॥ अदृश्यत्वादिगुणको धर्मोक्तेः ॥ अदृश्यत्वादिगुणकशब्देन अक्षरम् पुल्लिङ्गनिर्देशेन अक्षरात्परतः परश्च द्वयमपि विषयीक्रियत इत्यभिप्रायेण वाक्यद्वयं विषयतयोपाददानस्संशयञ्च दशर्यति - अथेत्यादिना । अद्रेश्यमग्राह्यम् । इन्द्रियादृश्यमनुमानाद्यवेद्यम् चक्षुरदृश्यमिन्द्रियान्तरादृश्यं वा । यद्वा अद्रेश्यम्- ज्ञानेन्द्रियाविषयः । अग्राह्यम्- पाण्यादिकार्यहानोपादानाद्यविषयः । किमिहेति - अदृश्यत्वादिगुणकाक्षरस्य प्रकृतित्वमक्षरात्परतः परस्य जीवत्वं च शङ्कयते, न तूभयोरुभयात्मकत्वम् । उभयत्र- वाक्यद्वयेऽपि । किमदृश्यत्वादिगुणकमक्षरात्परतः परश्च प्रधानपुरुषौ,
उत परमात्मा ? इति विचारः । तदर्थं पृथिव्यादिसम्बन्धितया दृष्टं दृश्यत्वादिकं निषिध्यमानं किं
पृथिव्यादिसजातीयमचेतनमेवाश्रयमुपस्थापयति, उत नेति । किमूर्णुनाभिदृष्यान्तोपादानमचेतनाश्रयोपस्थापकत्वमुपबृंहयति, उत नेति । किम् “अक्षरात्सम्भवतीह विश्व"मिति विन्वशब्दश्चिदचिदात्मकप्रपञ्चमुपस्थापयति, उताचेतनम् ? इति । अचेतनोपस्थापकत्वे सत्यूर्णनाभिदृष्टान्तस्य चाचिदाश्रयोपस्थापकतोपकबृंहकतया निषिध्यमानं दृश्यत्वादिकमचिदुपस्थापकमित्यदृश्यत्वादिगुणकं प्रधानं ततः परश्च जीव इति स्यात्, यदा विश्वशब्दः चिदचिदात्मकजगदुपस्थापकः तदोर्णनाभिदृष्टान्तस्य चाचेतनोपस्थापकत्वानुपबृंहकत्वान्निषिध्यमानं दृश्यत्वादिकमपि नाचेतनोप
स्थापकमित्यदृश्यत्वादिगुणकः परमात्मा; परमात्मनश्च परान्तरासम्भवात् अक्षरात्परतः परश्च परमात्मेति फलितम् । कुत इति - अदृष्टशब्दस्य अर्हार्थीयतृजन्तपदविशेषणतया “धातुसम्बन्धे प्रत्ययाः” इति स्मृतिवशेनार्हार्थे विश्रान्ति-
रवगम्यते, अद्रेश्यमिति च पदं कृत्यप्रत्ययान्तत्वादर्हार्थम् तथा चादृश्यत्वादिकं पूर्वाधिकरणे परमात्मधर्मतयाऽवगतमिति नाक्षरं प्रकृतिः, अत एवाक्षरात्परतः परश्च न समष्टिपुरुषः, न हि परमात्मनोऽन्यत् परं विद्यत इति शङ्कायामदृश्यत्वादिगुणकस्य प्रकृतित्वमुपपादयति - अस्याक्षरस्येति । अन्तर्यामिविद्यायामपि न केवलमदृष्टत्वं परमात्मत्वसाधकम्, किन्तु द्रष्टृत्वादिसचिवम्, इह तु तत्साचिव्याभावाददृश्यत्वं नाचिद्य्वावर्त्तकमित्यर्थः । अदृष्टो द्रष्टेत्यादिना सङ्गतिश्चाभिप्रेता, तथाप्यक्षरात्परतः परो न जीवः, न ह्यक्षरात्परं इत्युक्तम्, किन्तु “परतः परः” इतीति शङ्कायां तस्य समष्टिपुरुषत्वमुपपादयति - सर्वस्मादिति । सर्वस्माद्विकारात्परभूतादक्षरादिति - समानविभक्तिनिर्देशस्वारस्यात्, परतोऽक्षरादिति सामानाधिकरण्यमिति भावः । चेतनधर्मविशेषाश्रवणेऽप्यदृश्यत्वं साधारणतया न निर्णायकम्, अतोऽनुकूलयुक्तिर्वक्तव्या, दृष्टान्तश्चेतनकारणत्वानुगुण इत्यत्राह - एतदुक्तमिति । तदन्यार्थकनञुपश्लिष्टा अब्राह्मणादयश्शब्दा हि ब्राह्मणादिप्रत्यासन्नसजातीये क्षत्रियादौ वर्तन्ते, न तु श्वपचादौ पश्वादौ वा । अबालाकृशशब्दादयः प्रत्यासन्नावस्थान्तराश्रये तस्मिन्नेव धर्मिणि वर्तन्ते, न तु धर्म्यन्तरे, सन्निकृष्टबोधनस्य न्याय्यत्वात्; एवमदृश्यत्वादिगुणानां धर्मिविशेषाकाङ्क्षायां निषिध्यमानदृश्यत्वस्याचिदाधारत्वेन अचेतने प्रतिपन्ने तस्यैव सूक्ष्मावस्थस्यादृश्यत्वादौ च सम्भवति, विजातीयधम्यर्न्तरकल्पने गौरवप्रसङ्गात् तत्परत्वाश्रयणमयुक्तमिति भावः । दृश्यत्वादिनिषेधाद्रूपादिवदचेतनत्वमपि निवर्त्तत इत्यत्राह - तच्चेति । न दृश्यत्वादिव्याप्यमचेतनत्वम्, मन आदौ व्यभिचारादिति भावः । अदृश्यत्वादिकुणकस्य प्रधानत्वसमर्थनमुपजीव्य अक्षरात्परतः परस्य जीवत्वमाह-
