12 सर्वत्रप्रसिद्ध्यधिकरणम्

प्रथमे पाद इत्यादि- किमर्थमत्र प्रथमपादाधिकरणार्थानुक्रमणम् ? उच्यते; पादानुयायिनोऽर्थस्य प्रत्यधिकरणमनुयायित्वस्फुटीकरणाय । किमर्थमनुयायित्वकथनम् ? सङ्गतिः कुतः ? सूत्रकाराभिप्रेतत्वात् पादभेदोह्यर्थभेदात्, तत्क्रमश्च सङ्गतिविशेषात् । तत्र किं प्रमाणम् ? सम्प्रदायक्रमः । किञ्च अत्राधिकरणार्थानुक्रमेण न त्रिपाद्या अनारम्भणीयत्वशङ्का चार्थात्परिहृता भवति, त्रिपाद्यामुदाहरिष्यमाणानां श्रुतीनां प्रथमपादाधिकरणोक्तन्यायाविषयत्वज्ञापनार्थत्वादनुक्रमणस्य; अत एव प्रथमपादे वेदान्तवाक्यानां परमात्मपरत्वे दर्शितेऽपि त्रिपाद्या आरम्भणीयत्वं सिद्धम् । प्रथमे पादेऽपि ईक्षत्यानन्दमयाधिकरणयोः कारणस्य चिदचिद्वैलक्षण्ये सिद्धेऽपि पूर्वाधिकरणन्यायाविषयश्रुतिवाक्यार्थनिर्णयार्थो ह्युत्तरोत्तराधिकरणारम्भः, तद्वदत्रापीति । शास्त्रारम्भप्रयोजनायाश्चतुस्सूत्र्याः कथं प्रथमपादे सङ्गतिः ? उच्यते; तस्याः शास्त्रारम्भार्थत्वेन शास्त्रोपोद्घातरूपत्वादर्थतः प्रथमपादान्तर्गतत्वम्, न तु प्रथमपादस्य प्रथमाध्यायस्य चासाधारणत्वात्सङ्गतिः- प्रथमे पाद इति । अधीतवेदः- कृतसाङ्गसशिरस्काध्ययनः । तावत्यपर्यवसानमाह - कर्मेति । तत्राप्यपर्यवसाने हेतुमाह - केवलेति । तथापि ब्रह्मविचारप्रवत्तर्नक्षमापातप्रतीतिरेव जायते, सिद्धवस्तुनि व्युत्पत्त्यभावादितिशङ्कायां प्रथमसूत्रस्य तात्पर्यमाह - अवधारितेति । तर्हि वेदान्तवाक्यैरेवालम्, किमर्थो ब्रह्मविचार इत्यत्राह - तदितिकर्त्तव्यतेति । ननु चतुस्सूत्री हि शास्त्रारम्भार्था, तत्कथं प्रथमाधिकरणार्थानुक्रमे शास्त्रारम्भसिद्धय इत्युक्तम् ? जन्मादिसूत्रत्रयस्यापि प्रथमाधिकरणाधीनारम्भत्वात्तथोक्तिः, न तु तेषां सूत्राणां शास्त्रारम्भार्थत्वाभावात् । यद्वा जन्मादित्रिसूत्र्याः शास्त्रारम्भत्वे सत्यपि प्रथमपादे सङ्गतिरप्यस्ति, चिदचिद्विलक्षणकारणास्तित्वविषयत्वात्तस्याः । प्रथमपादो हि समस्तचिदचिद्विलक्षणकारणास्तित्वनिरूपणपरः । जन्मादिसूत्रे जन्मादिकारणत्वं लक्षणमुक्तम्, कारणस्य प्रमाणान्तरासिद्धिः प्रयोजनरूपता चानन्तरसूत्रद्वयेनोक्ते,

अतः प्रथमाधिकरणार्थानुक्रमे शास्त्रारम्भसिद्धय इत्युक्तमिति । यद्वा शास्त्रारम्भसिद्धय इतिपदमुत्तराधिकरणत्रयेऽनुषज्यत इति चतुस्सूत्र्याः शास्त्रारम्भसिध्द्यर्थत्वमुक्तं भवति । जन्मादिसूत्रार्थमनुक्रामति - अनन्तेति । सौत्रस्यास्येतिपदस्य विवक्षितमर्थमाह- अनन्तविचित्रादिविशेषणैः । अनन्तविचित्रशब्दौ भोक्तृभोग्यसाधारणौ । महानन्दैककारणत्वं “तद्विजिज्ञासस्व” इति वाक्याभिप्रेतम्, तापत्रयातुरजिज्ञास्यस्य हि लक्षणं निरूपितम्, अतो महानन्दैककारणमित्युक्तम् । यद्वा “यत्प्रयन्ती “त्यस्य आत्यन्तिकल्यपर्यन्तत्वाभिप्रायेणोक्तम्- महानन्देति । “येयं प्रेते” “न प्रेत्य” इति चात्यन्तिकलयो हि प्रायणं श्रुतम्, अविरुद्धविशेषणभेदो न विशेष्यभेदावह इत्यभिप्रायेण एकशब्दप्रयोगः, निमित्तोपादानैकत्वाभिप्रायेण वा । शास्त्रेति - समन्वयात्- परमपुरुषार्थभूतस्यैव ब्रह्मणः प्रतिपादकतया शास्त्रस्य तेनान्वयात् । स चेत्यादि - स्वाभाविकानवधिकातिशयशब्दौ प्रतिविशेषणमन्वितौ । आकाशप्राणाधिकरणार्थयोः पृथगनुक्तिर्न्यायस्यानतिभिन्नत्वात् । परमेति - परमकारणस्यासाधारणम्- तस्य प्रदेयत्वेन असाधारणम् अमृतत्वम् तत्प्राप्तिहेतुरित्यर्थः । यद्वा परमकारणस्यासाधारणम्- चिह्नभूतमित्यर्थः । उपासकस्य अमृतत्वप्राप्तिर्हि उपास्यस्य परमकारणत्वमावेदयति । यद्वा परमकारणासाधारणम्- तद्धर्मभूतममृतत्वम्, तत्प्राप्तिः- परमसाम्यापत्तिरित्यर्थः । पादार्थमाह - तदेवमिति । पुरुषत्वादस्मदादिवदित्यादिकुतर्कपरिहारार्थमाह - अतिपतितेति । तेषां धर्मिग्राहकमानबाध इति भावः । ज्योतिरधिकरणार्थाभिप्रायः पुरुषोत्तमशब्दः । प्रतर्दनविद्याभिप्रायो नारायणशब्दः । “मामुपास्व” इत्यस्यापि नारायणानुवाकैक्येन सर्वविद्योपास्यतयोक्तनारायणोपासनपरत्वात् चिदचिद्विलक्षणकारणास्तित्वं पादानुगतार्थ इत्यर्थः । नारायण एवेत्यवधारणाक्षेपेण द्वितीयादिपादोत्थानमित्यभिप्रायेणाह - अतः

