विषयमाह - इदमिति । अध्येषि “इक् स्मरणे” स्मरसि उपास्स इत्यर्थः । यद्वा “इण् गतौ” गत्यर्थो बुध्यर्थाः, अवगच्छसीत्यर्थः । यद्यपि “को न आत्मा किं ब्रह्म” इत्यात्मब्रह्मशब्दाभ्यामुपक्रमादुपसंहारस्य च तदानुगुण्येन नेयत्वान्न सन्देहोदयः, तथाऽपि समानप्रकरणे वाजसनेये अग्निवैश्वानरशब्दाभ्यामुपक्रमात् संशयस्सम्भवतीत्यभिप्रायेणाह - तत्र सन्देह इति । शक्यनिर्णयत्वाशक्यनिर्णयत्वे सन्देहशिरसी कृते, तच्च साधारणशब्दस्य सूत्रस्थत्वनिबन्धनम् । ननु प्रयोगसाधारण्यं हि वैश्वानरशब्दस्य साधारणत्वम्, अक्षरशब्दोऽपि हि प्रकृतिपुरुषेश्वरसाधारणः प्रयुज्यते “अक्षरात्परतः परः” “क्षरं प्रधानममृताक्षरं हरः” “यया तदक्षरमधिगम्यते” इत्यादि । ततश्च “अक्षरमम्बरान्तधृते"रित्यत्रापि शक्यनिर्णयत्त्वाशक्यनिर्णयत्वे सन्देहविषयतया वक्तव्ये तथा च
न कृतम्, किन्तु प्रधानं वा जीवो वा परमात्मा वेति विचारः कृतः, इहापि तथैव संशयो वक्तव्य इति । नैवम्; तत्र हि प्रयोगसाधारण्यातिरिक्तः प्रकृतिपुरुषयोरन्यतरविषयत्वनिर्धारकः पूर्वपक्षहेतुविर्द्यते, अतस्तथा सन्देह उपपद्यते; इह तु प्रयोगसाधारण्यस्यैव पूर्वपक्षहेतुत्वात् तस्य च जाठरभूततृतीयदेवतास्वन्यतमनिर्धारकत्वाभावात्तस्य परमात्मलिङ्गादर्शने तद्विषयत्वनिर्णयप्रतिबन्धकत्वात् त्रेताकल्पनादीनामनिर्धारकत्वस्य वक्ष्यमाणत्वाच्च शक्यनिर्णयत्वाशक्यनिर्णयत्वे संशयविषयतयोक्ते । नन्वेवं सति संशयलक्षणाप्रामाण्यं पूर्वपक्षितं स्यात् तच्चायुक्तम्; प्रथमे काण्डे वेदप्रामाण्यस्य समर्थितत्वमुपजीव्यारब्धत्वाच्छारीरकस्य; अतोऽर्थविशेषपरत्वं पूर्वपक्षीकर्तव्यम्, न त्वशक्यनिर्णयत्वम् । नैवम्; चतुष्वर्थेष्वन्यतमानिर्धारणेऽपि सर्वथा कस्मिंश्चिदर्थे प्रमाणमेवेदमिति सामान्यतः प्रामाण्यनिश्चयस्यानपोद्यत्वात्, तद्धि नित्यनिर्दोषवाक्यतया स्थापितम् । “विधिशब्दस्य मन्त्रत्वे भावस्सयात्” इतिन्यायेन प्रामाण्यसिद्धिः ।
किमयं वैश्वानरात्मा परमात्मेति शक्यन्निर्णयः, उत न ? तदर्थमात्मब्रह्मशब्दोपक्रमो वैश्वानरस्य ब्रह्मभावमवगभयति, न ? इति । तदर्थमग्निशब्दसामानाधिकरण्यत्रेताकल्पनप्राणाहुत्याधारत्वानि किं वैश्वानरस्य ब्रह्मभावविरोधीनि, उत न ? इति । किम् “एषोऽग्निर्वैश्वानरः” इत्यग्निशब्दोऽग्निमात्रपरः, उताग्न्यवस्थपरमात्मपरः इति । अग्निशब्दस्याग्निमात्रपरत्वे अग्निशब्दसामानाधिकरण्यादीनां ब्रह्मभावविरोधितया आत्मब्रह्मशब्दोपक्रमस्यापि ब्रह्मभावावगमकत्वाभावेनाशक्यनिर्णय इति पूर्वःपक्षः । अग्निशब्दस्य परमात्मपरत्वे अग्निशब्दसामानाधिकरण्यादीनां ब्रह्मभावाविरोधितया आत्मब्रह्मशब्दोपक्रमस्य ब्रह्मभावावगमकत्वोपपत्तेर्वैश्वानरः परमात्मेति शक्यनिर्णय इति राद्धान्तः । वैश्वानरशब्दस्य चतुर्ष्वर्थेष्विति - जीवपरसाधारणात्मशब्दसद्भावेऽप्यात्मशब्दस्य वैन्वानरमात्मानमिति वैश्वानरशब्दविशेषितत्वाद्वैश्वानरशब्दस्य च जीवमात्रे प्रयोगभावादिह जीवविषयत्वशङ्का न सम्भवति, नहि गोशब्दविशेषितस्य
