15 अन्तर्याम्यधिकरणम्

॥ अन्तर्याम्यधिदैवरधिलोकादिषु तद्धर्मव्यपदेशात् ॥ विषयं शोधयति काण्वा इत्यादिना । वेदयज्ञशब्दौ तदभिमानिदेवताविशेषपरौ, गुणक्रियादेरद्रव्यतया शरीरत्वायोगात् । अद्रव्यस्यापि शरीरत्वमनेनैव प्रयोगेण कल्प्यतामिति चेन्न, अनन्यथासिद्धस्यैव प्रयोगस्य कल्पकत्वात् अभिमानिदेवतापरत्वेनापि द्रव्यपरत्वमेवोचितमिति । संशयमाह - तत्रेति । प्रत्यगात्मशब्दः ऐश्वर्ययोगविशेषनिमित्तप्रकर्षादुत्कृष्टजीवपरः, समस्तचेतनाचेतनान्तर्यामित्वेन श्रूयमाणस्यापि कथं जीवत्वशङ्कोत्थानम् ? उच्यते; “द्रष्टा श्रोता” इत्या

दिशब्देन करणायत्तमानवत्ताप्रतीतिबलादमृतत्वादिलिङ्गानाम् “आत्मनि तिष्ठन्” इत्यदिव्यतिरेकनिर्देशस्य नियमनस्य चामुख्यत्वशङ्कयाधिकरणोत्थानमिति । किमन्तर्यामी जीवः? उत परमात्मा ? इति प्रथमविचारः । तदर्थम् “आत्मनि तिष्ठन्” इत्यादिकं किं मुख्यम् ? उतामुख्यम् ? तदर्थं द्रष्टृत्वं किं जीवस्यैव ? उतान्तर्यामिणोऽपि सम्भवति ? तदर्थं “द्रष्टा श्रोता” इति किं करणायत्तज्ञानत्वमुच्यते, उत रूपादिसाक्षात्कारः? इति । तदर्थं रूपादिसाक्षात्कर्त्ता चेत् द्रष्ट्रन्तरनिषेधः किं नोपपद्यते, उतोपपद्यते ? इति विचारः । नोपपद्यत इति पूर्वः पक्षः । उपपद्यत इति सिद्धान्तः । यदा निर्षधोऽनुपपन्नः तदा द्रष्टृत्वादिकं करणायत्तज्ञानवत्त्वमिति तस्य जीवात्मन्येव सम्भवादात्मनि स्थित्यादिकममुख्यमित्यन्तर्यामी जीवस्यात् । यदा निषेध उपपन्नः तदा रूपादिसाक्षात्काररूपद्रष्टृत्वादेः परमात्मनि सम्भवेनात्मनि स्थित्यादीनां मुख्यतया नेयत्वादन्तर्यामी परमात्मेति फलितं स्यात् । कुत इति - प्रत्यगात्मनोऽप्यन्तर्यामित्वेन श्रुतस्य कथं प्रत्यगात्मत्वमिति भावः । तत्र जीवत्वे हेतुमाह- वाक्यशेषे इत्यादिना । ज्ञानस्य करणाधीनत्वोक्तया नियमनस्य च करणाधीनत्वमर्थसिद्धम्, परप्रेरणरूपस्य सङ्कल्पस्य मनःकरणकत्वदर्शनात् करणायत्तं ज्ञानमस्तु, ततः किमन्तर्यामिणो जीवत्वस्येत्यत आह - एवं द्रष्टुरेवेति । तर्हि रूपादिसाक्षात्कार एव द्रष्टृशब्दप्रवृत्तिनिमित्तमस्तु, न करणायात्तं ज्ञानमित्यत्राह - नान्योतोऽस्तीति । रूपादिसाक्षात्कारस्य जीवपरयोः साधारणत्वात्स न निषेद्धुं शक्यते, करणायत्तज्ञानवत्त्वन्तु जीवस्यैवेति तदन्यस्य निषेद्धुं शक्यत्वमित्यर्थः । प्रतिपर्यायं यच्छब्दावृत्त्या चान्तर्यामिबहुत्वमवगम्यते । “आत्मनि तिष्ठन्” इति व्यपदेशः खे महिम्नि स्थित इतिवद्भवति । तदन्तरत्वं तन्नियन्तृत्वं च “आत्मेश्वर"मितिवद्य्वापकनियामकवस्त्वन्तराभावाभिप्रायेणोच्यते । “यमात्मा न वेद” इति संसृष्टेन निष्कृष्टस्वरूपाज्ञानमुच्यत इति नेयम् । यत्तु जीवविशेषान् प्रत्यन्तर्यामित्वं तत्तदवेद्यत्वादिकम्, तदष्टमूर्त्यादेरिव तत्तद्गणाध्यक्षाणां जीवानां तत्तन्नियन्तृत्वेन सम्भवति । यद्वा आदित्यचन्द्रशब्दौ मण्डलपरौ । सर्वेषु देवेष्वित्यादिशब्दाश्च शरीरमात्रपराः । स त आत्मेति निर्देशः शिलापुत्रस्य शरीरमितिवत्स्यात्, स इतिपदं जात्यभिप्रायम्, तज्जातीयस्त्वमित्यर्थः । उपक्रमे च “य इमं च लोकं परं च लोक"मित्यत्र यच्छब्दो जात्यभिप्राय इति भावः।

