमिदन्तयाऽवभासनात् अन्वयव्यतिरेकाभ्यां च दर्शयितुम् उदशरावब्राह्मणेन केवलदेहस्य वसनाभरणाद्यलङ्कृतदेहस्य च छायादर्शने प्रजापतिनियोगस्तयोस्तद्दर्शनं चोक्तम् । यथा वसनाभरणादिरन्वयव्यतिरेकाभ्यामनात्मा, एवं चाक्षुषत्वादिदङ्कारगोचरत्वाच्च देहोऽनात्मेति प्रजापतेरभिसन्धिः । विरोचनोऽपक्वकषायत्वात्तावता तृप्तो जगाम, इन्द्रस्तु प्रजापतेरभिसन्धिमजानन्नपि देहस्यामृतत्वाभयत्वानुपपत्तिं दृष्ट्वा “नाहमत्र भोग्यं पश्यामि” इति पुपरुपससाद । प्रजापत्तिस्तु नाग्रद्दशायां वसनादीनामिव
जीवाच्छरीरस्यापगमाभावाद्व्यतिरेको दुर्द्दर्श इति मत्वा स्वाप्नदेहाभिमानिन आत्मनश्शयानदेहव्यतिरेकस्य स्ववगमत्वात् स्वप्नावस्थाभोग्यं पश्यामी “त्युपासदत्, बाह्याभ्यन्तरदेवत्वमनुष्यत्वरागद्वेषाद्यौपाधिकाकारकालुव्यविरहेण स्वयम्प्रकाशमात्मानं दर्शयितुं सुषुप्यवस्थामुपादिशत् । तदानीमपीन्द्रस्तदभिप्रायाज्ञानेनामृतत्वाभयत्वाद्यनुपपत्त्या “नाहमत्र भोग्यं पशयामी “त्युपसन्नो अभूत्; एवमनतिस्फुटं गहनमुपदिशतः प्रजापतेस्तात्पर्यमुक्ततं शुश्रूषुयोग्यतापरिक्षििषयेति । “मघवन्मर्यं वा इदं शरीरम्” इत्यादिना निष्कृष्टात्मस्वरूपं स्फुटतरमुपादिशत् । तदुपदेशप्रकारमाह - शरीरस्याधिष्ठानतामित्यादिना । अथ भुक्तयवस्थोपदेशं दर्शयति - एवमेवैष सम्प्रसाद इति । एवमित्यादिकमुपाददानस्यायमभिप्रायः- अस्माच्छरीरादित्यादिवाक्यस्य परोक्तार्थो दार्ष्टान्तिकवाक्याननुगुणत्वादिदोषविध्वत्स इति । तथाहि; शरीरात्समुत्थानं नाम श्रवणमननध्यानाभ्यासरूपविवेकः । स्वेन रूपेणाभिनिष्पत्तिर्नाम प्रपञ्चविलापको वृत्तिरूपसाक्षात्कारः, तेन परं ज्योतिर्भवति । उपसम्पद्येतिनिर्द्देशो मुखं व्यादाय स्वपिनीतिवदिति केचिद्य्वाचक्षते । तदयुक्तम्; समुत्थानशब्दस्य विवेकवाचित्वाभावात् शरीरविषयो विवेक इति पञ्चमी न घटते, तस्य द्वितीयार्थत्वाभावात् । शरीरादात्मनो विवेकश्चेत् आत्मानमित्यध्याहारः, “तयोर्ध्वमायन्नमृतत्वमेति” इत्यादिश्रुत्यन्तरैकार्थ्यप्रत्यभिज्ञाविरोधश्च । शरीराभिमानादुत्थानमिति चेत् शरीरशब्दस्य लक्षणा । शरीरादात्मन उत्थानं विवक्षितं चेत् सशरीरस्य तत्सम्भवादपेक्षस्य चाशारीरतालक्षणत्वादस्य वाक्यस्य मोक्षविषयत्वं न स्यादिति चेत् अर्चिरादिमार्गगमनस्य सूक्ष्मदेहसापेक्षत्वात्तेन गतवत एव सवासनसर्वहेयप्रहाणाच्च मुख्यार्थपरत्वे सत्येव मुक्तिविषयत्वोपपत्तेः । ल्यबन्तपदस्याविवक्षितक्रमत्वं च क्लिष्टं गत्यभावद्योतकम्, “सम्पद्याविर्भाव”
