10 ज्योतिरधिकरणम्

ज्योतिश्चरणाभिधानात् ॥ इदमित्यादि पृष्ठेषु- उपरितनेषु । “त्रिपादूर्ध्वः”, “तमसोपरिष्टात् इत्यादिश्रुतिभ्यः । व्यष्टिसमष्टिविवक्षया विश्वतः, सर्वत इत्युक्तम् । अनुत्तभेषु-स्वस्मादन्य उत्तमो नास्तीत्यनुत्तमः । विश्वतः-कृत्स्नभूमिप्रदेशात्, सर्वतः-कृत्स्नान्तरिक्षप्रदेशात् पृष्ठेषु-बहिर्भूतेषु, इति योजनासंभवात् पूर्वपक्षोत्थानम् । आदित्यो हित ऊर्ध्व लोकेष्वपि रश्मिद्वारा दीप्यते । तत्रेति । लोकप्रसिद्धिभूतचरणत्वाभ्यां संशयः । निरतिशयदीप्तियुक्तोऽर्थ इति पूर्वपक्षसिद्धान्तसाधारणनिर्देशः । निरतिशयदीप्तिरेव कारणत्वाक्षेपकं लिङ्गम्; “न तत्र सूर्यो भाति.. तस्य भासा सवर्मिदं विभाति” इति प्रकरणे “तथाऽक्षरात् संभवतीह विश्वम्” इति निरतिशयदीप्तियुक्तस्य वस्तुनः कारणत्वश्रवणात् । तत्प्रकरणस्य कारणविषयत्वं ह्यविगीतम् । परमात्मविषयत्वे हि विमतिः । निरतिशयदीप्तियोगात्कारणभूतं ब्रह्म भवन् ज्योतिःशब्दनिर्दिष्टोऽर्थः किं प्रसिद्धमादित्यादिज्योतिरेवेत्यन्वयार्थः । सावान्तरभेदसमष्टिव्यष्टयादिविवक्षया समस्तचिदचिद्वस्तुजातशब्दः । व्याप्तिग्रहणस्थानोपनिषत्प्रसिद्धं विशेषणमाह सर्वज्ञः सत्यसङ्कल्प इति । “यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः” इति हि श्रूयते । अस्यामुपनिषदि पुरुषसूक्तप्रत्यभिज्ञानात् पुरुषोत्तम इत्युक्तम् ।

“अथ यदतः परो दिवो ज्योतिर्दीष्यते” इत्यत्र ज्योतिशाब्दः किं प्रसिद्धादित्यादिज्योतिर्विषयः, उत परमात्मपर इति; तदर्थं पूर्ववाक्ये द्युसंबन्धितया निर्दिष्टस्य परमात्मनः किमत्र प्रत्यभिज्ञानं नास्ति, उतास्ति; तदर्थं

कौक्षेयज्योतिषैक्योपदेशः उपदोभेदश्च किं प्रत्यभिज्ञाविरोधिनौ, उताविरोधिनौ; पूर्वस्मिन् ब्राह्मणवाक्ये गायत्रीशब्दः किं प्रसिद्धगायत्रीपरः, उत न इति विचारः । यदा विरोधिनौ, गायत्रीशब्दार्थश्च प्रसिद्धः