एवं प्राप्त इति - सूत्रे अधिदैवाधिलोकादिपदचिह्नितेषु वाक्येष्वित्यनेन सर्वसूत्रेषु तत्तत्पदचिह्नितवाक्यप्रतिपाद्यत्वं विवक्षितमिति गम्यते । अधिदैवाधिलोकपदद्वयोपादानस्य प्रयोजनमाह - काण्वेति । ततः किमित्यत्राह - तदेवमिति । माध्यन्दिनपाठे अधिलोकाद्यधिकपर्यायश्रवणेन काण्वमाध्यन्दिनयोर्विषयभेदशङ्कायामुभयसाधारणबहुपर्यायप्रदर्शनार्थेनाधिदैवशब्देनोभयत्रैकविषयत्वप्रत्यभिज्ञानार्थं न्यूनपर्यायेऽपि पाठे “अनुक्तमन्यतो ग्राह्यम्” इतिन्यायेन अधिकपर्यायपाठार्थविवक्षाज्ञापनार्थं चोभयपदोपादानमित्यर्थः । एकस्यैव सतः सर्वनियमनं कथमवकतमित्यत्राह - तथा हीति । “यः पृथिव्याम्” इत्यादिकं तस्य प्रश्नस्योत्तरमस्तु, ततः किमित्यत्राह - तदेतदिति । नियाम्यापरिज्ञाने मोघसङ्कल्पत्वे च सर्वनियमनायोगात् सर्वज्ञात्सत्यसङ्कल्पादित्युक्तम् । सुबालोपनिषदि समानप्रकरणे “पुरुष एवेदं सवर्"मित्युक्तत्वादाह - पुरुषोत्तमादिति । पुरुषोत्तमस्यैव सवर्नियमनादिसम्भवे श्रुत्यन्तराणि दर्शयति - तथा हीति । परमात्मन एवेति - अत्र सर्वनियन्तृत्वादितरेषां नियाम्यकोटिनिवेशादस्यैवेत्यवधारणं फलितमिति भावः । एतद्वैशद्याय समानप्रकरणोक्तिं दर्शयति- तथा सुबालोपनिषदीति । सूत्रविवक्षितं हेत्वन्तरमाह-