इतिसूत्रविरोधश्च, न ह्याविर्भूय सम्पत्तिरिति सूत्रितम् भेदप्रविलयातिरेकेण परज्योतिर्भावात्मकार्थान्तरासम्भवात् “परं ज्योतिरुपसम्पद्यते"ति निर्द्देशवैयर्थ्यं च, परज्योतिर्भावो नाम न धर्मान्तरं निर्विशेषवस्तुन्युत्पद्यते न चाविर्भवति
। ननु परज्योतिर्भावो नाम- अद्वितीयत्वम्, तेन निवर्तकज्ञानसद्वितीयत्वव्युदास इति चेन्न, सम्पत्तिशब्दस्येतरनिवृत्तिवाचित्वाभावात् । न हि घटो भवतीत्युक्ते दण्डचक्रादिद्वितीयनिवृत्तिरुक्ता भवति । उपसम्पत्तेः सकमर्कत्वप्रतीतिस्वारस्यविरोधश्च; अस्य वाक्यस्यैवमर्थपरत्वे दृष्टान्तोपस्थापकपूर्ववाक्यविरोधश्च स्यात्, पूर्वं हि “अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशतः, इत्युक्तवा “अशरीरो वायुरभ्रं विद्युत् स्तनयित्नु"रिति वाय्वादीनां कर्मकृतशरीराभावेन प्रियाप्रियानन्वयं दर्शयित्वा “तद्यथैतान्यमुपामादाकाशात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते " इत्युक्तम् । न हि वाय्वादीनामाकाशात्समुत्थानं नाम विवेकज्ञानरूपम्, अपि तु स्थितिवेलायां स्वकायर्करणायोर्ध्वदेशेऽभिवृद्धिः । परशब्दो वाय्वादीनां कारणवस्तुवाची । ज्योतिश्शब्दस्तु कारणानां कार्योत्पादनद्वारेण तदभिव्यक्तिहेतुतया प्रयुक्तः । वाय्वादीनि च स्वकारणद्रव्यमुपगम्य कार्यावस्थां हित्वा कारणसदृशेन रूपेण विशिष्टानि भवन्ति, वायुर्ह्यावहप्रवहादिरूपेण सप्तविधत्वं हित्वा वायुत्वमािेणावतिष्ठते, विद्युच्च विद्युत्त्वं हित्वा तेजस्त्वेन, अम्रस्तनयित्नू चाभ्रत्वादिप्रहाणेन स्वकारणभूतरूपेण, एवं जीवश्च मार्गविशेषेण गत्वा परं ब्रह्म प्राप्य संसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेणाविर्भवतीत्येवमर्थे सति हि दृष्टान्तदार्ष्टान्तिकवाक्यसामञ्जस्यं भवति । अस्य वाक्यस्य सुषुप्तिविषयत्वेऽप्यक्तदूषणानतिवृत्तिरनुसन्धेया । यतः अस्माच्छरीरादितिवाक्यं न मुक्तस्य जीवस्य स्वरूपैक्यप्रतिपादकम्, अत एव “नासम्भवा"दितिसूत्रकारेण भेदनिर्द्देशो न जीवपरयोर्वास्तवभेदाभिप्रायः, अपि तु व्योम्नि मालिन्यादिकमिव