चतुष्पाच्छब्दस्याश्वादिपरत्वशङ्कासम्भव इत्यभिप्रायेण पञ्चस्वित्यनुक्तिः । विश्वस्मा अग्निमिति - विश्वस्मै भुवनाय, विश्वभुवनोपकारार्थम् वैश्वानरम्- महाभूततृतीयम् । अह्नां केतुम्- आदित्यम्; अकृण्वन्नित्यर्थः । वैश्वानरस्येति । सुमतिः- शोभनमतिः । सुमतौ स्यामतद्विषयभूतास्याम । अभितः श्रीर्यस्य सोऽभिश्रीः, “श्रियमिच्छद्भुताशनात्” इत्युक्तत्वात् । हिकमित्यव्ययम् प्रयोगसाधारण्यातिरिक्तेषु त्रेताग्निकल्पनादिष्वात्मब्रह्मशब्दादिषु च प्रतीयमानेषु कथं शक्यनिर्णयत्वतदभावसन्देहोक्तिरित्यत्राह - वाक्योपक्रमेति । काल्पनिकं त्रेतारूपत्वं सर्वत्र सम्भवति । ब्रह्माग्निशब्दौ मिथः प्रतिबन्धकत्वादनिर्धारकौ । अन्नादनरूपं फलच्च सर्वत्रोपपन्नमित्यभिप्रायः ।
एवं प्राप्ते इति - साधारणशब्दविशेषादित्येतद्य्वाचष्टे - विशेष्यत इति विशेष इति । नेदं विशेषशब्दस्य प्रत्ययार्थव्याख्यानम्, अपि तु साधारणशब्दविशेषादिति समासान्तर्गतषष्ठीव्याख्यानम् कर्मणि षष्ठी, न तु कर्त्तरीत्यर्थः । विशेष इति कृदन्तं पदं कर्मार्थषष्ठीनिमित्तमित्यभिप्रायेण विशेषपदोपादानम् । यद्वा विशेष्यत इति
विशेष इति अत्रः कमर्ार्थत्तामाह, साधारणशब्द एव विशेष इति कर्मधारयः । किं केन विशेष्यत इत्यत्राह - साधारणस्येति । धर्मशब्दो लिङ्गपरः । विशेष्यमाणत्वादिति फलितार्थ उक्तः, नाभिधानिकः । के पुनरसाधारणा धर्मा इत्यत्राह - तथा हीति । “को न आत्मा किं ब्रह्म” इति किंशब्दद्वयमात्मत्वब्रह्मत्वयोर्द्वयोरपि ज्ञातव्यत्वाभिप्रायम् । आत्मब्रह्मशब्दवाच्यधर्म्येकत्वानेकत्वजिज्ञासया वा किंशब्दद्वयप्रयोगः । विषयवाक्ये “न मे स्तेन” इत्यादेः प्रयोजनमाह
आत्मन इति । फलितानि साधकलिङ्गानि दर्शयति - तदेवमिति । मुमुक्षुभिः पृच्छ्यमानत्वमात्मत्वं ब्रह्मत्वं ब्रह्मशबदस्थाने वैश्वानरशब्दप्रयोगः फलनिर्द्देशश्च वैश्वानरस्य परमात्मत्वसाधकलिङ्गानीत्यर्थः । द्युमूर्धत्वादिविशिष्टतारूपधर्मस्यास्मिन् सूत्रे अनुक्तिस्तस्यानन्तरसूत्रोक्ततवात् ॥
॥ स्मर्यमाणमनुमानं स्यादिति ॥ स्मर्यमाणशब्दस्य विशेष्यं दशर्यन् सूत्रं व्याचष्टे - द्युप्रभृतीति । लिङ्गमित्यर्थ इति - अनुमानशब्दः करणार्थल्युडन्तः श्रुतिलिङ्गवाक्येत्यादिसूत्रपठितलिङ्गपरश्चेति भावः । अनुमानशब्देन हेतुत्वसिद्धेरिति शब्दवैयर्थ्यमित्यत्राह - इतिशब्द इति । इतिशब्दार्थेनान्वितं वाक्यार्थमाह - इत्थमिति । परमपुरुषरूपत्वेन प्रसिद्धिं दर्शयति - श्रुतीति । परमात्मपरत्वेन साधितत्वात् “अग्निर्मूर्धा” इत्यादिवाक्यमुदाहृतम् । इह
द्यौर्मूर्धत्वेन श्रूयते, उदाहृतवाक्ये अग्निर्मूर्धेति, तत्कथमैकार्थ्यमित्यत्राह - अग्निरिहेति । परमात्मनस्तथाविधरूपत्वत्त्वे स्मृतिमुदाहरति - स्मरन्ति चेति । “यस्याग्निरास्यम्” इत्यत्राग्निशब्दः प्रसिद्धाग्निपरः, द्यौर्मूर्धेति पृथगुक्तेः । श्रुतिस्मृतिष्वभिज्ञातस्य रूपस्य प्रत्यभिज्ञायमानत्वं दर्शयति - इह चेति । नन्वत्र “अग्निर्मूर्धे"त्यादाविव द्युप्रभृति पृथिव्यन्तानां मूर्धादिप्रादान्तावयवत्वेन