14 अन्तराधिकरणम्

॥ अन्तर उपपत्तेः ॥ अत्र सङ्गतिः पूर्वोक्तया दिशा सिद्धेति न कण्ठोक्ता । “गूढोत्मा न प्रकाशते” “तं दुर्दर्शं गूढमनुप्रविष्टम्” “क इत्था वेद” इति च परमात्मा दुर्दर्शश्चेत् सुदर्शनतया प्रसिद्धत्वेन निर्दिष्टो न परमात्मा भवितुमर्हतीति शङ्कया सङ्गतिः । विषयादिकं दर्शयति - इदमित्यादि । किमक्ष्याधारतया निर्दिश्यमानः प्रतिबिम्बचक्षुरधिष्ठातृजीवानामन्यतमः, उत परमात्मा ? इति । तदर्थं किममृदत्वादयो यथाकथञ्चिन्नेयाः, उत मुख्याः ? “कं ब्रह्मे"ति प्रकृतमेव ब्रह्मेह किमुपासनस्थानगुणविधानार्थं निर्दिश्यते, उत न ? इति । किं मध्यस्थाग्निविद्यया ब्रह्मप्रकरणं विच्छिन्नम्, उत न ? किमग्निविद्या ब्रह्मविद्याङ्गम्, उत न ? किमग्निविद्याफलं ब्रह्मविद्याङ्गत्वानुगुणम्, उत न ? इति विचारः । यदाननुगुणं तदाग्निविद्यायाः ब्रह्मविद्याङ्गत्वभावेन ब्रह्मप्रकरणविच्छेदेन पूर्वप्रकृतब्रह्मण इह परामर्शाभावेन अमृतत्वादीनाममुख्यतया प्रतिबिम्बादिष्वन्यतम इति फलितम् । सिद्धान्ते यदा त्वनुगुणं तदा अङ्गत्वेनाग्निविद्यायाः ब्रह्मविद्याप्रकरणविच्छेदकत्वाभावेन प्रकृतब्रह्मण इह परामर्शसम्भवेनामृतत्वादीनां च स्वतः प्राप्तमुख्यत्वसिद्धेः परमात्मेति फलितम् । अपरोक्षप्रसिद्धिर्यौक्तिकप्रसिद्धिः श्रुतिप्रसिद्धिश्चेति यथाक्रमं प्रतिबिम्बजीवादित्यानामनुसन्धेयाः । य एष इतिपदाभ्यां प्रसिद्धवन्निर्देशः । दृश्यत इत्यपरोक्षाभिधानम् । अनेन सङ्गतिरभिप्रेता । सन्निधानात्सन्निधानावगमात् । जीवस्य देहसन्निधेश्चक्षुष्यवगमादित्यर्थः । तदेव विवृणोति - उन्मीलितं हीति । अस्मिन् कर्मणि अस्य सामर्थ्यं दृष्टमित्युक्ते यथा तत्कर्म तत्सामर्थ्यसूचकमित्युक्तं भवति, एवमक्षिणि दृश्यत इत्युक्ते देहे चीवावस्थानं चक्षुरधीननिश्चयमित्युक्तं भवतीत्यर्थः । उपक्रमानुगुणमन्यन्नेयम् । तस्मादमृतत्वसंयद्वामत्वाद्युक्तिः स्तुतिरूपा । “एष आत्मेति” इतीतिकरणं चार्थात्तात्पर्यद्योतकम् । देवताविशेषः- आदित्यः । एष्वेव -नतु परमात्मनि । राद्धान्ते एषां गुणानामिति - निरुपाधिका अमृतत्वादयो न जीवादिषुसम्भवतीत्यर्थः । एषामिति । उपक्रमस्थमक लिङ्गमुपरितनानेकगुणविरोधे दुर्बलम्, अत एव च नामृतत्वाद्युक्तिस्तुरिति भावः । “इति होवाच इत्यब्रवी” दित्यादिष्वितिकरणमर्थपरमेव दृष्टमिति चानुसन्धेयम् । उपपत्तेः अक्ष्यन्तरः परमात्मेत्यन्वयः । “तद्यद्यप्यस्मिन् सर्पिवोदकं वा सिञ्चति वत्मर्नीव गच्छति” इत्यर्थवादोक्तं सप्रिरुद्रकादिनिर्लेपत्वं हेतुं कृत्वा निर्लेपस्य परस्य निर्लेपे चक्षुषि स्थितिरुपपन्नेति वक्तुमयुक्तम्, काचादिभिस्सलेपे चक्षुषि निर्दोषस्य परस्य स्थित्यनुपपत्तेश्च वक्तुं शक्यत्वात् ॥