स्वाभाविकं चेति । पूर्वपक्षयुक्तिं परिजिहीर्षन् दर्शनश्रवणादिशब्दानां करणायत्तज्ञानवाचित्वं किमार्थम्, उत शाब्दम् ? इति विकल्पमभिप्रेत्य प्रथमं शिरः प्रतिवदति - न च परस्येति । “अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो विज्ञाता” इतिवाक्ये आत्मसाक्षात्कारतदुपायभूतश्रवणमनननिदिध्यासनकर्तृत्वं हि प्रतीयते, न तु रूपादिसाक्षात्कार इति शङ्कां परिहर्त्तुं परस्यात्मन इत्युक्तम् । अत्रायमभिप्रायः, श्रुत्यन्तरेषु “न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुयाः न मतेर्मन्तारं मन्वीथाः न विज्ञातेर्विज्ञातारं विजानीयाः” इति “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः” इत्यादिवाक्यैः श्रवणमननादिकर्तृत्वं परस्य प्रतिषिद्धम्, तत्कर्मत्वञ्च श्रुतम्, तस्मादिह द्रष्टा श्रोता मन्ता विज्ञातेतिप्रतीयमानं परस्यात्मनः श्रवणादिकर्तृत्वं तत्प्रतिषेधकश्रुतिविरुद्धम् । रूपादिसाक्षात्कर्तृत्वन्तु “पश्यत्यचक्षुस्स शृणोत्यकर्णः” इत्यादिश्रुत्यन्तरावगतम्; अतः श्रवणादिकर्तृत्वप्रतिषेधकश्रुतिविरोधात् रूपादिसाक्षात्कारविधायकश्रुत्यन्तरानुरोधाच्च इह श्रूयमाणा द्रष्ट्रादिशब्दाश्च रूपादिसाक्षात्कारवाचकाः, न तु श्रवणमननध्यानतत्साध्यदर्शनपरा इति । द्रष्टृत्वादिकं न करणायत्तमिति रूपादिभिरपरोक्षव्यवहारानुगुणस्सम्बन्धो न चक्षुराद्यपेक्ष इत्यर्थः । आदिशब्देन श्रोतृत्वादिकं कर्मेन्द्रियकार्यगन्तृत्वादिकं च विवक्षितम्, करणशब्दश्च ज्ञानकर्मेन्द्रियसाधारणः, किं तर्हीत्याकाङ्क्षायामाह- अपि त्विति । स्वभावत इति - द्रष्टृत्वादिकमित्यन्वयः । स्वभावशब्दो धर्मपरः । स्वरूपस्वभावशब्दयोः समभिव्याहारदर्शनात्, एवकारश्चक्षुरादिकरणापेक्षां योगिप्रत्यक्षहेतुभूतप्रकृष्टादृष्टापेक्षाञ्च व्यावत्तर्यति । अदृष्टेन्द्रियनिरपेक्षधर्मभूतज्ञानेनैव भवतीत्यर्थः । परमात्मेच्छासापेक्षमुक्तनित्यसिद्धज्ञानव्यावृत्तिं दर्शयन् हेतुमाह - सर्वज्ञत्वादिति । स्वत एव सर्वज्ञत्वादित्यन्वयः । स्वत एवेति स्वशब्दः स्वरूपपरः, सत्ताप्रयुक्तत्वादित्यर्थः । एवकारः स्वव्यतिरिक्तचेतनान्तरसङ्कल्पादृष्टचक्षुरादिव्युदासपरः । यद्वा न

