एवमस्पष्टजीवलिङ्गकानि वाक्यानि परमात्मपरत्वेन निर्णीतानि । अथ स्पष्टजीवलिङ्गकानि विचार्यन्त इति पादसङ्गतिः । पूर्वस्मिन्नधिकरणे द्युपृथिव्यादिसम्बन्धिनः परमात्मत्वमुक्तम्, द्युपृथिव्यादिसम्बन्धित्वं परमात्मव्यतिरिक्तस्य दृश्यत इति शङ्कया अनन्तराधिकरणारम्भ इत्यवान्तरसङ्गतिः । यद्वा “अदृश्यत्वादिगुणक” इत्यधिकरणे त्रैलोक्यशरीरत्वेन परमात्मत्वे साधिते तच्छरीरकत्वमपरमात्मनोऽपि दृश्यत इति शङ्कायां वैन्वानराधिकरणं प्राप्तम् । अथास्यामेवोपनिषदि कतिपयवाक्यानां परमात्मव्यतिरिक्तपरत्वशङ्कायामदृश्यत्वादिगुणकचिन्तनस्यासमाप्तिबुध्द्या तृतीयपादाद्याधिकरणमदृश्यत्वानिगुणकनिरूपणात्पृथक्कृत्य तृतीयपादे निवेशितम् । पादभेदस्य स्पष्टास्पष्टजीवलिङ्गतानिबन्धनत्वात् । ॥ द्युभ्वाद्यायतनं स्वशब्दात् ॥ व्द्याद्यायतनमित्येतावति वक्तव्येऽपि द्युभ्वादीत्युक्तेरयं भावः, ऊद्र्ध्वा अधराश्चेतिकोटीद्वयान्तर्गता लोकाः, तत्प्रदर्शनार्थौ द्युभूशब्दाविति । विषयमाह - आथर्वणिका इति । तत्रेति - किं द्युपृथिव्याद्यायतनं जीवः, उत परमात्मा ? इति विचारः । तदर्थं यस्मिन्द्यौरित्यादिवाक्यजातं किमदृश्यत्वादिगुणकप्रकरणाद्भिन्नम्, उताभिन्नम् ? तदर्थं मनःप्राणादिसम्बन्धः किमुपकरणोपकरणित्वलक्षणः, उताधाराधेयभावलक्षणः ? तदर्थं द्युपृथिव्याद्यायतनत्वामृतसेतुत्वादिधर्माः किं कर्मफलात्तुर्जीवस्य सम्भवन्ति, उतानश्नतः ? इति । यदा कमर्फलात्तुर्भवन्ति तदा मनआदिसम्बन्धस्य करणतद्वत्तारूपतया तस्य परप्रकरणविच्छेदकत्वेन द्युभ्वाद्यायतनं जीवस्यात्, यदाऽमृतसेतुत्वादयोऽनश्नतो धर्मास्तदा मनआदिसम्बन्धस्य आधाराधेयभावरूपत्वेन परप्रकरणाविच्छेदाद्द्युपृथिव्याद्यायतनं परमात्मेति फलितं स्यात् । अरा इवेत्यादेरनन्तरश्लोकस्य द्युभ्वाद्यायतनविषयत्वं दर्शयन् जीवलिङ्गमाह - पूर्ववाक्येति । लिङ्गान्तरमाह - मुनरपि स एष इति । ततः किमित्यत्राह -
नाडीसम्बन्ध इति । नाडीनामिन्द्रियसम्बन्धित्वेन जीवस्य ज्ञानप्रसरहेतुत्वात् “ताभिः प्रत्यवसृप्य पुरीतति शेते” तयोद्र्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमेण भवन्ति" इत्यादिश्रुतिभिर्जीवस्य नाडीसंयोगप्रसिद्धेश्च तत्सम्बन्धो जीवलिङ्गमिति भावः । देवातिरूपेणेति बहुधाशब्दविवरणम् । अन्तरादित्यविद्यायामकर्मकृतस्वेच्छागृहीतदिव्यविग्रहयोगस्समर्थितः, न तु देवादिसजातीयरूपैर्बहुधाजायमानत्वं बहुधाशब्दार्थ इति सूत्रकारेण निरूपितम्; अतस्तस्य जीवत्वशङ्का युक्तेतिभावः । “यस्मिन्द्यौ"रिति पूर्वश्लोके जीवधर्मं दर्शयति - अस्मिन्नपीति । ननु कथं मनः प्राणसम्बन्धस्य जीवत्वसाधकतयोपन्यासः, स हि परस्य सम्भवतीति “सर्वत्र