- ॥ अत्ता चराचरग्रहणात् ॥ कठेत्यादि - यत्र स इति यस्मिन् प्रकारे स्थितः, यत्प्रकारविशिष्टः तं प्रकारं को वेदेत्यर्थः । विषयवाक्ये अत्तेत्यश्रवणादस्याः श्रुतेरेतत्सूत्राविषयत्वशङ्कां परिहर्त्तुमाह - अत्रेति । यस्येति षष्ठीनिर्दिष्टस्सम्बन्धः ओदनोपसेचनसामर्थ्याददनीयात्तृभावलक्षणविशेषपर्यवसितः, सत्मादत्ता सूचित इत्यर्थः । “अग्निरन्नाद” इति श्रुतिप्रसिद्धिमस्यामुपनिषद्यग्नेः प्रस्तुतत्वं चावलम्ब्याग्निर्जीवः परमात्मेति शिरस्त्रयं कल्पितं परैः । चित्याग्नेः प्रस्तुतत्वेन साक्षादग्निप्रस्तावाभावात् अग्निप्रकरणस्य विच्छिन्नत्वादध्यात्मप्रकरणे विद्याङ्गकर्मोपयोगित्वमात्रं विनाऽग्निवैभवप्रतिपादनायोगाच्च तत्परत्वाशङ्काया मन्दोत्थानत्वमभिप्रयता भगवता भाष्यकारेण शिरोद्वयं विचारकोटौ निवेशितम् । अत्ता जीवः, उत परमात्मा ? इति विचारः । तदर्थमिदमत्तृत्वं किं कर्मफलभोक्तृत्वरूपम्, उत जगदुपसंहृतर्ृत्वरूपम्, किमत्र पूर्वप्रस्तुतब्रह्मप्रकरणं विच्छिन्नम् नेति । “ऋतं पिबन्ता"विति किं बुद्धिजीवौ निर्दिश्येते? उत जीवपरौ ? पिबन्तावितिनिर्देशः किं छत्रिवल्लक्षणया शब्दशक्तया वा प्रयोज्यप्रयोजकविषयतया नेयः, उत न ? “तं दुर्दर्शम्” “या प्राणेन” इति परजीवयोर्दर्शनं किं लक्षणापादयति
? उत न इति । उपक्रमे “येयं प्रेते” इति प्रश्नः किं जीवविषयः? उत परविषयः ? इति । यदा जीवविषयःतदानीमुपक्रमविरोधेन “तं दुर्दर्श"मित्यादिना ऋतपाननिर्देशस्य प्रयोज्यप्रयोजकविषयतापादनायोगात्
“ऋतं पिबन्ता"वितिवाक्यस्य बुद्धिजीवपरत्वेन ब्रह्मप्रकरणं विच्छिन्नमितीह प्रतिपन्नमत्तृत्वं कर्मफलभोक्तृत्वरूपमिति अत्ता जीव इति फलितम् । यदा “येय"मिति प्रश्नः परविषयः तदानीमुपक्रमानुगुण्येन “तं दुर्दर्श"मित्यादिना ऋतपाननिर्देशस्य प्रयोज्यप्रयोजकविषयतापादनोपपत्तेः “ऋतं पिबन्ता"वितिवाक्यस्य जीवपरमात्मपरत्वेन ब्रह्मप्रकरणविच्छेदाभावादिह प्रतिपन्नमत्तृत्वं जगदुपसंहर्तृत्वरूपमेवेत्यत्ता परमात्मेति फलितम् । भोक्तअत्वस्येति - ओदनोपसेचनसामर्थ्यावगतस्येति भावः । ततः किमित्यत्राह - जीवस्यैवेति । “सर्वभूतान्तरात्माऽपहतपाप्मा” “न कर्मणा वर्धते नो कनीयान्” “अनश्नन्नन्यः” इति परस्य भोक्तृत्वं निषिद्धमिति भावः । तत्सम्भवात्- कर्मफलभोक्तृत्वसम्भवात् । ब्रह्मक्षत्रशब्दवाच्यानां देहिनां स्त्रीपुंसात्मकत्वात्तत्तद्रूपजीवानां परस्परभोक्तृभोग्यभावस्सम्भवति । जीवानां नित्यत्वादेव मृत्युवश्यत्वाभावान्मृत्युर्जीवस्य विधेय इत्यभिप्रायेण मृत्यूपसेचनवादोऽपि सम्भवतीति भावः ॥