तस्मादिति । यथोर्णनाभिरिति चेतनदृष्टान्तः कथमित्यत्राह - तदधिष्ठितञ्चेति । अनधिष्ठितत्वेऽपि दृष्टान्तोऽस्ति, यथा पृथिव्यामिति । चेतनसन्निधिमात्रापेक्षत्वे दृष्टान्तः यथा स त इति । पूर्वपक्षमुपसंहरति - अत इति ॥
राद्धान्ते - अदृश्यत्वेति परात्परं पुरुषमितिवाक्यं स्मारयति - परमपुरुष इति । कस्य धर्मोक्तेरित्यपेक्षां पूरयति- तद्धर्मोक्तेरिति । नन्वक्षरं प्रकृतिः, सर्वज्ञस्तु स्वसन्निधानात्प्रकृत्युपकारकः प्रकृष्टपुण्यो जीवस्तदवस्थोपलक्षितो मुक्तो वेति शङ्कायामाह - तथाहीति । तस्मादिति - अक्षरशब्दः प्रकृताक्षरपरः इति भावः । भूतयोनेरक्षरस्येति - सार्वज्ञ्यादेर्द्धर्मिविशेषापेक्षायां प्रकृत एव धर्मी स्वीकार्यः, उपक्रमप्रतिपन्नपरित्यागेनाप्रतिपन्नकल्पनायोगात् “भूतयोनिम्” “तस्मादेतत्” इति कारणत्वप्रत्यभिज्ञानाच्च, अतः “यस्सर्वज्ञः” “तस्मादेत"दिति यत्तच्छब्दौ प्रकृताक्षरविषयौ, ततश्चाक्षरस्य कारणत्वमनूद्य सृष्टिस्थित्युपयोगित्वेन सावर्ज्ञ्यादि विधीयत इत्यर्थः । ननु भूतयोनित्वलिङ्गप्रत्यभिज्ञानादपि “अक्षरात्परत” इति श्रुतिप्रत्यभिज्ञानं प्रबलम्, पञ्चम्यन्ताक्षरपदवाच्यं हि प्रधानम्, अतस्तदेव “यया तदक्षर"मित्यत्रापि प्रतिपाद्यम्, अतस्तदनुवादेन सार्वज्ञ्यादिविधानमयुक्तमिति चेन्न; केवलश्रुतिप्रत्यभिज्ञानादपि “येनाक्षरं पुरुषं वेद सत्य"मिति पूर्वोक्तभूतयोनित्वलिङ्गानुगृहीतस्याक्षरश्रुतिप्रत्यभिज्ञानस्य प्रबलत्वात् ।
ननु “भूतयोनिम्” “अक्षरात्सम्भवती"त्युपादानमुच्यते, “यस्सर्वज्ञस्सर्ववित्” इति निमित्तम्, अतो लिङ्गानुगृहीतत्वमसिद्धम् । न चैतावता “अक्षरात्परतः” “अक्षरं पुरुष"मितिश्रुतिप्रत्यभिज्ञानयोस्तुल्यत्वम् । “अक्षरात्परतः” इति प्रत्यभिज्ञानस्य ऊर्णनाभिदृष्टान्तानुगृहीतत्वेन प्राबल्यादिति नैवम्; ऊर्णनाभिदृष्टान्तस्याचिद्विशिष्टब्रह्मकारणत्वेऽप्युपपत्तेः ।न चैतावता प्रत्यभिज्ञानयोस्तुल्यत्वम्, “अक्षरं पुरुष"मिति प्रत्यभिज्ञानस्य प्रथमभाविनः प्रबलतया पञ्चम्यन्ताक्षरशब्दस्य तदविरोधेन वर्णनीयत्वात्, अतो भूतयोन्यक्षरमेव “अक्षरं पुरुष"मित्युच्यते, पुरुषत्वात् कारणत्वेन प्रत्यभिज्ञानाच्च अक्षरशब्दवाच्यस्य एव सर्वज्ञत्वादिगुणकः, तथा च सति “अक्षरात् सम्भवति” “तस्मादतद्ब्रह्म” इति पञ्चम्योर्वैरूप्यं न स्यात्, निमित्तोपादानाभेदे सत्येव ह्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञानमुपपद्यते । अक्षरं न परमात्मा, अक्षरादपि परस्य प्रतिपन्नत्वादित्यत्राह - पश्चादिति । परत्वेन व्यपदिश्यते- प्रथमान्तेन परशब्देन व्यपदिश्यत इत्यर्थः । प्रकृतमदृश्यत्वादिगुणकमिति - अदृश्यत्वादिगुणकत्वेन प्रकृतत्वादित्यर्थः । अपाणिपादत्वेन सर्वगतत्वेन पुरुषशब्दवाच्यत्वेन च प्रकृते हि भूतयोन्यक्षरम् “अपाणिपादम्” “नित्यं विभुं सर्वगतम्” “तेनेदं पूर्णं पुरुषेण सर्वम्” “येनाक्षरं पुरुषं वेद” इति च, अक्षरात्परतः परस्य “दिव्यो ह्यमूर्त्तः पुरुषः” इति पुरुषशब्दसामानाधिकरण्यदर्शनात् अमूर्त्तशब्देनापाणिपादत्वप्रत्यभिज्ञानात् “बाह्याभ्यन्तर” इत्यनेन सर्वगतत्वप्रत्यभिज्ञानाच्च भूतयोन्यक्षरमेव अक्षरात्परतः पर इत्यर्थः । सर्वज्ञस्य भूतयोन्यक्षरात्परत्वशङ्काव्युदासाय भूतयोन्यक्षरस्यैव सार्वज्ञ्यादिगुणकत्वोपपादनं स्मारयति - सर्वज्ञमेवेति । नन्वक्षरशब्दार्थवैरूप्यपरिहाराय भूतयोन्यक्षरात्सवर्ज्ञत्वादिगुणकः पर इत्यभ्युपगन्तव्यमित्यत्राह - अतोऽक्षरादिति । प्रकृतमदृश्यत्वादिगुणकमिति - अदृश्यत्वादिगुणकमक्षरमेव “येनाक्षरं पुरुष"मिति पूर्वस्मिन् सन्निकृष्टवाक्ये प्रकृतम्, तदेव प्रोवाचेति वक्तव्यतया प्रतिपादितमिति तस्यैव प्राधान्येन प्रतिपाद्यत्वमवगम्यते, अतोऽक्षरपुरुष एव अक्षरात्परतः परत्वेनोच्यत इत्यभ्युपेत्यम् । अन्यस्य प्रतिपाद्यत्वमुक्त्वा अर्थान्तरस्य प्रतिपादनायोगात्, अतोऽक्षरपुरुषो न पञ्चम्यन्ताक्षरशब्दोक्तः, अपि त्वक्षरात्परतः पर एवेत्यभिप्रायः । अत इत्यभिप्रेतं हेतुं