प्रसिद्धोपदेशा"दित्यत्रोक्तम् । सत्यम्; तथापि मनःप्राणैरुपकरणोपकरणित्वलक्षणसम्बन्धस्य स्वरसतः प्रतीतेः तस्य चापवादाभावे सति कार्यकरत्वेन प्रागुक्तनिर्वाहायोगाच्च युक्ता शङ्का, अतो नाडीसम्बन्धबहुधाजायमानत्वमनःप्राणाधारत्वजीवलिङ्गैः पूर्वपक्षोत्थानं युक्तम् । तत्रैव श्लोके द्युपृथिव्याद्यायतनत्वरूपपरमात्मलिङ्गं च दृश्यत इत्यत्राह - एवं जीवत्वे निश्चित इति । द्वयोरपि जीवपरयोर्लिङ्गप्रतिभासेन विरोधादन्यतरलिङ्गभङ्गेऽवश्यंभाविनि, यल्लिङ्गस्योत्तरश्लोकप्रतिपन्नलिङ्गद्वयानुगुण्यम् तल्लिङ्गानुसारिण्यर्थनिर्णये कर्तव्ये सतीत्यर्थः । यथाकथञ्चित्सङ्गमयितव्यमिति - जीवस्य द्युपृथिव्याद्याधारत्वं स्वरूपेण वा कर्मद्वारा वा मुक्तावस्थायां विकसितेन ज्ञानेन वा सम्भवतीति भावः । द्युपृथिव्यादीनामित्यादि - सेतुशब्दस्य सलिलनिरोधके प्रसिद्धत्वेनामृतस्य निरोधकत्वप्रसङ्गेन रूढार्थानुपपत्तौ सत्यामस्वारस्य साम्यात्तमुभयथा व्याचष्टे - सिनोतेरिति, सेतुरिव वेति च । प्रथमनिर्वाहे रूढिपरित्यागादस्वारस्यम्, द्वितीये त्वगत्या रूढार्थगतगुणयोगपरत्वादस्वारस्यम् । गुणयोगफलितमर्थमाह - संसारेति । श्येनसादृश्याद्यागे श्येनशब्दवत् सेतुतादृश्यात्परमात्मनि सेतुशब्दः, विहङ्गयागयोर्हि निपत्यादानं साम्यम् । “अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा” इति श्रुत्यनुसारेणात्मशब्दं व्याचष्टे । आत्मशब्दश्चेति - आत्मशब्दो न व्याप्तृमात्रवाची, किन्तु व्याप्तृ-विशेषवाची, योगरूढत्वात; न हि गगनादिष्वात्मशब्दप्रयोगः, अतो नियन्तृरूपव्याप्तृविशेषवाचीत्यर्थः । “अमृ-तस्यैष सेतुः” “आत्मानम्” “यस्सर्वज्ञस्सर्ववित्” इत्यादयः स्वशब्दा इत्यर्थः । परोक्तहेतुनिर्वाहमाह - नाड्याधारत्वमित्यादिना । नाड्याधारत्वं हृदयद्वारा परमात्मनस्सम्भवतीत्यर्थः । अजायमान इति - जन्मनो हेतुविशेषः फलविशेषश्चेति भावः । तद्वैशद्यायाह - स्मृतिरपीति ।
॥ मुक्तोपसृप्यव्यपदेशाच्च ॥ नामरूपप्रहाणमात्रं प्रलयदशायामप्यस्तीति तद्य्वावृत्त्यर्थं विधूतपुण्यपापत्वपूर्वकत्वं नामरूपप्रहाणस्य दर्शयितुं श्रुतिवाक्यद्वयोपादानम् उपात्तश्रुतिवाक्ये बन्धान्मुक्त इतिशब्दस्याश्रुतत्वान्मुक्तिप्रतिपादनं दर्शयति - संसारबन्धनादिति । वाक्यद्वयोक्तविशेषणान्याह - विधुतेति । मुक्तत्वमुपपादयति - पुण्यपापेति । वाक्यद्वयोक्तविशेषणानि विशदीकुर्वन् सूत्रार्थं परमसाध्येन घटयति - अत इति । निरञ्जनशब्दव्याख्यानं प्रकृतिसंसर्गरहितैरितिपदम् । परमं साम्यमिति - येन गुणेन साम्यं तस्यापरिच्छिन्नत्वं परमसाम्यम्, न तु सर्वथा साम्यम् । उत्तरसूत्रमवतारयति - परब्रह्मेति । पूर्वमन्वय उक्तः, अथ तद्दार्ढ्याय व्यतिरेक उच्यत इत्यर्थः ॥
