21 ईक्षतिकर्माधिकरणम्

॥ ईक्षतिकर्मव्यपदेशात्सः ॥ अत्र स इत्युक्तिरस्मिन् पादे सर्वाधिकरणेषु साध्यप्रतिज्ञानुवृत्त्यथा, यथा प्रथमपादे “भेदव्यपदेशाच्चान्य” इत्यन्यशब्दोक्तिः “यथा च द्वितीये” “अत एव च स ब्रह्मा” इति ब्रह्मशब्दोक्तिः, यथा चतुर्थे “वदतीति चेन्न प्राज्ञो हि प्रकरणात्” इति प्राज्ञशब्दोक्तिश्च तद्वत् । पूर्वम् “अदृष्टं द्रष्ट्रिति परमात्मनो द्रष्टृत्वमुक्तं तर्हीक्षतिकर्मत्वेनोक्तो न परमात्मेति शङ्कया सङ्गतिः । यद्वा पूर्वाधिकरणे अथविरोधेनाकाशशब्दस्याम्बरान्तपरत्वमुक्तं तथा अन्तरिक्षशब्दस्य न मुखान्तरेण निर्वाहस्सुसच इति शङ्कया सङ्गतिः । यद्वा आकाशशब्दस्य अम्बरान्तपरत्ववत् ब्रह्मलोकशब्दस्य नान्यथा निर्वाहोऽस्तीति शङ्कया सङ्गतिः । “ससामभिरुन्नीयते” “एतत्साम गायन्नास्ते” इतिवत् सामगानसहितैरित्यर्थः । यद्वा सान्त्ववादयुक्तैरातिवाहिकैरुन्नीयत इत्यर्थः । परैरीक्षतिकर्मणः परमात्मत्वं व्यवस्थाप्य ध्यायतेस्ततो भिन्नविषयतया पूर्वपक्षं कृत्वा एकविषयतया सिद्धान्त उक्तः, तदनुपपन्नमित्यभिप्रायेणाह - अत्र ध्ययतीति । यथोपासनफलप्राप्तिन्यायात् ध्यायतिकर्मैवेक्षतिकर्म एकत्र “परं पुरुषम्” अन्यत्र “परात्परं पुरुष"मिति च श्रूयते अतो न विषयैक्यमित्यत्राह - परं पुरुषमिति । यत्र पञ्चम्यन्तपदं नास्ति तत्राप्यर्थसामर्थ्यात्तत्प्राप्नोतीति भावः।

यादवप्रकाशीये तु जीवो हि ध्यातव्यः, तस्मात् पर ईक्षितव्यस्तु मुक्तजीव इत्युक्ते बद्धजीवो ध्यातव्य इत्युक्तं स्यात्, बद्धावस्यजीवध्यानान्मुक्तावस्थस्य प्राप्तिरित्यनुपपन्नम्, तस्मात् ध्यायतीक्षत्योरुभयोरपि चतुर्मुखविषयत्वमेव पूर्वपक्षीकर्तुं युक्तम् । संशयमाह - तत्रेति । किं ध्यायतीक्षतिकर्म चतुर्मुखः, उत परमात्मा ? तदर्थं शान्तत्वाजरत्वादयः किं मुख्याः, उतामुख्याः ? तदर्थं किं जीवघनशब्देन चतुर्मुखव्यतिरिक्तस्य ग्रहणम्, उत तस्याऽपि ग्रहणम् ? इति । किमत्र ब्रह्मलोकशब्दश्चतुर्मुखस्थानपरः, उत परमव्योमपरः ? किमीक्षतिकर्मविषये वाक्ये “यत्तत्कवयो वेदयन्ते” इति वैष्णवं पदं प्रत्यभिज्ञाप्यते, न ? इति । यदा प्रत्यभिज्ञानासम्भवात् ब्रह्मलोकशब्दस्य चतुर्मुखलोकपरत्वम् यदा च जविघनशब्देन चतुर्मुखस्याग्रहणं तदा शान्तत्वादीनाममुख्यत्वात् ध्यायतीक्षतिकर्म चतुर्मुखस्यात्, यदा वैष्णवपदप्रत्यभिज्ञानेन ब्रह्मलोकशब्दः परमव्योमवाची यदा च जीवघनशब्देन चतुर्मुखस्यापि ग्रहणं तदानीं शान्तत्वाजरत्वादीनां मुख्यत्वाध्द्यायतीक्षतिकर्म परमात्मेति सिद्धान्तः । चतुर्मुखस्येति - भुम्यन्तरिक्षक्रमप्राप्तश्चतुर्मुखलोक इत्यर्थः । ततः किमित्यत्राह - तद्गतेन चेति । “जीवघनात्परात्परम्” इति निर्देशः कथमुपपद्यत इत्यत्राह - एतस्मादिति । जीवघनपरशब्दयोः सामानाधिकरण्येनोपपद्यत इत्यर्थः । ब्रह्मणः समष्टिपुरुषत्वं देवतिर्यग्भावाद्यपेक्षया । अजरत्वादयो