सम्भूयोपदेशो न दृश्यत इति शङ्कायां विप्रकीर्णप्रतिपादनहेतुमाह - तथा हीति । विशेषप्रश्नान्यथानुपपत्त्येति - न ह्यात्मब्रह्मादिशब्दैः प्रश्नः कृतः, वैश्वानरशब्देन हि प्रश्नः, अनेन द्युतप्रभृतीनामपूर्वनामनिर्देशहेतुश्चोक्तो भवति, अज्ञातांशः सर्वोऽपि ह्युपदेष्टव्यः । गुणनामधेयानीति - द्यौर्नक्षत्रादितेनाखिनीति सुतेजाः । प्रकाशकस्यादित्यस्य विश्वं रूपम् प्रकाश्यम्, तस्मात् आदित्यो विश्वरूपः । वायुर्विविधगतिस्वभावत्वात् पृथग्वर्त्मा । आकाशो भूतान्तरेभ्यो महत्त्वात् बहुलः । आपो वेगवत्त्वाद्रयिः, रयो हि वेगः,
इकारान्तत्वं छान्दसम् । रैरूपधनप्राप्तिहेतुत्वाद्वा रयिः, पृथिवी प्राण्याधारत्वात् प्रतिष्ठेतिभावः । श्रुतिस्थं सन्देहशब्दं व्याचष्टे - सन्देहो मध्यकाय इति । मध्यं हि पूर्वापरांशसाधारण्यात् कुत्रानुप्रविष्टमिति सन्दिह्यते । एतज्ज्ञापयितुं मध्यकाय इति व्याख्यातम्, न तु नाभिरिति । गुणनामधेयानीत्यनेनान्यदपि प्रयोजनं फलितम्, न केवलं नामधयानि, अपि तु गुणनामधेयानि; तत्तद्गुणकत्वं मूर्धादित्वेनोपदिष्टानां द्युप्रभृतीनामनुसन्धेयमित्यर्थः । अत्रायमभिप्रायः; वाजसनेयके मूर्धभूताया दिवोऽतिष्ठात्वमुक्तम्, न तु सुतेजस्त्वम्, चक्षुर्भूतस्यादित्यस्य
सुतेजस्त्वमुक्तम्, न तु विश्वरूपत्वम् न चैतावता विद्याभेदः, तत्तन्नामधेयोपस्थापितगुणेष्वेव तात्पर्यसम्भवात् अतीत्य स्थितत्वं हि दिवोऽतिष्ठात्वम्, तच्च सर्वोत्कृष्टत्वम् तच्च नक्षात्रादितेजश्शालित्वरूपमित्येकगुणत्वेन फलितमित्यविरोधः । आदित्यस्य च सुतेजस्त्वफलरूपं विश्वरूपत्वम्, तद्धि विश्वनिरूपकत्वं विश्वप्रकाशकत्वम्, अतोऽनर्थान्तरतया फलितम्, अतो न विद्याभेद इति, एतदभिप्रायेण गुणनामधेयानीत्युक्तम् । परमात्मनस्त्रैलोक्यशरीरत्वविषयं “द्यां मूर्धान"मित्यादिस्मृतिवचनं स्वमूलत्वेन वैश्वनरविद्यायाः परमात्मविषयत्वं कल्पयतीति व्याख्यानमनुपपन्नम्, स्मृतिवचनं हि स्वमूलत्वेन श्रुतिं कल्पयति, न तु वैश्वानरविद्यामेव कल्पयितुं प्रभवति, श्रुत्यन्तरसम्भवेन कल्पकस्यान्यथासिद्धत्वात् अस्ति हि “अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ " इत्यादिश्रुतिस्तन्मूलतया सम्भाव्यमाना; तस्मादाभ्यां श्रुतिस्मृतिभ्यामैकाथ्यर्प्रत्यभिज्ञानमेवास्मिन् सूत्रे हेतुतया विवक्षितं स्मर्यमाणशब्दश्च प्रत्यभिज्ञायमनोपस्थापकः, तर्कपादे अनुस्मृतेश्चेत्यत्रानुस्मृतिशब्दस्य प्रत्यभिज्ञापरत्वेन सूत्रकारैः प्रयुक्तत्वात् ॥
उत्तरसूत्रमवतारयति - पुनरपीति । अर्थचतुष्टये प्रयोगसाधारण्यादनिर्णयः पूर्वमुक्तः, इदानीं तु विशेषकधर्माणां ब्रह्मशब्दादीनां तत्तदनुरूपविशेषकाच्छब्दादेः प्रतिरोधादनिर्णयो विवक्षितः ।