तदाऽस्मिन् वाक्ये परमात्मप्रत्यभिज्ञाऽभावात् द्युसंबन्धिज्योतिः प्रसिद्धादित्यादिज्योतिरेवेति पूर्वपक्षे फलफलिभावः । यदा कौक्षेयज्योतिषैक्योपदेशो विभक्तिभेदश्च न परप्रत्यभिज्ञाविरोधिनौ, गायत्रीशब्दश्च ब्रह्मपरः तदा पूर्ववाक्योक्तद्युसंबन्धिपरमात्मन इह प्रत्यभिज्ञानात् दिवः परत्वेनोक्तज्योतिः परमात्मैवेति राद्धान्ते फलफलिभावः ॥ (स्ववाक्येति ।?) ननु कथं स्ववाक्ये परमात्मलिङ्गाभावः; निरतिशयदीप्तियोगाक्षिप्तं कारणत्वं हि परमात्मलिङ्गम् ॥ नैवम् । न हि जगत्कारणत्वमात्रं परमात्मलिङ्गम्, अपि तु कारणत्वविशेष एव तल्लिङ्गम् । कृत्स्नचेतनाचेतनं प्रति सर्वविधकारणं हि परमात्मा । पूर्वाधिकरणद्वयविषयवाक्येऽपि “सर्वाणि ह वा इमानि भूतानि” इति समस्तचेतनाचेतनं प्रति कारणत्वरूपं परमात्मलिङ्गं स्ववाक्यस्थम् । न तथाऽत्र परमात्मलिङ्गभूतकारणतविशेषः स्ववाक्ये दृश्यत इत्यभिप्रायेणोक्तं परमात्मव्याप्तिलिङ्गविशेषादर्शनादिति । ततः किमित्यत्राह परमपुरुषेति । हेत्वन्तरमाह कौक्षेयेति ।प्राकृततेजस्तत्त्वकार्यतया आदित्यादेः कौक्षेयज्योतिषश्च एकजातीयतया सामानाधिकरण्यनिर्देशः ऐक्योपदेशः । कौक्षेयज्योतिषश्च भौतिकत्वम् उष्णत्वघोषगुणकत्वामननात्सिद्धम् । “तस्यैष । दृष्टिः, यत्रैतदस्मिश्छरीरे संस्पर्शेनोष्णिमानं विजानाति । तस्यैषा श्रुतिः, यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुमिव अग्नोरिव ज्वलतः उप शृणोति” इति हि श्रूयते । प्रसिद्धमेव ज्योतिरिति । आदित्यादौ ज्योतिश्शब्दस्य प्रसिद्धत्वादिति भावः । एवं स्ववाक्येत्यादिना कौक्षेयेत्यादिना च स्ववाक्ये विरोधिलिङ्गाभावाल्पानुकूललिङ्गसद्भावौ दर्शितौ भवतः । (दीप्तिति।?) दीप्यत इति श्रूयमाण दीप्तिश्च रूपवत्पदार्थनिष्ठा भवतीत्यभिप्रेतम्; अस्यापि हेतोः परिहरिष्यमाणत्वात् ।

सर्वगतस्य ब्रह्मणो द्युर्यादत्वासंभवस्तु परैः पूर्वपक्षहेतुतयोक्तो भाष्ये नादृतः; भौतिकज्योतिषोऽपि द्युमर्यादत्वासंभवात् । सर्वत्र भौतिकानि ज्योर्तीषि हि विद्यन्ते । उपासनार्थप्रदेशविशेषपरिग्रहस्तु ब्रह्मणोऽप्युप पद्यते । लोकेष्वित्यधिकरणबहुत्वप्रतीतिश्च सर्वत्र सतो ब्रह्मण उपपन्ना । “तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद” इत्यल्पफलत्वश्रवणं तु ब्रह्मविदामपि विद्यानुकूलसकलफलप्रदत्वात् परमात्मन उपपद्यते । एवमेतेषां हेतूनामधिकरणान्तरपरिहार्यत्वादमी पूर्वपक्षेऽनादृताः ॥

एवं प्राप्त इति । चरणत्वेन सर्वभूताभिधानं कारणस्य जीववैलक्षण्यनिश्चायकम्; जीवमात्रस्य सर्वभूतपादवत्त्वानुपपत्तेः । तत एव पुरुषसूक्तप्रत्यभिज्ञापकतया देवताविशेषनिश्चयः । तद्द्वारा, दीप्तियोगस्य भौतिकज्योतिष्टे हेतुतापरिहारश्च भवति ॥ पुरुषसूक्तं कस्मात् सूत्रकारेण न निरूपितम् । संशयहेत्वभावादिति ब्रूमः । सन्दिग्धे हि न्यायः प्रवर्त्तते । पुरुषसूक्ते च ज्योतिश्शब्दः छन्दोभिधानादिकं प्रधानक्षेत्रज्ञासाधारणलिङ्गान्तरं वा क्वचित्र दृश्यते । सर्वभूतपादवत्त्वादिधर्माश्च तयोरसंभाविताः ॥ तर्हि चिदचिद्विलक्षणकारणास्तित्वविषयस्य प्रथमपादस्यानारम्भः स्यदिति चेन्न; बहूनां वेदान्तवाक्यानां प्रकृतिपुरुषकारणमात्रवादित्वे तद्विरोधेनात्रापि संशयप्रसङ्गात्, तेषां भूयसां बलीयस्तया विपरीतनिश्चयप्रसङ्गाच्च तद्वयुदासायारम्भणीयत्वात् । तेषु च प्रकृतिपुरुषविलक्षणविषयतया न्यायतो निश्चितेषु संशयविपर्ययाभावात् पुरुषसूक्तस्य चिदचिद्विलक्षणे परे ब्रह्मणि प्रामाण्यमप्रतिभटमवतिष्ठते । अतो न तत्र निरूपणीयम् । तस्य च तत्त्वपरत्वं (पुरुषसूक्तस्य भगवत्परत्वम्) तत्रापि महापुरुषसंज्ञदेवताविशेषविषयत्वमप्यविगीतम्; अनेकोपपत्तिसिद्धञ्च ।

