॥ अक्षरमम्बरान्तधृतेः ॥ पूर्वाधिकरणे स्वे महिमिन प्रतिष्ठितत्वमुक्तम्, तत्तु परमात्मव्यतिरिक्तस्य श्रूयत इति शङ्कया सङ्गतिः । वर्णो वा परमेश्वरो वेति विचार इति परैयदुक्तम् तदयुक्तम्; वर्णानामह्नस्वत्वादीर्घत्वाद्यनुपपत्तेः स्नेहलौहित्यच्छायादिधर्माप्रसङ्गाच्चेत्यभिप्रायेणाच्छायामित्यन्तं विषयवाक्यमुपात्तम् । प्रसङ्गाभावेऽपि प्रतिषेधस्सम्भवति, यथा “नान्तरिक्षे न दिवि” इत्यग्निचयननिषेध इति चेन्न, निषेधस्य प्रसक्तविषयताया एव स्वतः प्राप्तत्वात्,
गत्यन्तराभावे ह्यप्रसक्तविषयत्वाश्रयणम्, नान्यदा । संशयमाह - तत्रेति । अक्षरं प्रधानं वा जीवो वा परमात्मा वेति संशयः । तदर्थं लौकिकप्रमाणविषये शब्दप्रतीतिशैघय्रमस्ति, नेति । “कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च” इत्यत्राकाशशब्दनिर्दिष्टः किं भूताकाशः ? उताव्याकृताकाशः ? इति । धारणं च किं सत्तामात्रेण ? उत प्रशासनेन ? इति च । यदा प्रतीतिशैघ्य्रमस्ति, आकाशशब्दवाच्यश्च भूताकाशः, धारणं च सत्तया स्यात् तदा तद्धारणस्य प्रधानेऽसम्भवात्तद्धारकमक्षरं प्रधानम्, यदा आकाशशब्दवाच्योऽव्याकृताकाशः धारणं च सत्तामात्रेण तदा जीवेऽपि तत्सम्भवात्तद्धारकमक्षरं जीवः । यदा शब्दप्रतीतिशैघ्य्रस्य लौकिकप्रमाणगोचरत्वमप्रयोजकम्, आकाशशब्दवाच्यश्चाव्याकृताकाशः, धारणं प्रशासनेन तदा तस्य जीवेष्वसम्भवात्तदाधारभूतमक्षरं परमात्मेति राद्धान्ते फलफलिभावः । सिद्धान्ती शङ्कते - यया तदक्षरमिति । अथवा पार्श्वस्थचोद्यम् । तदा परस्मिन्नित्युपलक्षणं जीवेऽपीति द्रष्टव्यम्, “कूटस्थोऽक्षर उच्यते” इत्यादिदर्शनात् । परिहरति - न प्रमाणान्तरेति । अनुमानस्य प्रत्यक्षमात्रापेक्षा, श्रुतेस्तु व्युत्पत्त्यादौ उभयापेक्षाऽस्ति, अत आनुमानिकादक्षराच्छ्रुतिप्रतिपन्नस्य विलम्ब इति लौकिकालौकिकमोर्लौकिकस्य प्रसिद्धिप्राथम्यात्प्राबल्यम् श्रुतिलिङ्गादिष्वपि हि शीघ्रधीहेतुत्वात् प्राबल्यमिति भावः । ननु “सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते” इत्यत्र आकाशशब्दस्य भूताकाशे प्रसिद्धिप्राचुर्येऽपि ब्रह्मविषयत्वं दशिर्तम्,अत्राप्यक्षरशब्दे तथा किं न स्यादित्यत्राह - प्रतीतेति । अक्षरशब्दस्य प्रधाने प्रयोगदर्शनात् अस्थूलत्वाद्यन्वयात् परब्रह्मणि प्रसिद्धत्वे सत्यपि प्रमाणान्तरप्रसिध्द्या प्रथमप्रतीतस्य परिग्रहे विरोधाभावादाकाशकारणप्रश्नस्योत्तरत्वेनोच्यमानत्वाच्च प्रधानपरत्वमित्यर्थः । राद्धान्तमाह - अक्षरमित्यादिना । अम्बरान्तशब्दं केचित् बहुव्रीहितया व्याचक्षते, अम्बरम्- आकाशः, अन्तः अवसानम् एषां तेषां पृथिव्यादीनां धृतेरिति हेत्वर्थ इति । तत्प्रधानव्यतिरेकप्रतिज्ञायामकिञ्चित्करमित्यभिप्रायेण षष्ठीतत्पुरुषं व्याचष्टे - अम्बरस्य आकाशस्येति अन्तशब्दोऽवधिवचनः । कार्यस्याम्बरस्य देशतः कालतश्चावधिः कारणम्, नियतपूर्वभाविनः कारणत्वात्कायर्ं प्रति कारणतत्त्वानामावरणतया बहिर्विद्यमानत्वाच्च; अतोऽम्बरान्तशब्दोऽव्याकृतवाचीति भावः । न ह्यत्राम्बरान्तवाचिशब्दः श्रूयत
इत्यत्राह - अयमर्थ इति । नन्विति - व्युत्पत्तिसिद्धार्थलङ्घनमयुक्तम्, अपवादाभावादित्यर्थः । परिहरति - उच्यत इति । अर्थविरोधान्न वायुमदम्बरग्रहणमित्यर्थः । नहि स्वयं विकारान्तर्भूतः कृत्स्नविकारजातस्याधारो भवितुमर्हति । यत्त्वित्यादिना पूर्वपक्षदेशागतेषु ब्राह्मणेषु क्रुद्धेषु तमश्वलः पप्रच्छ, त्वं नु खलु याज्ञ्यवल्क्य ब्रह्मिष्ठोऽसीति नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयम् इति स्म याज्ञ्यवल्क्यस्योक्तिभङ्गया तस्य ब्रह्मष्ठित्वाभिमानमधिकं सन्तमवधार्य तद्विजिगीषया अश्वलादिषु केषुचित्तत्पृष्टवत्सु तेन सदुत्तरोक्तया जितेषु अथ हैनं गार्गि पप्रच्छेत्यादि गार्गि ब्राह्मणां प्रवृत्तम्, तत्र गार्ग्या “यदिदं सर्वमप्स्वोतं च प्रोतं च” इत्यादिना तत्तदुत्तरानन्तरं पुनः पुनः पृष्टस्य याज्ञ्यवल्क्यस्य क्रमेण ब्रह्मलोकेषु गार्गीत्युत्तरे सति “कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति पुनः पृष्टेन याज्ञ्यवल्क्येन गार्गि मातिप्राक्षीर्माते मूर्द्धा व्यपतत् अनतिप्रश्नां वै देवतामति
पृच्छसि मातिप्राक्षीरिति सक्रोधमुक्ते भीता गार्गी उपरराम । तत उद्दालके प्रसिद्धे ब्रह्मविदि सूत्रमन्तयर्ामिणं च पृष्टवति याज्ञ्यसल्क्येन जिते पुनगार्गी सर्वेषां ब्राह्मणानां पराजयो जायत इति शङ्कया याज्ञ्यवल्क्यस्य क्रोधं ब्राह्मणानामनुज्ञयैवाकिञ्चित्करतामापाद्य प्राक् मातिप्राक्षीरिति निवारितं प्रश्नं पुनः करिष्यामीत्याशावती “ब्राह्मणा भगवन्तोऽहमिमं द्वौ प्रश्नं पक्ष्यामि तौ चे मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति तेषामनुज्ञां याचित्वा पृच्छेति तैरनुज्ञाता प्रश्नद्वयं पप्रच्छ “यदूध्वर्ं याज्ञ्यवल्क्येत्यादिना । अत्र च पूर्वम् अनतिप्रश्नां वै देवतामतिपृच्छसि” इति गार्गिब्राह्मणान्ते याज्ञ्यवल्क्येन सक्रोधं यः प्रश्नो निवारितस्य एव खलु गार्ग्या सर्वेषां पराजयो