यथाकथञ्चिन्नेतव्या इति । चिरकालस्थायित्वाभिप्रायेण वा चतुर्मुखस्यैव परिशुद्धवस्थस्वरूपपरत्वेन वा निर्वाह इति भावः । अत एवोपक्रमे “परं चापरं च” इति निर्देशश्च कृतनिर्वाहः । सिद्धान्ते परमात्मन एवैतद्रूपमिति । एतद्रूपम् - नपुंसकान्तशब्दनिर्दिष्टं स्वरूपम् । चतुर्मुखपरत्वे हि पुल्लिङ्गान्तता स्यात् । यद्वा एतद्रूपम्एत

द्वाक्यप्रतिपादितं रूपम् । एवमर्थद्वयेऽप्यनुगुणं श्रुत्यन्तरवाक्यमाह - एतदमृतमिति । अनेन स इति सौत्रपदस्य प्रयोजनं दर्शितं भवति, अधिकारादेव साध्यप्रतिज्ञासिद्धेस्तस्य प्रयोजनं हि वक्तव्यम्, “शान्तमजरममृतमभय"मिति व्यपदेशस्य कथं परमात्मसाधकत्वमित्यपेक्षायां श्रुत्यन्तरेषु परमात्मनः तादृक्तवेन प्रसिद्धेरिति वक्तव्यम्, अतस्तथात्वेन श्रुत्यन्तरप्रसिद्धिद्योतनं स इतिपदस्य प्रयोजनमिति । व्यपदेशशब्दविवक्षितं हेत्वन्तरमाह - एतस्मादिति । कथं चतुर्मुखस्यैतद्य्वपदेशासम्भव इत्यत्राह - तस्यापीति । कथं तस्य जीवघनशब्दगृहीतत्वमित्यत्राह - यस्य हीति । कर्मकृतदेहं दर्शयति - चतुर्मुखस्यापीति । सशरीरत्वादेव हि चतुर्मुखत्वमिति भावः । ननु कथं “यो ब्राह्मण"मिति श्रुत्या चतुमर्ुखदेहस्य कर्मनिमित्तत्वावगमः ? न ह्यत्र कर्मसम्बन्धः श्रूयते ? उच्यते, कारणवाक्येषु “ब्रह्म वा इदमेक एवाग्र आसीत्” इत्यारभ्य “यान्यन्यानि देवक्षत्राणि इन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः” इति सृज्यतया श्रुतानामिन्द्रवरुणसोमयमादीनां कर्मवश्यत्वमवतिष्ठते, एवमेव चतुर्मुखस्याप्यपवादश्रुत्यभावात्सृज्यत्वेन स्वतः प्राप्तकर्मवश्यत्वमवतिष्ठत इति । आदिशब्देन “यो वै वेदांश्च प्रहिणोति तस्मै” इतिपादोपि विवक्षितः, तेनोपदेशसापेक्षज्ञानप्रसरतया सङ्कुचितज्ञानत्वं स्वतः प्राप्तम्, इन्द्रविरोचनादीनामुपदेशसापेक्षतया हि सङ्गुचितज्ञानत्वावगमः, भगवतस्सान्दीपनिप्रभृतिगुरूपदेशसापेक्षत्वं लीलात्ववचनैरपोदितत्वान्न ज्ञानसङ्कोचसाधकम्, इन्द्रविरोचनादीनामिव चतुर्मुखस्याप्यपवादरहितमुपदेशसापेक्षत्वं सङ्कुचितज्ञानत्वसाधकमिति तेनापि सङ्कोचककर्मसम्बन्धसिद्धिः, एवं सृज्यत्वादुपदेशसापेक्षज्ञानप्रसरत्वाच्च कर्मवश्यत्वाच्चतुर्मुखस्य जीवघनशब्दगृहीतत्वसिद्धिः । यत्पुनरित्यनूदितं पूर्वपक्षहेतुं परिहरति - तदयुक्तमिति । परमात्मलोकत्वे हेतुत्रयमाह - यत्तदित्यादिना । कवयः सूरय इति - कवयः- कान्तदर्शिनः । अकर्मवश्यत्वादसङ्कुचितज्ञानाः, सूरयश्च ज्ञानाधिकाः प्रसिद्धाः, अतोऽर्थवशात्सूरि