करणायत्तं द्रष्टृत्वादिकम्, अपि तु स्वभावत एवेति, रूपादिसाक्षात्काराश्रयत्वं न करणापेक्षम्, अपि तु सत्ताप्रयुक्तमित्यर्थः । कुत इत्यत्राह - स्वत एव सर्वज्ञत्वादिति । करणानपेक्षसत्ताप्रयुक्तसार्वज्ञ्यवत्त्वादित्यर्थः । सामान्येनेश्वरज्ञानमात्रस्य हेतुमात्रनिरपेक्षत्वाद्रूपादिविषयज्ञानविशेषोऽपि अदुष्टेर्न्दियरूपहेतुविशेषनिरपेक्ष इति यावत् । सर्वस्य ब्रह्मात्मकत्वात् त्वं च तदात्मक इतिवद्विवक्षितविशेषसिद्धये सामान्याकारयोगस्य हेतुतयोपन्यासः । गृहीतृत्वगन्तृत्वादिषु कर्मेन्द्रियनैरपेक्ष्यसिध्द्यर्थमाह- सत्यसङ्कल्पत्वाच्च स्वत एवेति । तत्र प्रमाणं दर्शयति - तथा चेति । द्रष्टा श्रोतेत्यत्र उपाध्यनुक्तिपूर्वकदर्शनादिश्रवणात् स्वतस्त्वं सिद्धम्, निरुपाधिकत्वकण्ठोक्तिश्चास्तीति चार्थः । यद्वा न केवलं “यस्सर्वज्ञः” “सत्यसङ्कल्पः” इति सामान्यश्रुत्या तत्सिद्धिः, विशेषविषयश्रुतिश्चास्तीति चार्थः । यद्वा “स्वाभाविकी ज्ञानबलक्रिया चे"ति श्रुत्या करणनिषेधोऽर्थसिद्धः, तस्य स्वाभाविकत्वोक्तिबलात्तद्विशेषभूतदर्शनश्रवणादेः करणनैरपेक्ष्यमपि सामान्यतस्सिद्धम्, तदुभयं कण्ठोक्तं चेत्यर्थः । जवनःखटिति दूरस्थसम्बन्धक्षमः, अतो विभुत्वाविरोधः, एवं दर्शनश्रवणादेरर्श्रवशात् करणाधीनत्वकल्पनं श्रुतिविरुद्धमित्युक्तम् । अथाचक्षुः पश्यतीति व्याहतम्, दर्शनश्रवणादिशब्दानां करणायत्तज्ञानवाचितां निषेधति - न च दर्शनेति । सर्वप्रयोगानुगतं प्रवृत्तिनिमित्तमाह - अपि त्विति । एवञ्च सति द्रष्टा श्रोतेति रूपशब्दयोस्साक्षात्कर्त्तेत्यर्थः । मन्ताये मानसमननाख्यविचारविषयतास्तेषां साक्षात्कर्ता । विज्ञाताबुध्याध्यवसेया ये तेषां साक्षात्कर्त्तेत्यर्थः । तत्तदिन्द्रियविषयसाक्षात्कारपरत्वात् प्रकरणस्य । चक्षुरादिबाह्यकरणमनोबुद्धिरूपान्तःकरणकृत्यविशेषास्साधारणाकारग्रहणविचाराध्वसायरूपाः, तदाश्रयो जीव इति च मोक्षधर्मेऽऽभिहितम् यथा “चक्षुरालोकनायैव संशयं कुरुते मनः । बुद्धिरध्यवसायाय साक्षी क्षेत्रज्ञ उच्यते” इति । संसारिचेतनज्ञानानां प्रतिनियतकरणसापेक्षत्वं प्रमाणाप्रमाणरूपत्वं परोक्षापरोक्षरूपत्वं च भवति, परमात्मनस्तु तत्तत्करणादिनिरपेक्षाणि तत्तत्करणतत्तद्विषयादिसर्वपदार्थगोचराणि सम्यङ्निश्चयरूपाण्यपरोक्षात्मकानि ज्ञानानि भवन्तीति वेषम्यम् । करणाधीनत्वं शाब्दं माभूत्, तथापि व्याप्तिबलात्परमात्मनोपि दर्शनश्रवणादयः करणैर्विना नोपपद्यन्त इति सिंहावलोकितकेनाशङ्कय दर्शनादीनां करणापेक्षायाः कम्रवश्यत्वेन सोपाधिकत्वान्न व्याप्तिरित्यभिप्रयन्नाह - स चेति । कर्मवश्यस्यैव करणापेक्षा, न त्वकर्मवश्यस्येत्यर्थः । उपाधेयस्सापेक्षानुगतत्वं दर्शितं कर्मतिरोहितेति । परस्य त्विति - तुशब्दोऽकर्मवश्यत्वरूपवैलक्षण्यपरः । तेनापक्षवृत्तित्वं दर्शितं भवति । तर्हि द्रष्ट्रन्तरनिषेधः कथमुपपद्यत इत्यत्राह - नान्योत इति । तदेव विवृणोति - यं पृथिवीत्यादिना । निगमय्येति - अदृष्टो द्रष्टापृथिव्यादिनियाम्यादृष्टस्तत्तन्नियन्तृरूपद्रष्टेत्युक्तार्थनिगमनमित्यर्थः । “यः पृथिव्याम्” इत्यादिपर्यायेषु द्रष्टृत्वमार्थम्, निगमनवाक्ये नियन्तृत्वमार्थं गर्भितम् । विशिष्टस्य प्रकृतत्वे सति सामान्यनिर्देशावगतोऽपि इतरनिषेधः प्रकृताकारविशिष्टेतरविषयो दृष्टः, यथा अस्मिन् ग्रामे देवदत्त एव पुरुषे नाऽन्य इत्युक्ते न पुरुषमात्रं निषिध्यते, किन्तु नैवंविधोऽन्यः पुरुषोस्तीति बुद्धित्वस्वातन्त्र्ादिविशिष्टपुरुषान्तरं निषिध्यते, अन्यथा प्रमाणविरोधात्, अतः “नान्योतोऽस्ति द्रष्टे” त्यात्रातश्शब्दस्वारस्यवशात् प्रकृतयथोक्तलक्षणं द्रष्ट्रन्तरं निषिध्यते; ततश्च परमात्मनाप्यवेद्यस्तदन्तरस्तन्नियामकः कोऽपि द्रष्टा नास्तीत्यर्थस्यात् । अल्पादाभावात् व्यतिरेकनिर्देशस्वारस्यसिद्धिमाह - एष त इति । एतत्पादाद्याधिकरणे “शब्दविशेषात्” इति व्यतिरेकनिर्देशो हेतुतयोक्तः, तस्य प्रदर्शनार्थत्वात् तदुपजीवनेन व्यतिरेकनिर्देशो हेतुरुक्तः । “एष ते” इति सर्वपर्यायानुवृत्तषष्ठीनिर्देशोऽत्र विवक्षितः, पर्यायविशेषस्थसप्तमीनिर्देशस्तु “उभयेऽपी “तिसूत्रविवक्षित इति विशेषः ॥