राद्धान्तमारभते - अत्रेति । चराचरग्रहणादित्येतद्य्वाचष्टे - चराचरस्येति । कृत्स्नचराचरविषयं वा कतिपयविषयं वाऽस्तु, ततः किं जीववैलक्षण्यस्य ? उक्तं हि कर्मफलभोक्तृत्वरूपमिदमत्तृत्वमित्यत्राह - न चेदमिति । कृत्स्नचराचरविषयमत्तृत्वं जीवस्यानुपपन्नमिति भावः । अत्तृत्वं विष्णुकर्तृकं चराचरसंहर्तृत्वमिति कथमवगतमित्यत्र हेतुद्वयमाह सोऽध्वन इति । प्रकरणे परमात्मवाचिपदश्रवणं प्रथमो हेतुः । द्वितीयं हेतुमाह - तथा च मृत्युरिति । कथं चराचरस्यादनीयत्वसिद्धिः? मृत्यूपसेचननिर्देशो हि
मृत्युवश्यत्वाभावाभिप्रायस्सम्भवतीत्यत्राह - उपसेचनं हीति । यद्यप्यु
पसेचनशब्दो गौण एव निर्वाह्यः, तथापि साधारणाकारेणोपचारो न घटते, विशेषाकारसम्भवात्; न ह्यग्निर्माणवक इत्युक्तेऽग्निशब्दो द्रव्यत्वाभिप्रायेण वर्णनीयः । मृत्युरुपसेचनम्, अबाधक इत्युक्ते विशेषाकारोपस्थापनं न स्यात्, अबाधकत्वस्य लोष्टतृणादिसाधारणत्वात्, स्वयमद्यमानत्वे सत्यन्यस्यादनहेतुत्वन्तु विशेषाकार इति तेनैवौपचारिकप्रयोगो युक्त इति भावः । साधारणाकारंविहायावान्तराकारेण गौणार्थो वर्णनीय इति न्यायोऽत्र व्युत्पादितः । परस्य जगत्संहारे मृत्यपेक्षापि नास्तीत्यस्मदुक्त एवार्थ इति शङ्कां परिहरन् फलितमाह - अत इति । कृत्स्नजगत्संहारे मृत्व्यपेक्षाभावेप्यत्र मृत्योरद्यमानत्वं व्यष्टिसंहारस्य तद्द्वारकत्वञ्चाभिप्रेतम् । एवं मृत्यूपसेचनत्वसामर्थ्यात् ब्रह्मक्षत्रशब्दौ कृत्स्नचराचरप्रदर्शनार्धाविति भावः । ततोऽपि किमित्यत्राह - ईदृशमिति । सूत्रार्थमुपसंहरति - तस्मादिति सोऽध्वन इत्यादिवाक्ये विष्णोः श्रूयमाणत्वान्मृत्यूपसेचनत्वसामर्थ्यसिद्धचराचरादनीयत्वाच्च कृत्स्नजगदुपसंहर्तृत्वरूपमेवेदं भोक्तृत्वमिति नेदं कर्मनिमित्तम्, अतःपरमात्मैवात्तेत्यर्थः ॥
॥ प्रकरणाच्च ॥ स्ववाक्यस्थहेतुः पूर्वमुक्तः, प्राकरणिकहेतुरत्रोच्यते; अस्य सूत्रस्य “न जायते म्रियते” इत्यादि- वाक्यं विषयतया परैरुपात्तम् । तदयुक्तम्, पित्रादिमरणस्येव परमात्मनो हन्यमानत्वस्य लोकप्रसिध्यभावेन तन्निषेधायोगात् एतत्स्वरूपेण “न जायते म्रियते वा कदाचित्” इति भगवद्गीतावचनेनास्य वाक्यस्य जीवपरत्वावगमात् । “उभौ तौ न विजानीतो नायं हन्ति न हन्यते” इत्यनन्तरमन्त्रोक्तहन्तृहन्तव्यताभ्रान्तेः परमात्माश्रयत्वायोगेन जीवकरत्वोपपत्तेश्च, अतो “नायमात्मा” “महान्तं विभुम्” इत्यादिरेव विषयः । एकप्रकरणत्वं कथमित्यत्राह - क इत्थेति । तत्प्रसादादृते तस्य दुरवबोधत्वस्य पूर्वोक्तस्य प्रत्यभिज्ञानादित्यर्थः । कैश्चिदेवमुक्तम्, “अशरीरं शरीरेष्वनवस्थेष्ववस्त्रितम्” इति परमात्मनः शरीरेऽवस्थितिश्रवणात् “यस्य ब्रह्म च क्षत्रं च” इत्यनेन श्लोकेन शरीरे हृदयप्रदेशे वा परस्य स्थितिरिति
जिज्ञास्यते, अत एव हि “क इत्था वेद यत्र सः” इति वचनम्, न पुनः कस्तं वेदेति; तदनेन निरस्तं वेदितव्यम्, प्रश्नानुगुणप्रतिवचनादर्शनात् । ननु अनन्तरमेव दृश्यते “ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ” इतीति चेत् सत्यं श्रूयते; तत्र स्थानत्वेन किमुक्तम् ? किं सुकृतस्य लोकः ? उत गुहा ? तत्र सुकृतस्य लोक इति शरीरं वा, अन्यद्वा उभयमपि शरीरसम्बन्धिदेशविशेषो न भवतीति तन्नोत्तरं भवितुमर्हति, न च स्थानमात्रमेव पृष्टम् “अशरीरं शरीरेषु” इत्यनेनैव तत्सिद्धेः । अथ गुहा स्थानत्वेन निर्दिष्टा, साऽपि पूर्वमेव ज्ञातेति न प्रश्नसम्भवः, “गुहाहितं गह्वरेष्ठं पुराणम्” इति हि श्रुतम् । “यत्र सः” इत्येकवचनेन पृष्टे “पिबन्तौ” इति द्विवचनोत्तरं चानुचितम् । अतः “क इत्था वेद” इति वाक्यस्य यथोक्त एवार्थः ।
उत्तरसूत्रस्य शङ्कामाह- अथ स्यादिति । प्रकरणविच्छेदं दर्शयति - ऋतं पिबन्ताविति - लिङ्गादि प्रकरणं
दुर्बलम्, ऋतपानलिङ्गत्वात् प्रकरणविच्छेदोऽत्र “यस्य ब्रह्म च” इति वाक्यापेक्षया “महान्तं विभु"मित्यादि परमात्मप्रकरणविच्छेदो माभूत्, ऋतपानान्वयवाक्यन्तु विच्छिन्नं स्यादिति शङ्कापरिहारार्थमनन्तरमित्युक्तम् महान्तमित्यादिवाक्यानां व्यवहितत्वाद्विच्छेदो युक्तः, न तु यस्य ब्रह्म चेत्यादिवाक्येनाव्यवहितस्य ऋतं पिबन्तावितिवाक्यस्येति भावः । द्वयोस्समप्राधान्यशङ्कापरिहारार्थं सद्वितीयस्येत्युक्तम् । अत्र भोक्तुजर्ीवत्वं कथम् ? द्वितीयस्य च बुद्धिप्राणयोरन्यतरत्वं कथम् ? कथं न परमात्मत्वमित्यत्राह - ऋतपानं हीति । कर्मफलभोग एवेति - न हि सर्वसंहर्तृत्वमुच्यत इतिवत् ऋतपानस्य निर्वाहान्तरं सुवचमिति भावः । ततः किमित्यत्राह - स चेति । भवदभिमतस्य कथं तत्सम्भव इत्यत्राह - बुद्धीति । यथाकथञ्चित्- उपकरणत्वेनान्वय इत्यर्थः । करणे कर्तृत्वोपचारात् पिबन्तावित्युक्तमिति भावः । तयोरन्यतरेण सद्वितीयो जीव एवेति - अयमभिप्रायः- यद्यपि प्रयोजककर्त्तरि परमात्मनि उपकरणभूतबुद्धिप्राणयोरन्यतरस्मिन्वा