॥ स्थानादिव्यपदेशाच्च ॥ अनवस्थितेरिति व्यतिरेकस्य वक्ष्यमाणत्वात् “चक्षुषि तिष्ठन्” इतिश्रुत्यनुरोधेन स्थानशब्दः स्थितिपरतया व्याख्यातः, न तु प्रदेशपरतया । सौत्रस्यादिशब्दस्यार्थमाह - स्थितिनियमनेति । आदिशब्दस्य नामरूपान्वयपरत्वेन व्याख्यानमयुक्तम्, जीवात्मनि सम्भवतस्तस्य परमात्मसाधकत्वाभावादिति भावः । स्थितिनियमनादय इत्यादिशब्देन धारकत्वादिरभिप्रेतः । अस्य हेतोस्सिद्धान्तसादकत्वं दर्शयति - अतश्चेति । अनेन सिद्धान्तसाधकहेतुं वदता पूर्वपक्षहेतोरन्यथासिद्धिश्च फलिता, तामाह- अतः प्रसिद्धवदिति । श्रुतिप्रसिद्धत्वात्प्रसिद्धवन्निर्देशः पूर्वपक्षिणोक्तोऽस्मत्पक्षेपि सम्भवतीति । पूर्वपक्षहेत्वन्तरस्य चान्यथासिद्धिं सूत्राभिप्रेतां दर्शयति - तत एवेति । तत एव श्रुतिप्रसिद्धेरेव । शास्त्रप्रतिपन्नं हि तत्त्वं योगिभिरुपास्यं दृश्यञ्च, “यत्तदद्रेश्य"मित्युक्तवा “परिपश्यन्ति धीराः” इत्युक्तेः, “गूढोऽत्मा न प्रकाशते दृश्यते त्वग्रयया बुध्या सूक्ष्मया सूक्ष्मदर्शिभि"रित्युक्तेश्च, अतोऽर्थतश्शब्दतश्च श्रुत्यन्तरप्रसिद्धेरिति भावः । यादसां समुद्रादिवत्स्थानिनः

परमात्मनोऽक्षिस्थानात् परिच्छिन्नत्वशङ्काव्युदासपरत्वं सूत्रस्यायुक्तम्, “अर्भकौकस्त्वा"दिति सूत्रेण तस्याः परिहृततया शङ्कानुदयात् । अतः साधकान्तरप्रदर्शनपरमिदं सूत्रम् । प्रसिद्धवन्निर्देशापरोक्षाभिधानरूपपूर्वपक्षयुक्तिद्वयं चार्थात्परिहृतम् ॥

॥ सुखविशिष्टाभिधानादेव च ॥ सुखविशिष्टम्- सुखत्वशिष्टम् “द्रव्येकयो” रितिवत् । “तद्गुणसारत्वा” दितिन्यायेन धर्मभूतसुखविशिष्टमिति वा । “कं ब्रह्म खं ब्रह्मे"त्युक्तस्य ब्रह्मणः पुनरभिधानं किमर्थमित्यत्राह - उपासनस्थानेति । “एतदमृतमेतदभयमेतद्ब्रह्म” इति ब्रह्मशब्देन कं ब्रह्मेत्युक्तस्य ब्रह्मणः प्रत्यभिज्ञानादित्यर्थः । एवकारप्रयोजनमाह-

एवेति - पूर्वसूत्रद्वयोक्तं हेतुद्वयं व्यतिरेकोक्तिसापेक्षम् “अनवस्थितेरसम्भवात्” इति हि वक्ष्यते, अयं तु हेतुव्यर्तिरेकोक्तिनिरपेक्ष इति भावः । प्रकरणविच्छेदं दर्शयन् चोदयति - नन्विति । कथमग्निविद्याव्यवधानमित्यत्राह - तथा हीति । तर्हि अङ्गाङ्गिभावेनाविरोध इत्यत्राह - न चेति । “फलवत्सन्निधावफलं तदङ्गम्” इति न्यायादिति भावः । अङ्गानामप्यङ्गिफलाविरुद्धफलमुपपद्यत इति शङ्कापरिहारार्थं तद्विरोदीत्युक्तम् । प्रकरणाविच्छेदेन परिहरति - उच्यत इति । उभयत्र उपक्रमोपसंहारयोः ब्रह्मसंशब्दनम्, अग्निविद्यायाः प्राक् ब्रह्मविद्यायाः असमाप्तिः, ब्रह्मविद्याधिकृतस्य अग्निविद्योपदेशः, तापत्रयातुरस्य तच्छान्त्यर्थमुभयोः समुच्चित्योपदेशश्चेति हेतुचतुष्टयेनाङ्गाङ्गित्वमाह - प्राणो ब्रह्मेत्यादिना । “अथ हैनं गार्हपत्योऽनुशशास” इत्यत्र एनमित्यन्वादेशेन ब्रह्मविद्याधिकृतत्वे तात्पर्यं सिद्धम् । शब्दतः