॥ न च स्मार्त्तमतद्धर्माभिलापाच्छारीरश्च ॥ अक्षरार्थमाह - स्मार्त्तमित्यादिना । के पुनस्तदसम्भाविता धर्मा

इत्यत्राह - स्वभावत एवेति । प्रधानस्यान्तर्यामित्वप्रसङ्गाभावेऽपि किमर्थं सूत्रेण तन्निरसनमित्यत्राह - एतदुक्तमिति । पूर्वसूत्रे तद्धर्मा उक्ताः, अस्मिन् सूत्रेऽपि प्रकृतिपुरुषयोरसम्भाविता धर्मा उक्ता सति सूत्रस्य पौनरुक्तयमाशङ्कय परिहरति - अमीषामिति ॥

निरपेक्षं चेति - पूर्वं व्यतिरेकनिर्देशसापेक्षहेतुरुक्तः, अयं तु वक्ष्यमाणो निरपेक्ष इत्यर्थः ।

॥ उभयेपि हि भेदेनैनमधीयते ॥ अत्रैकैकवस्तुषु परिपूर्णत्वेन नियन्तृतया स्थितिज्ञापनार्थं यच्छब्दावृत्तिः, “स ते” इति व्यतिरेकनिर्देशो देवादिशब्दानां शरीरमापिरत्वं चास्वरसम्, तच्चापवादाभावेऽनुपपन्नम् । आत्मशब्दस्य स्ववाचित्वे तिष्ठन्नित्यादयोऽप्यस्वरसाः । “यो विज्ञाने तिष्ठन्” इति काण्वपाठैकार्थ्यादात्मशब्दस्य स्ववाचित्वमयुक्तम् प्रश्नवाक्यस्य चास्वारस्यमिति भिदा । यच्छब्दावृत्तिरेकतवेऽपि सम्भवतीति भावोऽनुसन्धेयः, हिर्हेतौ । न हि भेदशब्दोऽत्र श्रूयत इत्यत्राह - परमात्मनियाम्यतयेति । भेदकधर्मश्रवणात् भेदेन व्यपदेशस्सिद्ध इत्यर्थः । न केवलं व्यतिरेकनिर्देशादीनामपवादाभावः, किन्तु तदस्वारस्यापवादश्चास्तीति भावः । सुबालोपनिषदुक्तविशेषणैस्तदेकविषयतां स्मारयन्नधिकरणार्थमुपसंहरति - अत इति ।

अस्मिन्नधिकरणे कैश्चिच्चतुर्धा विचारो दर्शितः, पृथिव्याद्यभिमानिदेवताविशेषो वा योगसिद्धो वा परमात्मा वा अर्थान्तरं वा इति । तत्रार्थान्तरमिति पक्षस्त्वसम्भवनिरस्तः । ऐश्वर्यविशेषयोगस्य प्रकृष्टादृष्टजन्यत्वाविशेषाद्देवतास्वेव योगसम्भवाच्च शिरोऽन्तरभेदकल्पनं विफलम्, कार्यकरणवत्त्वं जीवत्वे हेतुतयोक्तम् तदयुक्तम्; पृथिव्यादिष्वेकैकस्य