पिबन्ताविति निर्देशस्य क्लिष्टत्वं समानम्, तथापि बुद्धिप्राणयोरन्यतरपरिग्रहो न्याय्यः, प्रथममेव पिबन्ताविति निर्देशेन भोक्ता जीवः प्रतिपन्न इत्यविगीतम्, द्वितीयविशेषे हि विप्रतिपत्तिः । तत्र गुहावच्छिन्नत्वं सुकृतसाध्यलोकवत्तिर्त्वञ्च सर्वगतस्य परस्य स्वरसतो न सम्भवति । अप्रकाशप्रकाशरूपार्थपरच्छायातपशब्दाभ्यामचिदन्तः करणचेतनोपस्थानं युक्तम् तत्र प्रथमत एवानेकैः पदैः स्वरसतः प्रतिपन्नस्य भोक्तुः प्राधान्येन प्रतिपाद्यत्वं यथा
न विरुध्यते तथा द्वितीयो वक्तव्यः, द्वितीयस्य परमात्मत्वे भोक्तुः प्राधान्येन प्रतिपाद्यत्वं विरुध्यते, उपकरणभूतान्तःकरणस्य द्वितीयत्वे भोक्तुः प्राधान्येन प्रतिपाद्यत्वं न विरुध्यत इति । ततः किमत्तुर्जीवभावस्येत्यत्राह - तदेकेति ॥
॥ गुहां प्रविष्टानात्मानौ हि तद्दर्शनात् ॥ ऋतं पिबन्ताविति निर्देष्टव्येऽपि गुहां प्रविष्टाविति सूत्रयतोऽयम्भावः, द्वितीयस्य पानं पक्षद्वयेऽपि क्लिष्टम्, बुद्धिप्राधान्योरन्यतरपक्ष एव छायातपनिर्देशो लोकशब्दनिर्देशश्च घटताम्, गुहाप्रवेशस्तु न कथञ्चिदपि घटते “आत्मा गुहायां निहितः” “यो वेद निहितं गुहायाम्” “गुहाहितं गुह्वरेष्ठम्” “विधूय कविरेतदनुतिष्ठेत् गुहाशयम्” “पूः प्राणिनः सर्व एव गुहाशयस्य” इति परमात्मनो गुहाप्रवेशव्यपदेशप्रसिद्धिप्राचुर्यात् बुद्धिप्राणयोरन्यतरस्य तादृशप्रसिद्धयभावाच्चेति । एतमेवाभिप्रायं हृदि निधाय सूत्रे प्रतिज्ञाखण्डं व्याचष्टे - न प्राणजीवाविति । जीवपरमात्मानौ हीति - सूत्रे हिशब्दः सौत्रार्थस्य परमसाध्योपपादकत्वसूचक इति भावः । सूत्रे प्रतिज्ञोपपादकं हेतुखण्डं व्याचष्टे - अस्मिन्निति । परमात्मनस्तावदिति - गुहाप्रवेशव्यपदेशो दृश्यत इत्यन्वयः । तं दुर्दर्शमिति । दुर्दर्शम्- द्रष्टुमशक्यम् । कुतः? गूढम्- तिरोधायकमेकरूपाविद्यदिना तिरोहितत्वादित्यर्थः। गुहाहितम्- हृदयवर्त्तिनम् । गह्वरेष्ठम्- आत्मान्तर्यामिणम्, परमव्योमनिलयम् वा । अध्यात्मयोगाधिगमेनेति परोपासनस्य जीवोपासनमङ्गत्वेन विधीयते, जीवपरयोरुभयोरपि प्रकरणप्रतिपाद्यमानत्वात् । जीवस्यापीति - गुहाप्रवेशव्यपदेशो दृश्यत इत्यन्वयः । अदितिशब्दस्य देवमातरि भूमौ च वेदप्रसिद्धेस्तद्वयावृत्त्यर्थमवयवशक्तया जीववाचित्वं दर्शयति - कर्मफलानीति । रूढार्थस्य गुहाप्रवेशासम्भवाद्योगपरिग्रह इति भावः । कर्मफलशब्देन ऋतशब्दार्थोपि दशिर्तो भवति । छत्रिणो गच्छन्तीति न्यायेन निर्वाहे