परस्मिन्नविद्याकल्पितजीवभावमपनेतुं जीवस्वरूपवैलक्षण्याभिप्राय इतीदमपि निरस्तम् । जैवं स्वरूपमपनिनीषोर्भेदनिर्द्देशे किं फलम् ? यावद्भेदनिर्द्देशेन ईश्वरस्यासंसारित्वमप्रतिपन्नम्, न तावत्तदैक्यापत्तिः पुरुषार्थः स्यात्; अतस्तद्रपापत्तेः पुरुषार्थत्वाय तस्यासंसारित्वप्रातपत्तये भेदनिर्द्देश इति चेत्, तर्हि पश्चाच्चिकीर्षि-तेनैक्यावबोधनेन तस्य संसारितया तदैक्यापत्तेरपुरुषार्थत्वं को वारयेत् ? अविद्यानिवृत्तौ तत्कल्पितापुरुषार्थत्वं निवर्तत इति चेत् पुरुषार्थत्वप्रतिपत्तेर्जीववैलक्षण्यप्रतिपत्तिमूलकत्वाद्वैलक्षण्यस्याविद्यानिवृत्तौ निवृत्तेः पुरुषार्थत्वप्रतिपत्तिरपि निवर्तेत, अनभिरूपे अभिरूपताबुद्धौ निवृत्तायां तस्मिन् स्पृहणीयताबुद्धिनिवृत्तिवत्, ततश्च तद्भावा
पत्तिरपुरुषार्थ एव स्यात् । किञ्च ऐक्यमुपदिदिक्षोर्भेदवादमुखेन असंसारित्वं दर्शयतः प्रतारकत्वं च स्यात् । भेदवादोऽनुवादरूपः प्रतिषेधार्थः क्रियत इतीदमत्यन्तमयुक्तम्, जीवपरयोर्नियन्तृनियाम्यतादिलक्षणभेदस्यालौकिकत्वात् अतः श्रुतिसूत्रसामञ्जस्यमेव मृषावादिनां स्थितम् । स उत्तमः पुरुष इतिशब्देन परमात्मपरत्वशङ्कायां तत्परिहारायाह - प्राप्यस्य परस्य ज्योतिषः पुरुषोत्तमत्वादिति । जीवस्य प्राप्यतया पुरुषोत्तमप्रसङ्गः, न तु प्रकरणप्रतिपाद्यतयेति भावः । स उत्तमः पुरुष इति यदुपसम्पद्यते स उपसदनीयः पुरुषः उत्तमः पुरुष इति यदुपसम्पद्यते स उपसदनीयः पुरुष उत्तम इत्यर्थः । स तत्र पर्येतीति ।
सः- उपसम्पत्ता । तत्र- परमात्मनि । पर्येतितं परितोऽनुभवति । यद्वा अनुसञ्चरति “कामरूप्यनुसञ्चरन् येन येन धाता गच्छती “ति श्रुत्यन्तरात् । ननु य उपसम्पद्याभिनिष्पद्यते स उत्तमः पुरुषः इति युक्तम्, तच्छब्देन प्रथमानिर्द्दिष्टप्रकृतपरामर्शस्वारस्यात् “स तत्र पर्येती “त्यनन्तरवाक्यस्य प्रथमान्ततच्छब्देनैकार्थत्वप्रतीतेश्च । नैवम्, उपसम्पत्तव्यस्यापि प्रकृतत्वात् प्रथमानिर्द्दिष्टेतरविषयत्वे तच्छब्दस्वारस्याभावेऽप्युत्तमपुरुषशब्दयोरुभयोरपि स्वारस्याच्च । न ह्युत्तमपुरुषशब्दो जीवेश्वरसाधारणः, पुरुषत्वमपि हि भगवत्येव स्वरससिद्धम्, केवल एकवचनान्तः पुरुषशब्दोऽपि हि भगवत्येव स्वरसः, “कुत उत्तमपुरुषशब्दः “उत्तम पुरुषस्त्वन्यः” इति स्मृत्यर्थस्य खटिति