शरीरत्वावगमात् चक्षुरादीनां प्रत्येकं शरीरत्वावगमाच्च । तत्कृतजीवत्वशङ्काया आनन्दमयाधिकरणे व्युदस्तत्वाच्च तेन जीवत्वशङ्कानुदयात् । भूतेन्द्रियानां सङ्घातरूपेण शरीरेण उपकरणोपकरणित्वलक्षण सम्बन्धो हि जीवत्वसाधकः, अदृष्टत्वश्रवणेन प्रधानत्वशङ्काव्युदासपरं द्वितीयं सूत्रं व्याख्यातम् । तच्चायुक्तम्; “अदृष्टो द्रष्टा अश्रुतः श्रोता” इत्यादिवाक्ये अदृष्टाश्रुतादिपदानां द्रष्टृश्रोत्रादिपदान्तरितानामेव श्रूयमाणतया प्रधानपरत्वशङ्कानुदयात् । न ह्येकपदश्रवणेन वाक्यार्थनिर्धारणं पूर्वपक्षेपि घटते । प्रधानस्य सर्वविकारकारणत्वेऽपि नियन्तृत्वमुपचारतोऽपि न शक्यशङ्कम्, न हि घटादीन्प्रति मृत्तिकायाः नियन्तृत्वम्, अतः स्मार्त्तोपन्यासो दृष्टान्ततयैव घटते; अत एव “न च स्मार्त्तमतद्धर्माभिलापाच्छारीरश्च” इत्येवमन्तमेकं सूत्रम्, अन्यथाऽर्थवैघट्यात् । वैघट्यं च प्रधानशङ्कानुदय एव । पृथिव्यादिनियन्तॄणां जीवानामिव ईश्वरस्यापि सर्वनियन्तुर्नियन्त्रन्तरापेक्षया अनवस्थायां प्रसक्तायां नियन्तृनियाम्ययोरभेदेन तत्परिहार इत्यपि दुरुक्तम्; अनवस्थाप्रसङ्गाभावात् । युक्तया कल्पनायां ह्यनवस्थानम्, न श्रुत्याऽभ्युपगमे । श्रुतिश्च “न तत्समश्चाभ्यधिकश्च दृश्यते” इत्यादिर्नियन्त्रन्तरं प्रतिषेधति । न चानवस्थाया भेदप्रयुक्तत्वादभेदेन तत्परिहार इति वाच्यम्, श्रुतभेदनिबन्धनचोद्यस्य श्रुतविरुद्धाभेदकल्पनया परिहारानुपपत्तेः । कयोरभेदः ? न तावत्पृथिव्यादेः परमात्मनश्च, जडाजडयोरैक्याभावात् । नापि जीवेन, पृथिव्यादिवन्नियाम्यतयाऽवगतस्य तस्य तेनैव न्यायेन परमात्मनैक्यासम्भवात् पक्षपातस्याहेतुकत्वाच्च, परमात्मसामानाधिकरण्यभेदनिषेधौ ह्युभयत्र समानौ । किञ्च पृथिव्यादेः स्वव्यतिरिक्तज्ञानप्रकाश्यत्वे ज्ञानस्यापि स्वव्यतिरिक्तज्ञानप्रकाश्यत्वेनानवस्थाप्रसङ्गात् तत्परिहारार्थं जडाजडयोरैक्यं किं न स्यात् ? ज्ञानस्य स्वप्रकाशत्वेनानवस्थानुदयात् मिथ्यासत्यजडाजडयोस्तयोः स्वभावविरोधाच्चेति चेत् तर्हि सर्वनियन्तुरीश्वरस्यापि आत्मेश्वरतया नियन्त्रन्तराभावेन अनवस्थित्यभावाद्धेयार्हतदनर्हयोस्स्वभावविरोधाच्च न जीवेश्वरयोरेकत्वं युक्तम् । धारणादावप्ययमनवस्थापरिहारोऽनुसन्धेयः । किञ्च भेदो हि प्रतीयते, कथमभेदेनानवस्थापरिहारः ? इत्थम्; प्रतीयमानोऽपि भेदो मिथ्या, न च जडाजडयोरैक्यप्रसङ्गः, नियाम्यपृथिव्यादिमिथ्यात्वाद्धि पृथिव्यादेः परस्य च भेदमिथ्यात्वम्, जीवपरयोस्तु स्वरूपैक्यात् भेदमिथ्यात्वम्, अत एव च नानवस्थेति चेत् स्यादेवानवस्था, जीवपरैक्येऽपि पृथिव्यादिकं प्रति जीवस्येव