विवृणोति - तस्येति । सर्वज्ञस्य विश्वयोनेरिति - “अक्षरात्सम्भवतीह विश्वम्” “तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते” इत्युभयत्र कारणत्वप्रत्यभिज्ञानात् भूतयोन्यक्षरमेव सर्वज्ञमिति न सर्वज्ञस्तदपेक्षया पर इत्यभिप्रायः । सर्वस्मात् परत्वेन तस्मादन्यस्य परत्वासम्भवादिति - भूतयोन्यक्षरमभिधायानन्तरमेव “यस्मात्परं नापरमस्ति किञ्चित्” इति समाभ्यधिकनिषेधस्योपक्रमावगतत्वादित्यर्थः । भूतयोन्यक्षरादनन्यत्वेन सर्वज्ञस्य ततः परत्वासम्भवः, उपक्रमविरोधेनाक्षरादर्थान्तरस्य परत्वासम्भव इत्युक्तं भवति । अक्षरादिति किमुच्यत इत्यत्राह - अतोऽत्रेति ।
अतः यस्य परमात्मधर्मोक्तिः स हि परमात्मा प्रथमान्ताक्षरशब्दनिर्दिष्टस्य तद्धर्मश्रवणात् पञ्चम्यन्ताक्षरशब्दनिर्दिष्टस्य तदभावाच्चेत्यर्थः । अक्षरशब्दयोर्भिन्नविषयत्वमुपपन्नम्, अस्मिन्नेव प्रकरणे “तपसा चीयते ब्रह्म” “इति ह स्म यद्ब्रह्मविदो वदन्ति” “तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते” इत्यत्र ब्रह्मशब्दयोर्भिन्नविषयत्वदर्शनात् । यत्तु समानाविभक्तिनिर्देशस्वारस्यात्
सामानाधिकरण्यमिति । तन्न; परशब्दस्य पञ्चम्यन्तपदसापेक्षत्वात् तत्स्वारस्यार्थं न सामानाधिकरण्यम् । किञ्च परतोऽक्षरादिति न निर्दिष्टम् । “अक्षरात्परतः परः” इति हि क्रमः, तत्स्वारस्याच्च न सामानाधिकरण्यम् ॥
॥ विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ विशेषणशब्दं व्याचष्टे - विशिनष्टि हीति । कस्मात्किमित्यत्राह - प्रधानादिति । कैर्धर्मैरित्यत्राह - एकेति । भेदव्यपदेशशब्दं व्याचष्टे - तथेति । हेतुद्वयं विवरीतुमाह - तथा हीति । न केवलं विशेष्यवाचिना ब्रह्मविद्याशब्देन, विशेषणवाचिना सर्वविद्याप्रतिष्ठामितिशब्देनापि ब्रह्मविषयत्वं सिद्ध
मित्याह - परविद्यैव चेति । परब्रह्मविषया विद्या परविद्या । सर्वविद्याप्रतिष्ठात्वम्- सर्वविद्याश्रयत्वम् । ज्ञातव्ये ब्रह्मणि कृत्स्नज्ञातव्यान्तर्भावात् ब्रह्मज्ञाने कृत्स्नविषयज्ञानान्यन्तर्भूतानीत्यर्थः । ब्रह्मजिज्ञासमानेन ब्रह्म हि प्रष्टव्यम् “कस्मिन्नु भगवः” इति प्रश्नस्य कथं ब्रह्मविषयत्वमित्यत्राह - ब्रह्मविद्याया इति । “द्वे विद्ये” इति विद्याद्वयं भिन्नविषयत्वेन इतरैव्याख्यातम्, तत्र कैश्चित् परविद्या परमात्मविषया, अर्थान्तरविषया चापरविद्येति, कैश्चित् कर्मज्ञानमपरविद्या, ब्रह्मज्ञानं परविद्येत्युक्तम्, कैश्चित् अपरमात्मज्ञानमपरविद्या, परमात्मज्ञानं परविद्येत्युक्तम; तद्य्वावृत्त्यर्थं व्याचष्टे- ब्रह्मप्रेप्सुनेति । ब्रह्मैव विषयश्चेत् द्वयोरपि को भेद इत्यत्राह - परोक्षापरोक्षरूपे इति । तस्येत्यादिः “स तपोऽतप्यत” “ओदनपाकं पचती"तिवत् द्वे विद्ये वेदितव्ये
इत्युक्तिः । तत्र फलितमाह - उपादेये इत्यर्थ इति । किं परोक्षं किमपरोक्षमित्यत्राह - तत्रेति । ब्रह्मैव विषयश्चेत् प्रथमेनैवालमित्यत्राह - तयोरिति । उपायभूतम्- अव्यवहितोपायभूतम् । तस्यापि निष्फलत्वमत्रत्यवाक्येनावगम्यत इत्यत्राह - तच्च भक्तिरूपेति । तर्हि किं प्रथमेनेत्यत्राह - तदुपायश्चेति । साधनसप्तकं शास्त्रजन्यज्ञानं चोभयमप्युपासनात्मकज्ञानस्य हेतुरिति यावत् । एतद्वैशद्यायाह - आह चेति । अनेन विद्याद्वयस्य भिन्नविषयत्वोक्तिरूपबृंहणविरुद्धेति दर्शितं भवति । विवेकाच्च उत्थितमित्यर्थः । यथोक्तलक्षणे ज्ञानद्वयेऽपि किं वाक्यं किं विषयमित्यपेक्षायामागमोत्थज्ञानं तत्रेत्यादिवाक्येनोक्तमित्याह - तत्रेति । वेद एव हि ब्रह्मज्ञानहेतुः, धर्मशास्त्रादिकीतर्नं किमर्थम् ? न चात्रागमोत्थत्वं ज्ञानस्य शाब्दं प्रतीयत इत्यत्राह - साङ्गस्येति । सपरिकरस्यागमस्य तज्ज्ञानहेतुत्वादपरा