तथा हि इदं तावत् “अग्निमीडे पुरोहितम्”, “अभि त्वा शूर नो नूमः”, “स्तौमीन्द्रं नाधितो जोहवीमि”, “स्तौम्यग्निं नाधितो जोहवीमि” इत्यादिवत् अस्य स्ववाक्यं न (न स्ववाक्यस्य) (न स्ववाक्येन?) स्तुतिपरत्व

मवगमयति, “अर्हन् विभर्षि सायकानि धन्वेत्याह; स्तौत्येवैनमेतत्”, “ततो देवा ऊर्द्धबाहवो रुद्रमस्तुवन्” इत्यादेरिव वाक्यान्तरेणास्य स्तुतिपरत्वं नावगम्यते । नापि स्तुतिपरत्वे लिङ्गमुपलभ्यते । न हि, “नमस्ते अस्तु मा मा हिंसीः”, “देहि मे ददामि ते” इतिवत् नमस्कारः अनिष्टनिवृत्तीष्टलाभप्रार्थना वा दृश्यते । “विश्वस्मादिन्द्र उत्तरः”, “तस्य वज्रमादाय शीर्षाण्यच्छिनत् । तं भूतान्यभ्यक्रोशन् ब्रह्महन्निति”, “अग्निस्सर्वा देवताः”, “अग्निं वै जातं पाप्मा जग्राह” इत्यादिभिरग्नीन्द्रादीनामिव प्रतिपन्नस्य प्रकर्षस्य बाधकश्च(ञ्च?) न दृश्यते । न हि परमपुरुषस्य कार्यत्वकर्मवश्यत्वादिकं क्वचिदनन्यपरवाक्येनावगम्यते “आकाशो ह वै नाम” “यतो वा इमानि” इत्यादिवाक्यानामिवानुवादरूपतया साकाङ्क्षत्वं नास्य प्रतीयते । “तदेषाऽभ्युक्ता”, “तदेतदृचाऽभ्यनूक्तम्”

इतिवत् स्वोपदिष्टार्थसाक्षित्वेन प्रमाणान्तरानुपस्थानाच्च नैरपेक्ष्यमवगम्यते । “तदेतदृचाऽभ्यनूक्तम् तावानस्य महिमा” इत्यादिभिः साक्षित्वेनोदाहृतत्वाच्च स्वयमन्यानपेक्षस्य प्रमाणान्तरोपजीव्यत्वं च प्रतीयते । “इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । ॠषिसिंहेन चिन्तितम्” इति मोक्षधर्मे तत्त्वनिष्कर्षकतया व्यासेनोदाहृतम् । अत्र च सर्वेषु वेदेषु पठिततया संनिहितत्वात् तत्तच्छारवागतानां तत्त्वपरवाक्यानामाकाङ्क्षितयोग्यविशेषसमर्पकतयाऽनुरोद्धव्यमिदमित्यवगम्यते ।