प्रकृतस्यैव पुनः परामर्शो ह्यन्वादेशः, न तु यताकथञ्चित् बुद्धिस्थमात्रपरामर्शः, अत एनमिति निर्देशः श्रुतब्रह्मविद्यस्यैवाग्निविद्याधिकारित्वज्ञापकः - समुच्चित्योपदेशादिति । समुच्चयशब्द उपदेष्टव्यत्वविशेषविवक्षया समसमुच्चयपरः । यद्वा सम्बन्धमात्रपरः, स चाङ्गाङ्गिभावे पर्यवस्यति । फलविरोधमभ्युपगम्य परिहरति - एवञ्चेति । “द्रव्यगुणसंस्कारकमर्सु परार्थत्वात्फलश्रुतिरर्थवादस्स्यात्” इति हि कर्ममीमांसासूत्रम् । अथ फलविरोध एव नास्तीत्याह न चेत्यादिना । ज्योक्उज्ज्वलः । अनेन व्याध्याद्यनुपहतत्वं फलितम् । तदाह - व्याध्यादिभिरिति । कुले ब्रह्मविदुत्पत्तेर्ब्रह्मविद्यानुगुणफलत्वं दर्शयति - नास्येति । भुञ्जाम इति - “भुजपालनाभ्यवहारयोः” इति धातोः “भुजोऽनवने” इति ह्यात्मनेपदम्; अतः परस्मैपदत्वाद्वयं धातुरवनार्थ इत्यर्थः । परिपालयाम इति - श्रुतौ उपशब्दार्थः परिस्योपसर्गेण सूचितः । विघ्ननिवारणपर्यन्तः किञ्चित्कारो ब्रह्मविद्यां प्रत्यग्निविद्याया अङ्गत्वनिर्वाहक इत्यभिप्रायः । उक्तहेतुभिरेकप्रकरणत्वे स्थितेपि ब्रह्मणः पुनरवक्तव्यत्वमुखेन चोदयति - नन्विति । स्थानगुणयोविर्धेयत्वे सति हि तदर्थं पनर्ब्रह्मणोऽभिधानम् तत्तु नास्ति, पूर्वं तयोराचार्येण वक्ष्यमाणत्वाकथनात्, अतस्थानादिपरवाक्यं न परमात्मविषयमित्यन्यपरमिदं वाक्यमित्यर्थः । परिहरति - तदभिधीयत इत्यादिना । परिपूर्णोपदेशोऽनुपदेशो वा स्यात्,

कथं विकलोपदेश इत्याशङ्कां च परिहरन् स्थानगुणविध्यर्थतामुपपादयति - आचार्यस्त्वित्यादिना । साधिष्ठशब्दः साधुतमत्वशब्देन व्याख्यातः । साधिष्ठमिति भावप्रधानो निर्देश इत्यर्थः । गतिग्रहणमिति - उपदेश्यविद्याशेषमाचार्यो वक्तेति “आचार्यस्तु ते गतिं वक्ता” इति वदतामभिप्राय इत्यर्थः । तदेवोपपादयति - अत एवेति । सूत्रार्थ निगमयति - अत इति । अतः- उपकोसलविषादपरिहारस्यापेक्षितत्वाद्गुरुमुखाच्छ्रवणेन साधुतमत्वायापुष्कलमुपदिष्टत्वाच्च गतिग्रहणस्य प्रदशर्नार्थत्वादित्यर्थः ।

उत्तरसूत्रशङ्कामाह - ननु चेति । यावताप्रत्युत । वचनसारूप्यादिति - “नाम ब्रह्म” “मनो ब्रह्म” इत्यादि- वद्दृष्टिविशेषणस्य ब्रह्मणः पश्चादुपादानं विशेष्यस्य प्रथमोपादानं च सारूप्यमभिप्रेतम् । “प्राणञ्च हास्मै

तदाकाशञ्चोचुः” इति प्राणाकाशशब्दाभ्यां निगमितम्, न तु ब्रह्मशब्देन; ततोऽपि दृष्टिविधिरिति भावः । तस्याप्युत्तरत्र परिहरिष्यमाणत्वात् ।