विद्येत्युक्तमित्यर्थः, “तत्रापरा ऋग्वेदः” इत्यादिवाक्यस्यागमोत्थज्ञानविषयत्वं पुर्वोक्तोपबृंहणवचनेन “द्विधा ज्ञानं तथोच्यते” इत्यनेन स्पष्ठीकृतम् । अथेत्यादिवाक्यस्य विवेकजन्यज्ञानविषयत्वमाह अथेति । उक्तमित्यन्वयः । यत्तदित्यादिवाक्यस्य विषयमाह - यत्तदिति । यर्थोर्णनाभिरिति - भूतयोनित्वविवरण
मित्यर्थः । तपसा चीयत इत्यादिकं व्याचष्टे - ब्रह्मण इत्यादिना । विश्वस्य भोक्तृवर्गस्येत्यनेनैतद्वाक्यस्थसत्यशब्दो व्याख्यातो भवति । सत्यशब्दवाच्यस्य भोक्तृवर्गस्येत्यर्थः । फलसाधनभूतकर्मपर्यन्तमिति । लोकाः- स्वर्गादयः । कमर्सु चामृतम्- कर्मस्वायत्तममृतम् । अमृतत्वसाधनभूतं कर्मेत्यर्थ इति भावः । पुनः सर्गाभिधानपौनरुक्तयमाशङ्कयाह यस्सर्वज्ञ इति । यथा “दध्ना जुहोति” इति वाक्ये जुहोतिपदेन “अग्निहोत्रं जुहोती” ति विहितं होममनूद्य दध्नस्तत्साधनत्वं विधीयते तथा कारणानुवादेन सर्वज्ञत्वादिगुणविधानमित्यर्थः । भोक्तृभोग्यरूपञ्च जायत इत्यनेनान्नशब्दो व्याख्यातो भवति “अद्यतेऽत्ति च भूतानि” इति अन्नशब्दनिर्वचनम् । द्वितीयखण्डार्थमाह - तदेतत्सत्यमित्यादिना । परस्येति -
कारणत्वशङ्कितदोषव्यावृत्त्यर्थमुक्तमित्यभिप्रायः । मन्त्रेष्वित्यादि - केचित्सत्यकामपदं चतुर्मुखलोककामपरं व्याचक्षत इति तद्य्वुदासार्थमाह - सार्वज्ञ्येति । कमनीयत्वाय कल्याणगुणाकरत्वमुक्तम् । अक्षरं पुरुषं स्वतस्सत्यं कामयमाना इति - “तदेतत्सत्यम्” “येनाक्षरं पुरुषं वेद सत्यम्” पुनश्च “तदेतत्सत्य"मिति पूर्वापरयोर्ब्रह्मवाचित्वेन प्रयुक्तसत्यशब्दैकार्थ्यादिति भावः । बहुधेति- अधिकारमन्त्रफलभेदेन । त्रेता- अग्नित्रयम् । “अग्नित्रयमिदं त्रेता " इति नैघण्टुकाः । आचरतेतीति - उच्यत इति पूर्ववाक्यादनुषङ्गः । एष इत्यादि - एकतरर्मवैधुर्येऽपीतरेषां निष्फलत्वमित्यनेन “यस्याग्निहोत्रमदर्शपूर्णमासमनाग्रयणमतिथिवर्जितं च हुतमवैश्वदेवम्” इत्य
स्यार्थोऽभिप्रेतः । अयथानुष्ठितस्याननुष्ठितसमत्वं चेत्यनेन “अश्रद्धया अविधिना हुतमासप्तमात्तस्य लाकान् हिनस्ति” इत्यस्यार्थ उक्तः । इदं त्रिवर्गफलसाधनकर्मविषयमुक्तम् “प्लवा ह्येते अदृढा” इति तत्प्रकरणत्वात् “नेहाभिक्रमनाशोऽस्ति” इति मोक्षसाधनकर्मणां यथोक्तविपरीतत्वप्रतिपादनाच्च । प्लवा ह्येते इत्यादि । अष्टादशोक्तम्- अष्टादशस्मृत्युक्तम् । श्रुतेरपि प्रदर्शनार्थमिदम् । श्रुतिस्मृतिचोदितं कर्मेत्यर्थः । यद्वा षोडशर्त्विक्पत्नीयजमानरूपाष्टादशपुरुषेषु विहितम् । यद्वा “नव ग्राम्यान् पशूनालभते नवारण्यान् उभयान् पशूनालभते” इति श्रुत्युक्ताष्टादशपशुहविष्कं कर्मेति । यज्ञशब्दः कर्मसामान्यवाची येषु पुरुषेषु स्मृतिविहितमपरं कर्म फलाभिसन्धिमत्, एतच्छ्रयो येऽभिनन्दन्ति ते पुरुषा जरामृत्यू अपि यन्तीत्यन्वयः । ब्रह्मप्राप्तये भवतीत्यनेन “सूर्यद्वारेण ते विरजाः प्रयान्ति यत्रामृतस्य परुषोऽव्यमात्मा” इत्यस्यार्थ उक्तः । “परीक्ष्य लोकान्” इत्यादिवाक्ये गुरूपसत्तिविषयनियमविधिः, अन्यन्न्यायसिद्धार्थानुवादरूपम् । तृतीयखण्डार्थमाह - तदेतत्सत्यं यथेत्यादिना । भूतयोन्यक्षरस्याक्षरात्परतः परस्य चानन्यत्वसिद्धये प्रथमतृतीयखण्डयोरैकार्थ्यप्रत्यभिज्ञापकविशेषणानि दर्शयति- पूर्वोक्तस्येत्यादिपदैः । पूर्वोक्तस्यैवेह प्रतिपाद्यत्वोपपादकानि पदान्तराणि । “तदक्षरमधिगम्यते” “भूतयोनिं परिपश्यन्ति” “तथा अक्षराद्विविधाः सोम्य भावाः प्रजायन्ते” “तत्र चैवापि यन्ति” इति वाक्ययोरेकविषयत्वं दर्शितम्- अक्षरस्य भूतयोनिरिति । “तपसा चीयते ब्रह्म” “तपो ब्रह्म परामृतम्” इत्यनयोरैककण्ठ्यं दर्शितम्- परस्य ब्रह्मण इति । “तस्मादेतद्ब्रह्म” इत्यवगतकार्यब्रह्मव्युदासार्थः परशब्दः । “तेनेदं पूर्णं पुरुषेण” “पुरुष एवेदं