एवं तत्त्वपरस्यास्य सूक्तस्य देवताविशेषपरत्वं दुरपह्रवम् । “पुरुषो ह वै नारायणोऽकामयत” इति (?) बृहदारण्यके पुरुषशब्दस्य नारायणपरत्वदर्शनात् । किञ्च छान्दोग्ये(?) “एषा वैष्णवी नाम संहिता एतां प्रयु ञ्जन् विष्णुं प्रीणाति” इत्युक्तम् । आथर्वणे अष्टादशमहाशान्तिप्रकरणे तत्तद्देवत्याशान्तिषु तत्तद्देवत्यमन्त्रविनियोगावसरे, “वैष्णव्यां पुरुषसूक्तम्” इति वैष्णव्यां शान्तौ पुरुषसूक्तं विनियुज्यते । तथा “आद्ययाऽऽवाहयेद्देवमृचा तु पुरुषोत्तमम्” इत्यादिना शौनकेन भगवत्समाराधने, “जितं ते” इत्यादिमन्त्रतुल्यं विनियुज्यते । महापुरुषशब्दश्च कल्पसूत्रकारैर्देवताविशेष एव प्रयुक्तः, “महादेवं वा महापुरुषं वाऽर्चयेत्” इति । इह च, “वेदाहमेतं पुरुषं महान्तम्” इत्युच्यते । अतश्च भगवदसाधारण्यम् । तथा “पुरुषस्य हरेस्सूक्तं स्वर्ग्यं घन्यं यशस्करम्” इति च स्मर्यते । तथा “योऽनूचानं द्विजं मर्त्यो हतवान् अर्थलोभतः । स पठेत् पौरुषं सूक्तं स्मरन् विष्णुं जले सकृत्” इति । यमस्मृतौ रहस्यप्रायश्चितेषूक्तम् । तथा योगवासिष्ठे, “आसीनः प्राङ्मुखः शुद्धः चिन्तयन् मनसा हरिम् । पौरुषेणैव सूक्तेन जुहुयाद्धव्यवाहनम्” इत्युक्तम् । लक्ष्मीपतिप्रतिपादकोत्तरनारायणसमानप्रकरणं चेदम् । “सहस्त्रशीर्षापुरुषः” “पुरुष एवेदं सर्वम्” इति नारायाणानुवाकैकार्थ्यञ्च प्रतीयते । “पुरुष एवेदं सर्वम्” इति वाक्येन सुबालोपनिषदैकार्थ्यञ्च प्रतीयते । तत्र हि, “दिव्यो देव एको नारायणः” इति नारायणपरत्वमवगम्यते । तत्र च, “पुरुष एवेदं सर्वम्” इत्युपसंहृतम् । तथा पाद्मे पुराणे, “ब्रह्महत्यादिपापानां सर्वेषामपनुत्तये । पठेत्तु पौरुषं सूक्तमेकान्ते संस्मरन् हरिम्” इत्युच्यते । तथा स्कान्दे “यथा भास्करशब्दोऽयमादित्ये प्रतितिष्ठति । यथा चाग्नौ बृहद्भानुर्यथा वायौ सदागतिः ॥ यथा पुरुषशब्दोऽयं वासुदेवे प्रतिष्ठते (प्रतिष्ठितः?) । तथा शङ्करशब्दोऽयं महादेवे प्रयुज्यतेः” इति शंकरशब्ददृष्टान्तत्वेन पुरुषशब्दस्य भगवदसाधारणत्वकथनाच्च पुरुषसूक्तस्य तदसाधारण्यं प्रतीयते । पाद्मे पुराणे नामनिर्वचनाध्याये, “पूस्सञ्ज्ञे तु शरीरेऽस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोऽयं व्यत्यासेन प्रयुज्यते ॥ यद्वा पुरे शरीरेऽस्मिन् आस्ते स पुरुषो हरिः । यदि वा पुरि वासीति पुरुषः प्रोच्यते हरिः । यदि वा पूर्वमेवासमिहेति पुरुषं विदुः । यदि वा बहुदानाद्वै विष्णुः पुरुष उच्यते । पूर्णत्वात् पुरुषो विष्णुः पुराण त्वाच्च शार्ङ्गिणः । पुराणभजनाच्चापि विष्णुः पुरुष ईर्यते । यद्वा पुरुषशब्दोऽयं रूढ्या वक्ति जनार्दनम्” इति च योगरूढत्वमवगम्यते । अतः पुरुषप्रतिपादकं सूक्तं भगवदसाधारणमिति “चरणाभिधानात्” इति वदता सूत्रकारेण

देवताविशेषनिष्कर्षः कृतः । सारे चैवं विशदतममुक्तं भगवता भाष्यकारेण । अतो यथोक्तार्थ उपपन्नः ॥