॥ नानुमानमतच्छब्दात्प्राणभृच्च ॥ सूत्रसङ्गतेर्बुद्धिस्थत्वाय प्रथमं सङ्गच्छमानं सूत्रस्य वाक्यार्थमाह - यथेति । मुक्तोपसृप्यत्वेऽभिहिते प्रधानशङ्कानुदयेन तस्य व्युदसनीयत्वाभावात्तदुपन्यासो दृष्टान्ततयेति भावः । किमत्र प्रधानोपस्थापकं पदमित्याकाङ्क्षायां व्याख्येयं पदं व्याचष्टे - अनुमीयत इति । “कृत्यल्युटो बहुल” मिति बहुलग्रहणात् कर्मणि ल्युडिति भावः । अनुमानेति - “शेष” इत्यणप्रत्यये आदिवृद्धौ च सत्यामानुमानमिति रूपं भवति । तद्य्वतिरिक्तवाचिशब्दादिति प्रतीतिशङ्कानिवृत्त्यर्थमतच्छब्दादितिपदं व्याचष्टे - तद्वाचीति । अर्थाभावे यदव्ययमिति न सूत्रोपादानम् । अपि त्वर्थोपादानम्; सूत्रस्य द्राधीयस्त्वात् । अयमभिप्रायः, अतच्छब्दादिति बहुव्रीहिस्तावदनुपपन्नः, तदा तच्छब्दरहितादिति स्यात्, ततश्च
विशेष्यान्तरं हेतुतयाऽन्वेष्टव्यम्; तच्चानुपलम्भहतम् तत्पुरुषत्वे नञस्तत्पदेन शब्दपदेन वा समासस्यात् । तत्र प्रथमे असः क इत्यपेक्षायां प्रकृतात्परमात्मनोऽन्यत्प्रधानं जीवो वा यद्यतच्छब्दार्थस्तदा प्रधानपुरुषवाचिशब्दादित्युक्तं स्यात्, ततश्चासिद्धिः प्रतिज्ञातार्थविरोधश्च स्यात् । असः प्रधानादिव्यतिरिक्तः परमात्मा चेत् तद्वाचिशब्दादित्युक्ते “स्वशब्दा"दित्यनधिकार्थत्वं स्यात्, तथा च सति नानुमानमत एव
प्राणभृच्चेत्यार्जवेन शक्ये सूत्रप्रणयने कुटिलोक्तिर्विफला स्यात् । नञस्तच्छब्दपदेन समासपक्षेऽपि तद्वाचिशब्दव्यतिरिक्तशब्दादित्युक्तं स्यात् तदा तच्छब्दः प्रधानजीवपरश्चेत्तद्वाचिशब्दव्यतिरिक्तशब्दादित्युक्तं भवति, तत् स्वशब्दादित्यनधिकार्थम् तच्छब्दः परमात्मपरश्चेत् तद्वाचिशब्दव्यतिरिक्तादिति हेतुःप्रतिज्ञातार्थविरुद्धार्थः स्यात्; अतः परिशेष्यादर्थाभावेऽव्ययीभाव इति ।
इतश्चायं न प्रत्यगात्मेति - प्राणमृत्प्रतिषेधकसूत्रानन्तर्यात्तदनन्तरसूत्रस्यापि प्राणभृत्प्रतिक्षेपस्साध्य इत्यर्थः । अयंशब्दो द्युभ्वाद्यायतनात्मविषयः । मुक्तोपसृप्यसूत्रविषयवाक्ये “पश्यते रुक्मवर्णम्” इत्युक्तम् “जुष्टं यदा पश्यती” ति तत्तुल्यार्थतया बुद्धिस्थवाक्यान्तरप्रतिपन्नहेतुमाह -
॥ भेदव्यपदेशात् ॥ “समाने वृक्षे” इति मन्त्रे अन्यशब्दार्थो भेदव्यपदेशशब्देन विवक्षितः । अत्रान्यशब्दस्य द्युभ्वाद्यायतनविषयत्वं कथमिति शङ्कायां मन्त्रं व्याचष्टे - अनीशयेति । स्त्रीलिङ्गसामर्थ्यात् प्रकृतेर्विशेष्यत्वमुक्तम् । अन्यशब्दसामर्थ्यलब्धं प्रतियोगिनं निर्दिशति - स्वस्मादिति । ईशशब्दसामर्थ्यप्राप्तमीशितव्यं मानातरानुरोधेनाह - सर्वस्येति । जुष्टशब्दं व्याचष्टे - प्रियमाणमिति । आदिकर्मणि क्त इति भावः । समुच्चेतव्यसामर्थ्यप्राप्तश्चशब्द इत्यभिप्रायेणाह - महिमानञ्चेति । इतिशब्दार्थमाह - निखिलजगन्नियमनरूपमिति । इतिशब्दो बुद्धिस्थप्रकारपरः । ईशशब्दश्रवणान्नियमनरूपप्रकारो बुद्धिस्थ इति भावः । यत्तदोर्नित्यसम्बन्धादाह - तदेति । इतिशब्दःकालसम्बन्धरूपप्रकारवाची, अतस्तदर्थस्तदाशब्दविवक्षितो वा स्यात् । द्रष्टृत्वसमानाधिकरणं मुह्यमानत्वादिकं दृश्यत्वसमानाधिकरणं जुष्टत्वादिकमन्यत्वं च व्यपदिशन्तीयं श्रुतिः “तमेवैकं जानथ” इति ज्ञेयतया निर्दिष्टं द्युभ्वाद्यायतनमात्मानमन्यशब्दवाच्यत्वेन प्रत्यभिज्ञापयन्ती तस्य जीवत्वं वारयतीति वाक्यार्थः ।
द्वितीयचतुर्थसूत्रविषयाभ्यां “यदा पश्यः पश्यते” “जुष्टं यदा पश्यती” ति वाक्याभ्यामदृश्यत्वादिगुणकविषयस्य “यद्भूतयोनिं परिपश्यन्ती” तिवाक्यस्य समानार्थत्वात् बुद्धिस्थप्रकरणमेव हेतुं स्थित्यदनाभ्यां पूर्वमेवाह -
॥ प्रकरणात् ॥ भाष्ये अस्य सूत्रस्य साध्यनिर्देशाभावः प्रकरणाख्यस्य हेतोः प्राणभृत्प्रतिक्षेपे परमात्मसाधने च सामर्थ्यात् पूर्वत्रोत्तरत्र चान्वयो भविष्यतीत्यभिप्रायनिबन्धनः । उत्तरसूत्रव्याख्याने ह्युभयमपि साध्यत्वेन निर्दिश्यते ।
अदृश्यत्वादीत्यस्मिन्नधिकरणे “विशेषणभेदव्यपदेशाभ्यां च नेतरौ” इतिसूत्रव्याख्यानावसरे तथाहीत्यादिनोपसंहृतमित्यन्तेन भाष्येण प्रकरणस्य परब्रह्मपरत्वं प्रतिपादितमित्यर्थः । पूर्वमेवास्य प्रकरणस्य परमात्मपरस्वंसा धितञ्चेत्किमेतदधिकरणारम्भणेत्यत्राह - नाडीसम्बन्धेति । प्रकरणस्य लिङ्गेन बाधः परिहृतः इत्यर्थः । नाड्याधारत्वं तस्यापि सम्भवतीत्यादिना भाष्येणास्याधिकरणस्य लिङ्गबाधपरिहारपरत्वं हि दर्शितम् । अनुक्तं प्रधानभूतं हेतुमाह -
॥ स्थित्यदनाभ्यां च ॥ “अल्पाच्तरम्” इति स्थितिशब्दस्य पूर्वनिपातः । “अभ्यर्हितं
पूर्वं प्रयोक्तव्य” मिति वा । अभ्यर्हितत्वं परमात्मप्रत्यभिज्ञापनेन प्रकरणाविच्छेदहेतुत्वात् स्थितेः । भाष्ये
श्रुतिक्रमेण व्याख्यातम्, न पुनस्सूक्रमेण, अस्मिन्मन्त्रे जीवस्यापि प्रस्तुतत्वात् । “यस्मिन्द्यौ"रितिमन्त्रोऽपि तत्प्रतिपादकः स्यात्, अत्रादनशब्दवाच्यभागोपकरणमनःप्राणसम्बन्धदर्शनादित्यत्राह - तत्र कर्मफलमिति । सर्वज्ञोऽमृतसेतुरित्यादिविशेषणानि प्राकरणिकतयोक्तानि । उभयोः प्रस्तुतत्वेऽपि सार्वज्ञ्यादिसमानाश्रयत्वात् स्वयं योग्यत्वान्मनः प्राणसम्बन्धादेः परमात्मन्यमुख्यत्वाभावाच्च द्युभ्वाद्यायतनत्वं परमात्मधर्म इत्यर्थः । जीवान्वयायोग्यत्वमाह - न पुनरिति । कमर्फलमनश्नन्निति कर्मफलमदन्निति च सौत्रहेत्वनुवादः । शोचन्नित्यनेन भेदव्यपदेशादिति सौत्रहेतोरिहान्वयोऽभिप्रेतः । “शोचति मुह्यमानः” इति हि तद्विषयवाक्यम्, तदपि प्रत्यगात्मपरत्वप्रतिक्षेपद्वारा परमात्मपरत्वसाधकम्, व्यतिरेकस्यान्वयशेषत्वादिति