सर्व"मित्यनयोरेकविषयत्वाभिप्रायेणपरमपुरुषस्येत्युक्तम् । तत्र “यस्मात् परं नापरमस्ति” इत्युक्तसमान्यधिकराहित्यसूचनार्थः परमशब्दः । अक्षरपुरुषशब्दाभ्यां “येनाक्षरं पुरुष"मिति द्वितीयखण्डैकार्थ्यं च दशिर्तं भवति । अत्र हि “तथाऽक्षराद्विविधास्सोम्य भावाः प्रजायन्ते तत्र चैवापि यन्ती “त्युक्तवा दिव्यो ह्यमूर्त्तः पुरुषः स बाह्याभ्यन्तरः” इति प्रकृतकारणाक्षरपरामर्शितच्छब्देनाक्षरात्परतः परस्य सामानाधिकरण्यात्
भूतयोन्यक्षरमेवाक्षरात्परतः पर इत्यवगम्यते । न हि तस्मादक्षरात्पर इत्युक्तम्, अपि त्वक्षरात्स पर इति; पश्चादपि “एतस्माज्जायते प्राणः” “एष सर्वभूतान्तरात्मा” “तस्मादग्निस्समिधश्च सूर्यः” इत्यारभ्य “अतस्सर्वा ओषधयः” इत्यन्तेषु वाक्येषु तमेव तदेतच्छब्दैः परामृश्य “एतेषु भूतेषु तिष्ठते ह्यन्तरात्मा” इत्युक्तवा “पुरुष ऐवेदं सर्व"मित्यभिधानात्, भूतयोन्यक्षरब्रह्मशब्दवाच्यः पुरुष एवाक्षरात्परतः पर इति पतीयते; अनुक्तैः स्वरूपगुणैरित्यनेन “दिव्यो ह्यमूर्त्तः पुरुषः” इत्याद्युक्तवाः दिव्यात्वामूर्त्तत्वविभुत्वादयो गुणाः विवक्षिताः । विश्वरूपत्वम् विश्वप्रकारत्वम्; तदेव विश्वशरीरशब्देन विशेषितम् । तदुपपादकं सर्वभूतान्तरात्मतयेतिपदम् । अन्तः प्रविश्य नियन्तृत्वादयस्य विश्वं शरीरतया प्रकार इत्यर्थः । अनेन “पद्य्भां पृथिवी ह्येष सर्वभूतान्तरात्मा” “अतश्च सर्वा ओषधयो रसाश्च” “एतेषु भूतेषु तिष्ठते ह्यन्तरात्मा” “पुरुष एवेदं सर्व “मिति श्रुत्यर्थोऽनुसंहितः । तस्माद्विश्वसृष्टिं चेत्यनेन “तस्मादग्निस्समिधश्च सूर्यः सोमः पर्जन्य ओषधयः” इत्याद्यर्थ उक्तः । विस्पष्टमित्यनेन प्रथमतृतीयखण्डयोः पौनरुक्तयपरिहारः, पूर्वोक्तसृष्टिप्रपञ्चनपरत्वान्न पुनरुक्तिरित्यभिप्रायः । चतुर्थखण्डार्थमाह - आविरिति । आविस्सन्निहितम्- योगिनामपरोक्षं सन्निहितम् । तस्यैव- प्रथमद्वितीयखण्डप्रतिपादितस्य । अव्याकृतादिति - अक्षरात्परतः परस्येतितृतीयखण्डप्रतिपादितस्येत्यर्थः । तदेतदक्षरं ब्रह्मेतिवाक्यमभिप्रयन्नाह - परस्य ब्रह्मण इति । यस्सर्वज्ञस्सर्वविद्यस्यैष महिमा भुवि । दिव्यो ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः” इत्यस्यार्थमाह - परव्योम्नि प्रतिष्ठितस्येति । यस्यैष महिमा भुवीति लीलाविभूत्यन्वय उक्तः । दिव्यो व्योम्नीति त्रिपाद्विभूतिरुक्ता, ब्रह्मपुरे इतिशब्दः एतत्सत्यं ब्रह्मपुरमितिवन्न कर्मधारयः, ब्रह्मपुरे आत्मा प्रतिष्ठित इति व्यतिरेकनिेर्देशात् । तद्विज्ञानेन परिपश्यन्ति धीराः आनन्दरूपममृतं यद्विभातीति वाक्यं हृदि निधायाह - अनवधिकातिशयेति । हृदयगुहायामुपासनप्रकारमिति - “एतद्यो वेद निहितं गुहाया"मिति पूर्वखण्डावसाने हृदयगुहायामुपासनं विहितम्, “तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि” इत्यारभ्य “प्रणवो अनुश्शरो ह्यात्मा” “आत्मानमरणिं कृत्वा” इत्यादिभिरुपासनस्य प्रकार उक्त इत्यर्थः । हृदयगुहासम्बन्ध्युपासनस्यैव प्रकारोपदेशोऽयम्, न तूपासनान्तरस्येति इदमवगतम्, “गुहाचरन्नाम महत्पदम्”