॥ अत एव च स ब्रह्म ॥ अत एवेत्येतद्य्वाचष्टे - यतस्तत्रेति ।

निगमनवाक्यस्थपुंल्लिङ्गाकाशशब्दकटाक्षेण

सूत्रे स इति निर्देशः । अतश्शब्दः सुखविशिष्टाभिधानपरः । ननु अतश्शब्दः प्रकृतवाची “प्राणो ब्रह्म कं ब्रह्म” इति वाक्योदितस्य सुखविशिष्टस्य ब्रह्मणः स्थानगुणविध्यर्थमभिधानं हि प्रकृतं पूर्वसूत्रे, तदेव सुखविशिष्टाभिधानमत्रात इति परामृश्यते । तत् कथं “यदेव खं तदेव कम्” इति सुखविशिष्टाभिधानमतश्शब्दार्थतयोच्यते ? उच्यते- सामान्येन सुखविशिष्टाभिधानं हेतुतया अतश्शब्देन परामृश्यते, तत्र सुखविशष्टाभिधानव्यक्तिविशेषौ वाक्यद्वयस्थाविह सूत्रद्वयेऽप्यर्थवशाद्धेतुभूतौ, यथा “नात्मा श्रुतेः” “ज्ञोऽत एव” इत्यत्र श्रुतिमात्रस्यातश्शब्दपरामृष्टत्वेऽप्यर्थसामर्थ्याच्छ्रुतिव्यक्तिविशेषसिद्धिः तद्वदिहापीति । भाष्ये यदेव कं तदेव खमिति न वाक्योपादानम्, अपि त्वर्थोपादानम् “यद्वा व कं तदेव खम्” इति हि वाक्यम् । यदेव कं तदेव खमित्यत्राप्यन्योन्यदृष्टिविधिरेवास्तु, नान्योन्यव्यवच्छेदकत्वम्, व्यवच्छेदकत्वे वा कथं खशब्दाभिधेयस्याकाशस्य परब्रह्मत्वमिति शङ्काद्वयं हृदि निधायाह - एतदुक्तमिति । अग्निभिरित्यादि - दृष्टिविधित्वे “प्राणो ब्रह्मे"त्यस्य ज्ञातत्वं “कं च तु खं च” इत्यस्याज्ञातत्वं च नोपपद्यते, दृष्टिविधित्वेन सर्वस्य ज्ञातत्वादिति भावः । प्राणो ब्रह्मेत्यस्य ज्ञातत्वे अन्यस्याज्ञातत्वे च किं वैषम्यम् ? आकाशस्य सुखविशिष्टत्वं च कथमित्यपेक्षायां विजानाम्यहमितिवाक्यस्याभिप्रायं विवृणोति - अस्यायमिति । न तावदित्यादि मुमुक्षोरुपदिष्टत्वात् प्रतीकोपासनव्युदासः, मुमुक्षोः प्रतीकोपासनं न कत्तर्व्यमिति ज्ञानं पूर्वमेव सम्भवति, यथा

मुमुक्षूपास्यं ब्रह्मेति ज्ञानं सम्भवति तद्वत् शरीरवाचिशब्दस्य शरीरिपर्यन्ताभिधायित्वं च देवमनुष्यादिशब्देषु व्युत्पन्नमेव । तथेत्यादि - शरीरं च नियाम्यमिति लोकसिद्धत्वात् ज्ञातमेव । “यदेष आकाश आनन्दः” इत्यादिश्रुतिषु ब्रह्मशब्देन विनाप्याकाशशब्दस्यानन्दविशेषणत्वेन प्रयोगदर्शनात् तस्य च महत्त्वोपस्थापनेनैवानन्दविशेषणत्वोपपत्तेर्ब्रह्मणोऽपरिच्छिन्नसुखरूपत्वप्रतीतिसम्भवादेवं विचार उपपद्यत इति भावः । उपकोसलस्येत्यादि - “यद्वा व कं तदेव खं यदेव खं तदेव क"मित्यत्र न दृष्टिविधित्वं शङ्कनीयम्, तथा सति “कं च तु खं च न विजानामि” इत्यस्योत्तरत्वायोगात् । नह्यर्थान्तरदृष्टिविध्यज्ञानस्य दृष्टिविध्यन्तरमुत्तरं भवतीत्यभिप्रायः, एवं “कं च तु खं च न विजानामी"त्यज्ञानवचनान्मुमुक्षोरुपदिष्टत्वादर्थान्तराज्ञानं प्रति दृष्टिविध्यन्तरस्योत्तरत्वायोगाच्च “यद्वा व क"मित्यादिवाक्यस्य दृष्टिविधिपरत्वानुपपत्तेरन्योन्यव्यवच्छेदपरत्वं स्थितम्, “अस्मद्विद्यात्मविद्या च” इति अग्नीनां वचने पूर्वप्रकृतविद्यायाः आत्मविद्यात्वावगमाच्च ब्रह्मणो दृष्टिविशेषणत्वशङ्का निरस्ता । तथा सत्यस्य वाक्यस्यार्थमाह - ब्रह्मण इति । निगमनवाक्यस्यार्थमाह - अत इति । उक्तहेतुभिर्दृष्टिविधित्वायोगात् “यद्वा व कम्” इत्यादि वाक्ये कंखमितिशब्दयोरन्योन्यव्यवच्छेदकत्वेनापरिच्छिन्नसुखरूपब्रह्मपरत्वादुपसंहारस्योपक्रमानुगुण्यस्य न्याय्यत्वात् “प्राणं च” इत्युपसंहारवाक्यमुक्तार्थपरमित्यर्थः । “प्राणं चे"ति “प्राणो ब्रह्मे"त्युक्तार्थस्य निगमनम् । “तदाकाशं चे"ति “यद्वा व क"मित्यादिवाक्यार्थनिगमनम् । “तदाकाश"मित्यत्र प्रकृतपरामर्शिना तच्छब्देन सुखरूपत्वमभिप्रेतम् । कखयोरन्योन्यव्यवच्छेद्यव्यवच्छेदकत्वे विशेषणयोरन्योन्यविशेषणविशेष्यभावप्रसङ्ग इति चेत् ततः किम् ? नीलोत्पलादौ नीलत्वोत्पलत्वादिधर्माणामन्योन्यविशेषणविशेष्यभावस्याप्रामाणिकत्वात्तत्रानिष्टत्वं अत्र तु प्रामाणिकत्वान्नानिष्टत्वमिति भावः । “कं ब्रह्म खं ब्रह्मे"तिवाक्यप्रतिपाद्यं न सुखविशिष्टं ब्रह्मेति शङ्कापरिहारार्थं हि “अत एव च स ब्रह्मे"ति सूत्रस्योत्थानम्, तस्याश्शङ्काया अनेन परिहृतत्वं दर्शयति - अतः कं ब्रह्मेति । यद्वा व कमित्यादिवाक्यस्यापरिच्छिन्नसुखरूपब्रह्मपरत्वात् निगमनवाक्यस्यापि तदनुगुणार्थत्वात् कं ब्रह्म खं ब्रह्मेतिवाक्ये परं ब्रह्मैव प्रकृतमित्यर्थः । ततः किमक्षिपुरुषस्य परमात्मत्व इति शङ्कायां सूत्रार्थस्याधिकरणार्थोपपादकत्वं दर्शयति - तदेव चेति । अन्यथा वाक्यभेदश्च प्रसजेत्, सम्भवत्येकवाक्यत्वे वाक्यभेदोऽनुपपन्न इति भावः । इतीति - कं ब्रह्मेति प्रकृतस्यैवाक्ष्याधारत्वप्रतिपादनादक्षिपुरुषः परमात्मेत्यर्थः ।