परमिति । द्वितीयतृतीयचतुर्थेष्विति - प्रथमपादस्य न केवलमनन्तरपादेन सङ्गतिः, अपि तु त्रिपाद्येवेति भावः । यथा “चोदनालक्षणोऽर्थो धर्मः” इत्यत्र चोदनैव प्रमाणम्, प्रमाणमेव चोदनेत्यवधारणद्वयम् । तत्र प्रमाणमेव चोदनेत्यवधारणम् औत्पत्तिकसूत्रे साधितम्, चोदनैव प्रमाणमित्यवधारणं प्रत्यक्षसूत्रे स्थापितम्, तथा जन्मादिसूत्रेऽपि ब्रह्म कारणमेव ब्रह्मैव कारणमित्यवधारणद्वयमपि विवक्षितम्, जन्मादिकारणत्वस्य ब्रह्मलक्षणत्वात्, लक्षणस्याव्याप्त्यतिव्याप्त्यसम्भवपरिहारावश्यम्भावात्, तत्र व्यक्तयैक्यान्नाव्याप्तिः, असम्भवपरिहाररूपायोगव्यवच्छेदः प्रथमपाद उक्तः, अतिव्याप्तिपरिहाररूपान्ययोगव्यवच्छेदः त्रिपाद्या क्रियत इति विभागाभिप्रायेण कानिचिद्वेदान्तवाक्यानीत्युक्तम् । तत्तद्वाक्योदितकल्याणगुणकरत्वं ब्रह्मणः प्रतिपाद्यत इति - चिदचिद्विलक्षणस्वरूपं साधितम् । अथ तस्य गुणविशेषप्रतिपादनं त्रिपाद्यां क्रियत इति च प्रथमपादत्रिपाद्योर्विभाग इति भावः । पादत्रयस्यावान्तरभिदामाह - तत्रेति । अस्पष्टेत्यादिवैषम्यं ब्रह्मलिङ्गगतमिति परैरुक्तम् । अत्र तु जीवादिलिङ्गगतमिति भिदा । द्वितीयतृतीयपादाद्यधिकरणयोर्जीवस्य पूर्वपक्षित्तत्वाज्जीवादीत्युक्तम् । तत्तत्प्रतिपादनच्छायानुसारीणि चतुर्थ इति तत्तत्प्रतिपादनम्- जीवादिलिङ्गप्रतिपादनम् न तल्लिङ्गप्रतिपादनम् । अस्पष्टस्पष्टस्पष्टतरपूर्वपक्षोत्थानहेतुभेदेन भिन्नास्त्रयः पादा इत्यर्थः । प्रथमपादचरमाधिकरणे अवयवभूतोपक्रमगतजीवलिङ्गमवयविभूतवाक्यार्थस्वारस्येन बाधितमित्युक्तम्, सर्वतादात्म्यमनः प्राणसम्बन्धार्भकौकस्त्वाणीयस्त्वव्यपदेशरूपलिङ्गानामवयविगतत्वेनाबाध्यत्वमिति प्रत्यवस्थानं परिह्रियते द्वितीयपादप्रथमाधिकरणे । इत्यवान्तरसङ्गतिः ॥

सर्वत्र प्रसिद्धोपदेशात् ॥ “सर्वं खलु” इत्यादेर्द्वितीययोजनायामुदाहरिष्यमाणत्वात् प्रथमयोजनापेक्षितम्- अथ खलु इत्यादिकमुपात्तम् । द्वितीयसूत्रे “भारूपः” इत्यस्य उपरितनवाक्यस्योपादास्यमानत्वात् अत्र भारूप इत्यन्त

मुपात्तम्, आदिशब्देनान्यद्गृहीतम् । अत्र रात्रिसत्रन्यायेन मनोमय उपास्यतया सम्बध्यते, आर्थवादिकस्यापि विध्यपेक्षितस्य स्वीकार्यत्वात् । ननु “स क्रतुं कुर्वीत” इत्यादिकमुपादीयताम् किमर्थं “यथाक्रतुरस्मिन्” इत्यादि वाक्योपादानम् ? उच्यते, “फलवत्सन्निधावफलं तदङ्गम्” इतिन्यायेन “स क्रतुं कुर्वीते” तिविधेः फलाश्रवणनिमित्तं पूर्वविहितोपासनाङ्गत्वं माभूदिति फलसम्बन्धप्रदर्शनार्थं तदुपादानम्, “शान्त उपासीत इति विहितोपासनाधिकृतस्यैव उपासनान्तरविधानमनुपपन्नमिति शङ्काव्यावृत्त्यर्थम् “अथ खलु क्रतुमयः पुरुषः” इति

वाक्यं घटकत्वेनोपात्तम् जीवस्य बहुविधोपासनप्रचुरत्वादनेकोपासनविधानं युक्तमिति भावः ॥

अत्र व्याख्यात्रन्तरैः “सर्वं खल्वि"त्यादिवाक्यस्य ब्रह्मपरत्वं स्पष्टमिति बुद्ध्वा “स क्रतु"मित्यादिवाक्ययोर्जीवविषयत्वेन पूर्वपक्षं कृत्वा ब्रह्मविषयत्वेन सिद्धान्त उक्तः, इह तु विषयैक्ये स्थित एव

पूर्वपक्षसिद्धान्तौ पश्चादभिधास्येते । प्रथमं व्याख्यात्रन्तरोक्तदिशा पूर्वपक्षसिद्धान्तौ उपवर्ण्येते । नन्वत्रोपासनान्तरं न विधित्सितम्, पूर्वविहितोपासनाङ्गभूतक्रतुविधिपरत्वादस्य वाक्यस्य । ततश्च मनोमयादिपदान्युपास्यान्तराभावात् प्रकृतब्रह्मपराणीति निश्चयान्न विचारविषय इति शङ्कां व्युदस्यति - अत्रेति । मनोमयादिपदानां प्रकृतोपास्यविषयत्वे प्रमाणाभावात् ब्रह्मपरत्वानिश्चयात् “स क्रतुम्” इतिनिर्दिष्टोपासकविशेषणत्वाश्रयणे तस्यानाविर्भूतगुणाष्टकस्य सत्वसङ्कल्पत्वा

देरघटमानत्वाच्च पाश्चात्यविद्यान्तरोपास्यपरत्वनिश्चये सति तद्विशेषनिश्चयाभावात् विचारस्यारम्भणीयत्वमित्यर्थः । उपासनस्येतिपदेन “तं यथा यथोपासते तथैव भवति” “यथाक्रतुरस्मिन् लोके

पुरुषो भवति तथेतः प्रेत्य भवति” इत्यनयोर्वाक्ययोरैकार्थ्यात् “क्रतुं कुर्वीत” इत्यत्र क्रतुशब्दश्चोपासनपर इति तदुपास्ये मनोमयत्वादिगुणके संशय इति भावः । तत्रेति - “स क्रतुं कुर्वीत” इत्यत्र उपास्यतया निर्दिष्टो मनोमयत्वादिगुणकः किं जीवः ? उत परमात्मा ? इति विचारः । तदर्थं कर्मकर्तृव्यपदेशशब्दविशेषोपसंहारगतब्रह्मशब्दादयः किं मुख्याः, उतामुख्याः? तदर्थं मनोमयत्वादिकं जीवस्यैव सम्भवति, उत परमात्मनोऽपि घटते ? इति । तदर्थम् “अप्राणो ह्यमनाः” इति किं मन आदिसम्बन्धमात्रनिषेधः, उत समबन्धविशेषनिषेधः ? इति । यदा सम्बन्धमात्रनिषेधः तदा मनोमयत्वादेर्जीवस्यैवासाधारणतया कर्मकर्तृव्यपदेशादीनाममुख्यत्वेन “स क्रतुं कुर्वीत” इति विहितोपासनस्योपास्यो जीव इति पूर्वपक्षस्थितिः। यदा सम्बन्धविशेषनिषेधः तदा मनोमयत्वादेः परस्मिन्सम्भवेन कर्मकर्तृव्यपदेशादीनां मुख्यत्वात् तत्रोपास्यतया विहितः परमात्मेति सिद्धान्ते फलफलिभावः । पुर्वपक्षमुपपादयति - कुत इत्यादिना । ननु कथमस्य पादस्य अस्पष्टजीवलिङ्गवाक्यविषयत्वम् ? मनोमयत्वादिकं हि स्पष्टं जीवलिङ्गमिति चेत् न, स्पष्टस्य मनस्सम्बन्धमात्रस्य जीवलिङ्गत्वाभावात् जीवलिङ्गभूतस्योपकरणोपकरणित्वलक्षणसम्बन्धविशेषस्यास्पष्टत्वाच्चेत्यभिप्रायेण मनः प्राणयोः क्षेत्रज्ञोपकरणत्वादित्युक्तम् । ननु “सर्वं खल्वि"तिवाक्ये प्रकृतं ब्रह्मैव “स क्रतुं कुर्वीत” इत्यत्रोपास्यतया सम्बध्यमनोमयत्वादिगुणानां विशेष्यं स्यादिति शङ्कायां किं ब्रह्मशब्दस्य विधिपदाकाङ्क्षया उत्तरत्रान्वयः, उत क्रतुं कुर्वीतेति विधिपदस्योपास्यसाकाङ्क्षत्वात्सन्निहितानां मनोमयादिपदानां विशेष्यसाकाङ्क्षत्वाच्च ब्रह्मशब्दस्य उत्तरत्रान्वयः ? इति विकल्पमभिप्रेत्य प्रथमं शिरो दूषयति - न च सर्वमिति । अन्यार्थतया निराकाङ्क्षत्वादित्यर्थः । द्वितीयं दूषयति - न च स क्रतुमिति । स्ववाक्योपात्तेनेति - विच्छेदकाभावात् महावाक्यैकत्वं विवक्षितम् । ततश्च “एष आत्मा” इति स्ववाक्यस्थेनानन्यार्थेन समानलिङ्गोनात्मशब्देन विशेष्याकाङ्क्षाशमनाद्वाक्यान्तरस्थान्यार्थभिन्नलिङ्गब्रह्मशब्दाकर्षो न युक्त इति भावः । प्रथमान्तानां मनोमयादिपदानामुपासनवाचिपदेनान्वयायोगात् ब्रह्मपदमन्वेतव्यमित्यत्राह - मनोमय इति । क्रतुशब्देन द्वितीयान्तपदस्याप्यनन्वयात् षष्ठयन्ततया विभक्तिविपरिणामे कार्ये सन्निहितस्य