भविष्यतीति भीतया तस्य क्रोधमविगणय्य पुनः प्रश्नोऽयतारितः, तस्य च परमात्मनि पर्यवसानं गार्गिब्राह्मण एवानतिप्रश्नां वै देवतामतिपृच्छसीति याज्ञ्यवल्क्यवचनेन स्फुटमिति तदनुसारेण तदुत्तरप्रश्नस्यापि परमात्मनि पयर्वसानं युक्तम्, न प्रधानपरत्वमिति चेन्न; अनतिप्रश्नां देवतामतिपृच्छसीति परदेवताविषयप्रश्ननिवारणम् एकान्तरितप्रश्नः परदेवताविषयो भविष्यतीति दूरदृष्टिमता याज्ञवल्क्येन तत्रैव कृतमित्युपपत्तौ तस्य प्रश्नस्य परमात्मविषयत्वे प्रमाणाभावात् अत एवाक्षरब्राह्मणारम्भे द्वितीयप्रश्न एव परमात्मविषयो भविष्यतीति जानत्या चिकीर्षितस्य तस्य निवारणपरिजिहीर्षया युगपत्प्रश्नद्वयानुज्ञा पृष्टेत्युपपत्तेः । प्रथमप्रश्नस्य देवताविषयत्वे प्रमाणाभावादाकाशशब्दस्याव्याकृतपरत्वेनानुपपत्तिरिति द्रष्टव्यम् । ननु अक्षरशब्दस्याव्यक्तपरमात्मनो रूढत्वेऽत्रोभयत्र यौगिकत्वेपि वा व्युत्पत्तिदशायां प्रमाणान्तरसापेक्षत्वेपि प्रतिपादनदशायां तदनपेक्षत्वादिति
परिहारस्यैव समाश्रययुक्तिमनूद्य परिहरति - तन्नेति । रूढिशक्तया अवयवशक्तया वा शब्देन स्वार्थप्रतिपादनं स्यात्, तत्र वक्ष्यमाणपरिहारस्य पक्षद्वयसाधारण्येऽपि “प्रोक्षणीष्वर्थसंयोगा"दिति न्यायेन अवयवशक्तया अर्थप्रतिपादनसम्भवे समुदायशक्तिकल्पनाऽयोगात् अयमक्षरशब्दो न रूढ्या वर्तत इत्यभिप्रेत्य यौगिकत्वपक्षे परिहार उच्यते, तत्र व्युत्पन्नानां पदावयवानां संहत्य स्वार्थप्रतिपादने किं प्रमाणान्तरापेक्षा, उत तत्तत्पदावयवव्युत्पत्तिवेलायामिति विकल्पं हृदि निधाय प्रथमे कल्पे परिहारमाह - अक्षरशब्स्येति । अवयवशक्तिरेवार्थप्रतीतिकारणमिति न प्रमाणान्तरमपेक्षितम्, न हि दण्डिशब्दः स्वार्थप्रतिपादने दण्डदेवदत्तग्राहिप्रत्यक्षापेक्षः । द्वितीयं परिहरति - सम्बन्धेति । पदावयवानां व्युत्पत्तौ प्रमाणान्तरापेक्षाऽस्त्येव, प्रतिपादनदशायां तु न तदपेक्षा, यथा चक्षुरादीनां तिमिरादिदोषापनयनस्यौषधाद्यपेक्षत्वेऽपि घटादिपरिच्छित्तौ न भेषजग्राहिप्रमाणापेक्षा, यथाहुः “अर्थबोधेऽनपेक्षत्वान्मानान्तरमनादृतम् । व्युत्पत्त्युपायभूतं यत्तच्च तन्मात्रवर्त्ति तु”