प्रत्यभिज्ञानाच्च । एवञ्च सति स तत्रेति सप्तम्यन्ततच्छब्दस्याव्यवहितोत्तमपुरुषपरामर्शित्वं च स्यात्, न तु व्यवहितपरज्योतिः परामर्शास्वारस्यम् । ननु स उत्तमः पुरुष इति मुक्तस्य ब्रह्मात्मकत्वपरत्वं स्यात् तदा तच्छब्दस्वारस्यं च स्यात्, प्रकृताप्रहाणात् । नैवम्, स तत्रेत्यन्तरवाक्ये स इतिपदस्य वैयधिकरण्येन जीवपरामर्शे रीतिभेदेनास्वारस्यापातात्, तदपि पदं समानाधिकरणमस्त्विति चेन्न, तत्रेति परमात्मनो वैयधिकरण्येनोपादानात् । तत्रेतिपदस्य स्वस्मिन्नित्यर्थोऽपि क्लिष्टः, अतो यथोक्तार्थविषयं “स उत्तमः पुरुष” इति वाक्यम् । नोपजनं स्मरन्नित्यस्यार्थमाह - प्रियाप्रियेति । अनुभूतस्य हि स्मरणम्, पूर्वम् अब्रह्मात्मकतया दुःखात्मकत्वेन ह्यनुभूतम्; न तथा स्मरति, कृत्स्नस्य भगवदात्मकत्वेन अनुभाव्यत्वादित्यर्थः । प्रयोग्यः- युग्यः । आचरणं शकटम् । “अथ यत्रैतत्,
इत्यादिश्रुतेरर्थमाह - चक्षुरादीनामिति । आकाशम् प्रकाशकम् आलोकादिप्रकाशमानं रूपं वा, प्रकाशयति यस्स चाक्षुषः, चक्षुरुपकरणकः । तत्फलितमर्थमाह - तत एवेति । इति चेदितीति - एतदुक्तं भवतीत्यनेनान्वयः “आविर्भूतस्वरूप” इति सूत्रखण्डं व्याचष्टे - आविरिति । तुशब्दसिद्धर्मथमाह - आविर्भूतस्वरूपस्यापीति । आविर्भूतस्वरूपस्य प्रजापतिवाक्योक्तत्वात् दहराकाशस्य स्वत एवापहतपाप्मत्वादिप्रतिपादनात्तच्छरीरान्तस्थितस्यैव गुणाष्टकप्रतिपादनान्मुक्तेष्वसम्भादितिसर्वलोकविधरणादिश्रुतेश्च दहराकाशः परं ब्रह्मेत्यर्थः ।
उत्तरसूत्रशङ्कामाह - यद्येवमिति । किमर्थ इति - दहरवाक्ये जीवप्रस्तावो न प्रष्टृप्रतिवक्तृभावेन, तथा श्रवणाभावात् नाप्यङ्गोपासनविषयतया, दहरविद्यायामुपासनविध्यन्तराभावात्; अतः प्रकृतोपासनकर्मत्वेनैव जीवपरामशर्ः, अन्यथा तत्प्रतिपादनवैयर्थ्यात्; प्रकृतोपासनकर्मत्वे च दहराकाशो जीवः स्यादित्यभिप्रायः ।
॥ अन्यार्थश्च परामर्शः ॥ दहरविद्यैव मोक्षोपायश्चेत्कथं जीवोपासनविधिः ? कथं च तस्य फलकथनम् ? इत्यत्राह - प्रजापतिवाक्ये चेति । परमात्मोपासने परस्य रूपं हि चेद्यम्, तत्कथनमनुपास्यजीवात्मविज्ञानोपयोगः ? इति शङ्कायां तदुपयोगित्वमुपपादयति - ब्रह्मप्रेप्सोरिति । ब्रह्मणः प्रेप्सितव्यत्वे जीवात्मस्वरूपस्य कथं ज्ञातव्यत्वमित्यत्राह - स्वयमपीति ।
