19 भूमाधिकरणम्

॥ भूमा सम्प्रसादादध्युपदेशात् ॥ परमात्मप्रकरणाविच्छेदेन परमात्मपरत्वं साधितम्, तर्हि जीवप्रकरणाविच्छेदेन जीवपरत्वमिति शङ्कोत्थानात् सङ्गतिः, इयं प्रमाणद्वारिका पूर्वम् “ओतं मनस्सह प्राणैश्च सर्वैः” इति प्राणसम्बन्धिनः परमात्मत्वमुक्तम्, अत्र प्राणसम्बन्धिन एव हिंसायोग्यत्वश्रवणाज्जीवत्वं प्रतीयत इत्यर्थद्वारा च सङ्गतिः । विषयमाह इदमिति । भूमशब्दस्य रूढितोऽवयवशक्तया वा जीवपरमात्मोपस्थापकत्वसम्भवे हि प्रत्यगात्मा वा परमात्मा वा भूमशब्दवाच्य इति संशयोदयः, अन्यथा भूमशब्दस्य कोऽर्थ इति हि वक्तव्यम्; अतो विशेषविषयसंशयसम्भवप्रदर्शनाय भूमशब्दव्युत्पत्तिप्रकारमनुसरन्विचारविषयसंशयसिद्धिं दर्शयति - अत्रायं भूमशब्द इति । भावप्रत्ययान्तत्वमुपपादयति - तथा हीति । आकृतिगणत्वव्यावृत्त्यर्थं पठ्यत इत्युक्तम् । बहोरित्यादि - बहुशब्दात्परस्य प्रत्ययस्यादेरचो लोपः, “आदेः परस्य” इति सूत्रवशात् बहुशब्दस्य भूशब्दादेशश्चेत्येवं प्रकृतिप्रत्यययोर्विकारः । “बहवः पुरुषा राजन्नुताहो एक एव नु” “द्य्वेकयोर्द्विवचनैकवचने” “बहुषु बहुवचनम्” इतिसङ्खयायामपि प्रयोगे दृश्यते ।

“अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यत्” इति वैपुल्येपि प्रयोगोऽस्ति; तस्मात् सङ्खयाव्यावृत्त्यर्थमाह - अत्र चायमिति । कथं वैपुल्यपरत्वमित्यत्राह - यत्रान्यदिति । ननु सङ्खयावाचिशब्दप्रतियोगित्वादल्पशब्दोऽपि सङ्खयापरः स्यात् । नैवम्; बहुशब्दस्य सङ्खयाविपुलत्वयोः प्रयोगदर्शनादल्पशब्दस्य सङ्खयायां प्रयोगादर्शनाच्चानन्यथासिद्धाल्पशब्दानुगुणार्थो बहुशब्द इति । धर्मिपरत्वमुपपादयति - अल्पेति । धर्मवाचिभूमशब्दप्रतियोगित्वादल्पशब्दोऽपि धर्मपरः स्यादिति चेन्न; तत्रापि धर्मिवाचिषष्ठयन्तशब्दान्तराभावात् “यत्र नान्यत् पश्यती " तिश्रुतेश्च । न हि धर्ममात्रे ज्ञाते धमिर्स्वरूपं ज्ञातं भवतीति । एवं सिद्धर्मथमाह - तदेवमिति । वैपुल्यविशेष्यः क इत्याकाङ्क्षायामाह - वैपुल्येति । कथमात्मनो विशेष्यत्वमित्यत्राह - तरतीति । उपक्रमोपसंहारयोरात्मशब्ददर्शनादित्यर्थः । अत्रेति । किं भूमा प्रत्यगात्मा ? उत परमात्मा ? तदर्थं किं प्राणशब्दनिर्द्दिष्टे प्रत्यगात्मनि प्रश्नप्रतिवचनसमाप्त्या भूमशब्दस्तत्र पर्यवसितः, उतातिरिक्तविषयः ? किं “एष तु वा अतिवदति यत्सत्येनातिवदति” इति प्राणातिवादिनोऽङ्गतया सत्यवचनं विधत्ते ? उत सत्यशब्दवाच्यपरोपासकस्यातिवादित्वं वदति ? किमस्मिन् वाक्ये प्राणातिवादिनः प्रत्यभिज्ञास्ति, नेति ? तुशब्दः किं प्रत्यभिज्ञाविरोधी, नेति । यदा तुशब्दः प्रत्यभिज्ञाविरोधी न भवति तदा प्राणातिवादिनः प्रत्यभिज्ञासम्भवात् “एष तु वा” इतिवाक्यं तदङ्गभूतसत्यवचनविधिपरमिति प्राणाति-