“प्रतिष्ठितोऽन्तर्हृदये सन्निधाय “पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्” इति चतुर्थखण्ड एव तस्योपासनस्य हृदयगुहासम्बन्धित्वावगमात् । पाठक्रमादर्थक्रमस्य प्रबलत्वात् षष्ठखण्डे प्रतिपन्नमर्थमाह - उपासनस्य चेति । “यमेवैष वृणुते तेन लभ्यः” इति हि तत्रोक्तम् । अर्थक्रमेण “तथा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति” इति पञ्चमखण्डस्थवाक्यं हृदि निधायाह - ब्रह्मसममिति । भोगमात्रेण साम्यमित्याह - ब्रह्मानुभवफलमिति । अविद्याविमोकपूर्वकमित्यनेन पुण्यपापे विधूयेत्यस्यार्थ उक्तः ।
ननु पञ्चमखण्डे साम्यापत्तिरूपस्सगुणमोक्ष उक्तः । षष्ठे तु “युक्तात्मनः सर्वमेवाविशन्ती “तिपरब्रह्मप्राप्तिरूपपरममोक्ष उक्तः । वेदान्तविज्ञानेतिमन्त्रेण तस्य क्रमभावित्वमुक्तम्, परे अव्यये सर्व एकीभवन्तीति परममोक्षस्यैक्यापत्तिरूपत्वमुक्तम्, यथा नद्य इति विशेषपहाणमुक्तम्, ब्रह्मैव भवतीत्यैक्यापत्तिनिगमनमिति । नैवम्, तथाहि, सर्वमेवाविशन्तीति न निर्गुणप्राप्तिः, सर्वशब्दस्य निर्गुणवाचित्वाभावात्; किन्तु ब्रह्मविभूतिभूततद्य्वाप्यसमस्तजगदनुभवोक्तिः “ते सर्वगं सर्वतः प्राप्य धीराः” इति सर्वगस्य ब्रह्मणः प्राप्तेरुक्तत्वात् सर्वगशब्देन सर्वशब्दवाच्यस्य ब्रह्मव्याप्यविभूतित्वावगमाच्च । वेदान्तविज्ञानेति तु वाक्यं चरमशरीरावसाने ब्रह्मप्राप्तिप्रतिपादकमिति वक्ष्यते । “गतिः कलाः पञ्चदश प्रतिष्ठा” इति मन्त्रश्च मुक्तात्मपरित्यक्तदेहेन्द्रियतदभिमानिदेवतादीनामितरचेतनाचेतनवत्प्रलये परमात्मनैक्यापत्त्यभावात् । पृथिव्यादिषु लय एव परमात्मनि लय इतिचेत् अमुक्तदेहस्यापि पृथिव्यादिषु लयादयस्य वाक्यस्य मुक्तविषयत्वं न स्यात् । एकस्मिन्मुक्ते सत्यग्न्यादिदेवताश्च न परमात्मनि लीयन्ते, अतश्चेदं वाक्यं न मुक्तस्य परमात्मैक्यापत्तिपरम् । यथा नद्य इति तु वाक्यं मुक्तस्य ब्रह्मप्राप्तेः कर्मकृतनामरूपप्रहाणपूर्वकत्वपरम् । ब्रह्मैव भवतीति पूर्वोक्तसाम्यापत्तिनिगमनपरम्, ब्रह्मपर्यन्तस्वात्माविर्भावपरं वा; अतो यथोक्त एवार्थः । एवं सौत्रहेतुद्वये विशेषणं प्रपञ्चितम् । उपपादितं हेतुं हेत्वन्तरेण सहानुवदन् साध्यार्थेन घटयति - अत एवमिति । भेदव्यपदेशस्योपादानं तस्य प्रपञ्चनाकाङ्क्षाजननार्थम् । अथ भेदव्यपदेशं प्रपञ्चयति - भेदव्यपदेशोऽपि हीति । अक्षरशब्दस्याव्याकृतवाचित्वं कथमित्यपेक्षायां “प्रोक्षणीष्वर्थसंयोगात्” इतिन्यायमभिप्रेत्यावयवशक्तिं दर्शयति - अश्नुत इति । अश्नुत इत्यवयवार्थः किमव्याकृते सम्भवतीत्यत्राह - अव्याकृतेऽपीति । स्वविकारव्याप्त्येति - कार्यकारेण विकृतमंशं विकृतादन्यः कारणांशः सूक्ष्मतया व्याप्नोतीत्यर्थः । अत एवेदमप्यसदर्थद्वयं नाशङ्कनीयम् । यदुच्यते, इहायं सर्वज्ञशब्दः कस्मिंश्चिद्देवताविशेषे रूढः, न तु यौगिकः, अन्यथा सर्वविच्छब्दपौनरुक्तयात्, तस्मात् ब्रह्मण उत्पत्तिः
श्रूयते “तस्मादेतद्ब्रह्म नामरूपमन्नञ्च जायते” इति इह ब्रह्मशब्दवाच्यश्च परमपुरुषः, “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्या"मिति “पुरुष एवेदं सर्वं तपो ब्रह्म परामृत"मिति ब्रह्मपुरुषशब्दयोरेकविषयत्वावगमादिति, तत्र पुरुषाक्षरशब्दयोस्सामानाधिकरण्यादक्षरस्य भूतयोनित्वश्रवणात् पुरुष उपादानम्, अक्षरात्परतः परश्च सर्ववित्त्वादियोगान्निमित्तम्, एवञ्च “अक्षरात् सम्भवति” “अक्षरात्परतः” इति अक्षरशब्दयोर्विरूपार्थता च न स्यादिति । तत्र तावनिनमित्तोपादानभेदोऽनुपपन्नः, तथा सति निमित्तान्तरस्य स्थितत्वेन ब्रह्मविज्ञानेन सर्वविज्ञानानुपपत्तेः । न च कार्यविषयतया सर्वशब्दसङ्कोचान्निमित्तान्तरस्थित्युपपत्तिः, उपादानभूतस्यैव ब्रह्मणो निमित्तत्वं वदतां निमित्तान्तरं च निषेधतां वाक्यानां भूयस्त्वात्, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं चोपक्रमावगतत्वात्प्रबलम् । अक्षरपुरुषस्य “यस्मात्परं नापर"मिति