॥ शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथा दृष्टयुपदेशादसम्भवात् पुरुषमपि चैनमधीयते ॥ नेतिपदं व्याचष्टे- यदुक्तमित्यादिना । श्रुत्यन्तरस्थहेत्वोरुभयोर्दूरस्थत्वात् तौ कण्ठोक्तौ, एतत्प्रकरणस्थमग्नित्रयकल्पनं प्राणाहुत्याधारत्वं चादिशब्दोपात्तम्, सन्निकृष्टत्वात्; एतदभिप्रायेण वाचिनां वैश्वानरविद्याप्रकरणे वाजसनोयिनः समामनन्तीति चोक्तम् । अस्मिन् प्रकरणे चेति - चशब्देन वाजिनामप्यस्तीति सूचितम् । अग्नित्रयकल्पनं क्रियत इति - अग्नित्रयकल्पनेन होमाधारत्वमात्रं फलितम्, होमाधारत्वविशेषमाह - तद्यद्भक्तमिति । अग्निशब्दनिर्द्देशसहितमन्तःप्रतिष्ठानं विवक्षितम् । अन्तःप्रतिष्ठत्वमात्रं हि परस्यापि सम्भवति “स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेन्तःप्रतिष्ठितं वेद” इति हि श्रूयते, उक्तहेत्वनुक्रमेण पूर्वपक्षत्वेन शङ्कितमर्थमुपसंहरति -
अत इति । शब्दादिभ्य इत्यादिसूत्रखण्डं जाठरशङ्कामात्रपरम्, न तु देवताभूतपरम्, अन्तःप्रतिष्ठानोपन्यासाद्धेत्वन्तराणां च तत्साहचर्यात् । यद्यपि देवतायाः “अग्निर्वाग्भूत्वा मुखं प्राविशत्” इति मुखे प्रवेशोऽवगम्यते, तथापि पुरुषेऽन्तः प्रतिष्ठितत्वं न स्वरसम् जाठरस्य हि तत्स्वरसतः प्रतीयते, “सोऽग्रमुग् विभजंस्तिष्ठन्नाहारमजरः कविः । सन्तापयति स्वं देहमापादतलमस्तकम्” इति कृत्स्नदेहव्याप्तत्वात् तस्य । भूततृतीयस्य तु पुरुषेऽन्तःप्रतिष्ठितत्वं तदेकदेशमूतजाठरद्वारकमिति वक्तव्यम्, अतस्तच्च क्लिष्टम्; अतोऽन्तःप्रतिष्ठानसहचरैर्देतुभिजाठरभावश्शङ्कित इह सूत्रे,अत एव हि देवताभूततृतीययोस्सूत्रान्तरेण व्युदासः, न त्वेतस्मिन्नेव सूत्रे खण्डान्तरे कृतः, एवं शङ्कितं जाठरविषयत्वं परिहरति - तन्नेति । हेत्वाकाङ्क्षायां सौत्रखण्डान्तरस्थं हेतुवाचिपदमुपादत्ते - तथा दृष्टयुपदेशादिति । “यस्याग्निश्शरीर"मिति श्रुत्यभिप्रायेणाह - जाठराग्निशरीरतयेति । उपासन
शम्देन सौत्रदृष्टिशब्दव्याख्यानम्, “आत्मा वा अरे द्रष्टव्यः” “तस्मिन् दृष्टे परावरे” इति श्रौतप्रयोगात् “वेश्वानरमुपास्ते” इति चात्र श्रूयते । ननु दृष्टिशब्दोऽतस्मिंस्तथात्वानुसन्धानपरः किं न स्यात् । नैवम्, परमार्थविषयत्वे सम्भवत्यपरमार्थविषयत्वाश्रयणायोगात् द्युमूर्धत्वादिकं हि जाठरेऽत्यन्तबाधितम्, अत एव हि न “मनोब्रह्मे"त्यादिदृष्टितुल्यत्वशङ्का; तत्तुल्यत्वं च गत्यन्तरे सम्भवत्ययुक्तम् जाठराग्निशरीरतयेत्यनेन परमार्थविषयसम्भवश्च दर्शितः, उत्कृष्टे परमात्मन्यपकृष्टाग्निदृष्टययोगाच्च न परस्मिन्नग्निदृष्टिः, अग्नौ परमात्मदष्टिपरत्वं तु परमात्मत्वसमर्थनपरसूत्रतात्पर्यविरुद्धम्, अतः परमात्मलिङ्कानां जाठरलिङ्गानां च दर्शनाद्विशिष्टोपासनपरत्वमभ्युपगन्तव्यम् यथा प्रतर्दनविद्यायामिति वाक्यार्थः । विशिष्टप्रतिपादने सिद्धे हि विशिष्टोपासनपरत्वमित्यत्राह - अग्शिशब्दादिभिर्हीति । आदिशब्देन प्राणाहुत्याधारत्वादिकं गृह्यते । जाठरः प्रतिपाद्यते- ज्ञाप्यत इत्यर्थः । अग्निशब्दत्रेताकल्पनादिलिङ्गान्वितेन वाक्येन परमात्मा अभिधीयत इति वार्थः । तदा त्रेताकल्पनादिना अग्निद्वारा परमात्मा विशेष्यते । असम्भवादितिपस्याकाङ्क्षां दर्शयति - कथमिति । केवलाग्नौ प्रसिद्धस्य कथं तद्विशिष्टपरत्वमित्यर्थः । जाठरस्य त्रैलोक्यशरीरत्वासम्भवोऽस्तु, ततः