साकाङ्क्षस्यैव पदस्य विभक्तिविपरिणामो न्याय्यः, न तु वाक्यान्तरस्थस्य निराकाङ्क्षस्येत्यर्थः । उभयाकाङ्क्षामनोमयादिपदस्य क्रतुं कुर्वीतेत्यस्य चाकाङ्क्षा । न वक्तुं युक्तमिति पञ्चम्यन्वयः । मनोमयत्वादि च सत्यसङ्कल्पत्वात्पूर्वमेव प्रतिपन्नम्, अणीयस्त्वञ्च भूयस्त्वात्पूर्वं श्रुतम्, व्यतिरेकनिर्देशश्च मनोमयत्वादेः पाश्चात्यः, अतो मनोमयत्वादिस्वारस्यानुगुणदितरन्नेयमित्यभिप्रायेण चोक्तं मनोमयत्वादिगुणकेनेति । जीवपरत्वे ब्रह्मशब्दः कथमित्यत्राह - एवमिति ॥

एवं प्राप्त इति - प्रतिज्ञावाक्यमध्याहरति - मनोमयत्वादिति । सत्यसङ्कल्पत्वादिविशेषितप्राकरणिकात्मशब्दानुरोधेन परतमात्मेत्युक्तम्, सर्वत्रेति व्याख्येयं पदम् । तद्व्याचष्टे - वेदान्तेष्विति । सामान्यशब्दवत्सु विशेषशब्दवत्सु चेति भावः । हेतुपदं व्याचष्टे - प्रसिद्धस्येति । ननु सवर्वेदान्तेषु परतत्त्वपरतया प्रसिद्धब्रह्मशब्दश्रवणादिति परैव्यर्ाख्यातम्, तन्मतेन व्याख्याने सत्यपि तद्विहाय कथं युक्तयन्तरोक्तिः ? उच्यते; पूर्ववाक्यस्थब्रह्मशब्दानन्वयस्योपसंहारस्थब्रह्मशब्ददौर्बल्यस्य च पूर्वपक्षिणोक्तत्वान्न तथोत्तरं वक्तुं युक्तमिति भावः । मनस्सामान्येन सम्बन्धसामान्यपरं वाक्यमाह - मनोमयः प्राणशरीरनेतेति । “अमृतो हिरण्मयः” इति परमात्मपरत्ववैशद्यायोपात्तम् । मनस्सामान्येन सम्बन्धविशेषपरं वाक्यमाह - हृदा मनीषेति । हृदिति भक्तिरुच्यते, मनीषेति धृतिः । “न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्” इति पूर्वार्धकमेकरूपं पठित्वा “भक्तया च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह” इति महाभारत उक्तत्वात् । अभिक२प्तः- ग्राह्यः । मनोविशेषेण सम्बन्धविशेषवाचिवाक्यमाह - न चक्षुषेति । प्राणशरीरत्वे श्रुतिमाह - तथेति । प्राणस्य प्राणः- आधारः । “सर्वाणि” इत्यादिवाक्ये प्राणशब्दस्य यौगिकवृत्त्या परमात्मपरत्वं प्रागुक्तम्, इदानीमपर्यवसानवृत्त्यापि परमात्मपरत्वेन तद्वाक्यमुपात्तम्, वैश्वा

नराधिकरणन्यायेन उभयथापि परमात्मपरत्वं युक्तमिति भावः । अत्र वाक्यजाते प्रतिपन्नं मनोमयादिशब्दार्थमाह - मनोमयत्वमिति । ग्राह्यग्राहकलक्षणसम्बन्धविशेषाभिप्रायेण मनोमय इत्युक्तमित्यर्थः ।

प्राणशरीरशब्दार्थमाह - प्राणेति । मनोविकारो मनोमयः, सर्वविकाराणां ब्रह्माधिष्ठानत्वात् ब्रह्मसामानाधिकरण्यमिति कैश्चिदुक्तम्, तदा हि मनोविकाराः सुखदुःखेच्छाद्वेषादयो ब्रह्मेत्युक्तं स्यात् । तदयुक्तम्, सत्यसङ्कल्पत्वादिकल्याणगुणप्रकरणविरोधात् हेयगुणविशेषाणामुपास्यत्वानुपपत्तेश्च । उक्तं हि “यथाक्रतुरस्मिंल्लोके भवति तथेतः प्रेत्य भवति” इति, अतो हेयगुणापत्तिरेव फलं स्यात्, प्राणप्रेर्यं

शरीरमस्येत्यर्थश्चेत् प्राणशब्देन प्राणसम्बन्ध्यभिधानं क्लिष्टं स्यात् । प्राणः शरीरं चास्येति समासो न घटते, प्राणः शरीरे यस्येति व्यधिकरणबहुव्रीहिश्च क्लिष्टः, अतो यथोक्त एवार्थ इत्यभिप्रायः । उपसंहारस्वारस्यमाह - एसञ्चेति । मनःप्रभृतिनिषेधवाक्यार्थमुक्तार्थाविरुद्धमाह - अप्राण इति । ग्राह्यग्राहकभावनियन्तृनियाम्यत्वादिरूपसम्बन्धविशेषो विधेयः, उपकरणोपकरणित्वलक्षणसम्बन्धविशेषो निषेध्यत इत्यभिप्रायः ।

अथ स्वाभिमतार्थयोजनां कर्त्तुमारभते - अथवेति । पूर्वस्यां योजनायां सूत्रे प्रतिज्ञावाक्यस्याध्याहार्यत्वादुपक्रमोपसंहारगतब्रह्मशब्दैकविषयत्वप्रतीतिस्वारस्येन भिन्नविषयत्वप्रतीतिपूर्वकपूर्वपक्षानुदयेनाधिकरणानारम्भात् श्रवणमननाभ्यामेव निष्पाद्यायाश्शान्तेरुपासननिष्पादकत्वस्य “एवंविच्छान्तः” इति श्रुतिसिद्धत्वादन्यत्रापि शान्त्युपायत्वेनोपासनविधानादशर्नाच्छान्तशब्दस्य शान्तिकामपरत्वास्वारस्यात् वृत्त्यनुरोधाच्च इयमेव योजना समुचितेति भावः । अत्रैवोपासनं विधीयत इति - अत्र शान्त्युपायोपासनम्; उत्तरत्र मोक्षोपायोपासनमिति नायमर्थः, अपि तु अत्रैव मोक्षार्थोपासनं विधीयत इत्यर्थः । शान्तशब्दार्थं स्वरसतो वदन् वाक्यार्थमाह - सर्वात्मकमिति । न त्वाशंसायां क्त इह विहितोऽयमिति भावः । तर्हि “स क्रतुं कुर्वीते"ति किमुच्यत इत्यत्राह - स क्रतुमिति । के पुनर्विधेया गुणा इत्यत्राह - उपादेयाश्चेति । उपादेयाः- विधेयाः । यथा “अग्निहोत्रं जुहोति” इति होमे विहिते “दध्ना जुहोति” इत्यत्र दध्नो होमसाधनत्वमात्रं विधेयम्, जुहोतीत्यनुवादस्तद्वदिति । ननुपासनविधेरुत्पत्तिशिष्टसर्वात्मकत्वगुणाव

रोधान्मनोमयतवादीनां नोपास्याकारत्वमिति चेन्न, सवर्ात्मकत्वस्य उपासनविधिवाक्यस्थत्वाभावात् ।