रिक्तवस्त्वभावात् भूमशब्दः प्राणो पर्यवसित इति भूमा प्रत्यगात्मेति पूर्वः पक्षः । यदा तुशब्दः प्रत्यभिज्ञाविरोधी भवति तदा प्राणातिवादिनः प्रत्यभिज्ञानामेव “सत्येनातिवदती “तिवाक्यस्य सत्योपासकातिवदनपरत्वेन प्राणातिरिक्तवस्तुसद्भावेन प्रश्नप्रतिवचनसमाप्तावपि भूमशब्दस्य प्राणापर्यवसितत्वाभावात् भूमा परमात्मेति राद्धान्तः । तेनेति । तेन- आत्मजिज्ञासया प्रक्रान्ते प्रकरणे प्राणपर्यन्तोपास्योपदेशेन हेतुनेत्यर्थः । प्राणशब्दः कथमात्मनि वर्तत इत्यत्राह - प्राणसहचारीति । इतरव्याख्यातृषु कैश्चित् पञ्चवृत्तिः प्राणः प्राणशब्दवाच्य इत्युक्तवा तत्प्रकरणाविच्छेदेन भूमा प्राण इति पूर्वपक्षं कृत्वा प्रकरणविच्छेदेन भूमा परमात्मेत्युक्तम् । कैश्चिच्च पञ्चवृत्तिप्राणस्य प्राणशब्दवाच्यत्वमभ्युपगम्य पूर्वपक्षे सिद्धान्ते च तत्प्रकरणविच्छेदं वदद्भिः भूमाप्रत्यगात्मेति पूर्वपक्षं कृत्वा परमात्मेति सिद्धान्तितम् । तदुभयमाशङ्कयाह - न वायुविशेषमात्रमिति । उपक्रान्तस्यात्मोपदेशस्य प्राणपर्यन्तत्वसिद्धेः प्राणस्य चात्मत्वयोगादिति भावः । हेत्वन्तरमाह - प्राणो हेति । न हि केवलं देहस्य वायुविशेषस्य वापितृत्वादिकं वेदान्तिषु कश्चिदभ्युपगच्छति । हेत्वन्तरमाह - पितृहेति । अत्र प्रकरणे सप्राणेषु हिंसके हिंसानिमित्तोपक्रोशवचनं दृश्यते, अप्राणेषु हिंसके हिंसानिमित्तोपक्रोशाभावश्च दृश्यते, लोके च सजीवनिर्ज्जीवशरीरयोरुपमर्द्दकारिषूपक्रोशतदभावौ दृश्येते, न हि निष्कृष्टात्मनः केवलस्य शरीरस्य वा हिंस्यत्वम्, अपि त्वचिद्विशिष्टस्यैव चेतनस्य,

तस्मात्सप्राणनिष्प्राणविषयोपमर्द्दतदभावयोः सजीवनिर्जीवशरीरोपमर्द्दनिमित्तहिंसातदभावश्रवणाद्धिंसाकर्मत्वं प्राणशब्दवाच्यस्य जीवत्वसाधकमित्यर्थः । उपक्रोशतदभावौ पञ्चवृत्तिप्राणवत्त्वतद्रहितत्वनिबन्धनौ स्याताम्, न तु सजीवत्वनिर्ज्जीवत्वकृतावित्यत्राह - अप्राणेष्विति । स्थावरेष्वपि चेतनेष्विति - “ओषधिवनस्पतयो यच्च किञ्चित् प्राणभृत स आत्मानमाविस्तारं वेद” “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” इत्यादिश्रुतिस्मृतिभिः स्थावराणां ज्ञातृत्वकर्मफल

भोक्तृत्वावगमात्तेषां चेतनत्वं वेदान्तान् स्मृतिवचनानि च प्रमाणयद्भिरभ्युपेत्यमिति भावः । प्रक्रान्तस्यात्मोपदेशस्य प्राणपर्यन्तत्वं मातृत्वपितृत्वादिकं हिंसायोग्यत्वं चेति त्रितयं जीवत्वसाधकं पूर्वपक्षे, सिद्धान्ते तु पितृत्वादिकं हिंसाकर्मत्वं च द्वयमेव जीवत्वसाधकमिति भिदा । अरनाभिदृष्टान्तपूर्वकसर्वाधारत्वोपन्यासेन प्राणशब्दनिर्द्दिष्टः परमात्मेति प्रतीयत इत्यत्राह - अत एवेति । दृष्टान्तादीत्यादिशब्देन धारकत्वम् प्राणशब्दनिर्द्दिष्टस्य मुख्यप्राणत्वशङ्कानिरासहेतुरेव परमात्मत्वशङ्काया अपि निरासहेतुरिति सूचयत्येवकारः । कुत इत्यत्राह - परस्येति । हिंसाया अभावो मुक्तस्याप्यस्तीति तद्य्वावृत्त्यर्थं हिंसाप्रसङ्गाभावादित्युक्तम् । तर्ह्यरनाभिदृष्टान्तः कथमित्यत्राह - जीवादितरस्येति । एवं हिंसायोग्यत्वं पञ्चवृत्तिप्राणात् परमात्मनश्च व्यावर्त्तकमित्युक्तं भवति; एवं जीवः प्राणशब्दवाच्योऽस्तु ततः किं भूमविशिष्टस्य जीवत्व इत्यत्राह - अयमेव चेति । प्रकरणाविच्छेदं हेतुमाह - अस्ति भगव इति । प्रश्नप्रतिवचनाभावः प्रकरणाविच्छेदहेतुः, तदविच्छेदो भूमविशिष्टस्य जीवत्वहेतुरित्यर्थः । तुशब्दस्य प्रकरणविच्छेदकत्वमाशङ्कयाह - किञ्चेति । “एष तु वा अग्निहोत्री यस्सत्यं वदति” इत्यत्र अग्निहोत्रिवत् प्राणातिवादिनः प्रत्यभिज्ञानात्तस्यैव