तदेकीभूतस्यापि ब्रह्मणो नियन्त्रन्तराकाङ्क्षाया निवारकाभावात् यथा पृथिव्यादेर्जीवस्य च नियन्तृनियाम्यभावमिथ्यात्वेऽपि तस्येश्वरं प्रति नियाम्यत्वमपारमार्थिकं सम्भवति, तथा जीवं प्रति नियन्तुः परमात्मनोऽप्यपरमार्थनियन्तृत्वारेवान्यं प्रत्यपरमार्थभूतनियाम्यत्वशङ्कां को वारयेत् ? नियन्त्रन्तरनिषेधकं प्रमाणं निवारकमिति चेत् यदि प्रमाणबलादनवस्थापरिहारः तर्हि नियन्तृनियाम्यभावपारमार्थ्यमाश्रित्यैव सा परिह्नियताम्, प्रमाणान्तराबाधेन निर्वाहे सम्भवति बाधाश्रयणायोगात्; अत एव “नान्योऽतोऽस्ति द्रष्टे"त्यपि परमात्मैवाविद्याकल्पितभेदेन नियन्ता नियाम्यश्च भवतीति न पारमार्थिकद्रष्ट्रन्तरनिषेधपरम्, किन्तु नियन्तृरूपद्रष्ट्रन्तरनिवारणपरं विशिष्टे प्रकृते सति इतरनिषेधस्य तत्तुल्येतरविषयत्वदर्शनात् कथं प्रमाणान्तराप्राप्तं नियन्तृनियाम्यभावादिकं विधाय शास्त्रं तदेव प्रतिषेद्धमलम् ? कथमेकस्मिन् शरीरे प्रत्यगात्मद्वित्वमिति चेत् काऽत्रानुपपत्तिः ? बहुत्वे प्रत्यक्तवं हीयेतेति चेत् किं प्रत्यगात्मद्वित्वमात्रेऽनुपपत्तिः, उतैकस्मिन् शरीरे ? न प्रथमः, सर्वेषामात्मनामहमिति प्रत्यक्तयैव स्वात्मानुभवदर्शनात् । न द्वितीयः, एकस्मिन् शरीरे चक्षुराद्यभिमानिनां देवानां प्राणसंवादे “अहं श्रेयसे विवदमाना” इत्यनेकेषां प्रत्यक्तवेन स्वात्मानुभवदर्शनात् । तत्र प्रत्यक्तवमेव सत्यम् भेदो मिथ्येति चेत् भेदस्सत्यः, प्रत्यक्तवं मिथ्या किं न स्यात् ? उभयोरपि ह्यबाधस्तुल्यः, “नेह नानास्ती “त्यादिकं भेदबाधकमिति चेत् “तत्त्वमसि” “अयमात्मा” इत्यादिकं प्रत्यक्तवबाधकं किं न स्यात्, परागर्थो हीदम्बुद्धिगोचरः । अयमिति निर्देशः प्रत्यक्तवाविरोधी, प्रत्यक्तवस्य प्रमाणसिद्धत्वादिति चेत् “नेह नाने"त्यादिकमपि तत एव प्रमाणवशादात्मबहुत्वाविरोधि; अतो बहुत्वस्य पराक्तवव्याप्यत्वाभावात् व्याप्तिशून्यस्तर्काभासोऽयम्, अतोऽन्तर्यामिविद्याया यथोक्त एवार्थः । इत्यन्तर्याम्यधिकरणम् ।

द्रष्टृत्वादिचेतनधर्मैर्नियन्तृत्वादिपरमात्मधर्मैश्च सहितेन “अदृष्टो द्रष्टा” इत्याद्यक्तेनादृश्यत्वेन परमात्मपरत्वमुक्तं पूर्वाधिकरणे । चेतनधर्मादिरहितकेवलादृश्यत्वप्रतिपादकं वाक्यं प्रधानपरमेव भवितुमर्हति, रूपादिमत्पृथिव्यादिगतदृश्यत्वनिषेधस्य धर्म्यन्तरप्रतिपत्तौ गोरवेण पृथिव्यादिकारणावस्थप्रधानोपस्थापकत्वादिति शङ्कयोत्थानात्सङ्गतिः, इयमुत्तरत्र पूर्वपक्षोपन्यासे व्यक्तीभविष्यति ॥