तज्जत्वतल्लत्वतदनत्वैः सर्वमिदं ब्रह्म खल्विति प्रसिद्धवन्निर्देश उपासनविध्येकवाक्यत्वं निवारयति । न ह्युपासीत खल्विति प्रसिद्धवन्निर्देशवचनव्यक्तिर्घटते । वाक्यार्थमाह - अत इति । एवमेकविषयत्वमङ्गीकृत्यैव पूर्वपक्षसिद्धान्तौ दर्शयितुं संशयमाह - तत्रेति । तत्र- एकविषयत्वे सिद्धे । किमत्रोपास्यतया निर्दिष्टो जीवः, उत परमात्मेति विशयः । तदर्थं किं ब्रह्मशब्दो जीवपरः, उत परमात्मपरः । तदर्थं किं

ब्रह्मशब्दकर्मकतर्ृव्यपदेशादयो मुख्याः, उत न? इति । तदर्थमणीयस्त्वव्यपदेशः किं मुख्यत्वविरोधि, उत न । तदर्थमणीयस्त्वज्यायस्त्वयोः किं स्वाभाविकम् ? किमौपाधिकम् ? इति । यदाऽणीयस्त्वं स्वाभाविकं ज्यायस्त्वमन्यथा सिद्धं तदाऽणीयस्त्वस्य ब्रह्मशब्दादिमुख्यताविरोधित्वेन ब्रह्मशब्दस्य जीवपरत्वादुपास्यतया निर्द्दिष्टो जीव इति पूर्वपक्षस्थितिः । यदाऽणीयस्त्वमौपाधिकं ज्यायस्त्वं स्वाभाविकं तदाऽणीयस्त्वव्यपदेशस्य ब्रह्मशब्दादिमुख्यताविरोधित्वाभावेन ब्रह्मशब्दस्य परमात्मपरत्वेनात्रोपास्यतया निर्दिष्टः परमात्मेति सिद्धान्ते फलफलिभावः । हेतुं विवृणोति - सर्वशब्देति । ततः किमित्यपेक्षायां जीवस्य सामानाधिकरण्योपपत्तिमाह - ब्रह्मादीति । ब्रह्मादिभावः- चतुर्मुखादिभावः । अनादीति - अहितकर्मोत्पादनहेतुरविद्या, तद्धेतुः कर्मेति बीजाङ्कुरादिनयादनादिः । तस्यैवेत्यवधारणसूचितां परस्य सर्वभावानुपपत्तिं विवृणोति - परस्येति । सर्वज्ञत्वाद्धेयं जानाति, सर्वशक्तित्वान्निवारयितुं शक्नोति, न च ज्ञानशक्तयोः सङ्कोचः, अविद्यामूलकर्मविरहात्, अतो न सर्वभावः सम्भवतीति भावः । ब्रह्मशब्दः कथमित्यत्राह - प्रत्यगिति । तदुपपादयति- अत एवेति । परमात्मेति दृष्टान्ततयोक्तम्, यथा आत्मशब्दो जीवेश्वरसाधारणः, तद्वत् ब्रह्मशब्द इति भावः ।

त्रिपाद्याः परब्रह्माभ्युपगमेन वाक्यविशेषविचारपरत्वादत्र पूर्वपक्षिणः परमेश्वराभ्युपगमवाद उपपन्नः । आत्मशब्दस्य साधारण्यं युक्तम्, प्रवृत्तिनिमित्तसाधारण्यात्, आप्नोतीति हि तद्वयुत्पत्तिः, जगद्देहं व्याप्नोतीति, एवमुभयसाधारणं ब्रह्मशब्दप्रवृत्तिनिमित्तं वक्तव्यमित्यत्राह - प्रत्यगात्मनश्चेति । कथं जन्मादिकारणत्वं

हेतुतयोच्यते ? हेतुनिर्द्देशो हि पूर्वप्रसिद्धयपेक्षः, प्रसिद्धिश्च परमात्मविषयेत्युक्तमित्यत्राह - अविदुष इति । जन्मादिहेतुत्वं बद्धस्य, ब्रह्मत्वं तु शुद्धस्य, तस्य सर्वशब्दसामानाधिकरण्यं कथं घटत इत्यत्राह - तदयमर्थ इति ॥

सिद्धान्तमाह - अत्रेति । यथा “अन्तस्तद्धर्मोपदेशात्” इत्यन्तश्शब्दः प्रतिज्ञापरः, एवं सर्वत्रेति सूत्रपदं प्रतिज्ञापरमित्याह - सर्वत्रेति । तदेव पदं व्याचष्टे - सर्वमिति । सर्वत्रेतिपदं न वाचकवेदान्तपरम्, अपितु वाच्यजगत्परमित्यर्थः । नाशब्दमिति वा नेतर इति वा अन्य इति वा पूर्वपादादनुवर्त्तते, अतः पर्यवसानलब्धं प्रतिज्ञापदं परं ब्रह्मैवेति । “न शारीर” इत्यत्र वक्ष्यमाणमनुसन्धायाह - न प्रत्यगात्मेति । प्रसिद्धोपदेशादिति पदं व्याचष्टेतज्जेति । जगज्जन्मस्थितिलयानां तत्कृततादात्म्यस्य च प्रसिद्धत्वेनोपदेशादित्यर्थः । इतिशब्देन हेतुतयोक्तत्वात् जन्मादीनां प्रसिद्धत्वम् प्रमाणसिद्धस्यैव हि हेतुता । तत्कृतातादात्म्यस्य प्रसिद्धत्वं खलुनासिद्धम् । तत्स्पष्टयति - ब्रह्मण इति । कारणत्वनिबन्धनतादात्म्यस्य चात्र प्रसिद्धेत्वेनोपदेशः फलितः । पसिद्धत्वमस्तु, ततः किमित्यत्राह - तच्चेति ।

प्रसिद्धिं दर्शयति - तथाहीति । यतो वा इमानीति वाक्यस्य जीवविषयत्वव्यावृत्त्यर्थमाह - आनन्दो ब्रह्मेति । आनन्दशब्दस्यानन्दमयपरत्वव्यक्तीकरणायाह - पूर्वानुवाकेति । वाक्यान्तरमाह - तथेति । वाक्यान्तराणामप्युक्तार्थपरत्वात् तेष्वपि तत्प्रसिद्धिमाह - एवमिति । श्रुत्यन्तरेष्वपि जन्मादिहेतुत्वकृततादात्म्यमप्यर्थसिद्धमित्याह - अत इति । तदात्मकतया तादात्म्यमिति - तादात्म्यकतयेति श्रुत्यन्तरविषयम्, तज्जत्वतदनत्वतल्लत्वैः श्रुत्यन्तरेषु तदात्मकत्वेनोपपादनादिह प्रतिपन्नमपि तादात्म्यमुपपन्नमित्यर्थः । चिदचिद्विलक्षणस्य कथं तादात्म्योपपत्तिरित्यत्राह - अतस्सर्वेति । सर्वात्मशब्दवैशद्याय सवर्शरीरमित्युक्तम् । आकृत्यधिकरणन्यायेन प्रकारिपर्यन्ताभिधानसिध्द्यर्थमाह - सर्वप्रकारमिति । श्रुतिरेवसर्वं खल्वित्यादि श्रुतिरेव । उपपाद्यतज्जलानीत्यंशेन कार्यकारणभावेन शरीरात्मभावेन चोपपाद्येत्यर्थः । तत्र ह्यन्तर्य्यामिरूपेण कृतस्य प्राणनस्य शरीरात्मभावापेक्षत्वात्तेन च तथोपपादितं भवति । स्थितिदशायां हि शरीरात्मभावः, प्रलयावस्थायान्तु “एकमेवाद्वितीय"मिति सर्वभेदशून्यत्वान्न शरीरात्मभावसिद्धिरित्यत्राह - परं ब्रह्म हीति । स्थितौ शरीरात्मभावोपपादनादुभयलिङ्गस्य ब्रह्मणः कारणावस्थायामपि विशिष्टत्वमर्थसिद्धं श्रुत्यन्तरैः कण्ठोक्तं चेत्यभिप्रायः । सर्वदा विशिष्टं चेत् कार्यकारणवस्थयोः को भेद इति शङ्कापरिहाराय सूक्ष्मस्थूलसिदचिद्वस्तुशरीरतयेत्युक्तम् । ततः किमुभयलिङ्गकत्वस्येत्यत्राह - एवं भूतेति । जीवस्यैव सर्वतादात्म्यं पूर्वपक्षिणोक्तमनूद्य दूषयति - यदुक्तमित्यादिना । मुक्तस्य तत्सम्भवतीत्यत्राह - मुक्तस्येति ।