प्राप्यान्तर्भावात्तस्य ज्ञातव्यत्वम्; अतस्तज्ज्ञानं दहरविद्योपयोगीत्यर्थः । ननु तर्हि विशेषणतयोपास्यत्वाज्जीवस्य ज्ञातव्यत्वे वक्तव्ये प्राप्यान्तर्भावात् ज्ञातव्यतोक्तिः किंनिबन्धना ? उच्यते; “आत्मेति तूपगच्छन्ति” इति वक्ष्यमाणस्य जीवात्मवेदनस्य प्राप्यान्तर्भावनिबन्धनत्वं हि “व्यतिरेकस्तद्भावभावित्वा” दित्यत्र वक्ष्यते, तस्मादिति । ननु जीवात्मज्ञानं दहरविद्याङ्गं चेत् कथं पृथक्फलकीतर्नम् ? “फलवत्सन्निधावफलं तदङ्गम्” इति हि न्याय इत्यात्राह - सर्वांश्चेति । अङ्गिनः फलमेवाङ्गे कथितमित्यर्थः । अनेन सूत्रेण उपसंहारगतहेतुः प्रत्युक्तः । अथोपक्रमगतं हेतुं प्रतिवक्ति -
॥ अल्पश्रुतेरिति चेत्तदुक्तम् ॥ “अर्भकौकस्त्वा"दित्यस्य सूत्रस्य विषयवाक्ये “सर्वं खल्वि"त्यादौ “अणीयान्व्रीहेर्वा यवाद्वे"ति वाक्यं नोपक्रमस्थम्, उपक्रमे हि तत्र सर्वात्मत्वमवगतम्; आकाशात्मत्वञ्च उपसंहारे च ज्यायस्त्वमवगतम्; अतोऽल्पश्रुतिस्तदनुरोधेन वर्णितेति युक्तम्, दहरविद्यायां तूपक्रम एव अल्पत्वं श्रुतमिति तदनुरोधेन “यावान्वा अय"मित्यादिकं नेयम्, उपसंहारे च जीवपरामर्शस्तदुत्तम्भक इत्यधिकाशङ्का । आकाशोपमानत्वसर्वाधारत्वनिरतिशयभोग्यत्वनिरुपाधिकगुणाष्टकगतिशब्दविधरणत्फलविशेषपरमहावाक्यस्वारस्यदशर्नाज्जीवपरामर्शकोपसंहार एव परमात्मनिर्द्देशमिश्रत्वाच्च परनिर्देशमिश्रोपसंहारस्योत्तम्भकत्वायोगादुक्रममात्रं महावाक्यस्वारस्यबाध्यमित्यधिकः परिहारः । उपसंहारे जीवपरामशर्ात् परमात्मनिर्देशमिश्रतया परिहाराच्च “प्राणस्तथाऽनुगमा"दित्यधिकरणाद्वैषम्यम् । एवमुपक्रमोपसंहारगतहेतुनिरसनानन्तरं वक्ष्यमाणयोःसूत्रयोः परमप्रकृतार्थेन सङ्गतिः, न त्ववान्तरार्थविशेषेणेति दर्शयितुं परमप्रकृतदहराकाशस्यार्थविरोधेन जीवादन्यत्वं स्फुटयति - अतोदहरेति । यद्वा, इह वाक्यशेषसहकृताल्पत्वश्रुतेरल्पत्वं स्वाभाविकमित्यधिकाशङ्का, न हि शाण्डिल्यविद्यायां वाक्यशेषसहकृताल्पत्वश्रुतिः । प्रकरणरूपवाक्यशेषापेक्षयाऽपहतपाप्मत्वादिलिङ्गं प्रबलमित्यधिकः परिहारः । वस्तुसामर्थ्यं दर्शयति - अनाघ्रातेत्यादिना । अत्र ज्ञानशक्तयादयस्सत्यसङ्कल्पत्वफलितत्वादुक्ताः । एवमुपक्रमोपसंहारनिर्वाहः प्रमाणान्तरेण परमात्मात्मनोरपहतपाप्मत्वादीनां स्वाभाविकत्वास्वाभाविकत्वे सिद्धे ह्युपपद्यते, अन्यथा “अनुक्तमन्यतो ग्राह्यम्” इति न्यायाद्दहरवाक्येऽपि मुक्तावस्थस्य गुणाष्टकान्वयो विवक्षितः स्यादिति शङ्कायामाह -