तदङ्गतया सत्यकथनमुक्तमित्यर्थः । कथं जीवस्वरूपस्य विपुलसुखत्वम् ? तद्धि शोकप्रचुरमित्यत्राह अविद्यावियुक्तं रूपमिति । उपक्रमे “तरति शोकमात्मवि"दिति शोकाविष्टत्वं जीवस्य प्रतिपन्नम्, तत्कथं विपुलसुखत्वमित्यत्राह - उपक्रमाविरोधश्चेति । बद्धो हि सशोकः, मुक्तस्वरूपं विपुलसुखमित्यर्थः । अहंशब्दनिर्द्देशं च हेतुमाह - यत एवमिति । कथमहंशब्दनिर्द्देशः प्रत्यगात्मत्वसाधक इत्यत्राह - अहमर्थे प्रत्यगात्मनीति । अहमर्थस्य प्रत्यगात्मत्वादित्यर्थः । तदनुगुणतयेति । स्वमहिमप्रतिष्ठितत्वादिपराणि वाक्यान्यस्वरसं योजनीयानीत्यर्थः ।

सूत्रं व्याचष्टे - भूमेति । शुद्धस्वरूपाभिप्रायेण सूत्रे सम्प्रसादनिर्द्देशः कृतः । सम्प्रसादशब्दस्य प्रत्यगात्मपरत्वं कथमित्यत्राह - एष इति । हेतुवाचिपदेषु सम्प्रसादशब्दो व्याख्यातः, पदान्तरद्वयं व्याचष्टे - संप्रसादादिति । न हि प्राणकथनानन्तरं भूमविशिष्टस्याधिकत्वं श्रूयत इत्यत्राह - सत्यशब्दाभिधेयस्येति । सत्यशब्दात् पश्चात्प्रकरणविच्छेदाभावेन सत्यशब्दवाच्य एव भूमविशिष्ट इति भावः । भूमविशिष्टः सत्यशब्दाभिधोऽस्तु, ततः किं तस्य भूम्नः परमात्मत्वसिद्धेरित्यत्राह - सत्यशब्दाभिधेयं चेति । सत्यशब्दाभिधेयस्य तुशब्दोपेतातिवादिशब्देनाधिकतयोपदेशोऽस्तु, आधिक्यस्य च प्राणशब्दवाच्यजीवप्रतियोगिकत्वं कथम् ? न हि “मनो वाव वाचो भूयः” इत्यादिवत् पञ्चम्यन्तः प्राणशब्दः श्रुतः, अतो न सत्यस्य प्राणशब्दवाच्याज्जीवादर्थान्तरत्वम्, अपि तु पूर्वनिर्द्दिष्टाया आशाया अधिकतयोपदिष्टः प्राण एव सत्यवाच्यः, परिशुद्धप्रत्यगात्मस्वरूपस्यापि “सत्यं चानृतं च सत्यमभवत्” इत्यादाविव सत्यशब्दवाच्यत्वं सम्भवेदित्यत्राह - एतदुक्तं भवतीति । पूर्वनिर्दिष्टादूर्ध्वमभिधानं हि पूर्वनिर्दिष्टप्रतियोगितयोत्तरोत्तरेषामधिकतयाऽर्थान्तरत्वे हेतुः । तस्य हेतोः सपक्षे व्याप्तिं दर्शयति - यथेति । एवंशब्देन हेतुरभिप्रेतः, उत्तरोत्तरनिर्दिष्टानां पूर्वपूर्वनिर्द्दिष्टादधिकतया अर्थान्तरप्रतिपादनप्रकरणत्वात् प्राणशब्दनिर्िष्टादूर्ध्वं निर्द्दिष्टस्सत्यशब्दवाच्यस्तस्मात् प्राणादधिकतया अर्थान्तरभूत एवेत्यर्थः । ततः किं भूमशब्दवाच्यस्य परमात्मत्व इत्यत्राह - सत्यशब्देति । अनेन पूर्वं सूत्राक्षरयोजनायामुक्तस्य सत्यशब्दाभिधेयस्येतिपदस्याभिप्रायो विवृतो भवति । तदाहेति । पूर्वनिर्द्दिष्टादधिकतयोत्तरोत्तरनिर्द्देशप्रकरणत्वात् प्राणशब्दवाच्याज्जीवादूर्ध्वमुक्तः सत्यशब्दवाच्य उपास्यो भूमा ततोऽधिकं परं ब्रह्मेति वृत्तिकारग्रन्थस्यार्थः । “आत्मन ऊर्ध्व"मित्यनेन प्राणशब्दनिर्द्दिष्टस्य जीवात्मत्वं वृत्तिकाराभिमतम्, न तु पञ्चवृत्तिप्राणपरत्वमित्यवगतम्, अतः प्राणशब्दवाच्यस्य जीवत्वमाश्रित्यैव पूर्वपक्षसिद्धान्तवर्णनं वृत्तिकाराभिमतमिति ज्ञापनं वृत्तिकारग्रन्थोपादानफलम्; एवमधिकतयोपदेशसिद्धवत्कारेण सत्यस्य प्राणादधिकतया अर्थान्तरत्वमुक्तम् । अथ प्राणप्रतियोगिकार्थान्तरत्वहेतुत्वेनोक्तोऽधिकतयोपदेश एव कथम् ? सत्यवचनं हि प्राणोपासनाभ्गतयोपदिष्टमित्युक्तमिति पराभिप्रायं शङ्कते - प्राणशब्देति । तुशब्देन