किमग्निशब्दस्य विशिष्टपरत्व इत्यत्राह - त्रैलोक्येति । जाठरविषयतया प्रसिद्धस्य शब्दस्य तद्विशिष्टे प्रवृत्तिं स्मृत्या दृढयति - यथोक्तमिति । सूत्रखण्डमवतारयति - किञ्चेति । अपि चेत्यत्र विभक्तश्चशब्दो हेतुसमुच्चयार्थ इति भावः । न केवलमग्नित्वं पुरुषेन्तःप्रतिष्टितत्वं च, किन्तु पुरुषशब्दवाच्यतयाप्यधीयत इत्यभिप्रायेणाह - पुरुषमपि चेति । पुरुषत्वम्- पुरुषशब्दवाच्यत्वम् । निरुपाधिकमिति - जीवस्य पुरुषशब्दवाच्यत्वं “द्वाविमौ पुरुषौ लोके”
“प्रधानपुरुषावेतौ” इत्यादिषु प्रधानादिपदान्तरसमभिव्याहाराक्षरत्वाद्युपाधिनाऽऽश्रीयते, न तु स्वतः, अतः पुरुषशब्दवाच्यत्वं परमात्मन एव निरुपाधिकम्, अतो जाठरस्य पुरुषत्वं दूरतो निरस्तमिति भावः । “स एषोऽग्निर्वैश्वानरो यत्पुरुषः” इति प्रसिद्धवन्निर्द्देशात्तस्य च प्रापकप्रमाणसापेक्षत्वात्परमात्मन एव निरुपाधिकपुरुषत्वविषयां प्रमाणतः प्रसिद्धिं दर्शयति - यथेति । अग्निशब्दः त्रैताकल्पनादिलिङ्गत्रयं जाठरविषयत्वसाधकं शङ्कितम्, तत्र पुरुषशब्दस्त्रैलोक्यशरीरत्वासम्भवरूपमेकं लिङ्गं च परमात्मविषयत्वसाधकमुक्तम्, तत्र “तथा दृष्ट्युपदेशा” दित्यनेनाग्निशब्दलिङ्गत्रययोरन्यथासिद्धिर्दर्शिता, असम्भवलिङ्गपुरुषशब्दयोरनन्यथासिद्धतया प्राबल्यं स्थितम् । अत एव “पुरुषमपि चैनमधीयत” इति सूत्रखण्डं नान्तःप्रतिष्ठानमात्रपरिहारपरम्, तथा दृष्टयुपदेशादित्यनेनैवान्तःप्रतिष्ठानस्य हेत्वन्तराणां चान्यथासिद्धेर्दर्शितत्वादसम्भवहेतौ च सति अन्तःप्रतिष्ठानस्य दुर्बलत्वान्निरुपाधिकपुरुषत्वश्रवणे सति हेत्वन्तराणामपि दुर्बलत्वाच्च अतो यथोक्तवेव शङ्कापरिहारौ ॥
॥ अत एव न देवता भूतं च ॥ जाठरप्रसिद्धिशङ्का पूर्वसूत्रे पहिहृता, तद्य्वतिरिक्तार्थद्वयशङ्का अत्र पिाहिृयते देवताभूततृतीययोर्जाठरवत् परिच्छिन्नत्वाभावात् त्रैलोक्यशरीरत्वोपपत्तिः, देवताया अधिष्ठातृतया त्रैलोक्यशरीरत्वम्, महाभूततृतीयस्य च त्रिवृत्कृतस्य त्रैलोक्यरूपेण परिणतत्वात् समुदितस्य द्यावापृथिव्यादयो मूर्द्धपादाद्यवयवाः स्युः, अतस्त्रैलोक्यशरीरत्वकल्पनोपपत्तिरित्यसम्भवाक्षेपेणाधिकाऽऽशङ्का । उक्तेभ्य एव हेतुभ्य
इति - आत्मब्रह्मपुरुषशब्दनिर्द्देशासङ्कुचितफलावाप्तिसर्वपापप्रदाहादयः सर्वे हेतवः तयोरनुपपन्ना इति परिहार इत्यभिप्रायः ॥
॥ साक्षादप्यविरोधं जैमिनिः ॥ सूत्रार्थस्य सङ्गतत्वाय पूर्वोक्तमनुवदति - वैश्वानरेति । “तथादृष्ट्युपदेशा” दित्यनेन सङ्गतिरित्यर्थः । अक्षरार्थमाह - जैमिनिरिति । अग्निवैश्वानरशब्दयोरुभयोरपि साक्षात्परमात्मप्रतिपादकत्वपरमिदं सूत्रं परैर्व्याख्यातम्, तद्य्वावृत्त्यर्थमाह - वैश्वानरशब्दवदिति । वैश्वानरशब्दस्य पक्षभूतस्य बह्वर्थसाधारणस्याग्नि