समाभ्यधिकनिषेधश्च उपक्रमावगतः, तेन तत्प्रेरकं निमित्तान्तरमनुपपन्नम् । अस्यामेवोपनिषदि “रुक्मवर्णं कर्त्तारमीशं पुरुषं ब्रह्मयोनिम्” इति रुक्मवर्णपुरुषस्यैव कर्तृत्वयोनित्वश्रवणाच्च न निमित्तोपादानभेदः। अन्नादिप्रपञ्चकारणत्वप्रत्यभिज्ञानाच्च न सर्वज्ञाक्षरपुरुषयोर्भेदः । “यस्सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं न जायते” इति सर्वज्ञस्य तथात्वं श्रूयते “तपसा चीयते ब्रह्म ततोऽन्नमभिजायते” इति ब्रह्मणश्च तथात्वं श्रूयते “तपसा चीयते ब्रह्म” “यस्य ज्ञानमयं तपः” इति तपश्शब्दवाच्यज्ञानवत्त्वं सर्वज्ञस्य ब्रह्मणश्चावगम्यते ब्रह्मपुरुषशब्दयोश्चैकविषयत्वं दर्शितम् । एवं सर्वज्ञशब्दवाच्यस्य ब्रह्मशब्दनिर्दिष्टपुरुषस्य चान्नादिकारणत्वतदुपयोगिसार्वज्ञ्यादिगुणयोगेनानन्यत्वान्निमित्तोपादानभेदो विध्वस्तः । तदभेदे च सति “तथाऽक्षरात् सम्भवति” “तस्मादेतद्ब्रह्म” इति पञ्चम्योर्वैरूप्यं च न स्यात् “ब्रह्म वनं ब्रह्म स वृक्ष आसीत्” इति श्रुत्यन्तराविरोधश्च स्यात् “तपसा चीयते यस्सर्वज्ञः” इति मन्त्रयोः प्रतिपन्नस्य सर्वज्ञस्य ब्रह्मणश्च कारणतयाऽनन्यत्वात् मिथः कार्यकारणभावशङ्का निरस्ता । किञ्च अस्यामुपनिषदि अक्षरब्रह्मशब्दौ कारणे कार्ये च प्रयुक्तौ “अक्षरात्सम्भवति” “अक्षरात्परतः परः” “तपसा चीयते ब्रह्म” “तस्मादेतद्ब्रह्म” इति । तत्र पुरुषशब्दसमानाधिकरणावक्षरब्रह्मशब्दौ किं कारणविषयौ, उत कार्यविषयौ ? इति विशये “नास्त्यकृतः कृतेन” इत्युक्तवा “येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्या"मित्युक्तत्वात् कारणविषयाविति निश्चीयते, ततश्च कारणपुरुषादन्यस्य परत्वासम्भवात् भूतयोन्यक्षरमेवाक्षरात्परतः परः । किञ्च येनाक्षरं पुरुषं वेद सत्वं प्रोवाचेत्यक्षरपुरुषस्य वक्तव्यत्वप्रतीतेः तस्यैव प्राधान्यात् स एवाक्षरात्परतः परश्च भवितुमर्हति, अन्यस्य प्रतिपाद्यत्वं प्रतिज्ञायार्थान्तरप्रतिपादनव्याघातात् । भूतयोन्यक्षरधर्माणामक्षरात्परतः परे दर्शनात् तस्य च स इति प्रकृताक्षरपुरुषपरामर्शितच्छब्दसामानाधिकरण्याच्चाक्षरात्परतः पर एवाक्षरपुरुषः । किञ्च यथा
भूतयोन्यक्षरस्य पुरुषत्वम् अक्षरं पुरुषमिति पुरुषशब्दसामानाधिकरण्यादवगम्यते, तथा अक्षरात्परतः परस्य च पुरुषत्वं “दिव्यो ह्यमूर्त्तः पुरुषः” इति पुरुषशब्दसामानाधिकरण्यादवसीयत इति तयारनन्यत्वसिद्धिः, ब्रह्मशब्दवाच्याक्षरपुरुषादन्यः सर्वज्ञ इह प्रतिपाद्यते चेत् “स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठाम्” इत्युपक्रमविरोधश्च स्यात् । अक्षरपुरुषस्सर्वज्ञादपरश्चेत् “अथ
परा यया तदक्षरमधिगम्यते” इत्यक्षरविद्यायाः परविद्यात्वकथनं विरुध्येत । अक्षरपुरुषः परमकारणं न चेत् “उपासते पुरुषं ये ह्यकामाः” “परात्परं पुरुषमुपैति दिव्यम्” इति परमपुरुषस्योपास्यत्वप्राप्यत्वश्रवणविरोधः, परमकारणस्यैव ह्युपास्यत्वप्राप्यत्वे वेदान्तप्रसिद्धे । परमकारणं चेदक्षरपुरुषस्तस्मादन्यस्य परत्वमनुपपन्नम्, “स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः” इति कारणान्तराधिपत्यन्तरनिषेधात्, एवञ्च सति सर्वज्ञशब्दरूढ्यनुगुणं न पुरुषशब्दो नेयः, अपि तु पुरुषशब्दरूढ्यनुगुणं सर्वज्ञशब्दो नेयः, ततश्च तस्य पशुपतिपरत्वमयुक्तम् । दिव्यो ह्यमूत्तर्ः पुरुषः “रुक्मवर्णं कर्त्तारमीशं पुरुषम् परात्परं पुरुषम्” इत्यादिवाक्यानाम् “आदित्यवर्णं तमसः परस्तात् “अेदितंयणर्ं तमसस्तु पारे “त्रिपादस्यामृतं दिवि “पुरुष