अत्र “पादोऽस्येति मन्त्रे “त्रिपादस्यामृतं दिवि” इति द्युशब्देन द्योतमानसंविदात्मस्वरूपमुच्यत इति केचि दाहुः । तदानीमस्य दिवीति व्यतिरेकनिर्देशस्य क्लिष्टता स्पष्टा । किञ्च द्युसम्बन्धिप्रत्यभिज्ञापकतया तदेकार्थत्वेन सूत्रकारोदाहृते, “अथ यदतः परो दिवो ज्योतिर्दीष्यते” इति वाक्ये पञ्चम्यन्ततया श्रूयमाणेन द्युशब्देन विरोधश्च स्यात् । न हि द्योतमानमात्मस्वरूपं स्वस्वरूपात्परं भवति । दिवि हृदयाकाशे स्थितमिति भास्करः । तदयुक्तम्; “अतः परो दिवो ज्योतिर्दीष्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूतमेषु लोकेषु” इति श्रुतिविरोधात् । न हि हृदयाकाशो दिव उपरितनेषु लोकेषु वर्तते ॥ परमात्मन आदित्यमण्डलेऽप्यवस्थानात् तद्विषयं तद्वाक्यमिति चेन्न; रविमण्डलस्य भूमेर्योजनलक्षेऽवस्थितस्य विश्वप्रपञ्चबहिर्भावाभावात्; विश्वसर्वशब्दयोर्भूम्यन्तरिक्षमात्रपरत्वे स्वारस्यभङ्गाच्च । किञ्च सप्तम्यन्तपञ्चम्यन्तरोर्द्युशब्दयोरविरोधेनार्थैकत्वं चतुर्थसूत्रे समर्थितम्; तच्च तयोर्हृदयाकाशरविमण्डलपरत्वेऽनुपपन्नम् । विश्वसर्वशब्दस्वारस्यङ्गप्रसङ्गादेव द्युशब्दस्य प्रसिद्धद्युपरत्वं चायुक्तम् ॥ जाग्रत्स्वप्नसुषुप्त्यवस्थासु जीसञ्चारभूमितया त्रेधा विभक्ताः कार्याकाशप्रदेशविशेषास्त्रयः पादाः,

तदुपलक्षणं कारणब्रह्मस्वरूपं त्रिपादमृतमुच्यते इति चायुक्तम्; अस्य त्रिपादिति व्यतिरेकनिर्देशस्यामुख्यत्वात् । जीवस्य जाग्रदवस्थायां बाह्याकाशः सञ्चारभूमिरिति चायुक्तम्; तदानीमपि शरीरान्तर्वर्तित्वात् । स्वप्ने शरीराकाशवर्तित्वमप्ययुक्तम्; ईश्वरसृष्टशरीरैर्बहिरष्यवस्थानात्; तदन्युपगमेऽपि पूर्वसंस्कारसहकृतमनोव्यापारमात्रेण हृदयावस्थानेऽपि जीवस्य स्वाप्नभ्रमोपपत्तेः स्वप्ने जीवस्य हृदयान्निष्क्रमणस्य निष्प्रमाणकत्वाच्च । “हृदि ह्ययमात्मा” इति जीवस्य स्वतो हृद्यवस्थानं श्रूयमाणं स्वपन्नावस्थायां कथं वचनेन विनाऽपोद्यते ।

तस्मादृचोऽयमर्थः- सर्वा भूतानीति कार्यजगदन्तर्गताचित्संसृष्टचेतना उच्यन्ते । द्युशब्दस्तु समस्तव्यष्टिसमष्टितत्त्वबहिर्भूतस्थानविशेषपरः, “विश्वतः पृष्ठेषु सर्वतः पृष्ठेषु” इति श्रवणात् । विश्वशब्दविवरणं सर्वशब्द इति गत्यभावलिङ्गम् । “तथाऽक्षरात्संभवतीह विश्वम्” इति जगदन्तर्वतिर्व्यष्टिजाते विश्वशब्दप्रयोगात् विश्वशब्दो व्यष्टिपरः । सवर्शब्दः परिशेषात् समष्टितत्त्वपरः । अत एव गद्येऽपि गदितं भाष्यकारैः, “समस्तं कार्यकारणजातमतीत्य वर्तमाने” इति । पुरुषसूक्ते “ते ह नाकं महिमानः सचन्ते” इति मुक्तप्राप्यदेशस्य नाकशब्देनोक्तत्वात्, मुक्तस्य च दुःखमिश्रकार्यलोकानां हेयत्वात् नास्मा अकं भवतीत्यवयवार्थपौष्कल्योपपत्तेः, तत्रैव “तमसः परस्तात्” इति विशेषितत्वात्, “क्षयन्तमस्य रजसः पराके” इति निवासशब्दात् “तदक्षरे परमे व्योमन्”, “विश्वं पुराणं तमसः परस्तात्” इतित तमसः परस्य स्थानस्य स्थानिनो ब्रह्मणश्च व्यतिरेकनिर्देशात्, तस्य तमसः परत्वविशेषणेन पुरुषसूक्तप्रत्यभिज्ञानाच्च दिवीत्यप्राकृतं स्थानमुच्यते । त्रिपात्त्वञ्च अप्राकृतैर्भोग्यगोपकरणभोगस्थानविशेषैर्वाभूषणास्त्रादिरूपेण जगदन्तगर्तवस्त्वभिमानिभिर्नित्यैः, भगवदनुभवमात्रपरैश्च नित्यसिद्धैः, मुक्तैश्चात्मभिर्वा संभवति । एवञ्चास्य दिवीति व्यतिरेकनिर्देशोऽमृतत्वं च मुख्यं भवतीति ॥