प्रकरणविच्छेदान्नाङ्गविधिरिति

प्रतिवदति - स वा एष इति । व्यावर्तयति- अधिकतया व्यावर्तयतीत्यर्थः । पूर्वनिर्द्दिष्टादुत्तरनिर्द्दिष्टस्याधिकत्वोपदेशपरप्रकरणत्वादिति भावः । उपासकाधिक्यात्तन्निनिमित्तोपास्याधिक्यं वक्तुं तुशब्दस्वारस्येनोपासकवैलक्षण्यमुक्तम्, तुशब्दो ह्यसङ्कुचितवृत्तिः धर्मधर्मिणोरविशेषेण भेदकः । ननु कथं तुशब्दस्वारस्यादतिवाद्यन्तरप्रतिपत्तिः ? एतच्छब्दसामर्थ्येन पूर्वातिवादी हि प्रत्यभिज्ञायत इत्यत्राह - अत एवेति । प्रकृतप्रकरिष्यमाणसाधारण एतच्छब्दः, नायमेकान्ततः प्रकृतमभिनिविशते, पाश्चात्ययद्वृत्तप्रतिनिर्द्देशरूपत्वाच्च नायं प्रकृतपरः, तुशब्दस्वारस्यं च प्रकरणविच्छेदकम्, अतः पूर्वातिवादिनः प्रत्यभिज्ञा नास्तीत्यतिवाद्यन्तरं प्रतिपन्नमित्यर्थः । अतिवाद्यन्तरप्रतिपत्तिरस्तु, ततः किं सत्यस्य प्राणशब्दवाच्यादधिकत्व इत्यत्राह - अतोऽस्येति । तुशब्दः पूर्वातिवादिनो अतिशयितोपास्यान्तरविशिष्टमेवातिवाद्यन्तरं भिनत्ति, स्वोपास्यवस्त्याधिक्यं ह्यतिवादनिमित्तम् । अतः प्राणातिवादिनोऽतिवदननिमित्तात्तदुपास्यात् प्राणादपि तदुत्तरवाक्यनिर्दिष्टस्य सत्यातिवादिनो अतिवदननिमित्तं तदुपास्यं सत्यमधिकमित्यर्थः । अग्निहोत्रिवाक्यदृष्टान्ते तुशब्दस्य व्यभिचारं हृदि निधायातिवाद्यन्तराप्रतिपत्तिमुखेन चोदयति - ननु चेति । परिहरति - नैतद्युक्तमिति । अग्निहोत्रिवैषम्यं वक्ष्यंस्तुशब्दस्वारस्यादतिवाद्यन्तरप्रतिपत्तिमाह - तुशब्देनेति । अग्निहोत्रिवाक्यदृर्ष्टान्तान्तिकस्य सत्यातिवाक्यस्य वैषम्यं वक्तुं दृष्टान्ते स्वारस्यहानिमाह - एष त्विति । अग्निहोत्र्यन्तराप्रतीतेरिति - अतिवादिस्थानीयोऽग्निहोत्री, उपासनस्थानीयमग्निहोत्रम्, द्रव्यदेवतास्थानीयमुपास्यम् । अत्र अग्निहोत्र्यन्तराप्रतीतिरग्निहोत्रान्तराप्रतीतेः,सा च द्रव्यदेवताविशेषाप्रतीतेः, सा च सत्यवचनशब्दस्य दध्यादिद्रव्यदेवताविशेषोपस्थापनासामर्थ्यात्; एवमग्निहोत्र्यन्तरसमर्पकशब्दाभावात्तत्र तुशब्दस्वारस्यं भग्नमित्यर्थः । इहापि तर्ह्यतिवाद्यन्तराप्रतीतेरग्निहोत्रीन्यायो भवतीत्यत्राह - अत्र त्विति । अत्र त्वतिवाद्यन्तरत्वनिमित्तमुपासनान्तरं तद्धेतुभूतमुपास्यान्तरं च प्रतीयते, इह तत्समर्पणसमर्थस्य सत्यशब्दस्य सद्भावात्तुशब्दस्वारस्यं न भञ्जनीयम्, अतः अतिवाद्यन्तरं सिद्धमित्यर्थः । किञ्च न परं द्रव्यदेवतोपस्थापकशब्दाभावादग्निहोत्रान्तराप्रतीतिः, किन्तु कर्मस्वरूपोपस्थापकशब्दाभावाच्च । न हि जुहोत्यादिपदान्तरं श्रूयते, न च श्रूयमाणो वदतिशब्दो जुहोत्यर्थः, अतश्चाग्निहोत्रान्तराप्रतीतेरग्निहोत्रशब्दः सजातीयव्यक्तिमलभमानः प्रकृतमेवाग्निहोत्रमवलम्बते, इह तु न परमुपास्यान्तरसमर्पणक्षमस्सत्यशब्द एव, “सत्यं त्वेव विजिज्ञासितव्य"मित्युपासनान्तरोपस्थापकशब्दश्च श्रूयते, अत उपासनान्तरप्रतीतेरुपासकान्तरप्रतीतिसद्भावादतिवादिशब्दस्तद्विषयो भवितुमर्हतीति तुशब्दस्वारस्यं न भञ्जनीयम्, अतः प्रक