शब्दसामानाधिकरण्येन विना जाठरविषयत्वनिश्चयायोगात् तदुपपादकत्वेन ह्यग्निशब्दः प्रकृतः, अत उपपादकस्वैवान्यथासिद्धिर्वक्तव्या, न तूपपाद्यस्य; उपपादकान्यथासिद्धौ ह्युपपाद्यं स्वयमेव न भवति, अत उपपादकाग्निशब्दस्यैव जाठरविशिष्टपरमात्मविषयत्वमुक्तं तथा दृष्टयुपदेशादिति, अत इहापि तस्यैवाग्निशब्दस्य प्रकारान्तरेण परमात्मपरत्वमुच्यत इति वैश्वानरशब्दो दृष्टान्ततयोदाहर्तव्यः तस्य च तथात्वं सिद्धम्, वैश्वानरशब्दस्तावत् परमात्मनि प्रयुक्तः । न च क२प्तामेव रूढिमाश्रित्यापर्यवासानाद्वैश्वानरशरीरकः
परमात्माऽभिधेयः, अग्निशब्देनैवाग्निशरीरके परमात्मन्यभिहिते “अग्निर्वैश्वानरः” इत्येकवाक्यस्थवैश्वानरशब्दस्याग्निशरीरवाचित्वे पुनरुक्तिप्रसङ्गात् । न चाव्यवधानेन परमात्मनि रूढ्यन्तरं कल्प्यम्, अवयवशक्तयैव प्रयोगेऽन्यथासिद्धे प्रोक्षणीन्यायेन समुदायशक्तिकल्पनानुपपत्तेः, अतोऽग्निशब्दसमानाधिकरणवैश्वानरशब्दस्यावयवशक्तया परमात्मविषयत्वे वाक्यान्तरेष्वप्येकप्रयोजकत्वायावयवशक्तयैव वृत्तिरास्थेयेत्यभिप्रायेणाव्यवधानेन वाचकत्वे वैश्वानरशब्दो दृष्टान्ततयोक्तः वैश्वानरशब्दवदिति । साक्षादिति व्याख्येयपदम् । साक्षाच्छब्दस्य विशदतरत्वेऽपि प्रयोगात्तद्य्वावृत्त्यर्थमाह - अव्यवधानेनेति । वैश्वानरशब्दस्यावयवशक्तया वृत्तिः कथम् ? न तावदयं शब्दः “भिदादिभ्योञ्” “ऋष्यन्धकवृष्णिकुरुभ्यश्च” इत्यनुशासनानुसारेण भिदाद्यञन्तः ऋष्यणन्तो वा, तयोरपत्यार्थत्वात् परमात्मनश्च विश्वानरसञ्ज्ञं कञ्चित्प्रत्ययत्यत्वाभावात्; विश्वानरशब्दस्य पुरुषसमष्टिवाचकत्वेऽपि तदपत्यत्वायोगात् भिदाद्यञन्तत्वमृष्यणन्तत्वं चायुक्तम्, अतो गुणान्तरयोगो वक्तव्यः । तत्र वैश्वानरशब्दस्य केन गुणेन वृत्तिः ? तद्वदग्निशब्दः केन गुणयोगेन वर्तते ? तेन तस्य परमात्मन्यव्यवधानेन वृत्तिः कथमित्यत्राह - एतदुक्तमिति । नेतृत्वादिनेति - आदिशब्देन विश्वैर्नरैर्नेयत्वम्, प्राप्यत्वं विवक्षितम् ; यथा निराहुः “वैश्वानरः कस्मात् विश्वान्नरान्नयति विश्व एनं नरा नयन्तीति वा विश्वानर एव
वैश्वानरः राक्षसो वायस इतिवत् रक्ष एव हि राक्षसः वय एव हि वायसः यथाचाग्निः कस्मात् अग्रणीर्भवति अग्रं नीयते अग्रं नयति नमयति सन्नमनोक्तौ प्रसन्नो भवती “ति स्थूला दृष्टिविधिरिति । अव्यवधानमां - तस्यैवेति । काष्ठागतस्येति - अग्निशब्दावयवार्थस्य ब्रह्मणि पुष्कलत्वात् ब्रह्मशब्दरूढिनर्त्याज्या, ब्रह्मशब्दावयवार्थपौष्कल्यस्याग्नावसम्भवादग्निशब्दरूढिरेव त्याज्येति भावः । परमात्मासाधारणधर्मविशेषित इति - उपक्रमाद्यानुगुण्याच्च ब्रह्मशब्दः प्रबलः, अग्निशब्दस्तु तदनुगुणार्थो नेय इति भावः । नन्वग्निशरीरकतयाऽनुसन्धाने साक्षादेवाग्रनयनादिगुणकत्वानुसन्धाने च विद्याभेदस्यात् । न च वाच्यमेकस्यामेव
विद्यायामेकस्मिन् कर्मणि व्रीहियवयोरिवाग्निशरीरकत्वस्याप्रनयनादिगुणकत्वस्य च विकल्पेन प्राप्तिः, विकल्पश्च तयोस्तुल्यबलत्वादवर्जनीयः, अग्निशरीरकत्वपरग्रहे रूढ्यपरित्यागादविलम्बः, अर्थानुपपत्त्या परमात्मपर्यन्तत्वनिर्णय इति विशेष्यप्रतिपत्तिर्विलम्बिता, अवयवशक्तयुपस्थापितगुणस्य विशेष्यप्रतिपत्तिस्त्वविलम्बिता, कुणस्याद्वारकतयाऽन्वयसम्भवात्, अतः पक्षद्वयेऽपि विलम्बाविलम्बसाम्यात्तुल्यबलत्वमिति विकल्प