लाक्षणिकत्वं स्यादिति मुख्यकल्पनिर्वाहमाह- यद्वेति । मुख्यत्वेऽप्यस्वारस्यमात्रमस्ति, लाक्षणिकत्वादपि तद्वरम् बुद्धिप्राणयोरन्यतरपरत्वमिति वा स्वरसम्, करणत्वेन हि तयोरन्वयः, परमात्मनस्तु “तत्प्रयोजको हेतु"रित्युक्तप्रक्रियया प्रयोजककर्तृतायाः कर्तृत्वविशेषत्वात्तद्वाचित्वे पिबन्ताविति निर्देशः स्वरस इति भावः । पिबन्ताविति निर्देशस्वारस्यमुभयोश्चेतनत्व एव घटते, उभौ गुहां प्रविष्टाविति निर्देशो हि न दण्डसद्वितीयपुरुषविषयः, अपि तु पुरुषद्वयविषयः । “ब्रह्मविदो वदन्ती"त्युक्तत्वाच्च जीवसद्वितीयपरमात्मपरत्वं युक्तम् । एवं निर्वाहद्वयेनापि प्रकरणविच्छेदकलिङ्गत्वेन पराभिमतस्य ऋतपानान्वयस्य अन्यथासिद्धिरुक्ता भवति । गत्यभावे यदमुख्यम् तत्र द्वयोः प्रतिपन्नयोः प्रकरणानुगुणस्य ग्राह्यत्वं सजातीययोरेव द्विवचननिर्देशार्हत्वं
चेतिन्यायद्वयमात्रं शिक्षितम् ॥
॥ विशेषणाच्च ॥ तत्तद्वाक्योदितविशेषणान्तराणि च प्राप्यत्वप्राप्तृत्वोपास्यत्वोपासकत्वान्तर्भूतानीत्यभिप्रायेण उपास्यत्वोपासकत्वप्राप्यत्वप्राप्तृत्वविशिष्टावित्युक्तम् । “ब्रह्मजज्ञ"मित्युपासकं वदति, शकेमहि उपासितुं प्राप्तुमिति शेषः । आत्मानं रथिनमित्यादि - शरीराद्युपासनपरिकरसहितो जीव उच्यत इत्यर्थः । इहापि- ऋतं पिबन्ताविति वाक्येऽपि । अज्ञत्वसर्वज्ञत्वाभ्यामित्यनेन “ज्ञाज्ञौ द्वौ” इति वाक्यं स्मारितम् । उदाहृतवाक्यैकार्थ्याच्छायातपशब्दयोरप्ययमेवार्थः । “विशेषणाच्च” इति सूत्रे छायातपत्वरूपविशेषणमपि विवक्षितमिति भावः ॥
उत्तरत्र “त्रयाणामेव चैव"मित्यादिसूत्रेण वक्ष्यमाणत्वेपि चोद्यस्य बुद्धिस्थत्वात् सुग्रहत्वाय तत्पूर्वकं परिहारमाह- अथ स्यादिति । अस्मिन् प्रकरणे जीवपरमात्मनोर्विशेष्यत्वमयुक्तम् । उपक्रमस्य जीवपरत्वादित्याह - येयमिति । परिहरति - नैतदिति । वरद्वयं किम्, तद्वरणानुपपत्तिः कथमित्यत्राह - तथा हीति । पितृप्रसादवरणस्य अग्निविद्यावरणस्य च प्रत्येकनिरपेक्षहेतुत्वसूचनार्थम् एतञ्च सर्वं तदपीति द्विरुक्तम्
। अत्र परमेति । अत्र यदिदं क्रियते- यद्वरणं क्रियते तत्र वरण इत्यर्थः । मोक्षयाथातम्यविज्ञानाय तदुपायभूतपरमात्मोपासनपरावरात्मतत्त्वजिज्ञासयेति मोक्षज्ञानाय मोक्षानुबन्धिजिज्ञासयाऽयं प्रश्न इत्यर्थः । “येय"मित्यादिप्रश्नवाक्ये मोक्षस्वरूपप्रश्नः कण्ठोक्तः ।