इति व्युत्पन्नानां पदावयवानां प्रतिपादनकालेऽपि व्युत्पत्त्यपेक्षितमानान्तराकाङ्क्षाऽस्ति चेत् दण्डिनमाह्वय गामानयेत्यादिवाक्यानामसन्निकृष्टार्थविषयाणां प्रत्यक्षसाचिव्याभावेन स्वार्थाप्रतिपादकतया गवानयनादिप्रवृत्त्युच्छेदप्रसङ्गः, अलौकिकार्थप्रतिपत्त्यनुपपत्त्या शास्त्रवैयर्थ्यप्रसङ्गाच्च, अतो मानान्तरापेक्षाभावात्तन्निबन्धनमर्थप्रतिपत्तौ प्राथम्यचारम्यरूपवैषम्यं नास्तीत्यर्थः । किञ्च यौगिकानां शब्दानामवयवार्थयोगिवस्तुसामान्यप्रतिपादने किं मानान्तरापेक्षा ? उत विशेषपर्यवसान ? इति विकल्पे प्रथमे शिरसि परिहारोऽक्षरशब्दस्येतिग्रन्थेन फलितः । द्वितीये तु विशेषपर्यवसानस्य प्राकरणिकलिङ्गाद्यधीनत्वान्न मानान्तरापेक्षेति च सम्बन्धेत्यादिग्रन्थेऽर्थसिद्धम्, न तत्प्रतिपादनदशायामपेक्षणीयमिति ह्युक्तम् विशेषपर्यवसाने सति हि प्रतिपादनं निराकाङ्क्षं भवति । अत्र परमात्मलिङ्गं दर्शितम् । अपि च अवयवार्थपौष्कल्यं यत्र सम्भवति तदेव यौगिकशब्देन स्वरसतः प्रतीयते, यथेश्वरशब्दो लौकिकपार्थिवादिषु सत्स्वप्यलौकिकमीश्वरं शीघ्रं प्रत्याययति, अतश्च न क्षरतीत्यवयवशक्तिः परमात्मानमेव शीघ्रमुपस्थापयति । एतदुक्तं भवति; प्रतिपाद्यस्य लौकिकालौकिकप्रमाणागोचरत्वं शाब्दप्रतीतिविलम्बयोरप्रयोजकं धर्माधर्मेश्वरादिशब्दैः शौल्क्यादिभ्यः पार्थिवादिभ्योऽप्यलौकिकार्थे प्रतिपत्तिशैघ्य्रस्य दर्शनात्, अत एव प्रयोगप्राचुर्याद्यधीनं प्रसिद्धितारम्यमेव तयोः प्रयोजकम्, यौगिकशब्दानां च असङ्कुचितावयवार्थगोचरत्वेन स्वतो वासितत्त्वात् तद्वत्येव प्रसिद्धयतिशयात् प्रतीतिशैघ्य्रमिति । नन्ववयवशक्तयाऽर्थप्रतिपादनेऽपि प्रधानस्यानेकप्रमाणगम्यतया अभ्यस्तत्वादस्ति प्रथमावगतिः यथा गोशब्दस्य सामान्यनिमित्तत्वेऽपि गोशब्दोच्चारणात् स्वाभ्यस्तायामेव गवि प्रथममेव प्रतीतिः । तदसत्; प्रधानस्यानेकप्रमाणगम्यत्वानभ्युपगमात् । न हि प्रत्यक्षेण जगत्कारणभूतं सूक्ष्मं वस्तु निरीक्ष्यते, नापि श्रुतिविरोधिनोऽनुमानस्य तत्र प्रामाण्यं सम्भवतीति वक्ष्यते, ततश्च श्रुतिरेव तत्रापि प्रमाणं वक्तव्यम्, तथाच श्रुतिप्रसिद्धात् परमात्मनः प्रमाणान्तरप्रसिद्धस्य प्रधानस्य प्रथमप्रतिपत्तिरित्यसिद्धम् । किञ्च प्रथमपतीतस्यापि प्रधानस्य विरोधेन त्यक्तव्यतैव, विरोधश्चात्र स्पष्टः, एकस्यैवाधाराधेयभावानुपपत्तेः ।
उत्तरसूत्रशङ्कामाह - एवं तर्हीति । अव्यक्तमक्षर इत्यव्यक्तस्य पृथगुपादानाक्षरशब्दो जीवपरः, न प्रधानपर इति ज्ञापनायाव्यक्तमुपात्तम् ॥