इति । एकेनैव वाक्येन वैकल्पिकार्थद्वयविधानानुपपत्तेः, व्रीहियवयोर्हि वाक्यभेदेन प्राप्तिः । उच्यते; नात्र विद्याभेदप्रसङ्गः, अस्य सूत्रस्य ब्रह्माग्निशब्दयोस्तुल्यताप्रतिक्षेपपरत्वेनोपास्याकारकरभावात् । तथा हि ब्रह्माग्निशब्दयोर्द्वयोरपि रूढार्थद्वयविरोधेत निर्वाह पूर्वमुक्तः, रूढार्थविरोधाभ्युपगमेनान्यतरस्य यौगिकत्वे ग्राह्येऽपि न ब्रह्माग्निशब्दयोस्तुल्यत्वादशक्यनिर्णयत्वं वाच्यम्, उपक्रममाद्यानुगुण्यादग्निशब्दावयवार्थस्य ब्रह्मणि पुष्कलतया च ब्रह्मशब्दप्राबल्यात्तद्विपरीतोऽग्निशब्दो दुर्बलत्वाद्यौगिक इति हि सूत्रतात्पर्यम् । एवं वा, अस्यां विद्यायामग्निशरीरत्वानुसन्धानमेव सूत्रकारमतं “तथा दृष्टयुपदेशा"दिति दर्शितम्, जैमिनिमतं तु सामान्येन परमात्मपरतया तात्पर्यालिङ्गैरवगतेषु प्रकरणेष्वर्थान्तररूढशब्दानां परमात्मपरत्वे अवश्यम्भाविनि सति अवयवशक्तया साक्षादेव तत्परत्वं वर्णनीयमित्येवंरूपं नैतत्प्रकरणविशेषमात्रविषयम् । अस्य च न्यायस्य सामान्येनोपजीव्यतया यत्र क्वचिद्वक्तव्यत्वे सति अत्र परमात्मपर्यन्तनिर्वाहप्रसङ्गादिहाभ्यधायि । न त्वेतद्विद्याया असाधारणत्वात्; अत एव ह्यवयवशक्तया आकाशशब्दो व्याख्यातः । सामान्येनोपजीव्यस्य न्यायन्येहाप्युपजीव्यत्वाद्विद्याभेद इति चेन्न, चिदचिद्विशेषासाधारणलिङ्गान्वितेषु वाक्येषु तच्छरीरत्वाश्रयणस्य न्याय्यत्वेनास्य न्यायस्य चिदचिदसाधारणलिङ्गरहितवाक्यविषयत्वात्, अत्र च जाठरलिङ्गान्युपलभ्यन्ते; अत एव हि सूत्रकारः तथादृष्टयुपदेशादिति स्वमतमुक्तवान्, यथा न द्वितीयेति कृत्वा अवघातादीनां व्रीहिशेषत्वं चिन्तितम् तद्वज्जाठरलिङ्गाभावेन तद्विशिष्टत्वासम्भवेऽपि परमात्मपरत्वं सिध्यतीत्यन्वारुह्य दर्शितं जैमिनिमतम्, अतो न
विद्याभेदः ॥
उत्तरसूत्रशङ्कामाह - यस्त्वेतमिति ॥
॥ अभिव्यक्तेरित्याश्मरथ्यः ॥ परिच्छिन्नत्वं महाभूततृतीयदेवतयोरेव सम्भवतीति शङ्कापरिहारार्थमिदं सूत्रम् । अभिव्यक्तयर्थम्- बुद्धिसौकर्यायेत्यर्थः । परिच्छिन्नत्वे हि बुद्धिसौकर्यं स्यात् । उक्तमर्थं विवृणोति - द्यौर्मूर्धेत्यादिना । द्युप्रभृतिप्रेशेत्यादिना प्रादेशमात्रशब्दो व्याख्यातः, अभिविमानमित्यत्राभिशब्दं व्याचष्टे - कृत्स्नमभिव्याप्तवत इति । विमानशब्दं व्याचष्टे - विगतमानस्येति ॥ उत्तरसूत्रस्य शङ्कामाह - मूर्धप्रभृतीति । प्राकृतमूर्द्धादिद्रव्यावयत्वमप्राकृतरूपस्य परमात्मनो न सम्भवति, अपि तु देवताया एव सम्भवतीत्यभिप्रायः ।
॥ अनुस्मृतेर्बादरिः ॥ प्राकृतमूर्धाद्यवयववत्त्वासम्भवपरिहारार्थत्वाभिप्रायेण सूत्रं व्याचष्टे - तथेत्यादिना । अनुस्मृतिः उपासनम्, उपासनार्थं पुरुषविधत्वमित्यर्थः । कथमुपासनार्थत्वम् ? बुध्द्यारोहार्थत्वं किं न स्यादित्यत्राह - यस्त्वेतमिति । उदाहृदवाक्ये पुरुषविधत्वमुपास्याकारतया न प्रतीयत इत्यत्राह - एतमेवेति । अत्र मुक्तिफलवाचिशब्दः क इत्यत्राह - सर्वेष्विति । अन्नशब्दस्य प्रसिद्धान्नपरत्वानुपपत्तिमाह - यत्त्विति ॥