प्रतिवचनप्रकारेणोपासनादिप्रश्नश्चार्थसिद्ध इत्यवगम्यते । एवं विभागज्ञापनार्थं विज्ञानाय जिज्ञासयेति पृथगुक्तिः । मोक्षप्राप्तिप्रश्ने प्राप्यप्रापकप्राप्तृप्रश्नोऽप्यन्तर्गत इति भावो दर्शितो भवति । निर्विशेषतापत्तिर्मोक्षश्चेत् वाक्यार्थज्ञानस्योपायता स्यात्, उभयालिङ्गकं प्राप्यञ्चेत् तथात्वेनोपासनमुपायस्स्यात्, अतो मोक्षस्वरूपज्ञानं तदनुबन्धिज्ञानापेक्षम् । एवं प्रश्नस्य ज्ञातेतरविषयत्वात् प्रतिवचनानुरूप्याच्च यथोक्त एवार्थः । प्रेतपदस्य उक्तार्थपरत्वे
श्रुत्यन्तरसंवादं दर्शयति - यथेति । “न प्रेत्य सञ्ज्ञास्ति” इति श्रुतिः । कः पुनर्वाक्यार्थः ? न हि मनुष्यमात्रस्य बन्धविनिर्मोक्षसम्भव इत्यत्राह - अयमर्थ इति । अस्ति नास्त्यामिकाअस्तिनास्तीत्येवमादिरूपा । विद्यामितिपदस्य द्वितीयान्तकारकपदत्वशङ्कां निवर्त्तयन् व्याचष्टे - जानीयामिति । विप्रतिपत्तिं दर्शयति - तथा हीति । कारणशोधकगुणप्रतिपादकवाक्यार्थविशिष्टमाह - निखिलजगदेककारणस्येत्यादि । अनुकूलापरिच्छिन्नज्ञान-स्वरूपस्येति - स्वरूपशब्दो धर्मधर्मिणोस्साधारणः । तत्रेत्यादि - परामरात्मतत्त्वविज्ञानम्- ज्ञातव्यपरावरात्मतत्त्वम्, उपदिश्येत्यन्वयः । तदपेक्षितांश्च विशेषान्-प्रणवाग्निविद्यादीन् । अधिकरणार्थमुपसंहरति - अत इति । अत्तेतिसूत्रे स्ववाक्यस्थहेतुरुक्तः । प्राकरणिकपूर्ववाक्यस्थहेतुपरं द्वितीयम् । अनन्तरवाक्यशङ्कापरिहारपरं तृतीयम्, अतस्तत्र चशब्दाप्रयोगः, उपरितनवाक्यस्थहेतुभिस्तृतीयसूत्रार्थोपपादकं चतुर्थमिति सूत्रसङ्गतिः ।
“गुहां प्रविष्टावात्मानौ” इत्यादिसूत्रद्वयमधिकरणान्तरं केचिदाहुः- तदयुक्तम्; एकप्रकरणस्थवाक्यविशेषविषयाणामधिकरणामधिकरणान्तरपादान्तराव्यवहितानामुपजीव्योपजीवकभावेन परस्परान्वितार्थप्रतिपादकानां सूत्राणां विषयवाक्यभेदे सत्यपि भिन्नाधिकरणत्वाभावात् । ईक्षत्यानन्दमयाधिकरणादिषु “तन्निष्ठस्य मोक्षोपदेशात्” “प्रतिज्ञाविरोधात्” “तद्धेतुव्यपदेशाच्च” “मानविर्णिकमेव च गीयते” इत्यादीनां सूत्राणां पूर्वापरबहुवाक्यविषयत्वेऽप्यव्यवहितत्वात् परस्परोपजीव्योपजीवकभावेन अन्वितार्थपरतयापि ह्यैकाधिकरण्यम् । “अदृश्यत्वादिगुणकः” “द्युभ्याद्यायतनम्” इत्यधिकरणयोस्तु एकप्रकरणस्थानेकवाक्यविषयत्वेऽपि भेद उपपद्यते । स्पष्टास्पष्टलिङ्गकवाक्यविषयत्वेनैकस्मिन् पादे सङ्गत्यनुपपत्तेरुपजीव्योपजीवकभावाभावाच्च । न हि “यस्मिन् द्यौः पृथिवी” इत्यादि वाक्यस्य परमात्मपरत्वमदृश्यत्वादिगुणकस्याक्षरात्परतः परस्य च परमात्मत्वोपपादकम्, परप्रकरणेऽपि