प्रत्यभिज्ञानमित्यर्थः । ततः किमित्यत्राह - सूरिभिरिति । एवमादिभ्य इति - आदिशब्देन “तद्विप्रासो विपन्यवः” “यत्र ऋषयः प्रथमजा ये पुराणाः” “यत्र पूर्वे साध्याः सन्ति देवाः” इत्यादिवाक्यानि विवक्षितानि, अजरत्वादिभिर्न्निश्चितपरमात्मभावस्य स्थानत्वात् सर्वकर्मविनिर्मुक्तस्य प्राप्यस्थानत्वात् सूरिभिर्दृश्यत्वप्रत्यभिज्ञानाच्च न चतुर्मुखलोक इत्यर्थः । लोकक्रमप्रत्यभिज्ञानभङ्गस्यास्वरसत्वमाशङ्कयाह - नचेति । अस्वारस्यं तुल्यमित्यर्थः । ननु नास्माकं व्यवहितत्वादस्वारस्यम्, अन्तरीक्षशब्दस्य ब्रह्मलोकादर्वाचीनलोकानां प्रदर्शनार्थत्वात् । ब्रह्मलोकश्च प्राकृतलोकद्वयसाहचर्यात् प्राकृतलोक एव स्यादित्यत्राह - अत एतद्वै सत्यकामेति । अतः उदाहृतबहुवाक्यस्वारस्यानुगुण्यात् । “परं चापरं च ब्रह्म यदोङ्कारः” इति सामानाधिकरण्यं वाच्यवाचकभावनिबन्धनम् । ओङ्कारवाच्यं परापररूपं ब्रह्मेति वा परापररुपब्रह्मवाचक ओङ्कार इति वार्थः, अनन्तरम् एतेन एकतरमितिपदाभ्याभोङ्कारस्य ब्रह्मणश्च निर्देशात् । अयनेन- उपायभूतेन । एकतरम्- कार्यकारणब्रह्मणोरन्यतरत् । यदपरं कार्यं ब्रह्मेति - चतुर्मुखलोकस्यापरब्रह्मशब्दवाच्यत्वमेव युक्तम्, न तु परब्रह्मलोकत्वं, “कार्यं बादरिः” कार्यात्यये” परं जैमिनिः” सति तस्य कार्यलोकत्वव्यपदेशात् ततः पृथगेव परब्रह्मव्यपदेशाच्चेति दर्शितं कार्यब्रह्मशब्देन । ऐहिकामुष्मिकत्वेन द्विधा विभज्येति । उपरि पृथक्फलत्वेन कीर्तनाद्विभाकोऽभिप्रेत इत्यर्थः । परापरशब्दयोः कार्यकारणपरत्वात् कार्यलोकस्य प्राकृतत्वं सिद्धमिति कारणब्रह्मलोकस्याप्राकृतत्वमकार्यकारणपरत्वात् कार्यलोकस्य प्राकृतत्वं सिद्धमिति कारणब्रह्मलोकस्याप्राकृतत्वमकार्यत्वादेव सिद्धम्, अतः प्राकृताप्राकृतरूपेण प्राप्यलोकविभागः, प्राकृते ह्यैहिकामुष्मिकरूपेण विभागश्च श्रुत्यभिप्रेतः, उपरि प्रथक्फलत्वेन कीर्तनाविशेषात् अतः ऐहिकामुष्मिकविभागोक्तिः प्राकृताप्राकृतविभागस्य प्रदर्शनार्थत्वमाह - आमुष्मिकमिति । चतुर्मुखलोकस्याप्यन्तरिक्षशब्दोपलक्ष्यत्वे सङ्ग्राहकमामुष्मिकत्वमस्ति, चतुमर्ुखलोकव्यतिरिक्तोपलक्षणे सङ्ग्रहकाकारो नास्तीति वैषम्यमभिप्रेतम् । अन्तरिक्षशब्दोपलक्षितमिति - उपलक्षणतया व्यवधानपरिहारस्तुल्यः, सङ्ग्राहकलाभो ह्यधिक इति भावः । परं पुरुषं ध्यायतामिति - “परं पुरुषमभिध्यायीत” इतिवाक्यं स्मारितम् तेन चतुर्मुखलोकप्राप्तेस्तत्क्रतुन्यायविरोधः सूचितः । परमेव ब्रह्मेति - चतुर्मुखलोकस्य प्राप्यत्वे “परात्परं पुरिशयं पुरुषमीक्ष्यते” इति फलवचनस्य पुरुषशब्दविरोध एवकाराभिप्रेतः, एवं कार्यब्रह्मान्तर्गन्तस्य चतुर्मुखलोकस्य ततः कृथक्करणं परब्रह्मशब्दाविषयस्य

तस्य परमात्मप्राप्तुः प्राप्यत्वाश्रयणं तत्क्रतुन्यायविरोथः फलवचनविरोधश्चेत्यनेकयुक्तिभिः प्राकृतलोकद्वयसाहचर्यं निरस्तम्, आदावेव “परं चापरं च” इति प्राप्यविभागस्याभिहितत्वात् प्राकृतसाहचर्ययुक्तिरुपक्रमोन्मीलिता चेत्युक्तं भवति । सर्वं समञ्जसमिति - परपक्षस्थानुपपत्तयः स्वपक्षे न सन्ति, उपलक्षणतया व्यवधानपरिहारः समानः “अजरमभयम्” “परात्परं पुरिशयं पुरुषम्” “यथा पादोदरस्त्वचा विनिर्मुक्तः” “यत्तत्कवयो वेदयन्ते” इत्यादीनि च वाक्यानि स्वरसानीति वैषम्यमित्यर्थः । अधिकरणार्थमुपसंहरति - अत इति ॥ इति ईक्षतिकर्माधिकरणम् ॥