जगज्जन्मस्थितिप्रलयकारणत्वनिमित्तमिति बहुव्रीहिः, कारणत्वप्रयुक्तमित्यर्थः । जीवस्य कर्मद्वारा जगत्कारणत्वमनूद्य दूषयति - जीवकर्मेति । तत्कर्मनिमित्तत्वेऽपीति - न हि कर्म जगतः कर्त्तृरूपनिमित्तमुपादानञ्च, उभयमीश्वर एव, कमर् तु केवलं वैषम्यहेतुः, यथा घटादिनिर्माणस्य भोक्तृकमर्निमित्तत्वेऽपि भोक्तृकर्मणां न कर्तृत्वमुपादानत्वं वा, कुलालमृत्पिण्डयोरेव हि तदुभयम् । न च “तज्जला"नित्यत्र तच्छब्दस्य कर्मवाचित्वम्, अतो न जीवस्य जगत्कारणत्वकृतं तादात्म्यमस्तीत्यभिप्रायः । सूत्रार्थमुपसंहरति - अत इति । द्वितीययोजनोक्तार्थस्यैव साम्प्रदायिकत्वमाह - इममेवेति । सर्वं खल्वित्यादिवाक्येन सर्वात्मतयोक्तं ब्रह्म ईशः परमात्मेत्यर्थः ॥

॥ विवक्षितगुणोपपत्तेश्च ॥ विवक्षितत्वम्- वक्तुमिच्छाविषयत्वम् । अपौरुषेयवाक्यप्रतिपाद्यगुणानां पुरुषेच्छापूर्वकत्वायोगात् कथं विवक्षितत्वमिति शङ्कायां विवक्षितपदं व्याचष्टे - वक्ष्यमाणा इति । विवक्षितानामेव वक्ष्यमाणत्वाद्विवक्षितशब्देन वक्ष्यमाणत्वं लक्ष्यत इत्यर्थः । सर्वं खल्विति प्रथमवाक्यापेक्षया वक्ष्यमाणं ह्यनन्तरवाक्यगतगुणजातम् । निषेधवाक्यविरोधपरिहाराय सामान्यं मनोमयशब्दं विशेषवाक्यानुगुणं व्याचष्टे - मनोमय इति । परिशुद्धेन मनसैकेनेति - “अब्भक्षो वायुभक्षः” इतिवदवधारणगर्भ इत्येकशब्दस्य भावः । तच्च “न चक्षुषा गृह्यते नापि वाचा मनसा तु विशुद्धेन” इति श्रुत्यानुगुण्यात् । तद्विवृणोति - विवेकेति । फलितार्थमाह - अनेनेति । कुत इत्यत्राह - मलिनेति । मलिनमनोग्राह्यत्वं हेयाहेत्वव्यापकम्, अतो व्यापकनिवृत्त्या व्याप्यनिवृत्तिरित्युभयलिङ्गकत्वसिद्धिरिति भावः । मुक्तस्यापि विशुद्धमनोग्राह्यत्वं न सम्भवति, मुक्तं स्वातन्त्र्येण गृह्नाति चेत् मनोऽशुद्धम्, ब्रह्मपर्यन्तत्वेन चेत् विशिष्टस्य ब्रह्मण एव विशुद्धमनोग्राह्यत्वमिति । प्राणशरीरशब्दं व्याचष्टे - जगतीति । प्राणशरीरशब्देन प्राणधारकत्वं कथमवगम्यत इत्यत्राह - प्राणो यस्येति । शरीरत्वे सति कथमाधेयत्वादिकमित्यत्राह

आधेयत्वेति । भारूप इति - ज्ञानस्वरूप इत्यर्थस्त्वतिक्लिष्टः, रूपशब्दो हि धर्मवाची, भाशब्दो हि दीप्तिपरः । दीप्तिधर्मकत्वं विग्रहद्वारकम् “आदित्यवर्णं तमसः परस्तात्” “रुक्मवर्णम्” इत्यादिश्रुत्यैकार्थ्यादित्यभिप्रायेणाह - भास्वररूप इति । तद्विवृणोति - अप्राकृतेति । सूक्ष्मस्वच्छस्वरूप इति । सूक्ष्मत्वम्- व्याप्त्यर्हत्वम् । स्वच्छत्वम्- निर्मलत्वम् । सकलेतरकारणभूतस्याकाशस्येत्यनेन “आकाश एव तदोतञ्च प्रोतञ्च” इति वाक्यं स्मारितम् ।

“अक्षरमम्बरान्तधृते"रित्यधिकरणन्यायादाकाशशब्दः प्रकृतिवाचीति भावः । अन्यानपि प्रकाशयतिस्वस्मै प्रकाशयतीत्यर्थः । सर्वा वा क्रियेति - लोकिकवैदिकसकलक्रियाणां सद्वारककर्त्ताऽसौ । यद्वा सर्ववैदिकक्रिया आराधनं यस्य स सर्वक्रिय इत्यर्थः । इच्छाबाहुल्यव्यावृत्त्यर्थं सर्वकामपदं व्याचष्टे - काम्यन्त इति । भोग्यभोगोपकरणादीनां प्राकृतत्वव्यावृत्त्यर्थमाह - ते परिशुद्धा इति । अप्राकृता इत्यर्थः । सत्यकामपदैकार्थ्यादित्यभिप्रायः । सर्वगन्ध इत्यादि - रूपस्पर्शादिनिषेधपरवाक्यान्तराणामपि तुल्यन्यायत्वद्योतनार्थ आदिशब्दः । गन्धरसादीनामव्यवधानेन स्वरूपान्वयित्वाभावात् सद्वारकत्वे सति प्राकृतानां पृथिव्यादिगतगन्धरसादीनां हेयत्वेन कल्याणगुणप्रकरणविरोधात् “भारूप” इति दिव्यविग्रहस्य प्रकृतत्वाच्चाप्राकृतदेहद्वारकगन्धरसादिविधिरित्यर्थः । “तं ब्रह्मगन्धः प्रविशति ब्रह्मरसः प्रविशति” इति मुक्तात्मनि साम्यापन्ने ब्रह्मगन्धरसप्रवेशव्यपदेशश्चास्यार्थस्योत्तम्भकः । सर्वमिदमिति जगतोऽपि सर्वकर्मादिगुणान्तर्भावाद्गुणपरं तद्वयाख्यातम् । “अभ्यात्त” इत्यत्र स्वीकरणरूपगुणविधिः। ननु नायमादिकर्मणि क्तः, गुणगणादानस्य नित्यत्वात् । न चाभ्याददातिर्गत्यर्थः, स्वीकरणार्थत्वात् । नाप्यकर्मकः- सर्वमिदमिति श्रवणात् । न च शिष्टादिष्वन्यतमः, अपठितत्वात् । तत्कथं कर्त्तरि क्तः “तयोरेव कृत्यक्तखलर्था” इति भावकर्मणोरेव हि तत्स्मरणमित्यत्राह - भुक्ता इति । प्रयुक्तानुशासनत्वात् व्याकरणशास्त्रस्य, यथाप्रयोगमनुशासनं कार्यम्, न तु यथानुशासनं प्रयोगान्यथाकरणमिति भावः । ये तु भुक्ता ब्राह्मणा इत्यत्र मत्त्वर्थीयाकारप्रश्लेषमिच्छन्ति तेषां भुक्तशब्दस्य अर्थादिगुणान्तर्भावकल्पनम् अकारप्रश्लेषणमिति तत्र गौरवं पश्यतोक्तम् कर्त्तरीति । कर्त्रर्थतया प्रयोग एव हि भुक्तादीनामाकृतिगरान्तर्भावकल्पननिमित्तम्, तेनैव कर्त्रर्थत्वं क्तप्रत्ययस्य कल्प्यतां किमश्रूयमाणाकारप्रश्लेषेणेति भावः । यद्वा कर्त्तरि प्रतीतिः प्रतिपत्तिः, सा यथा भुक्ता ब्रह्मणा इत्यत्र प्रतिपाद्यते- निरूप्यते, एवमत्रापि निर्वोढव्येत्यर्थः । सोऽस्य नास्तीत्यवाकीति - फलितार्थकथनमेतत्, वाकः- उक्तिः, अवाकः- तदभावः । अवाकोऽस्यास्तीत्यवाकशब्दस्तद्धितप्रत्ययः । यद्वा वाकी न भवतीत्यवाकी । कुत इत्याह - कुत इत्यत्राहेत्यर्थः । अवाकत्वं साक्सामर्ध्याभावादिति शङ्काव्यावृत्त्यर्थम् अनादर इतिपदमिति भावः । तदुपपादयति - अवाप्तेति । अवाकित्वस्य तत्फलतामाह - अत एवेति । निषेध्योवाको हेयरूप इति दर्शयति - अजल्पाक इति । सापेक्षत्वनिबन्धनबहुप्रलापो निषेध्यः, न तु वाक्सामथ्यर्विरह इत्यर्थः । पदद्वयप्रतिपाद्योऽयमेको गुण इत्याह - परिपूर्णेति । सूत्रार्थमुपसंहरति - त एत इति ।