॥ अनुकृस्तस्य च ॥ अतथाभूतस्य तथाभावाभिनयशङ्काप्रतिक्षेपार्थमाह - तदनुकारस्तत्साम्यमिति । तद्वद्वृत्तिरिहानुकारो विवक्षितः, तेन तन्मूलभूतं गुणसाम्यमपि लक्षितं भवति । सारे तु “स्वच्छन्दवृत्तिरूपस्तदनुकारः श्रूयते” इत्युक्तिर्गुणसाम्योपलक्षणार्था ।
॥ अपि स्मर्यते ॥ “साम्यमुपैति” इत्युक्ते केन धमिर्णा साम्यमित्यपेक्षापूरणार्थं “मम साधर्म्यमागताः” इति वचनमुपात्तम् । परैः कृतमधिकरणभेदमनूद्य दूषयति - केचिदित्यादिना । भारूपत्वश्रवणात् प्राकृतज्योतिष्ट्वशङ्कानिवृत्त्यर्थमधिकरणारम्भो युक्त इत्यत्राह - ज्योतिश्चरणाभिधानादित्यादिष्विति । एकप्रकरणस्यानेकाधिकरणनिरूप्यत्वं ह्यधिकाशङ्कायां सत्यामुचितम्, अत्र तदभावादयुक्तमित्यभिप्रायः । हेत्वन्तरमाह - सूत्राक्षरेति । अनुकृतिरनुभानमिति हि परैरुक्तम्, तदयुक्तम्; करोतिभात्योरेकार्थत्वाभावात् । तस्य चेति श्रुतिप्रतीकोपादानमित्युक्तम्, तदप्ययुक्तम्; यदेव विद्ययेति हीतिवदितिकरणाभावात् ।
तस्यानुकृतेरित्यन्वयस्वारसिकेऽपि तत्प्रहाणेनाथर्वणर्नं च क्लिष्टम् । यादवप्रकाशीये तु अनुकृतिः अनुशब्दस्य करणमित्युक्तम् । तदयुक्तम्; यथा “स्वं रूपं शब्दस्याशब्दसंज्ञा” इति परिभाषासिद्धं व्याकरणे शब्दस्वरूपोपादानम्, एवमस्मिन् शास्त्रे परिभाषाया अभावात् शब्दस्वरूपविवक्षायामितिकरणस्य दर्शितत्वाच्च । “अन्तस्तद्धर्मोपदेशात्” “आकाशस्तल्लिङ्गात्” इत्यादिष्विव प्रतिज्ञाखण्डाभावः, चशब्दवैयर्थ्यं चेति दूषणद्वयं सर्वसाधारणमभिप्रेतम् । दहराकाशो भूताकाशः, तदन्तर्वर्ती जीव इति पूर्वपक्षं कृत्वा दहराकाशः परमाकाशः, तदन्तर्वर्ती परमात्मेति सिद्धान्तितम् । तत्र तावत्पूर्वपक्षस्थितिरनुपपन्ना, भूताकाशान्तर्वर्तित्वस्य जीवासाधारणत्वाभावात् । “यस्य वायुः शरीरम् य आकाशे तिष्ठन्” “यस्याकाशश्शरीरम्” इत्यन्तर्यामिब्राह्मणे भूताकाशान्तर्वर्तिनः परमात्मत्वनिश्चयात्, सिद्धान्ते च “किं तदत्र विद्यते यदन्वेष्टव्यं यद्वा व विजिज्ञासितव्यम्” इति प्रश्नस्य प्रतिवचनसामञ्जस्यं न भवति । न तावत् “उभे अस्मिन् द्यावापृथिवी " इत्यादिवाक्योक्तद्यावापृथिव्यादिकं