एवं पूर्ववाक्ये द्युसंबन्धिनश्चरणाभिधाने सति कथमस्य वाक्यस्य परमात्मपरत्वम् ॥ एकविषयत्वादिति चेत्, कथमेकविषयत्वमित्यत्राह एतदुक्तमिति । ज्योतिश्शब्दश्रुत्यपेक्षया स्ववाक्यस्थं पूर्ववाक्यप्रत्यभिज्ञापकं द्युसंबन्धित्वलिङ्गं प्रकरणञ्च दुर्बलमिति चेन्न; अनुवादलक्षणयच्छब्दसमभिव्याहारेण अन्यसापेक्षताज्ञापकेन ज्योतिश्शब्दस्य दुर्बलत्वावगमात्; प्रथमप्रतिपन्नयच्छब्दश्रुत्या सहकृतस्य द्युसंबन्धित्वलिङ्गस्य प्रबलत्वाच्च । इदं

ज्योतिश्शब्दस्यादित्याद्यसाधारण्याभ्युपगमेनोक्तम् । तच्च न; अवभासकत्वनिमित्तकत्वात् ज्योतिश्शब्दस्य; “नारायण परो ज्योतिः” इत्यादिप्रयोगाच्च ।

उक्तं पूर्वपक्षहेतुं परिहरति कौक्षेयेति । फलायेति । चक्षुष्यः श्रुतो भवतीत्युक्तफलायेत्यर्थः । तदात्मक त्वेति । “तदेतद्दृष्टञ्च श्रुतं चेत्युपासीत” इत्यत्र तदेतच्छब्दौ तदात्मकज्योतिर्विषयौ, तदात्मकत्वेन प्रकृतत्वादिति भावः । “अन्नादो वसुदानः”, “चतुर्विधा भजन्ते माम्”, “सकलफलप्रदो हि विष्णुः” इत्यादिश्रुतिस्मृतिवशात् सकलफलप्रदस्य परमात्मनश्चक्षुष्यत्वादिविद्यानुगुणफलहेतुत्वमत्र युक्तमित्यभिप्रायेणाह न कश्चिद्दोष इति । तदात्मकत्वे प्रमाणं दर्शयति कौक्षेयज्योतिषश्चेति । वेदनस्य यथार्थविषयत्वे संभवति अतस्मिस्तद्दृष्टिरूपताश्रयणं परोक्तमयुक्तमिति भावः । द्युसंबन्धिविषयस्य पूर्ववाक्यस्य परमात्मपरत्वमाक्षिष्य समाधते ।

छन्दोभिधानान्नेति चेन्न तथाचेतोर्पणनिगमात् तथा हि दर्शनम् ॥ सूत्रे शङ्कोपन्यासपरमंशं व्याचष्टे पूर्वस्मिन्निति । परिहारकण्डस्थं नेति पदं सपूरकमादत्ते तन्नेति । छन्दोभिधानं नेत्यर्थः । तथाचेतोर्पणनिगमादिति स्वाभिमतनिर्वाहं वदता सूत्रकारेणाभिप्रेतां छन्दोमात्रपरत्वानुपपत्तिमाह न गायत्रीति । कुत इत्यत्राह छन्दोमात्रस्येति । पूर्वसूत्रे चरणाभिधानादिति स्वपक्षसाधकतया कण्ठोक्तस्य हेतोः पूर्वपक्षेऽनुपपत्तिः सूत्रकाराभिप्रेतेति भावः ॥ ननु गायत्र्यां ब्रह्मदृष्टिरिति दृष्टिविशेषणभूतब्रह्मणः चरणाभिधानोपपत्तिरिति चेन्न; “मनो ब्रह्म” इतिवत् दृष्टिविशेषणभूतब्रह्मवाचिपदसामानाधिकरण्याभावात् । दृष्टिविधानाभ्युपगमेऽपि “तावान्” इति मन्त्रस्य दृष्टिविशेषणब्रह्मपरत्वेनोत्तरवाक्ये ब्रह्मप्रत्यभिज्ञानोपपत्तेस्तदभ्युपगमवैयर्थ्यात् । अतो गायत्र्यां ब्रह्मदृष्टिः चोदयितुरनभिमता ।