॥ श्रुतोपनिषत्कगत्यभिधानाच्च ॥ श्रुतोपनिषत्कस्येति व्याख्येयं पदम् । समस्तमपि व्याख्यानार्थं यस्य निर्दिष्टम् । उपनिषत्सु प्रतीकोपासनानामर्चिरादिगतिरहितानामपि विद्यमानत्वात्तद्य्वावृत्त्यर्थं व्याचष्टे - अधिगतेति । परमपुरुषशब्देन “तं त्वौपनिषदं पुरुषं विद्धि” इति श्रुतिः स्मारिता । उपासनफलम् अर्चिरादिगतिः, न तु श्रवणफलम् । तत्कथं श्रुतोपनिषत्कगतीत्युक्तमित्यत्राह - अनुसन्धेयतयेति । तर्हि श्रुतब्रह्मण इति वक्तव्ये किमिति साधारणाधिकाक्षरश्रुतोपनिषत्कपदोपादानमित्यत्राह - श्रुत्यन्तरप्रतिपाद्यमानेति । छान्दोग्य एव प्रदेशान्तरे “तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति” इति । वाजसनेयके “य एवमेतद्वियुर्ये चामी अरण्ये श्रद्धां सत्यमित्युपासते तेऽचिर्षमेवाभिसम्भवन्ति” इत्यादिः, कौषीतकीनां पर्यङ्कविद्यायां “सोऽग्निलोकमागच्छति” इत्यादिः, ताभिः प्रतिपाद्यमानेत्यर्थः । गतिचिन्तनस्य ब्रह्मविद्याङ्गत्वज्ञापकश्रुत्यन्तरज्ञापनार्थं श्रुतोपनिषत्कव्यपदेश इत्यभिप्रायः । अक्षिपुरुषस्याब्रह्मत्वे तत्क्रतुनयविरोध इत्यभिप्रायेणाह - अपुनरावृत्तीति । “अर्चिषमेवे"त्यतः पूर्वं “अथ यदु चास्मिन् शव्यं कुवर्न्ति यदु च न” इति वाक्यम्, तत्रास्मिन्नित्येकवचनं जात्यभिप्रायम्, “तेऽर्चिष” मिति- बहुवचनानुरोधात् । पञ्चाग्निविद्योक्ता गतिरिहानूदिता अपुनरावृत्तिविधानार्थम् ॥