भावः । अस्मिन् सूत्रे परमात्मपरत्वं श्रुत्या साध्यम्, प्रत्यगात्मपरत्वप्रतिक्षेपस्त्वार्थ इति न वाक्यभेदः । “अभिचाकशीती “ति परस्य दीप्यमानत्वे हि मन्त्रस्य तात्पर्यमवगम्यते, जीवस्यात्तृत्वं तदुपयोगितया प्रतीयते । ननु कथं “द्वा सुपर्णे “तिमन्त्रस्य जीवपरमात्मभेदपरत्वम् ? अन्तःकरणजीवपरो ह्ययं मन्त्रः । पैङ्गिरहस्यब्राह्मणेनास्य मन्त्रस्य तथा व्याख्यातत्वात् । तथा हि, तयोरन्यः पिप्पलं स्वाद्वत्तीति सत्त्वम्, अनश्नन्नन्यो अभिचाकशीतीति अनश्नन्नन्योऽभिपश्यति ज्ञः तावेतौ सत्त्वक्षेत्रज्ञावित्यत्र स्वाद्वात्तीत्येतदन्तस्य वाक्यस्य सत्त्वपरत्वम् अनश्नन्नित्यादेः क्षेत्रज्ञपरत्वं च प्रतीयते । न च सत्त्वक्षेत्रज्ञशब्दौ जीवपरमात्मपराविति वाच्यम्; तयोश्शब्दयोरन्तःकरणजीवपरतया प्रसिद्धत्वात् “तदेतत्सत्त्वं येन स्वप्नं पश्यति अथ योऽयं शारीर उपद्रष्टा स क्षेत्रज्ञः तावेतौ सत्त्वक्षेत्रज्ञौ” इति सत्त्वक्षेत्रज्ञशब्दयोरन्तःकरणजीवशब्दाभ्यां पैङ्गिश्रुत्यैव व्याख्यातत्वाच्च । येन पश्यतीति करणत्वप्रतीतेः सत्त्वं ह्यन्तःकरणम्, स्वप्नद्रष्टृत्वाच्च क्षेत्रज्ञो हि जीवः, अतोऽयं मन्त्रोऽन्तःकरणजीवपर इति । उच्यते; न तावज्जीवपरमात्मपरत्वमस्यापवदितुं शक्यते, अनेन मन्त्रेण तुल्यार्थतया प्रत्यभिज्ञायमाने “समाने वृक्षे पुरुषो निमग्नः” इत्यनन्तरे मन्त्रे जीवपरयोः प्रतपन्नत्वादस्य मन्त्रस्य तदैकार्थ्याच्च । “समानं वृक्षं परिषस्वजाते” “समाने वृक्षे पुरुषो निमग्न” इति तयोरैकार्थ्यं हि प्रतीयते । समाने वृक्षे इति मन्त्रे च पुरुषो जीवः, अन्तःकरणस्य
पुरुषशब्दवाच्यत्वाभावात्, “शोचति मुह्यमानः” “पश्यति वीतशोकः” इति पदानामस्वारस्यप्रसङ्गाच्च, अन्यश्च परमात्मा ईशशब्दोक्तत्वात् स्वविषयज्ञानेन वीतशोकत्वहेतुत्वाच्च । न केवलमनन्तरमन्त्रैकार्थ्यात् “द्वा सुपर्णे " ति मन्त्रस्य जीवपरमात्मपरत्वम्, किन्तु “स्वाद्वत्ति अनश्नन्नन्यः” इति भोक्तृत्वाभोक्तृत्वश्रवणाच्च तदवसीयते । चक्षुः श्रोत्रादीनां द्रष्टृत्वश्रोतृत्वादिवदन्तःकरणस्यापि करणत्वादेव भोक्तृत्वं हि न सम्भवति, जीवस्य च वृक्षशब्दोक्तदेहपरिष्वङ्गदशायामेवानश्नत्वमपि नोपपद्यते । तर्हि पैङ्गिश्रुतेः कोऽर्थः ? उच्यते; सत्त्वं- बद्धजीवः । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इतिनामानुशासनाज्जन्तुपरत्वावगतेः, जन्तुश्च चेतनः । “प्राणी तु चेतनो जन्मी जन्तुजन्यशरीरिणः” इति नामपाठात् । “वन्यान्विनेष्यन्निव दुष्टसत्त्वान्” इति प्रयोगात् “न
तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । सत्त्वं प्रकृतिजैर्मुक्तं यदेभिस्यात् त्रिभिर्गुणैः” इति दर्शनाच्च क्षेत्रज्ञशब्दश्चात्र परमात्मपरः, अर्थान्तरप्रसिद्धाकाशप्राणादिशब्दवदर्थानुपपत्त्या परमात्मपरत्वोपपत्तेः । “विष्णोर्नामसहस्रं मे” इत्युपक्रम्य “क्षेत्रज्ञोऽक्षर एव च” इति प्रयोगात् क्षेत्रं जानाजीत्यवयवार्थस्य तस्मिन्नेव पुष्कलत्वाच्च । मोक्षधर्मे “ततस्त्रेपुण्यहीनास्ते परमात्मानमञ्जसा । प्रविशन्ति द्विजश्रेष्ठ क्षेत्रज्ञं निर्गुणात्मकम् । सर्वावासं वासुदेवं क्षेत्रज्ञं विद्धि तत्त्वतः” इति । तत्रैव “विश्वमुद्धा विश्वभूजो विश्वपादाक्षिनासिकः । एकश्चरति क्षेत्रेषु स्वैरचारी यथासुखम् । क्षेत्राणि च शरीराणि ज्ञानानि च शुभाशुभे । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते” इति प्रयोगात् । तत्रैव कपिलासुरिसम्वादे “ज्ञानानामासुरे क्षेत्रे क्षेत्रज्ञो द्रष्टा शुचिरुपेक्षकः ज्ञातृको बुध्यमानाप्रतिबुद्धयोः परममृतं विदित्वा निरवयवमनामयमस्माद्दुःखाद्विमुच्यत एव” इति बुध्द्यमानाप्रतिबुद्धशब्दाभिहितयोश्चिदचितोः परस्य क्षेत्रज्ञशब्देनाभिधानात् । तत्रैव “पञ्चविंशतितत्त्वानि वर्गशब्देनोक्तवा “एतस्माद्वर्गादपवृत्तोऽपवर्गदः क्षेत्रज्ञः शुचिरुपेक्षको बुध्यमानाप्रतिबुद्धयोः परस्तात्” इति । तत्रैव “अन्यदुदकमन्यत् पुष्करपर्णं तथाऽन्यत्क्षेत्रमन्यः पुरुषः पञ्चविंशकः अन्यश्चास्मात्क्षेत्रज्ञः” इति । पुनस्तत्रेव “एवमासुरे अन्यद्द्रव्यमन्यः पुरुषः पञ्चविंशतितत्त्वमन्योऽस्मात्क्षेत्रज्ञः” इति पञ्चविंशात्परस्मिन् क्षेत्रज्ञशब्दप्रयोगात् । सनत्कुमारनारदसंवादे च, “पश्यः पश्यति पश्यन्तमपश्यन्तं च पश्यति । पश्यन्तं पश्यपश्यत्वात्पश्यापश्ये न पश्यति” इति श्लोकमुक्तवा “प्रकृतिं क्षेत्रं क्षेत्रज्ञं चापरः क्षेत्रज्ञः षड्िवंशकोऽवपश्यति न तु पञ्चविंशकः क्षेयज्ञश्च प्रकृतिर्वा परं क्षेत्रज्ञं पश्यति” इति प्रयोगाच्च । अत्र ह्यात्मशब्दवत् क्षेत्रज्ञशब्दस्य जीवपरसाधारणस्य । पञ्चविंशतिकपरशब्दविशेषितस्य जीवपरमात्मविषयत्वदशर्नाच्च । “योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतात्मेति चोच्यते” इति मानवप्रयोगाच्च । “येन स्वप्नं पश्यती “त्यत्र येनेतीत्थम्भावे तृतीया, येन विशिष्टः परमात्मा स्वप्नं पश्यतीत्युच्यते । ततश्च “काठिन्यवान्यो बिभती “ति पृथिवीद्वारा काठिन्यवत् स्वप्नद्रष्टृत्वं जीवद्वारा परमात्मविशेषणं भवतीति न विरोधः । शारीरशब्दश्च “तस्यैष एव शारीर आत्मा” इतिवदत्रैव स्वव्यतिरिक्तसमस्तचिदचिच्छरीरके परमात्मन्युपपद्यते । उपद्रष्टेति निरुपाधिकद्रष्टृत्वं च तस्यैवोपपद्यते । एवं शारीर उपद्रष्टेतिपदद्वयेन परस्य क्षेत्रज्ञशब्दवाच्यत्वमुपपादितं भवति । अतो द्वा सुपर्णेतिमन्त्रो जीवपरमात्मपरः । अधिकरणार्थमुपसंहरति -