एवं परमात्मनो द्युप्रभृतिप्रदेशसम्बन्धिना मात्रया परिच्छिन्नत्वे पुरुषविधत्वे च प्रयोजनमुखेन भूततृतीयदेवताव्युदासः कृतः । अथोत्तरसूत्रस्य जाठरशङ्काव्युदासकत्वं दर्शयन् तदवतारयति - यदीति । यावता- प्रत्युतेत्यर्थः ।
॥ सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति ॥ कस्य सम्पत्तिः, सा च कीदृशीत्यपेक्षायामाह - अस्येति । सम्पत्तिः सम्पादनम्, अतस्मिन् तत्कल्पनम् । तथा हि दर्शयतीति सूत्रखण्डं व्याचष्टे - तथेति । परमात्मोपासनोचितमेव फलमिति - अग्निहोत्रसम्पत्तेः परमात्मसमाराधनार्थत्वं “तस्य सर्वेषु लोकेषु” इत्याद्युक्तफलविशेष एव ज्ञापयतीति भावः । स य इदमित्यादि - इदमविद्वान् इदम् उरःप्रभृतीनामग्निहोत्रोपकरणतामजानन् । यः अग्निहोत्रम्-
प्राणाहुतिम् जुहोति- अनुतिष्ठतीत्यर्थः । एतदेवं विद्वानित्यत्राप्येवमर्थः । सर्वेष्वात्मसु हुतं भवतीति सर्वात्मकभगवदाराधनेन सर्वमाराधितं भवतीति हुतप्रकर्षोक्तिः, अस्याग्निहोत्रस्य परमात्माराधनत्वज्ञापनार्थं तदङ्गकपरोपासनफलं दर्शयति - तद्यथेषीकेति । परस्यात्मनो द्युप्रभृतिशरीरकत्वमयुक्तम्, उपासकस्य मूर्धाद्यवयवानामेव द्युप्रभृतित्वेनोपासनविधानादिति शङ्कायामाह -
॥ आमनन्ति चैनमस्मिन् ॥ एनमिति पदं व्याचष्टे - द्युमूर्धत्वादीति । अन्वादेशविषयो ह्येनादेशः, अन्वादेशः अन्वाख्यानम् तस्मादेनमितिपदमुक्तधर्मोपेतमुक्तधर्मिणं परामृशतीति भावः । उपासकशरीरे द्युमूर्धताद्यनुसन्धानं परमात्मनो द्युमूर्धत्वादेर्न विरोधि, उभयस्यापि विहितत्वात्, अत उपासकशरीर एव द्युमूर्धत्वाद्यवयववत्त्वमित्यवधारणकल्पनमयुक्तमित्यर्थः । एनमित्यत्र गर्भितमर्थं विवृण्वन्नुभयस्य विहितत्वमुपपादयति - अयमर्थ इत्यादिना । ब्रह्मप्राप्तिं च फलमुपदिश्येति - फलवत्सन्निधावफलं तदङ्गमिति न्यायात् ब्रह्मप्राप्तिफलकत्वेनोक्तस्य वैश्वानरोपासनस्य प्राणाग्निहोत्रमङ्गमित्यभिप्रायः । कथं प्राणाग्निहोत्रस्याफलत्वम् ? “अथ एतदेवं विद्वान् तद्यथेषीकतूल"मित्यादिना तस्य हि फलं श्रूयत इति चेन्न, प्राणाहुतिमात्रस्य सर्वपापनिवृत्तिपूर्वकापरिच्छिन्नफलहेतुत्वायोगात् अङ्गभूतस्यापि प्राणाग्निहोत्रस्याङ्गिद्वारा मुक्तिरेव फलमिति ज्ञापयितुं “यस्त्वेतमेव"मित्यादिनोक्त
वैश्वानरोपासनफलान्ततर्गतानिष्टनिवृत्त्यंशस्योक्ततया अङ्गिफलविरोधिफलाश्रवणेन “तस्य ह वा” इत्यादिवाक्यप्रतिपन्नस्याङ्गिभावस्यानपोदितत्वात् । “तस्य ह वा” इत्यादिवाक्यस्यार्थमाह - यः पूर्वमिति । अवान्तरवाक्यानि प्रत्येकं व्याचष्टे - मूर्धेत्यादिना । अधिकरणार्थप्रतिपत्तिसौकर्यार्थं पूर्वसूत्रविषयवाक्यार्थं क्रमप्राप्तमेतत्सूत्रार्थेन
सङ्गतमुपन्यस्यति - एवमित्यादिना । अधिकरणार्थमुपसंहरति - अत इति । अभिव्यक्तिरनुस्मरणीयत्वं द्युप्रभृतिषु मूर्धत्वादिसम्पादनं मस्तकचिबुकान्तराले परस्य स्थितेर्जाबालश्रुत्या प्रतिपादनमिति अभिव्यक्तेरित्यादिसूत्रचतुष्टयार्थ इतरैरुक्तः, तन्मते सूत्राणां परिहरणीयशङ्काया अभावाद्वैयर्थ्यमेव स्यात्, अतो यथोक्त एवार्थः ॥