रणविच्छेद इति चाभिप्रायः । तुशब्दस्य धर्मिभेदकत्वे सिद्धे सत्यशब्दस्योपास्यान्तरसमर्पकत्वम्, सत्यशब्दस्योपास्यान्तरसमप्रकत्वे तुशब्दस्य धर्मिभेदक वमित्यन्योन्याश्रयमाशङ्कय सत्यशब्दस्योपास्यान्तरपरत्वप्रसिद्धिं दर्श यति - सत्यशब्दश्चेति । ततः किमित्यपेक्षायां तुशब्दस्वारस्यफलितमर्थमाह - अत इति । न हि तुशब्दस्य धर्मिभेदकत्वस्वारस्यं सत्यशब्दापेक्षम् सत्यशब्दस्योपास्यान्तरसमर्पणक्षमत्वं श्रुतिसिद्धम् न तुशब्दापेक्षम् सत्यशब्दस्य न जीवपरसाधारण्यम्, परस्यैव निरुपाधिकसत्यत्वात् साधारण्येऽपि विलक्षणोपास्यवाचकत्वमति, सम्भवेपि तथा सति न तुशब्दस्वारस्यभङ्गः, अतोऽन्योन्यसापेक्षत्वाभावान्नान्योन्याश्रय इत्यभिप्रायेण पूर्वस्मादधिकत्वं सम्भवतीति वाक्यस्वरससिद्धमन्यत्वं न बाधितव्यमित्युक्तम् । प्राणोपासकस्यासाधारणमतिवादित्वं नातिवाद्यन्तरं सहते, अतोऽतिवादिशब्दस्वारस्यार्थं तुशब्दस्वारस्यभङ्ग इत्यत्राह - अतिवादित्वं हीति । न हि प्राणातिवादिन्येवातिवादिशब्दो रूढः, क२प्तावयवशक्तयैव लब्धे स्वार्थावबोधने । नष्टावयवनामत्वं प्रत्याचष्टे हि सूत्रकृत् " । इति दर्शितात् “प्रोक्षणीष्वर्थसंयोगा"दिति सूत्रितात् प्रोक्षणीनयादवयवशक्तया स्वार्थबोधे सम्भवति रूढिकल्पनाऽयोगात्, अतो न प्राणातिवादिन्येवातिवादिशब्दस्वारस्यमित्यर्थः । अतिक्रान्तस्वोपायवस्तुवादित्वमतिवादिशब्दप्रवृत्तनिमित्तमितीममर्थं प्राणातिवादिनि दर्शयति - नामादीति । अस्य प्रवृत्तिनिमित्तस्य परमात्मोपासक एव पुष्कलत्वात्तस्मिन्नेव अतिवादिशब्दो मुख्य इति “यस्सत्येनातिवदति” इति वदत आचार्यस्याभिप्राय इत्याह - तस्यापीति । तुशब्दस्यातिवादिशब्दस्योभयस्याप्यस्मत्पक्ष एव स्वारस्यमिति भावः । सत्यमुपास्यं चेत् “स वा एष एवं पशयन्” इतिवत् सत्यं पश्यन्नतिवदतीति वक्तव्यम्, न तु सत्येनेति शङ्कायां तृतीयाया अर्थमाह - सत्येनेति । सत्यवदनपक्ष एव तृतीयानुपपत्तिः उपसर्गवैयर्थ्यं चेतिभावः । उपास्यान्तरत्वमुपपादयति - अत एवैवमिति । अत एवसत्यशब्दस्योपास्यान्तरपरत्वादेव । “सोऽहं भगवस्सत्येनातिवदनि” इति शिष्यः प्रार्थयते, न तु प्राणेनातिवदानीतीत्यर्थः । आचार्यश्चेति “सत्यं त्वेव विजिज्ञासितव्य"मित्याह, न तु प्राणएवेतीत्यर्थः । यद्वा अतिवादिशब्दस्य यौगिकत्वमुपपादयति- अत