एवमन्वय उक्तः,कथं परमात्मन्येवेत्यवधारणसिद्धिः, मुक्तेऽपि ह्येते गुणाः शङ्कनीया इत्यपेक्षायां पूर्वसूत्रोक्तान्वयस्थेम्ने व्यतिरेकमाह -

॥ अनुपपत्तेस्तु न शारीरः ॥ शारीरशब्देन मुक्तावस्थस्यापि क्रोडीकारोपपादको योग्यशब्दः, अनुपपत्तेस्तु नेतर इति वक्तव्येपि मुक्तावस्थजीवस्य प्रतिपाद्यत्वानुपपत्तिस्फोरणार्थं शारीरशब्दनिर्द्देश इति भावः । बद्धोपादानं दृष्टान्ततया, यथा निग्राह्यस्य निग्राहकस्वरूपैक्यानुपपत्तिः तथाऽनुग्राह्यस्याप्यनुग्राहकस्वरूपैक्यानुपपत्तिरित्यभिप्रायः । प्रस्तुतगुणानुपपत्तिः प्रतिगुणामनुसन्धेया । पर्यालोचयतां शङ्का न जायत इत्यन्वयः । न मुक्तपरिग्रहशङ्काहेत्वन्यथासिद्धिः, किन्तु हेत्वसिद्धिरेवेति, तुशब्दाभिप्राय इत्याशयवतोकतं शारीरपरिग्रहशङ्का न जायत इति ॥ अनुपपत्तेस्तु न शारीर इत्यत्र यदुक्तं परैः- जीवपरयोरैक्याज्जीवधर्मैः परस्य विशिष्टत्वानुसन्धानोपपत्तिश्चेत्तदनन्यत्वादेव परमात्मधर्माः सत्यसङ्कल्पत्वादयोऽपि जीव उपपद्यन्त इति शङ्कानिरासार्थमिदं सूत्रम् । आरोप्यगतधर्मैरधिष्ठनं विशेष्यते, यथा सर्पगतभीषणत्वादिना तदधिष्ठानम् । न चाधिष्ठानधर्मैरारोप्यं विशेष्यते, यथा रज्जुत्वेन सर्पः, अतो जीवधर्मैर्मनोमयत्वादिभिः परमात्मनो विशेष्यत्वं युक्तम्, न तु परमात्मधर्मैः सत्यसङ्कल्पत्वादिभिजीवस्य विशेष्यत्वमिति सूत्रार्थ इति । तदयुक्तम्; सर्पादिव्यावर्त्तकरज्जुत्वादिधर्मप्रतीतौ सर्पादिदर्मभूतभीषणत्वादिभिरधिष्ठानस्य विशेषणायोगात् । इह च जीवव्यावर्तकास्सत्यसङ्कल्पत्वादयः प्रतीयन्ते, अतोऽध्यस्तजीवधर्मैः परमात्मनो विशेष्यत्वमयुक्तम् । मनोमयत्वादिभिः सत्यसङ्कल्पत्वादिभिश्च पदैर्वस्तुमात्रं लक्ष्यत इति चेत्, तर्हि “विवक्षितगुणोपपत्तेश्च” इतिपूर्वसूत्रं विरुध्यते, उभयविधगुणानाममविवक्षितत्वं सूत्रकाराभिमतञ्चेत् “अनुपपत्तेस्तु न शारीरः” इतिवदनुपपत्तेस्तु नेश्वर इति च सूत्रं वक्तव्यम् , वस्तुमात्रविवक्षायां जीवधर्माणामिवेश्वरधर्माणामप्यनुपपत्त्यविशेषात् । अतः ईश्वरधर्मेषु तात्पर्यमवगम्यते, अतस्तेषु प्रतीयमानेषु रज्जोर्भीषणत्वादिनेव मनोमयत्वादिना परमात्मनो विशेष्यत्वमनुपपन्नम् मनोमयत्वादिकं न जीवसाधारणमिति चेत् किं मनोमयादिपदैर्मनःप्राणाद्यधीनज्ञानप्रवृत्तित्वं विवक्षितम्, उत विशुद्धमनोग्राह्यत्वप्राणशरीरकत्वादिकम् ? प्रथमे जीवासाधारणत्वान्मनोमयत्वादिभिः परमात्मनो विशेष्यत्वानुपपत्तिः । द्वितीये तु मनोमयत्वादीनामरोपितधर्मत्वाभावादारोप्यगतधर्मैरधिष्ठानस्य विशेष्यत्वसम्भवरूपन्यायाविषयत्वं वाक्यस्य स्यात् । किञ्च नित्यस्य जीवस्य परस्मिन्नारोपितत्वाभावादेवोक्तन्यायः सुतरामिह न सङ्गच्छते, तस्मात्परोक्तः सूत्रार्थोऽनुपपन्नः । अथ

परमसाध्यहेतुमाह -

॥ कर्मकर्तृव्यपदेशाच्च ॥ अभिसम्भविता- प्राप्ता । प्राप्यप्राप्तृभेदः सूत्रविवक्षितः । ततः किं “सर्वं खल्विदं ब्रह्म” इत्युक्तस्योपास्यस्य ब्रह्मणो जीववैलक्षण्यस्येत्यत्राह - अत इति । प्राप्यप्राप्तारावेव ह्युपास्योपासकौ, अतः उपास्यं ब्रह्म उपासकाज्जीवाद्विलक्षणमित्यर्तः । स्वरूपस्यैव प्राप्यत्वमिति चेत् श्रुतिस्वारस्यभङ्गः ।

प्राप्तुरन्यदेवेदमिति - अत्रेदमिति निर्देशो ब्रह्मशब्दाभिहितवस्त्वभिप्रायः ॥

अवस्थाभेदेन प्राप्यत्वप्राप्तृत्वोपपत्तिरिति शङ्कापरिहारार्थमेकस्याभेवावस्थायां भेदव्यपदेशं दर्शयत्यनन्तरसूत्रद्वयेन ॥

शब्दविशेषात् ॥ अस्मिन् सूत्रे असमानविभक्तिकशब्दो विवक्षितः । एवं समानप्रकरण इति - तत्रापि शाण्डिल्यविद्यायामित्यर्थः । सौत्रपदशक्तेस्सङ्कोचकाभावात् समानप्रकरणेन प्रकृतोपपादनस्य अन्यत्र दृष्टत्वाच्च न छान्दोग्यवाक्यमात्रविषयमिदं सूत्रमिति भावः । जीवपरयोरिति - उपास्योपासकयोरित्यर्थः । जीवपरयोरित्युक्तिः फलितार्थाभिप्रायेण, अतो नान्योन्याश्रयः, अत्र हिरण्यमयशब्देन दिव्यविग्रहवत्त्वं च सिद्धम् । उदाहृतवाक्ये शब्दविशेषं दर्शयति - अत्रेति । सप्तम्यन्तेनेति - अन्तरात्मन्नित्यत्र नकारलोपाभावात् “नञ्सम्बुध्यो"रिति नञ्सम्बुध्योरेव नकारलोपप्रतिषेधादिह सम्बुध्द्यन्तत्वेऽनन्वयाच्च “आत्मन्पश्यन्सर्वभूतानि” इतिवत् लुप्तसप्तमीकोऽयं निर्देश इति भावः । एवं स्वप्रकरणे षष्ठीप्रथमात्मकः, समानप्रकरणे सप्तमीप्रथमात्मकश्च शब्दविशेषो विवक्षितः ॥