॥ सा च प्रशासनात् ॥ ननु नात्राम्बरान्तधृतेः परमात्मप्रशासनाधीनत्वं साक्षाच्छ्रुतमिति शङ्कां परिजिहीर्षन् कतिपयवस्तुशासनस्य जीवेऽपि सम्भवाद्य्वावृत्तिं च दर्शयन् प्रशासनशब्दं व्याचष्टे - प्रकृष्टमिति । क्वचिदप्यप्रतिहतत्वेन विषयप्रकर्षाच्छासनस्य प्रकर्षः, प्रकर्षस्य निवारकाभावाच्छासनस्याम्बरान्तविषयत्वमपि सिध्यतीति हृदयम् । ततः किमित्यपेक्षायां प्रकृतेः परमात्मशासनकर्मत्वे हेत्वन्तरं च द्योतयन् जीवव्यावृत्तिसिद्धं दर्शयति - न चेदृशमिति । स्वशासनाधीनसर्ववस्तुविधरणमिति - अयमभिप्रायः- न केवलं शासनप्रकर्षादनपोदितात्प्रकृतेः प्रशासनकर्मत्वसिद्धिः, किन्तु “सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति” इत्यादिश्रुत्यन्तरेषु शासनकर्मोपस्थापकसर्वशब्दासङ्कोचाच्च तत्सिद्धिः । किञ्च सत्यशब्दनिर्वचने “तानि ह वा एतानि त्रीण्यक्षराणि सत्यमिति तद्यत्तत्सदमृतम् अथ यत्ति तन्मर्त्यम् अथ यद्यं तेनोभे यच्छति” इति मत्यर्शब्दवाच्याचेतनस्य तन्नियाम्यत्वं च प्रतीयते मर्त्यशब्दो ह्यवयवशक्तया पूर्वपूर्वावस्थानाज्यचेतने वर्तते, न शरीरमात्रे, द्यावापृथिव्यादीनां तन्नियाम्यत्वाभावप्रसङ्गात् । किञ्च “यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युश्शरीर"मिति प्रधानस्य परशरीरत्वश्रवणादत्यन्तनियाम्यस्यैव शरीरत्वाच्च नियाम्यत्वसिद्धिः । इह च “कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चे"ति पृष्टे “एतद्वेतदक्षरं गार्गी “त्यारभ्य “एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चे"त्यक्षरेणाव्याकृतस्य धारणं श्रूयते, अतः शासनसनय प्रकर्षाच्छ्रुत्यन्तरानुग्रहच्चाम्बरान्तधृतिरपि प्रशासनाधीनेति । सौत्रश्चशब्दो ह्यर्थतया हेतुवाचीत्यभिप्रायेणाह - अत इति । अम्बरान्तधृतिः प्रशासनादेव सिध्यतीति यतः तत एवेत्यर्थः । “प्रशासितारं सर्वेषाम्” “विद्यात्तु पुरुषं परमि"ति “उत्तमः पुरुषस्त्वन्यः” इत्यादिवचनाभिप्रायेण पुरुषोत्तम एव प्रशासित्रक्षरमित्युक्तम् । एवं प्रधानपुरुषव्यतिरेकौ सूत्रद्वयेन पृथगुपपादितौ । अथैकसूत्रेण प्राकरणिकचरमवाक्यविषयेणोभयव्यतिरेकमाह
॥ अन्यभावव्यावृत्तेश्च ॥ व्यावर्त्यते निवर्त्यते, निवर्तकधर्मः प्रतिपाद्यत इत्यर्थः । ततश्च सूत्रस्थव्यावृत्तिशब्दो व्यावर्तकधर्मपर इति दर्शितं स्यात्, तेन विषयवाक्यानुगुण्यं सूत्रस्य स्यात् तत्र ह्यन्यनिवर्तकधर्मो द्रष्टृत्वादिरवगम्यते ।द्वितीययोजनाया अपेक्षितत्वात् नान्यदतोऽस्तीत्यादिकमुदाहृतम् । अस्मिन्वाक्ये प्रधानव्यावृत्तिसिद्धिं दर्शयति - अत्रेति । अत्र- अदृष्टमितिवाक्ये । द्रष्ट्रादिशब्दाः रूपशब्दप्रभृतिबाह्याक्षविषयाणां मन्तव्याध्यवसेयाद्यन्तःकरणविषयाणां च साक्षात्कर्तृवाचकाः, शासनस्य शासितव्यवस्तुदर्शनसाकाङ्क्षत्वात् “न दृष्टैर्द्रष्टारम्” “न श्रुतेः श्रोतारम्” “न मतेर्मन्तारम्”