एवैवमिति । अतिवादिशब्दस्य यौगिकत्वादेव हि अतिवदानीत्याख्यातनिर्देश इत्यर्थः । यद्वा अतिक्रान्तस्वोपास्यवस्तुवादित्वस्यैवातिवादिशब्दप्रवृत्तिनिमित्तत्वादेव हि शिष्यप्रार्थनमित्यर्थः । अयमर्थः पूर्वोक्तार्थफलम् । आचार्यश्चेति । अत एवेत्यनुषङ्गः । अतिक्रान्तस्वोपास्यवस्तुवादित्वस्यैव प्रवृत्तिनिमित्तत्वादेव हि सत्यशब्दासभधेयम्, “सत्यं त्वेव विजिज्ञासितव्य"मित्युपास्यतयोक्तमित्यर्थः । किञ्च सत्यवदनमङ्गतया विहितं चेत् सत्यं सम्पाद्यमित्युक्तं स्यात्, तदानीं विजिज्ञासितव्यशब्दास्वारस्यं भवेत्, सत्यं विजिज्ञासितव्यम्, वदनार्थं ज्ञातव्यमित्यर्थ इति चेत् अध्याहारप्रसङ्ग इति भावः । सूत्राभिप्रेतेन हेत्वन्तरेणाप्यधिकतयोपास्यान्तरत्वमुपपादयन् सम्प्रसादादध्युपदेशं विवृणोति- आत्मन इति । पूर्वपक्षयुक्तिमनवदति - यत्त्विति । परिहरति - तदयुक्तमिति । उक्तं चेति - प्रश्नप्रतिवचने हि लिङ्गम्, तदभावेऽपि तुशब्दश्रुतिरात्मनः प्राणोत्पत्तिश्च लिङ्गमिति प्रमाणान्तरमुक्तमित्यर्थः । तत्र प्रश्नाभावः किंनिबन्धन इत्यत्राह - अस्तीति । पुरुषार्थभूयस्त्वातिशयं मन्वानेन आत्मोपदेशस्य तत्पर्यन्तत्वं मन्वानेनेत्यर्थः । स्वयमेवोपचिक्षेपेति - भगवद्गीतायामपि “तस्माद्योगी भवार्जुन” इति जीवात्मयोगं परिसमाप्य “योगिनामपि

सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः” इति परमात्मोपासनं भगवानेव ह्युपक्षितवान्, तद्वदिति भावः । ततो ब्रह्मेति - ब्रह्मसाक्षात्कारनिमित्तेत्यनेन “यदा वै विजिनायथ सत्यं वदती “त्यस्य वाक्यस्यार्थस्य उक्तो भवति । विजानातिशब्दः साक्षात्कारपरः, न तु शास्त्रजन्यज्ञानपरः “यदा वै मनुते अथ विजानाती “तिजानात्यर्थस्य मननसाध्यत्वावगमात् । सत्यं वदति सत्यमतिवदतीत्यर्थः । अतिवादस्य प्रकृतत्वात् । यदा ब्रह्म साक्षात्करोति तदाऽतिवदति, तस्मादतिवादित्वनिमित्ततत्साक्षात्काराय तदुपायभूतं सत्योपासनं कुर्यादित्यर्थः । श्रवणोपायभूतां ब्रह्मणि श्रद्धामिति - श्रवणमनननिदिध्यासनप्राप्तिविषयो हि ब्रह्म, तद्विषयश्रद्धा च तच्छ्रोतुं मन्तुं द्रष्टुं पाप्तुं च भवति, तत्र श्रवणोपायभूतां श्रद्धामित्यनेन श्रोतुं श्रद्धा विवक्षिता; श्रद्धा - त्वरा तदुपायभूतां च तन्निष्ठामिति । तस्मिन् ब्रह्मणि निष्ठा तन्निष्ठा ब्रह्मैव श्रोतव्यं नान्यदिति व्यवसायो निष्ठा श्रोतव्यत्वनिश्चये हि श्रोतुं त्वरा भवति । तदुद्योगप्रयत्नरूपां कृतमिति - उद्योगशब्दवाच्यप्रयत्नरूपां कृतिमित्यर्थः । सा च श्रोतव्यान्तरेषु हेयत्वानुसन्धानेन मनसो नियमनरूपा अन्यस्मिन्नुपादेयबुध्द्या प्रवणमनस्कस्य हि ब्रह्मैव श्रोतव्यं नान्यदित्यध्यवसायो न भवति । श्रवणादीति - जिज्ञासितव्यपुरुषार्थत्वे तस्य निरतिशयत्वे च ज्ञाते सति मनसः सातिशयपुरुषार्थान्तरवैमुख्यकरणं सम्भवतीत्यभिप्रायः । निरतिशयपुरुषार्थत्वावगमश्च शास्त्रादेवापातप्रतीतिदशायां भवति, यादृच्छिकसज्जनसंवादादिना च सिध्यति; “यदा वै श्रद्दधात्यथ मनुते यदा वै निस्तिष्ठत्यथ श्रद्दधाति यदा वै करोत्यथ निस्तिष्ठति” इति मननादीनां श्रद्धाद्यानन्तर्यश्रवणात् भाष्ये तेषामुपायोपेयभाव उक्तः । “यदा वै सुखं लभते” इति श्रुतौ लाभशब्दो बुद्धिवाची, लभतेः प्राप्त्यर्थत्वादित्यभिप्रायेण सुखरूपता ज्ञातव्येत्युक्तम् । न हि श्रवणादेः