तदन्तर्वर्तीति प्रतवचनं युक्तम्, तस्य जिज्ञास्यत्वाभावात् । न ह्यन्तर्वतिर्मात्रविषयः प्रश्नः, किन्तु उपास्यभूतान्तर्वर्तिविषयः । “अस्मिन् कामास्समाहिताः” इति च नोत्तरम्, अस्मिन्नितिपदं तावत् प्रकृतब्रह्मपुरविषयम् “एतत् सत्यं ब्रह्मपुरस्मिन् कामास्समाहिताः” इति हि श्रूयते । परमाकाश एव ब्रह्मणः पुरम् । शरीरस्य ब्रह्मपुरत्वं तत्सम्बन्धादौपचारिकमिति षष्ठीतत्पुरुषं वदद्भिर्ब्रह्मपुरशब्दो दहराकाशसंज्ञकपरमाकाशपर इति व्याख्यातम्, ततश्चास्मिन्निति परमाकाशनिर्देशः स्यात्, एवञ्च च सति कामशब्दः किं परमात्मपरः, उत तद्गुणपरः, उत द्यावापृथिव्यादिपरः ? न प्रथमः- बहुवचनान्तत्वात् “आत्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्” इति भेदनिर्देशाच्च । न द्वितीयः- परमात्मगुणधारतया प्रतीयमानस्य परमात्मत्वापत्तौ अस्मदीयपक्षपरिग्रहः स्यात् । नहि परमात्मगुणानां धर्मी परमाकाशः । न तृतीयः- उपास्यरूपतदन्तर्वर्तिप्रश्नस्योत्तरत्वायोगात् । अन्तर्वर्तिनप्रश्नस्योत्तरम् “एष आत्मा” इतिवाक्यमिति चेन्न; एकवचनान्तस्यैतच्छब्दस्य ब्रह्मपुरविषयत्वेन तदन्तर्वर्तिविषयत्वायोगात् । परमाकाशशरीरः परमात्मैवैतच्छब्देन परामृश्यत इति चेत् तदप्ययुक्तम्; परमाकाशान्तर्वर्तिविषयप्रश्नप्रतिवचनस्य परमाकाशविशिष्टपविषयत्वायोगात् । न हि गृहविशिष्टस्य गृहमधिकरणम्, एष इतिपदं न प्रकृतविषयम्, किन्तु बुद्धिस्थविषयमिति चेत्, प्रकृतपरामर्शित्वस्वारस्यभङ्गः, स च प्रकृतपरामर्शित्वसम्भवेऽनुपपन्नः, किन्तदत्रेति वैयधिकरण्येन प्रश्नस्य एष
आत्मा परमाकाशशरीरक आत्मेति सामानाधिकरण्येणोत्तरम्, ततश्च तदन्तर्वर्तित्वं फलितमिति चेन्न; वैयधिकरण्येन प्रश्नस्य वैयधिकरण्येन प्रतिवचने सम्भवति सामानाधिकरण्येन प्रतिवचनकल्पनायोगात्; असम्भवे हि तथा निवर्ाह उपपद्यते । न केवलं परमाकाशशरीरस्य हृदयान्तर्वर्तित्वम् एतत्प्रकरणपर्यालोचनविरुद्धम्, संवादिप्रमाणान्तराभावविध्वस्तं च । “यां वेद निहित” मिति वाक्यमन्यथासिद्धम्, “परमे व्योमन् सोऽश्नुते” इत्यन्वयसम्भवात् । शाण्डिल्यविद्यायां च “आकाशात्मा” “एष म आत्मान्तर्हृदये” इत्यादिवाक्यैराकाशवत्सूक्ष्मस्वच्छव्यापिस्वरूपस्य हृदि वर्तमानत्वमुच्यत इत्यथासिद्धम्; अतोऽनुपपन्नमिदम् ॥