अत इति ॥
इह कैश्चिदेवं पूर्वपक्षितम्; द्युभ्वाद्यायतनस्य सेतुत्वश्रवणात् सेतोश्च पारवत्त्वेन परस्य च “अनन्तमपारम्” इत्यपारत्वश्रवणात् द्युभ्वाद्यायतनं प्रधानं वायुवर्ा जीवो वा स्यात्, एषां धारकत्वयोगादिति । तदयुक्तम्; पारवदर्थोपस्थापकस्य सेतुत्वव्यपदेशस्य पूर्वपक्षहेतोरस्मिन्नधिकरणे परिहृतत्वे सत्युत्तरत्र “परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः” इत्यधिकरणे सेतुत्वव्यपदेशस्य पूर्वपक्षहेतुत्वेनोपन्यासायोगात् । न हि परिहृतस्य हेतोः पुनः परिहारो न्याय्यः, कृतकरत्वापत्तेः । अत्र सेतोः परिच्छिन्नत्वं पूर्वपक्षशङ्काबीजम्, तत्र तु कूलान्तरप्रापकत्वमिति मुखभेदोऽस्तीति चेन्न; कूलान्तरप्रापकत्वं च सेतोः कूलावधिकत्वनिबन्धनमिति परिच्छिन्नत्वे परिहृते तस्यापि परिहृतत्वात् परिहारहेतुसाम्याच्च । विवरणार्थतयैव ह्युभयत्र परिहारः, अत उत्तरत्र पूर्वपक्षबीजतयोपन्यासान्यथानुपपत्त्या अस्मिन्नधिकरणे सेतुत्वव्यपदेशः सूत्रकारेण पूर्वपक्षबीजतया विवक्षितः । प्रधानवाय्वोश्शङ्का चानुपपन्ना, “तमेवैकं जानथात्मन” मित्यात्मशब्दश्रवणात् “गौणश्चेन्नात्मशब्दा"दित्यत्र आत्मशब्दस्याचिद्य्वावर्तकतोपपादनाच्च अचेतनशङ्कोत्थानासम्भवात् । स्वशब्स्य “सदायतनास्सत्प्रतिष्ठाः” इति
सद्विद्यावाक्यविषयत्वं चायुक्तम्, अपक्षधर्मत्वात् । सविद्वावाक्यं हि नात्र श्रूयते इह तदैकार्थ्यं हेतुतया विवक्षितमिति चेत्; तर्हि विगीतस्य हेतुतयोपन्यासो न घटते । द्युपृथिव्याद्यायतनप्रतिपादकवाक्यस्य परमात्मप्रतिपादकवाक्यान्तरैकाथ्यर्ं हि पूर्वपक्षिणो विमतिपदम् । द्वितीयसूत्रस्य च “अन्या वाचो विमुच्चथ” इति श्रवणात् वाग्विमुक्तैर्ज्ञेयत्वव्यपदेशपरत्वमयुक्तम् । “नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति” इति वाक्यस्थविमुक्तिशब्दार्थस्य उपैतिशब्दार्थस्य च स्वरसतः प्रत्यभिज्ञापकत्वान्मुक्तोपसृप्यव्यपदेशस्य । विमुञ्चथेति श्रुतस्य वाक्कर्मकस्य मुचिधातोः प्रत्ययविपरिणामेन अवाक्कमर्कमुक्तप्रत्यभिज्ञानं ह्यस्वरसम् । उपसृप्यशब्दस्य ज्ञेयवाचित्वं चास्वारसिकम्, स्वारसिकार्थानुपपत्त्यभावे अस्वरसार्थौचित्यातिशयाभावे वा अस्वरसार्थस्वीकारोऽनुपपन्नः । प्राणभृच्चेतिसूत्रपृथक्तवकल्पनं चायुक्तम्, हेतुवैषम्याभावात् उभयव्यावर्तकहेतूपादानवतैकेन सूत्रेणैवोभयव्युदासदर्शनाच्च । यथा “विशेषणभेदव्यपदेशाभ्यां च नेतरौ” “अत एव न देवता भूतं च” इति च । उपरितनसूत्रोक्तहेतूनां नानुमानमिति प्रतिज्ञायामनन्वयात् पृथग्योगकरणमिति चेन्न, नानुमानमित्युपादानस्य दृष्टान्तार्थत्वात् दृष्टान्तार्थत्वाभावेऽपि जीवव्यावर्तकानामुत्तरसूत्रहेतूनां किम्पुनर्न्यायेन