पूर्वमेव निरतिशयसुखप्राप्तिरुपपद्यते सत्यव्यतिरिक्तविषयाणि जिज्ञासितव्यपदानि सम्पाद्यत्ववाचीनि । यत्र नान्यदिति वाक्येऽन्यदर्शनश्रवणादिनिषेधात् दृश्यमिथ्यात्वशङ्का स्यादिति तद्व्युदासाय तस्य वाक्यस्यार्थमाह - अयमर्थ इति । अर्थस्वभावादनुभूयमान इत्यध्याहारः कृतः, न हि ब्रह्मसद्भावाद्दुःखस्वरूपवस्त्वन्तरादर्शनं भवति । ततोऽन्यत् सुखरूपात् ब्रह्मणोऽन्यत् । न पश्यतिदुःस्वरूपं तद्य्वतिरिक्तं च किञ्चिन्न पश्यतीत्यर्थः । “यो वै भूमा तत्सुख"मित्युक्तनिरतिशयसुखरूपब्रह्मलक्षणपरत्वाद्वाक्यस्य, तत्र दुःखदर्शनाभावहेतुरनवधिकातिशयसुखरूपत्वम् अनवधिकातिशयसुखरूपत्वाद्दुःखं न पश्यतीत्यर्थः । अन्यदर्शनाभावे हेतुमाह - ब्रह्मस्वरूपेति । कृत्स्नस्य वस्तुजातस्येति - स्वरूपान्तर्गताः ज्ञानादिगुणाः, विभूत्यन्तर्गतं जगदखिलमित्यभिप्रायः, अभिप्रेतहेतुसमुच्चयार्थश्चशब्दः। ननु यत्रेतिपदं ब्रह्मपरम्, न तु विभूतिपरम्, न च तद्विषयं पदान्तरमस्ति; अतो ब्रह्मस्वरूपतद्विभूत्यन्तर्गतत्वादित्ययुक्तम् अस्तु वा तद्वाचिशब्दः, नान्यत् पश्यतीत्ययुक्तम्, विभूतिर्हि ब्रह्मणोऽन्येति शङ्कायामुक्तं विवृणोति - अत ऐश्वर्येति । अतः- ब्रह्मणः सुखरूपतायाः कृत्स्नविभूतेस्तदन्तर्भावस्य च प्रामाणिकत्वात् । विभूतिविषयो गुणः विभूतिगुणः, स एव ऐश्वर्यापरपर्यायं नियमनम्, तद्विशिष्टं ब्रह्म न हीशितव्यज्ञानं विनैश्वर्यविशिष्टानुभवसम्भवः, निरूपकेण विना निरूप्यज्ञानायोगादिति भावः । यद्वा अत्रैवोपनिषदि “स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नि प्रतिष्ठित इति यदि वा न महिम्नीति गो अश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानि नाहं