॥ अनवस्थितेरसम्भवाच्च नेतरः ॥ अनवस्थितेरितिपदं व्याचष्टे - प्रतिबिम्बादीनामिति । असम्भवादितिपदं व्याचष्टे - अमृतत्वादीनामिति । असम्भवादित्यनेन अन्तर उपपत्तेरिति सूत्रार्थस्य व्यतिरेक उक्तः, अनवस्थितेरित्यनेन स्थानादिव्यपदेशाच्चेति सूत्रार्थस्य व्यतिरेको दर्शितः । इतरसूत्रोक्तहेतूनां व्यतिरेकोपपादनानपेक्षत्वाद्य्वतिरेकश्चार्थसिद्ध इति वा व्यतिरेको न प्रदर्शितः । अनवस्थानासम्भवौ प्रतिबिम्बादिषु दर्शयति - प्रतिबिम्बस्येत्यादिना । सर्वेर्न्दियकन्दभूते स्थानविशेष इति - हृदीत्यर्थः । “शतञ्चैका च हृदयस्य नाड्यः” “सन्ततं सिराभिः” इत्युक्तप्रकारेण हृदयसम्बन्धनाडीसम्बन्धानीन्द्रियाणीत्यर्थः । एवंविधे हृदि जीवस्यावस्थानं “हृदि ह्यमात्मा” इति श्रुतेरवगम्यते । ननु “नेत्रस्थं जाग्रतं विद्यात् कण्ठे स्वप्नं विनिर्दिशेत् । सुषुप्तं हृदयस्थन्तु तुरीयं मूर्धनि स्थितम्” इति श्रुत्या जीवस्य जागरावस्थायां नेत्रे स्थितिरुच्यते, न चेयं श्रुतिः परमात्मविषया, तस्य जागत्स्वप्नसुषुप्त्यसम्भवात् । उच्यते- नेत्रशब्दः सर्वेन्द्रियप्रदशर्नार्थः, जाग्रतमित्युक्तत्वात्तदानीं सर्वेन्द्रियव्यापारदर्शनात् अणुपरिमाणस्य जीवस्य नेत्रमात्रवर्त्तित्वे सति शब्दादिज्ञानानुपपत्तेः । तत्र च स्थितत्वं नामाधिष्ठातृत्वमात्रमुपसङ्ग्राह्यम्, अधिष्ठानस्यापि स्थाधात्वन्तर्भूतत्वात् । अणोस्तस्य युगपदेव तत्तदिन्द्रियाधिष्ठानानुपपत्तौ पश्यतः शृण्वतो वा गमनादानोचितपादपाण्याद्यधिष्ठानानुपपत्त्या सर्वेन्द्रियकन्दभूते हृदि स्थितस्य धर्मभूतज्ञानप्रसरणद्वारेणाधिष्ठातृत्वमिति “नेत्रस्थं जाग्रतं विद्यात्” इति श्रुतेरर्थ इत्यभिप्रायेण सर्वेन्द्रियकन्दभूत इत्युक्तम् । कण्ठे स्वप्नमिति कण्ठशब्दश्च कण्ठसमीपवर्त्तिनाडीविशेषपरः, “आसु तदा नाडीषु सुप्तो भवति” इति नाडीनां स्वप्नस्थानत्वश्रुत्यविरोधात्, इयञ्च श्रुतिः स्वप्नविषया, “यदा सुप्तः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति” इत्यनन्तरवाक्यस्य सुषुप्तिस्थानपरत्वात् । हृदयस्थमिति हृदयशब्दो हृद्गतपरमात्मपरः “सता सोम्य तदा सम्पन्नो भवति” इति परमात्मनः

सुषुप्तिस्थानत्वावगमात्; तत्र च सच्छब्दो हृदयस्थपरमात्मपरः, “आभिः प्रत्यवसृप्य पुरीतति शेते” इति सुषुप्तौ हृदयागमश्रवणात् । तुरीयशब्दः उत्क्रान्त्यवस्थजीवपरः “तासां मूर्द्धानमभिनिस्सृतैका । तयोर्ध्वमायन्” इति चरमशरीरोत्क्रान्तावेव मूर्द्धसम्बन्धश्रवणादवस्थान्तरे तच्छ्रवणाभावाच्च, अतो जीवस्य चक्षुष्यनवस्थितिरुपपद्यते । रश्मिद्वारेणेति - खट्वादिद्वारकप्रासादशयनवद्रश्मिद्वारकं चक्षुष्यवस्थानमित्यर्थः । चक्षुष्यवस्थानं नाम चक्षुस्सम्बन्धित्वम् । यद्वा यथा विद्यानिष्ठ इत्युक्ते तद्वशीकार उक्तस्यात्, तथा चक्षुष्यवस्थानमपि तद्वशीकरणम् तन्नियमनम्, तच्च सद्वारकम्; अतो नावस्थितिरित्यर्थः । असम्भवमाह - सर्वेषामिति । जीवानां परमात्मोपासनेनाभयत्वामृतत्वादयो भवन्तीति तद्य्वावृत्त्यर्थं निरुपाधिका इत्युक्तम् । अधिकरणार्थं निगमयति - तस्मादिति । अन्तर इति सूत्रे स्ववाक्यस्थहेतुरुक्तः, श्रुत्यन्तरप्रदर्शनमुखेन स्ववाक्यस्थशङ्कापरिहारपरं द्वितीयसूत्रम्, स्ववाक्यस्थशङ्कायां परिहृतायां प्राकरणिकपूर्ववाक्येन परमात्मपरत्वोपपादकं तृतीयम् । पूर्ववाक्यस्य ब्रह्मपरत्वोपपादकं चतुर्थम् । ततः पाश्चात्यवाक्येन साधकं पञ्चमम् । षष्ठन्तु साध्यद्रढिम्ने पूर्वसूत्रद्वयोक्तहेतुव्यतिरेकप्रदर्शकमिति सूत्रसङ्गतिः ॥