एवेदं सर्वम्” इति पुरुषनारायणोत्तरनायणैकार्थ्यप्रतीतेः, “नित्यं विभुं सर्वगतं सुसूक्ष्मम्” इत्यनेन “अणोरणीयान् महतो महीयान्” इत्यादि कठवल्लयैकार्थ्यावगमात्तत्र च “सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्” इति श्रवणाच्च “पद्मकोशप्रतीकाशम्” “पुरुष एवेदं सर्व"मिति नारायणानुवाकसुबालोपनिषदैकार्थ्यावगमाच्च परमपुरुषपरत्वसिद्धिः । ब्रह्मरुद्रयोर्नारायणसृज्यत्ववादिश्रुतिविरोधश्चान्यथा स्यात्, अतस्सर्वज्ञशब्देन सर्वेषां धर्मिणां ज्ञातृत्वमुक्तम्, सर्वविच्छब्दस्तु तत्तद्वस्तुगतसर्वप्रकारवेदित्वपरः, धर्मिमात्रज्ञानादपि तद्गतप्रकारकार्त्स्न्यज्ञानं हि ज्ञातुः प्रकर्षापादकम्, अक्षरसंज्ञवृक्षमात्रज्ञानं हि सर्वेषां सम्भवति, सकृच्चक्षुस्संप्रयोग एव तद्गतशाखापत्रफलसङ्खयादिज्ञानं ह्यक्षहृदयाभिज्ञस्यैव समभवति । यद्वा सर्वं विन्दन्तीति सर्ववित्, सर्वस्वामीत्यर्थः । लब्धधनो हि धनस्वामी भवति, अतस्सर्वज्ञत्वादिगुणको निमित्तोपादानभूतः सर्वस्मात्परः परमपुरुष एव ॥
॥ रूपोपन्यासाच्च ॥ सर्वभूतान्तरात्मन इति
सर्वभूतान्तरात्मसम्बन्धितयोच्यमानमीदृशं रूपं परमात्मन एव सम्भवतीत्यर्थः ॥
निर्विशेषवादे तावदिदं सूत्रत्रयमनुपपन्नम्; अथावरूपाणामप्यदृश्यत्वादीनां मुखत्वव्यवहारात् सर्वज्ञत्वादिधर्मव्यवहाराश्च प्रधमसूत्रं विरुद्धम् व्यावर्तकधर्मापारमार्थ्ये व्यावृत्त्यपारमार्थ्यात् भूतयोन्यक्षरस्य प्रधानव्यावृत्त्यसिद्धेश्च भेदमिथ्यात्वे भेदव्यपदेशेन परमात्मत्वसाधनमप्ययुक्तम् शरीराद्विशिनष्टि प्रधानाद्भेदं व्यपदिशतीति द्वितीयसूत्रार्थवर्णनमन्यनुचितम्, विशेषणभेदव्यपदेशयोरेकैकस्यैव शारीरप्रधानव्यावर्त्तनक्षमत्वात् । दिव्यात्वामूर्त्तत्वपुरुषत्वादयो हि कार्त्स्न्ेन प्रधानस्यापि न सम्भवन्ति, अक्षरात्परतः पर इति जीवव्यावृत्तिरपि हि प्रतीयते, स कारणं करणाधिपाधिप इतिवत् । अक्षरात्परो हि जीवः । विशेषणशब्दस्य दिव्यो ह्यमूर्त्त इति श्लोकोक्तार्थमात्रविषयत्वं चायुक्तम्, सङ्कोचकाभावात् । एवविज्ञानेन सर्वविज्ञानाग्निधानादीनां भूतयोन्यक्षस्य चिदचिद्य्वावृत्तिफलकत्वाद्विशेषणशब्देन वक्तुं युक्तम्, न तु धर्मशब्देन, न ह्येकविज्ञानेन सर्वविज्ञानाभिधानं नाम परमात्मगतो धर्मः, अतस्तादृशं विशेषणजातं द्वितीयसूत्रेण विवक्षितं भवितुमर्हति, न तु प्रथमेन । रूपोपन्यासाच्चेतिसूत्रस्य पुरुष एवेदमितिवाक्यप्रतिपन्नसर्वात्मकत्वप्रतिपादनपरत्ववर्णनमनुपपन्नम्, पूर्वसूत्रयोरन्यतरविवक्षितैकविज्ञाननिबन्धनसर्वविज्ञानान्तर्गतत्वात्सर्वात्मभावस्य । न च त्रैलोक्यशरीरहिरण्यगर्भोत्पत्तिः “अग्निर्मूर्धे"त्यादिवाक्यप्रतिपाद्या, अजायतेत्यध्याहारप्रसङ्गात् । “एतस्माज्जायते प्राणः” “तस्मादग्निः समिधश्च” इति प्रकरणवशादध्याहार इति चेन्न; अवान्तरप्रकरणस्य भूतयोन्यक्षरविषयमहाप्रकरणविरोधे दुर्बलत्वात्, सर्वभूतान्तरात्मत्वलिङ्गबाधितत्वाच्च; तद्धि परमकारणस्य लिङ्गम्, न तु कार्यस्य न च कारणस्य विग्रहवत्त्वानुपत्त्या हिरण्यगर्भपरत्वाश्रयणम्, अनन्तरं वैश्वानराधिकरण एव त्रैलोक्यशरीरकस्य परमात्मताया उपपेदयिष्यमाणत्वात् । “यस्याग्निरास्यं द्यौर्मूर्द्धा” इत्यादिस्मृतिप्रसिद्धं च भगवतः त्रैलोक्यशरीरत्वम् । यदि क्वचिद्धिरण्यगभर्स्य त्रैलोक्यशरीरत्वमवगम्यते तदानीमपि परमात्मात्मकत्वेनैव तस्य तथात्वं वर्णनीयम्, “सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः” इति चतुर्मुखस्य भगवदनुप्रवेशतदन्तरात्मकत्वावगमात्, अतः परमात्मन एव त्रैलोक्यशरीरत्वम् अग्निर्मूर्धेत्यादिनाऽङिधीयते, अतः सूत्राणां यथोक्त एवार्थः ॥ इत्यदृश्यत्वादिगुणकाधिकरणम् ॥ एवं
त्रैलोक्यशरीरत्वेन परमात्मत्वे साधिते तादृशशरीरत्वं तद्य्वतिरिक्तस्यापि श्रूयत इति शङ्कयोत्थानात् सङ्गतिः । ॥ वैश्वानरस्साधारणशब्दविशेषात् ॥