इत्यादिना परस्य श्रवणमननादिकर्त्तृत्वनिषेधेन तेषामयोग्यत्वात् “पश्यत्यचक्षुस्स शृणोत्यकर्णः” इति रूपादिसाक्षात्कर्तृत्वश्रवणाच्च । जीवव्यावृत्तिं दर्शयति - सर्वैरिति । सर्वैः- योगिभिः । सर्वस्येति - रूपतदाश्रयादिष्वेकैकवर्गकार्त्स्न्यपरस्सर्वशब्दः, अस्यासङ्कुचितदृत्तितया द्रष्टृशब्देन सर्वसाक्षात्कारस्याभिहितत्वे सत्यादिशब्दोपात्तश्रोतृत्वादीनां निर्विषयत्वप्रसङ्गात् । सर्वैरदृष्टत्वादिमात्रं प्रधानादीनामपि सम्भवतीति तद्य्वावृत्त्यर्थमदृष्टस्यैव सतस्सर्वस्य द्रष्टृत्वाद्युपदेशाच्चेत्युक्तम् । अदृष्टत्वादिविशेषितं द्रष्टृत्वादिकं प्रत्यगात्मव्यावर्तकमित्यर्थः । प्रत्यगात्मानः सर्वे प्रत्येकं स्वस्वाहम्प्रत्ययवेद्याः रूपादिविज्ञातारश्च, परस्तु रूपादिज्ञानवेलायां योगिभिरपि स्वस्वरूपवद्रूपादिवच्च न ज्ञायते । निष्ठान्तैः पदैः तत्तद्विषयप्रतिपत्तिवेलायां परमात्मनोऽनवगतत्वं विवक्षितम् । अश्रुतम्- शब्दश्रवणदशायामज्ञातम् । अमतम्- स्थाणुपुरुषाद्यर्थविचारदशायां तद्विषयवदप्रतिपन्नम् । अविज्ञातम्- अध्यवसायदशायां घटादिवत् स्वस्वरूपवच्चानवगतम् । अत एव हि विशेषितं द्रष्टृत्वादिकं परमात्मासाधारणम् । यद्वा रूपशब्दाद्यर्थवेदिभिस्सर्वैरवेद्यत्वेन विशेषितं तत्ततदर्थद्रष्टृत्वं समुच्चित्य चिदचिद्य्वावर्तकमित्यर्थः । अन्यभावव्यावृत्तेरित्युक्तहेतोस्साध्याविशिष्टत्वशङ्कां च शमयन्निगमयति - अत इति । इयं व्यावर्तकधर्मान्वयरूपा व्यावृत्तिः परमपुरुषत्वं साधयति, अतः साध्याविशिष्टत्वव्युदासः, अस्यां योजनायां प्रधानपुरुषव्यावर्तकसकलधर्मवाचिवाक्यानि विषयीभूतानीति चिदचिद्य्वावृत्तिः कण्ठोक्ता स्यात् । चशब्द उक्तहेतुसमुच्चये । मुखान्तरेण सूत्रं योजयति - एवं वेति । अक्षरार्थमाह - अन्यस्येति । नान्यदित्यादिवाक्यस्य सूत्रविषयत्वं हृदि निधाय तस्यार्थमाह - यथैतदिति । यथा “अस्मिन् ग्रामे देवदत्त एव पुरुषो नान्य” इत्युक्ते न पुरुषमात्रनिषेधः, अपि तु प्रस्तुततुल्यपुरुषान्तरनिषेधः
स्यात्, पुरुषान्तराणां प्रमाणसिद्धतया निषेद्धुमशक्यत्वात्, एवमिहापि द्रष्ट्राद्यन्तराणां प्रामाणिकत्वात् प्रकृततुल्यद्रष्ट्रादिनिषेधपरमिदं वाक्यमित्यभिप्रायेण प्रकृतगुणविशिष्टत्वमुक्तम् । आधारभूतमिति - समस्तस्य प्रशासनेनाधारभूतमित्यर्थः ।