हृदयस्थस्य ईश्वरत्वमुपबृंहणेन विशदयितुमाह - ॥

स्मृतेश्च ॥ “एष म आत्मान्तर्हृदये” इति हृदयशब्दप्रत्यभिज्ञापनार्थमाह - सर्वस्येति । उपास्यत्वज्ञापनार्थं तदनन्तरवाक्यमाह - यो मामिति । हृत्स्थस्य ईश्वरत्वकण्ठोक्तिं दर्शयति । ईश्वर इति - “तमेव शरणं गच्छ” इत्युपादानं च हृदयस्थस्य भजनप्रदर्शनार्थम् । सर्वस्येतिसर्वशब्दो जीवविषयः,

पराधीनस्मृत्याद्याश्रयभूतवस्तुविषयत्वात् । पुरुषोत्तमशब्दवाच्यस्य जीववैलक्षण्यं तत्रैवोक्तम् । सर्वभूतशब्दोऽपि जीवविषयः, भ्रान्त्याश्रयत्वाद्देहाख्ययन्त्रारूढत्वाच्च । अत्र चशब्दोऽवान्तरशङ्कापरिहारहेतुद्वयसमुच्चयार्थः, अन्वाचयो वा । अत्र केचित्- कर्मकर्तृव्यपदेशादयो घटकादिकृतगगनभेदाश्रयेण बालिशकृताल्पत्वमहत्त्वादिव्यवहारा इव काल्पनिकं भेदमाश्रित्य “तत्त्वमसी"त्यात्मैकत्वोपदेशग्रहणात्प्राक् प्रवर्त्तन्ते, ऐक्योपदेशग्रहणानन्तरं सर्वव्यवहारपरिसमाप्तिरित्याहुः । अत्र ब्रूमः, यस्य भ्रमस्स एव भ्रान्तिसिद्धर्मथं व्यपदिशति, तस्यैव उपदेशग्रहणात्तन्निवृत्तिः, एवं सति जीवेश्वरभेदभ्रान्त्या तयोः कर्मकर्तृभावादिकं को व्यपदिशति । किं जीवः ? उतेश्वरः?

उत वेद एव ? तत्राश्रुतशास्त्रस्य जीवस्य देहातिरिक्तं जीवमप्यजानतः सत्यसङ्कल्पत्वादिलक्षणेश्वरप्रतीत्यसम्भवान्न तद्भ्रान्तिमूलत्वं कर्मकर्तृव्यपदेशस्य सम्भवति, नापि श्रुतशास्त्रस्य जीवस्य, तस्य जीवेश्वरभेदभ्रान्तौ श्रुतिरेव मूलमिति परमनिःश्रेयसार्थिभिर्वेदान्तानामनुपादेयत्वप्रसङ्गः, स्वनिमित्तमपि भ्रान्तिं श्रुतिः स्वयमेवैक्योपदेशेन निवत्त्रयतीति चेत्, तथापि “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” इति न्यायादुवादेयत्वमेव स्यात् । कर्मकर्तृभावादिव्यपदेशस्य ईश्वरभ्रान्तिमूलत्वमपि घटते, व्पदेशवैघट्यात् । तथा सति हि “एतमितः प्रेत्याभिसम्भवितास्मि” इति व्पदेशो न स्यात्, अपि तु इतः प्रेतैरभिसम्भाव्योऽहमित्येव स्यात् । किञ्च भ्रमनिवृत्त्यर्थम् ईश्वरं प्रत्युपदेष्टव्यम्, न ह्यन्यस्य भ्रमे सत्यन्तं प्रत्युपदेष्टव्यम्, तथा च तत्त्वमसीत्युपदेशो न घटते, किन्तु त्वं जीवोऽसीत्येवं वक्तव्यम्, अतः श्रुतिषु कर्मकर्तृव्यपदेशो नेश्वरभ्रममूलः, यदि वेद एव भ्रान्तो व्यपदिशति तर्हि वेदस्य तत्त्वोपदेष्टृत्वं न स्यात्, भ्रान्तत्वात् । पश्चात्प्रतिबुद्ध उपदिशतीति चेत् तदयुक्तम् स्वस्य भ्रमनिवृत्तेरन्येषां जीवेश्वरभ्रमाभावाच्चोपदेशवैयर्थ्यात् । अन्येषां जीवेश्वरभेदभ्रान्त्यभावेऽपि जीवबहुत्वभ्रमनिवृत्त्यर्थमुपदेशः कार्य इति चेत् न; उपदेशवैघट्या देव । न हि तदानीं तत्त्वमसीत्युपदेशो घटते, किन्तु सर्वे जीवास्त्वमित्युपदेष्टव्यम् । न चैवमुपदेशो वेदान्तेषु क्वचिदपि दृश्यते । न च “अहं मनुरभवं सूर्वश्चाहं कक्षीवान्

ऋषिरस्मि विप्रः” इत्याद्यनुसन्धानदर्शनात् तन्मूलभूत उपदेशः सर्वजीवैकत्वविषयोऽस्तीत्यभ्युपगन्तव्यम्, एकस्य जीवस्य “सिंहेन भूत्वा बहवो मयात्ताः” “व्याघ्रेण भूत्वा बहवो मयाऽत्ताः” इतिवत्कल्पभेदेनातीतस्वीयमनुसूर्यादिजन्मस्मरणपरत्वसम्भवात्तस्य वाक्यस्य । यतः शास्त्रेण विना शरीरिणां जीवेश्वरविभागप्रतीतिर्न सम्भवति, अत एव लोकसिद्धभेदो निषेधार्थं श्रुत्याऽनूद्य इत्येतन्निरस्तम् । न चेश्वरस्यानुपेयत्वसम्भवात् जीवेश्वरभेदप्रत्ययस्य लोकसिद्धत्वसम्भव इति वाच्यम्, तर्कवश्यपुरुषानुमानस्य दूषितत्वात्, अनुमानसम्भवेऽपि भारूपत्वसत्यसङ्कल्पत्वमुक्तप्राप्यत्वादीनामनुमातुमशक्यत्वाच्च । कर्मकर्तृव्यपदेशोऽपि ह्युपास्यत्वादिनिबन्धनः । तत्तत्फलविशेषार्थिनां कर्मकर्तृसापेणक्षोपाससिध्यर्थं जीवेश्वरभेदं श्रुतिः कल्पयतीति चेत्, तथा सति तत्त्वनिरूपणदशायाम् “अत्ता चराचरग्रहणात्” “अनुपपत्तेस्तु न शारीरः” इति जीवविलक्षणं वस्तु प्रतिज्ञाय कर्मकर्तृव्यपदेशस्य हेतुतयोपन्यासायोगात् । कथमुपासनार्थमपरमार्थभेदव्यपदेशं विजानन् सूत्रकारस्तत्त्वार्थहेतुतया तं ब्रूयात् ? न ह्यतात्त्विकभेदः प्रतिज्ञातः, ब्रह्मजिज्ञासेत्युपक्रमविरोधात्, “सम्पत्तेरिति जैमिनिः” “प्रियशिरस्त्वाद्यप्राप्तिः” “आध्यानाय प्रयोजनाभावात्” इतिवत् जीवेश्वरभेदापारमार्थ्यविषयप्रतिज्ञान्तराभावाच्च । गरुडनरेन्द्रयोरिव वस्तुतो भिन्नयोः परावरात्मनोरैक्योपदेशस्यैपासनार्थत्वाश्रयणौचित्याच्च गरुडनरेन्द्रयोरिव भेदस्य काल्पनिकत्वाश्रयणमयुक्तम्, अतः