यादवप्रकाशीये तु- “अन्तर उपपत्ते"रित्यादिसूत्रत्रयं छायापुरुषव्युदासपरं योजितम्, ततोऽपि प्रतिबिम्बस्य जीवस्य च व्युदासपरत्वं युक्तम्, अमृतत्वाभयत्वादीनां सर्वव्यावर्त्तनक्षमत्वात् तथाऽभ्युपगतत्वाच्च । “अत एव च स ब्रह्मे"तिसूत्रस्य च वैयर्थ्यं प्रसजेत्, अत एव छायानिराकरणहेतुभिरेव जीवोऽपि न भवतीति हि योजितम् । पूर्वोक्तहेतवो जीवव्यावर्त्तनसमर्थाः, न वा ? न चेतैरेवाक्षिपुरुषस्य परमात्मत्वसाधनमनुपपन्नम् । तद्य्वुदाससमर्थाश्चेत्तद्धेतूपादानादेव जीवव्यावृत्तिः सिध्यतीति तदनुवादेन परमात्मत्वसाधनाय सूत्रान्तरप्रणयनवैयर्थ्यमेव स्यात् । प्राणो ब्रह्मेत्यादिवाक्यस्य दृष्टिविधिपरत्वव्युदासेन सुखविशिष्टब्रह्मपरत्वसमर्थनं चापेक्षितम्, अपेक्षितविधेरनपेक्षितविधानं च दुर्बलम् । किञ्च यथा ईक्षत्यधिकरणादिषु “नाशब्दम्” इति “आनन्दमयः” इति “अन्त"रिति च परमात्मत्वं साध्यं प्रतिज्ञायते तथा तच्छेषभूत व्यतिरेकप्रतिज्ञानं क्वचित्क्रियते, यथा “नानुमान"मिति । अवान्तरशङ्काविशेषपरिहारः क्वचित्प्रतिज्ञायते, यथा “विकारशब्दान्नेति चेन्न” इति; अतोऽस्मिंश्चाधिकरणे “अन्तर उपपत्ते"रिति सूत्र एव परमात्मत्वसाध्यप्रतिज्ञा, यथा “अन्तस्तद्धर्मोपदेशात्” “आकाशस्तल्लिङ्गात्” “प्राणस्तथानुगमात्” इत्यादिषु आदित्यान्तर्वर्त्त्याकाशप्राणादीनुद्दिश्य परमात्मत्वं प्रतिज्ञातम्, एवमन्तरशब्दनिर्दिष्टमुद्दिश्य परमात्मत्वं प्रतिज्ञातमिति हि