ब्रवीम्यन्यो ह्यन्यस्मिन् प्रतिष्ठित” इति श्रूयते । अत्र स्वे महिम्नि प्रतिष्ठित इत्युक्ते हस्त्यादीनां नियाम्यानां महिमशब्दवाच्यत्वात् तत्प्रतिष्ठितत्वशङ्कायां “यदि वा न महिम्नीति हस्तिहिरण्यादिमहिमनिष्ठत्वं निषिद्धम्, तदेव शङ्काबीजमुपन्यस्य व्युदस्यति गो अश्वमित्यादिना । “अस्य महिमानमिति वीतशोकः” “एतां विभूतिं योगं च” इत्यादि श्रुतिस्मृतिषु परमात्मनो महिमवत्त्वावगमादिह न महिमनिषेधः, अपि तु विभूतिरूपमहिमप्रतिष्ठितत्वनिषेध इत्यवगम्यते, अतो महिमविभूत्यादिशब्दाश्च न स्वरूपमात्रपराः, “विभूतिर्भूतिरैश्वयर्म्” इत्यैश्वर्यपर्यायत्वादिति महिमापह्नवशङ्काव्युदासाय ऐश्वर्यापरपर्यायेत्युक्तम् । इदानीं विभूतिरेव गुणः । गुणशब्दो विभूतेरपृथक्सिद्धयभिप्रायः, विभूत्या गुणैश्चेतिवार्थः । विभूतिगुणविशिष्टेति - यच्छब्द एव विशिष्टब्रह्मपर इति भावः । पूर्वं विभूत्यन्तर्गतत्वादिति अन्वयहेतुरुक्तः, व्यतिरेकरूपं हेतुमाह - तद्य्वतिरिक्तस्येति । विशिष्टब्रह्मणोऽन्यदर्शनं निषिध्यते, न त्वन्यदर्शनमित्यर्थः । विभूतिविशिष्टं ब्रह्मानुभाव्यं चेद्विभूतेः दुःखरूपत्वदर्शनाद्दुःखादर्शनमनुपपन्नमित्यत्राह- अनुभाव्यस्येति । सर्वस्य- सर्वविभूतिकस्येत्यर्थः । पूर्वाभिप्रेतादेव हेतोरित्येवकाराभिप्रायः । सर्वस्य सुखरूपत्वं कथम् ? आत्मगुणविशेषो हि सुखमित्यत्राह - तदेव हि सुखमिति । अनुकूलत्वं नाम स्वत इष्टत्वम्, तच्चानिष्टनिवृत्तिरूपतयेष्टसाधनतया च विनापीष्टत्वम् । अनुभवविरोधेन चोदयति- ननु चेति । न ह्येकमेकदैव सुखदुःखात्मकविरुद्धस्वभावालिङ्गितमिति युज्यते, न हि निम्बपत्रं कस्यचिन्मधुरं भवति, न च सर्पः कस्यचिदनुकूलबुद्धिबोध्यो भवति, न च जगतश्शक्यं दुःखरूपत्वमपह्नोतुम्, तस्य सर्वैरभ्युपगन्तव्यत्वात्, इतरथा तज्जिहासया ब्रह्मजिज्ञासानुपपत्तेः, अतः परिशेषात् सुखरूपत्वमेवेत्युक्तमित्यभिप्रायः । खतोऽपरिच्छिन्नसुखरूपस्याप्युपाधितोऽन्यथारूपसम्भवादविरोध इति परिहरति - उच्यत इति । कर्म तत्तिरोधानकृतम् अब्राह्मात्मकत्वज्ञानं चोपाधिः । ततः किमित्यत्राह - अतो ब्रह्मण इति । स्वतो मधुरस्यापि दोषसम्बन्धादननुकूलत्वे अनुकूलबुध्द्यविषयस्य केनचित् सम्बन्धित्वज्ञानादनुकूलत्वे च दृष्टान्तद्वयमाह - पित्तोपहतेनेति । दार्ष्टान्तिकेऽपि तादृक्त्वमाह - तथेति । यत्र नान्यदितिवाक्यस्यार्थं निगमयति - अत इति । एतत औपधिकदुःखरूपतायास्तद्विगमेऽनवस्थानम् । स वा एष इति - रत्यादिशब्दानां प्रीतिपरत्वे व्यधिकरणबहुव्रीहिः, अनुकूलविषयपरत्वे साक्षाद्बहुव्रीहिः” आत्मशब्दो विभूतिगुणविशिष्टब्रह्मपरः । रतिः- स्रक्चन्दनादिजन्या प्रीतिः । क्रीडा- उद्यानादिजन्या । मिथुनम् स्त्रीसम्भवा । आनन्दः- विभूतिजन्यः । एवं सर्वविधसुखानुभव उक्तः “स्वराड् भवति अन्यराजानस्ते क्षय्यलोकाः” इति च परमात्मप्रतिक्षेपः प्रतीयत इत्याशङ्कयाह - स्वराडिति । अन्यराजानः स्वराडितिपदद्वयेन उपाधितद्विगमौ दर्शितौ । दुःखरूपतया प्रतिपन्नस्यापि स्वतः सुखरूपत्वे श्रुतिमाह - न पश्य इति । सर्वं पश्यति न तत्र दुःखतां पश्यति, सुखरूपतामेव पश्यतीत्यर्थः । उदाहृतवाक्ये विभूत्यादिविशिष्टस्यानन्दरूपत्वमस्पष्टमिति तद्वैशद्यायाह - निरतिशयेति । “तदात्मानं स्वयमकुरुत । तस्मात्तत्सुकृतमुच्यत इति । यद्वैतत्सुकृतं । रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति” आनन्दो ब्रह्मेति व्यजानात् । आनन्दाद्धयेव खल्विमानि भूतानि जायन्ते” इति च वाक्येषु कार्यकारणावस्थविभूत्यादिविशिष्टस्यैव आनन्दत्वं हि स्फुटतरम् । सूत्रार्थमुपसंहरति - अत इति ।

॥ धर्मोपपत्तेश्च ॥ कस्य धर्मा इत्यकाङ्क्षां पूरयन् व्याचष्टे- अस्येति । पूर्वपक्षयुक्तिं परिहरति - यत्त्विति । अहङ्ग्रहेणोपासनम्- अहमर्थशब्दयोः परमात्मपर्यन्तत्वबुद्धयोपासनम् ।

तर्ह्यतस्मिंस्तद्बुद्धिः स्यादित्यत्राह - अहमर्थस्येति । न केवलमन्तर्यामिब्राह्मणादिषु अस्मिन् प्रकरणेऽपि सर्वात्मत्वमुक्तमिति दर्शयिष्यन् तत्प्रतिपादकस्य “अथात आत्मादेश” इतिवाक्यस्यार्थमाह - परमात्मन इति । उपासकात्मनोऽप्यात्मत्वं फलितमित्युक्तम् । अथ कण्ठोक्तमिति दर्शयितुं कण्ठोक्तिमद्वाक्यस्यार्थमाह - एतदेवेति । विजानत इति पदस्य षष्ठयन्तत्वज्ञापनाय व्याचष्टे - उपासकस्येति । पूर्वपक्षयुक्तिं परिहरन्निगमयति - अत इति । अधिकरणार्थमुपसंहरति - तस्मादिति ॥