श्रतिसूत्राणां काल्पनिकभेदविषयत्वमनुपपन्नम् ॥

॥ अर्भकौकस्त्वात्तद्य्वपदेशाच्च नेतिचेन्न निचाय्यत्वादेवं व्योमवच्च ॥ अल्पायतनत्वमित्यादि - अणीयस्त्वाक्षेपकार्थव्यपदेशात् साक्षादणीयस्त्वव्यपदेशाच्चेत्यर्थः । परमात्मनस्तु वैधर्म्यमाह - सर्वगतमिति । निचाय्यशब्दार्थमाह - द्रष्टव्यत्वेनेति । “चायृ दर्शने” इति हि धातुः । फलरूपदर्शनव्यावृत्त्यर्थमाह - उपास्यत्वेनेति । तद्य्वावर्त्त्यमाह न पुनरिति । तदुपपादकं सूत्रखण्डं व्याचष्टे - व्योमवदिति । व्योमवद्द्रष्टव्यमित्युक्ते प्रतिज्ञामात्ररूपत्वात् प्रमाणाकाङ्क्षा भवति, व्यपदिश्यत इत्युक्ते प्रमाणमेव दर्शितं भवति, अतोऽधयाहारस्य तुल्यत्वेऽपि निराकाङ्क्षयोजना वरमित्यभिप्रायेण व्यपदिश्यत इतिपदं पूरकतयाऽध्याहृत्यं व्याख्यातम् । व्योमवच्छब्दफलितं स्वाभाविकमिति । ज्यायानिति - वृद्धशब्दस्य ज्यादेशे ज्यायश्शब्दनिष्पत्तिः । “ज्यच वृद्धस्य च” इति हि सूत्रम् । नतु “प्रशस्यस्य श्रः” इति तन्निष्पत्तिः । वृद्धिश्च परिमाणाधिक्यमिह विवक्षितम्, न तु कालाधिक्यम्, अत्राणीयस्त्वप्रतिसम्बन्ध्याकारपरत्वाज्ज्यायश्शब्दस्य । अतः उपासनार्थमेवेति - अतः- पृथिव्यादिभ्योऽपि ज्यायस्त्वनवणादित्यर्थः । महत्तयाऽवगतस्य वस्तुन उपाध्युक्तिपूर्वकमुक्तं परिमाणमौपाधिकम्, असम्भावितोपाधिकं परिमाणं स्वाभाविकमितिन्याय इह शिक्षितो भवति । अत्र हि हृदयमल्पत्वोपाधिभूतं श्रुतम्, न तु ज्यायस्त्वोपाधिः श्रुतः । पृथिव्यादयस्तदुपाधय

इति नाशङ्कनीयम्, ततोऽपि ज्यायस्त्वश्रवणात्, न हि ततेऽधिकपरिमाणत्वं तदुपाधिकं भवितुमर्हति, अणीयस्त्वस्योपासनार्थत्वमुपासनप्रकरणाविच्छेदेन स्वाभाविकमहत्त्वप्रपञ्चनेनोपपादयति - तथा हीति ।

सर्वात्मकं ब्रह्मोपासीतेति - सर्वात्मकत्वं नोपस्यगुणतयोक्तम्, तस्य वाक्यान्तरस्थत्वात्, अतो लक्षणतो धर्मिनिर्देशः । तत्प्रयोजनञ्च शान्तिरूपाधिकारिविशेषणसिद्धिः, भगवदात्मकत्वे हि शास्त्रतोऽवगते रागद्वेषाद्यभावरूपा शमादिनिष्पत्तिः स्यात्, यथोच्यते “सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः” इति । शास्त्रजन्यज्ञानपूर्वकशमादिनिष्पाद्यमेवोपासनं श्रुतम् “तस्मादेवयविच्छान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वात्मन्येवात्मानं पश्येत्” इति । तस्मान्नोपासननिष्पाद्यः शमः, किन्तु शमनिष्पाद्यमुपासनम् । ब्रह्मात्मकत्वं सर्वस्य शास्त्रादवगम्य रागद्वेषादिरहितस्सन् वक्ष्यमाणगुणकं ब्रह्मोपासीतेत्यर्थः । सर्वात्मकं ब्रह्मेत्यनेन उपक्रमस्याणीयस्त्वविरोधित्वं दर्शितम् । प्रकरणाविच्छेदद्योतनाय अथ खल्वित्याद्युच्यते । उपासनमनूद्येति - यथा “अग्निहोत्रं जुहोति” इति विहितहोमः “दध्ना जुहोति” इत्यत्र दध्नो होमसाधनत्वविधानार्थं जुहोतिपदेनानूद्यते तथेति भावः । जगदैश्वर्यविशिष्टस्येत्यनेन चज्जलानित्यस्यानुवादः । स्वरूपगुणान्- अद्वारकगुणान् । न हि ते प्रकृतिपुरुषद्वारकाः । निचाय्यत्वादित्यस्यार्थमाह - एवम्भूतमिति । सर्वकर्मत्वादिगुणानां द्विरुकितरुपास्यतया प्राप्यतया च, हृदि स्थितेर्द्विरुक्तिर्हृदयस्थितिज्ञापनार्थं सौलभ्यानुसन्धानार्थं चेत्यर्थः । एवमत्र पूर्वत्रोत्तरत्र च विभुत्वाभिधानादर्भकौकस्त्वस्वरूपोपाधिकथनाच्च मध्यगतमल्पत्वमौपाधिकमित्ययमर्थ उक्तो भवति ॥

॥ सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् ॥ शरीरान्तर्वतिर्त्वम्- हृदयवर्तित्वम् । वैशेष्यम्- विशेषः । भोगप्रसञ्जने सुखग्रहणं सांसारिकसुखस्यादिमध्यावसानेषु दुःखमिश्रत्वेनापुरुषार्थपक्षनिक्षेपनिबन्धनम् । तथा च श्रुतिः- शरीरान्तर्वर्वित्वेऽपि फलसम्बन्धासम्बन्धावाहेत्यर्थः । अधिकरणार्थनिगमनमर्थसिद्धम्, अस्मिन् सूत्रे परस्मादन्यस्य जीवस्यानभ्युपगमे परस्य कर्मफलभोक्तृत्वप्रसङ्ग इति परिचोद्यपरिहतर्ृत्वाभिमानेन

कैश्चिदेवमुक्तम्; आत्मान्तराभावो यद्यनवगतः तदा तन्निबन्धनचोद्यानुदयः । अवगतत्वे किं शास्त्रादवगमः, उतास्मद्वाक्यात् ? प्रथमे शास्त्रसिद्धात्मान्तराभाववत् परस्य भोक्तृत्वाभावोऽपि शास्त्रसिद्धतया स्वीकार्यः, न ह्यर्द्धजरतीयं न्यायम् । द्वितीये तु भ्रान्तिसिद्धगगनतलमलिनताविकल्पो गगनमिवापारमार्थिकभोक्तृत्वं परमार्थमद्वितीयं परमात्मानं न स्पृशतीति । तत्र प्रथमं शिरोऽनभ्युपगमनिरस्तम् । शास्त्रं जीवपरयोरनन्यत्वं प्रतिपादयतीति प्रतिवादिवाक्यादात्मान्तराभावमवगम्य तथा सति परस्य जीववद्भोक्तृत्वप्रसङ्गात् अयोग्यं जीवपरैक्यं शास्त्रं न प्रतिपादयितुं शक्नोतीति हि चोदयितुरभिप्रायः, अतो नार्द्धजरतीयम् । अपरमार्थत्वान्न स्पृशतीति वचनव्यक्तिर्दूषणस्य दुष्परिहारतामवगमयति, जीववदुपभोक्तृत्वं हि चोदयित्रा आपादितम् । जीवस्य च भोक्तृत्वं त्वन्मते मिथ्या, अतो गगने मालिन्यवत् परस्मिन् कल्पितं भोक्तृत्वं न तं स्पृशतीति वदता जीववत् भोक्तृत्वमभ्युपगतं स्यात्, न चांशभेदेन भोगव्यवस्था, वस्तुनो निरंशत्वात् सांशत्वेऽप्युपाधीनाङ्गत्वरतया घटे चलति नभस्यल्पत्ववत्सर्वप्रदेशैरौपाधिकदोषान्वयप्रसङ्गात्, अतः परपक्षे भोक्तृत्वप्रसङ्गपरिहारोऽनुपपन्नः । सर्वत्रेतिसूत्रं स्ववाक्यस्थहेतुपरम् । तदनन्तरवाक्यस्थहेतुपरं द्वितीयम् । तद्य्वतिरेकपरं तृतीयम्, उपसंहारस्थहेतुपरं चतुर्थम् । तत्र शङ्काविशेषपरिहारपरमनन्तरसूत्रद्वयम् । सूत्रद्वयोक्तहृदयावस्थानप्रयुक्तचोद्यपरिहारपरं तदनन्तरसूत्रद्वयमिति सूत्रसङ्गतिः ।

अथ उत्तराधिकरणसङ्गतिमाह - यदीति ।