प्रधानव्यावर्तकत्वाच्च । भेदव्यपदेशादितिसूत्रस्य च तर्मवैकं जानथेतिवाक्यविषयत्वादपि “जुष्टं यदा पश्यत्यन्यमीश"मितिवाक्यविषयत्वमुचितम्, व्यपदेशशब्दस्वारस्यात् । कर्मकर्तृभावो हि भेदगमकः, अन्यशब्दश्च भेदाभिधायकः । द्वा सुपर्णेतिवाक्यस्य च बुद्धिजीवपरत्वपक्षोऽनुपपन्नः, प्राणभृच्चेति जीवव्यावृत्तिं प्रतिज्ञाय बुद्धिव्यावृत्त्युपपादनस्यासङ्गतत्वात् । जीव एवोपाधि
व्यवच्छेदविरहितः परमात्मा भवतीति नासङ्गतिरिति चेन्न, वृक्षशब्दविवक्षितदेहोपाधिपरिष्वङ्गवेलायामेवानश्नतोऽन्यस्य स्थितेर्हेतुतयोपन्यासायोगात् । अनश्नन्नित्यनेन प्रतीयमानस्याप्युपाधिपरिष्वङ्गस्यापारमार्थ्यं विवक्षितमिति चेत्; तर्ह्यनेन वाक्येन अपरमार्थोपाध्यन्वयो न प्रतिषिद्धः स्यात्,किन्त्वनुमतस्यात् । द्युभ्वाद्यायतनं न प्राणभृत स्थित्यदनाभ्यामित्युक्ते परमार्थतोऽनश्नत्तया स्थितेपरमार्थतोऽत्तृत्वाच्चेत्युक्तं भवति, अपरमार्थोपाध्यवच्छिन्नात्मवमेव हि त्वन्मते जीवत्वम्, ततश्च जीवव्यावृत्तिं प्रतिज्ञाय जीवत्वाविरुद्धतदुपपादकहेतूपन्यासो न घटते । उपाधिमिथ्यात्वमेवादिकरणप्रतिपाद्यमिति चेत्; तर्हि स्वशब्दमुक्तोपसृप्यत्वभेदव्यपदेशादिहेतवो न घटन्ते, तेषां मिथ्यात्वसाधकत्वाभावात् भवत्पक्षे विश्वमिथ्यात्वस्य प्रथमाधिकरणसिद्धत्वेन इहोपाधिमिथ्यात्ववर्णनवैयर्थ्याच्च । द्वासुपर्णेतिमन्त्रार्थस्य च हेतुत्वोक्तिरयुक्ता, अत्रोपाधिमिथ्यात्वाप्रतीतेः । न ह्येकवृक्षाधिरूढयोः पक्षिणोर्मिथो विरुद्धाकारयोभर्ेदेऽभिहिते वृक्षमिथ्यात्वमुक्तं भवति । यदपि कैश्चिदुत्प्रेक्षितं द्युभ्वाद्यायतनमित्यादिसूत्रद्वयमात्मविषयत्वप्रतिपादकम्, नानुमानमतच्छब्दादिति प्रधानव्युदासकमिति । तदयुक्तम् तथा हि, आद्यस्य सूत्रद्वयस्य निरसनीयशङ्काभावात्तत्प्रणयनवैयर्थ्यं स्यात् । न च तृतीयसूत्रं प्रधानव्यावृत्तिपरम्, मुक्तोपसृप्यतया व्यपदिष्टस्यात एव जीवादपि व्यावृत्तस्य प्रधानत्वशङ्कानुदयात्; अत आनुमानोपादानं दृष्टान्तार्थम्; अत एव पृथग्योगकरणं चानुपपन्नमित्युक्तम् । अतस्तृतीयसूत्रं व्यतिरेकेण जीवव्यावृत्त्युपपादनपरम् । “तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभाति”
“यद्यदात्मविदो विदु"रितिभेदव्यपदेशेन मुक्तव्यावृत्तिपरं चतुर्थसूत्रमित्यप्ययुक्तम्, मुमुक्षुभिर्ज्ञातव्यत्वं मुक्तव्यावर्तकम्, न वा ? प्रथमे तमेवैकं जानथेतिवाक्यादेव मुक्तव्यावृत्तिसिद्धेः भेदव्यपदेशादिति वाक्यान्तरविषयसूत्रप्रणयनवैयर्थ्यम् । द्वितीये सुतरां वैयर्थ्यम्, तमेवैकं जानथेतिवाक्योदितज्ञातृज्ञेयभाववत् परिपश्यन्तीत्यादिवाक्योक्तद्रष्टृदृश्यभावस्यापि मुक्तव्यावर्तनासामर्थ्यात्, अतो यथोक्त एव सूत्राणामर्थः ॥