निषेधविषयं दर्शयति - एवमिति । एतस्य- अक्षरस्य । आधारभूतम्- प्रशासनेन धारकम् । एवं परमात्मनो नियन्तृतया आधारभूतद्रष्ट्रन्तराभावातधिकनिषेधपरमिदं वाक्यं व्याख्यातम् । एवं वा; एतस्येतिपदं व्यतिरिक्तस्य समस्तस्येतिपदप्रकृतजगत्परम् । अक्षरादन्यत् समस्तजगतः प्रशासनेन धारकं तेनादृष्टं द्रष्टृ नास्तीत्यर्थः। तदा समनिषेधपरो वाक्यशेषः स्यात् । ननु नान्यदतोऽस्ति द्रष्ट्रितिवाक्यं द्रष्टॄणां पुरुषाणां ब्रह्मतादात्म्येन अतदात्मकत्वनिषेधपरं किं न स्यात् ? न; ऐक्यविधानस्याप्रकृतत्वात् ऐक्यविधिशेषो हि भेदनिषेधः, व्यतिरेकस्यान्वयशेषत्वात् । यदि क्वचिदैक्यविधानाभावेऽपि भेदनिषेधस्सम्भवति, तत्र तु निर्वाहान्तरासम्भवादभ्युपगन्तव्यः, इह तु गत्यन्तरसम्भवादैक्यविध्यभावे भेदनिषेधपरत्वाश्रयणमयुक्तम् । किञ्च “कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च” इत्युपक्रम्य “एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च” इत्युपक्रमोपसंहाराभ्यां प्रकरणस्य परमात्मनो विश्वाधारकताप्रतिपादनपरत्वमवगम्यते, न त्वैक्यपरत्वम्, धारकत्वे अभिहिते तस्यापि धारकान्तरशङ्का स्यात्, लोके धारकाणामपि धार्यत्वदर्शनात् यथा कारणानामपि कार्यत्वदर्शनेन परमात्मनोऽपि जगत्कारणत्वेनान्यकार्यत्वशङ्कायां तद्य्वावर्त्तनेन परमकारणत्वसिद्धये “स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः” इति कारणान्तरनिषेधः परमकारणत्वापेक्षितत्वात् क्रियते; एवमिहापि परमात्मनः परमाधारत्वसिद्धये धारकरूपद्रष्ट्रन्तरनिषेधोऽपेक्षितः, भेदनिषेधस्तु प्रकृतार्थानपेक्षितः, अपेक्षितविधेरनपेक्षितविधानदौर्बल्यमविगीतम् । किञ्च “नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ” इति द्रष्टृश्रोत्रादीनां पृथक् पृथग्भेदनिषेधश्च विफलः, द्रष्टुरेव श्रोतृत्वसम्भवात् । यथा “तदेवाग्निस्तद्वायुः” “ज्योतींषि विष्णुर्भुवनानि विष्णुः” इत्यादिष्वग्निवायुज्योतिर्भुवनवनगिरिदिगादीनामन्योन्यभिन्नजातीयतया तेष्वन्यतमस्य ब्रह्मात्मकत्वोपदेशेऽपि तदन्यस्य ब्रह्मात्मकत्वासिध्द्या प्रत्येकं ब्रह्मात्मकत्वोपदेशस्सफलः, एवं द्रष्टृश्रोतृमन्त्रादीनां
भिन्नजातीयत्वाभावात् पृथग्भेदनिषेधवैयर्थ्यम् । न च वाच्यं “ब्रह्मदाशा ब्रह्मदाशाः” इत्यादौ दाशेष्वेव दासत्वकितवत्वादिसम्भवेऽपि पृथक् तादात्म्योपदेशवदिहाप्युपपद्यत इति । दाशेभ्यो भिन्नजाती