स्वरसतः प्रतीयते, अतो ब्रह्मणः प्रतिपाद्यत्वं न पुनः प्रतिज्ञातव्यम् । इह च परमात्मत्वसाध्योपपादकतयोदाहृतस्य पूर्ववाक्यस्य परमात्मपरत्वशैथिल्ये शङ्किते तत्परिहाराय पूर्ववाक्यप्रतिपाद्यस्य परत्वं प्रतिज्ञायते चेद्युज्यते, प्रयोजनवत्त्वात् तदभावात्पुनः प्रतिज्ञातं तन्मते विफलम् । “अन्तर” इत्यात्ममात्रं प्रतिज्ञातम्, न परमात्मेति चेत् तत्सूत्रशैलवििरुद्धत्वादमृतत्वादिधर्माणां जीवव्यावर्त्तनक्षमत्वाच्चानुपपन्नम् । सुखविशिष्टस्येह प्रत्यभिज्ञानानुपपत्तिपरिहारपरम् “अत एव चे"तिसूत्रमिति चेन्न; “सुखविशिष्टाभिधानादेव चे"तिसूत्रेणैव पूर्वत्र चात्र च ब्रह्मसंशब्दनादीनां तत्प्रत्यभिज्ञोपपत्तीनां विवक्षितत्वात् । न हि न्यायनिबन्धनात्मकसूत्रं प्रतिज्ञामात्रपरम्, छायापुरुषनिराकरणहेतुतयोक्तानाममृतत्वाभयत्वादीनामक्षिपुरुषे सुखविशिष्टब्रह्मप्रत्यभिज्ञोपपादकत्वायोगात् प्रत्यभिज्ञानुपपत्तिपरिहारपरत्वमयुक्तम् प्रत्यभिज्ञोपपादनप्रकारश्चानुपपन्नः । पूर्ववाक्ये “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मे"ति प्राणस्य सुखविशिष्टाकाशस्य चोक्तत्वात् श्रुत्यन्तरे दक्षिणवामयोरक्ष्णोरिन्द्रशब्दवाच्यस्थप्राणस्य तत्पत्न्नयाश्च स्थित्यवगमाद्वाक्च्छक्तिरूपपरमाकाशपत्नीकः प्राणोऽयमक्षिपुरुषः पूर्ववाक्योक्तः प्रत्यभिज्ञायत इति ह्युक्तम्, वाङ्मयाज्जातस्य प्राणस्य वाङ्मयपत्नीकत्वायोगादिति श्रुतिव्याकोपस्य ज्योतिरधिकरणे दर्शिततया अस्यार्थस्यानुपपन्नत्वं स्फुटम् । किञ्च; इयन्तावत्सूत्रकारशैलीयत्सर्वेष्वधिकरणेषु एकस्मिन्नेव सूत्रे परमसाध्योऽर्थः प्रतिज्ञायते । “स्थानादिव्यपदेशा"च्चतीदमपि “य एषोऽन्तरक्षिणि पुरुषो दृश्यते” इति श्रुतौ चक्षुष्यवस्थानपरिदृश्यमानत्वव्यपदेशात्परमात्मत्वसाधकमिति व्याख्यातम्, ततोऽप्यन्तर्यामिब्राह्मणविषयतया व्याख्यानं युक्तम्, उपजीवकवाक्यादप्युपजीव्यवाक्यप्राबल्यात् । “य एषोऽन्तरक्षिणि” इतिवाक्यं ह्यन्तरादित्यविद्यातुल्ययोगक्षेमम्, तत्र च देहविशेषयोगाधीनजीवत्वशङ्का निरस्ता । अतस्तत्रापि प्रसिद्धवन्निर्देशदृश्यत्वव्यपदेशाभ्यां जीवविषयत्वे शङ्कितेऽन्तर्यामिब्राह्मणादिकमेव शरणम्, अत एव ह्यादित्यान्तवर्त्तिनो जीवादन्यत्वसिद्धये “भेदव्यपदेशाच्चान्यः” इति सूत्रं तद्विषयं प्रणीतम्, तत्र च नियन्तृत्वादिभिः परमात्मत्वं स्फुटम्, अतः उपजीव्यवाक्यविषयतया व्याख्यानं युक्तम् । अनन्तराधिकरणे अन्तयर्ामिणः परमात्मसाधनं चास्य सूत्रस्य अन्तर्यामिब्राह्मणविषयतां द्योतयति, प्रयुक्तेऽर्थे असिद्धिशङ्कापरिहारो हि यौक्तिकशैली, न च वाच्यं त्वदुदाहृतवाक्यमप्युपपाद्यत्वाद्दुर्बलमिति । तस्य वाक्यान्तरोपजीव्याभावात्, तत्खल्वनुग्राहकन्यायमात्रापेक्षम्, अतो न्यायानुगृहीतवाक्यान्तरसोपेक्षवाक्यविषयत्वाद्वाक्यान्तरनिरपेक्षवाक्यविषयत्वं वरम् श्रुतोपनिषत्कगत्यभिधानाच्चेत्यत्राक्षिपुरुषविद्याया गतिचिन्तनानुवादेन तदङ्गत्वमुच्यत इत्युक्तम् । तदप्ययुक्तम्; अक्षिपुरुषस्य परमात्मत्वनिर्णयात् परमात्मोपासनस्यानुष्ठेयान्तरं प्रत्यङ्गत्वायोगाद्गतिचिन्तनस्य सर्वपरविद्याङ्गत्वाच्च । गत्यनुवादस्य प्रयोजनन्त्वपुनरावृत्तिविधानमित्युक्तम्, न त्वङ्गान्तरविधानम् अतो यथोक्तार्थपराण्येव सूत्राणि ॥ अन्तराधिकरणं समाप्तम् । उत्तराधिकरणसङ्गतिमाह - स्थानादीति ।