तच्छेषत्वेन अपरमात्मप्रधानादिप्रतिपादनोपपत्तेः । अतः उपजीव्योपजीवकभावाभावादधिकरणभेदस्तत्र युक्तः, इह तु पूर्ववाक्यप्रतिपन्नमत्तृत्वं कर्मफलभोक्तृत्वरूपमित्यनन्तरवाक्येन प्रतिपन्ने सति तस्यात्तुः परमात्मत्वानुपपत्तेरनन्तरवाक्यस्य परमात्मपरत्वोपपादनमत्तुः परमात्मत्वोपयुक्तमेव । एवमेकप्रकरणस्थवाक्यविषयत्वे सति अधिकरणान्तरपादान्तराव्यवहितत्वे च सति परस्परोपयुक्तार्थप्रतिपादकानां सूत्राणामैकाधिकरण्यमेवोचितम्, अन्यथा ईक्षत्यधिकरणादिष्वपि
एकैकाधिकरणस्थसूत्राणामधिकरणभेदकल्पना प्रसजेत्, अतः ऐकाधिकरण्ये स्थित एवावान्तरशङ्काविशेषपरिहारपरं सूत्रद्वयं व्याख्यातव्यम्, व्याख्यातञ्च भगवता भाष्यकारेण । सूत्रभङ्गी च ऐकाधिकरण्य एवोपपद्यते, एकस्मिन् सूत्रे हिशब्दपञ्चम्यन्तपदयोः श्रवणात् । गुहां प्रविष्टयोरात्मत्वसाधकं पञ्चम्यन्तपदम्, अत्तुः परमात्मत्वोपपादकतां सूत्रार्थस्य दर्शयति हिशब्दः । सर्वगतस्य ब्रह्मणो गुहावच्छिन्नत्वायोगात् गुहागतौ बुद्धिजीवौ न पर इति गुहां प्रविष्टा वितिसूत्रखण्डः पूर्वपक्षपर इति योजनाऽनुपपन्ना “विकारशब्दान्नेति चेत्” “जीवमुख्यप्राणलिङ्गान्नेति चेत्” “सम्भोगप्राप्तिरिति चेत्” इतिवत् पूर्वपक्षद्योतकनिर्देशाभावात् “अर्भकौकस्त्वात्” इति पूर्वाधिकरणसूत्रेण गुहावच्छेदनिबन्धनशङ्कायाः परिहृतत्वाच्च । आत्मानाविति प्रतिज्ञायाम्, हिशब्दोपपादितायां तद्दर्शनादिति सूत्रखण्डस्य प्रतिज्ञान्तरमध्याहर्तव्यं गुहावच्छेदोऽपि परस्योपपन्न इति । अनध्याहारेण योजना सम्भवति चेत् सैव वरम् । तस्मात् पञ्चम्यन्तपदोपपादितसौत्रार्थस्य परमसाध्योपपादकत्वद्योतको हिशब्दः, अतश्च औचित्यात् कृतकरत्वात् सूत्रशैल्याश्च युक्तमैकाधिकरण्यं सूत्रचतुष्टयस्य । “द्वा सुपणौ” इति वाक्ये अत्रत्यन्यायातिदेशश्चानुपपन्नः, “स्थित्यदनाभ्याञ्च” इति सूत्रेण निरूपयिष्यमाणस्य तस्यैतन्न्यायसापेक्षत्वाभावात्, न चास्याधिकरणस्य तद्वाक्यसापेक्षत्वादिह तत्प्रस्तावः, अस्याधिकरणस्य अत्रत्यन्यायातिदेशसापेक्षवाक्यान्तरोपपाद्यत्वे अन्योन्याश्रयप्रसङ्गात् तस्य च वाक्यस्य बुद्धिजीवपरत्वं भवदभिमतम् तच्चेह न वक्तव्यम्, प्रकृतानुपयोगात् “ऋतं पिबन्तौ” इति वाक्यस्य जीवसद्वितीयपरमात्मविषयत्वे वाक्यान्तरस्य बुद्धिजीवपरत्वं कथमुपयुज्यते ? तस्य च वाक्यस्य बुद्धिजीवविषयत्वं पूर्वं निरस्तं निरसिष्यते च; अतो भाष्यसन्दर्शिता सरणिरेव साधीयसी ॥
॥ इति अत्राधिकरणम् ॥