यानामपि दासकितवादीनां सम्भवेन श्रुतिवाक्यस्थपदानां तद्विषयत्वोपपत्तेः, अन्यथा तत्रापि वैयर्थ्यप्रसङ्गस्य दुर्न्निवारत्वात्; अत इदं वाक्यं प्रकृततुल्यद्रष्ट्रन्तरनिषेधपरम् । अन्यस्य सद्भावं व्यावर्तयन्निति - सूत्रस्थैरन्यभावव्यावृत्तिशब्दैः श्रुतिवाक्यस्था अन्यदस्ति नेतिशब्दाः प्रत्यभिज्ञाप्यन्त इति भावः । व्यावर्तयन्नित्यन्तेनाक्षरार्थ उक्तः । फलितमाह - अस्याक्षरस्येति । अस्यां योजनायां सूत्राक्षरानुरूप्यं दशिर्तम् । नियन्तृरूपधारकान्तरराहित्यमेव कण्ठोक्तं भवति, चिदचिद्य्वावृत्तिरर्थसिद्धा स्यात् । चशब्दः पूर्ववन्नोक्तसमुच्चयपरः, अपि त्वनुक्तसमुच्चयपर इत्यभिप्रायेण चशब्दार्थमाह - किञ्चेति । अन्वायत्ता इति पदं देवमनुष्यपितृसाधारणम् । अन्वायत्ताःअनुवशा इत्यर्थः । द्वितीयान्तपदानां प्रशंसन्तीत्यनेनान्वयः । वाक्यप्रतिपन्नार्थस्य परमात्मलिङ्गतां दर्शयति - श्रौतं स्मार्तं चेति । चशब्दः समुच्चेतव्यं हेत्वन्तरमाह - अपि चेति । उदाहृतवाक्यसिद्धं हेतुं वदन्नधिकरणार्थमुपसंहरति- यदज्ञानादिति । नान्यदोऽस्ति द्रष्ट्रितिवाक्यस्य ब्रह्मव्यतिरिक्तद्रष्ट्रमात्रनिषेधपरत्वमयुक्तम्, तथा सति हि ब्रह्मैव द्रष्टृ नान्यदित्युक्तं स्यात्, तत् परमते विरुद्धम्, ब्रह्मणो द्रष्टृत्वानभ्युपगमात् । तन्मते नैतदक्षरं द्रष्ट्रिति हि वक्तव्यम् । यदि द्रष्टृमिथ्यात्वमात्रपरं तदा अतोऽन्यदिति निर्देशवैयर्थ्यम्, द्रष्टृ नास्तीत्येतावता तन्मिथ्यात्वसिद्धेः । ननु ब्रह्मैव द्रष्ट्रित्यर्थः, ततश्च ब्रह्मणि द्रष्टॄणां कल्पितत्वं सिध्यतीति चेन्न; अयमेव पुरुषः नान्योऽतोऽस्ति पुरुष इत्युक्ते पुरुषत्वमस्मिन् कल्पितमित्यर्थाप्रतीतेः । एतत्तुल्यपुरुषान्तरनिषेधो हि प्रतीयते; अतो ब्रह्मणोऽन्यो द्रष्टृवर्गो मिथ्येत्यर्थ इति चेन्न, अदृष्टं द्रष्ट्रिति पूर्ववाक्ये ब्रह्मण एव द्रष्टृत्वप्रतिपादनात् ब्रह्मव्यतिरिक्तस्यैव द्रष्टृत्वमिति वक्तुमयुक्तत्वात्
द्रष्टृमिथ्यात्वे ब्रह्मणोऽपि मिथ्यात्वप्रसङ्गात् तस्मिन् परिजिहीषिर्ते सति “अदृष्टं द्रष्ट्रि"ति पूर्ववाक्यप्रतिपाद्यस्याब्रह्मत्वप्रसङ्गाच्च । ब्रह्मणो द्रष्टृत्वेऽपि ब्रह्मव्यतिरिक्तत्वाभावान्न मिथ्यात्वमिति चेत् तर्हि परमार्थतो ज्ञातृत्वमभ्युपगतं स्यात् । यत्तु भास्करेणोक्तम्, प्रधानव्यावृत्तिरनेन सूत्रेण क्रियते, प्रधानस्य शासितृत्वसम्भवेऽपि द्रष्टृत्वाभावात् प्रधानव्यावृत्तिरिति । तदयुक्तम्; द्रष्टृविशेषो हि प्रशासिता, शिंशुपात्वसम्भवेऽपि वृक्षत्वासम्भवात् प्रशासितृत्वसम्भवेऽपि द्रष्टृत्वासम्भवः कथमुच्यते ? प्रधानस्येश्वरत्वसम्भवेऽपि क्षेत्रज्ञत्वं न सम्भवतीत्यनुन्मतः को ब्रवीति ॥