यादवप्रकाशैस्तु “गायत्री वा” इत्यादिब्राह्मणोक्तसर्वभूतवाक्पृथिवीशरीरहृदयप्राणात्मकत्वाभिधानात् न छन्दोमात्रमिति व्याख्यातम् । ततोऽपीदमुचितम्, अश्रुतं हेतुं कल्पयित्वा तदनुपपत्त्या छन्दःपरत्वप्रतिक्षेपादपि पूर्वसूत्रश्रुतहेतोरेवानुपपत्त्या तत्प्रतिक्षेपोपपत्तेः ॥ स्ववाक्यस्थहेतुविवक्षा न्याय्येति चेत् सत्यम्; स तु हेतुरनन्तर सूत्रे विवक्षितः ॥ मन्त्रवर्णोक्तपादवत्त्वं तत्र विवक्षितमिति चेन्न; स्वपक्षसाधनाय तस्य आद्यसूत्रे कण्ठोक्तत्वात् शङ्कापरिहाराय तन्नेत्यत्र तस्यैवाभिप्रेतत्वाश्रयणोपपत्तेः ॥ क्वचिदुक्तस्य ह्यन्यत्रोपजीव्यत्वं न्याय्यम् । अन्यत्रानुक्तस्य च क्वचिदुक्तिरपेक्षिता । सा चेत् सिध्यति, तदुनगुणो निर्वाहो न्याय्यः ॥

एवं छन्दः परत्वेऽनुपपन्ने सति तस्य वाक्यस्य कोऽर्थ इत्यत्राह अपि त्विति । चेतोर्पणशब्दं निगमशब्दं च विवृण्वन् कस्मिन् किमर्थमित्याकाङ्क्षां च पूरयति । ब्रह्मणीति । अनुसन्धान उपदेशशब्दाभ्यां चेतोर्पणनिगमशब्दौ विवृत्तौ । केनाकारेण सादृश्यमित्यत्राह संभवति चेति । गायत्रीसादृश्यं चतुष्पात्त्वलक्षणम् । चतुष्पात्त्वमेवानुसन्धेयम् ॥ नन्विह न अनुसन्धेयत्वं फलं च श्रूयते ॥ न; “पूर्णामप्रवर्तिर्नी श्रियं लभते, य एवं वेद” इति श्रवणात् । पूर्णत्वम् अपरिच्छिन्नत्वम् । अप्रवर्तित्वम् अचलत्वं स्थिरत्वम् । अनन्तस्थिरा च श्रीः मुक्तैश्वर्यम् । ननु हार्दाकाशविशिष्टपरमात्मोपासंनफलं हि तत् श्रूयते, “यद्वै तद्ब्रह्मेति, इदं वा व तद्योऽयं बहिर्धा पुरुषादाकाशः । यो वै स बहिर्धा पुरुषादाकाशः, अयं वाव सः योऽयमन्तःपुरुष आकाशः । यो वै सोऽन्तःपुरुष आकाशः, अयं वाव सः योऽयमन्तर्हृदय आकाशः । तदेतत्पूर्णमप्रवर्ति” इति हि श्रूयते । अतो न गायत्रीसादृश्यानुसन्धानफलमिदमिति ॥ उच्यते; स्वतोऽपरिच्छिन्नत्वेऽपि ब्रह्मणः परिच्छिन्नैः पदार्थैः चतुष्पात्त्वोपदेशस्योपासनार्थत्वाभावे वैयर्थ्यात् प्रकरणे तस्य फलान्तराविधानाच्च (तत्फलार्थमेव?) गायत्रीसादृश्यरूपस्य चतुष्पात्त्वस्यानुसन्धेयता प्रतीयते । तत्र भूतपृथिवीशरीरहृदयैश्चतुष्पात्त्वेऽभिहिते ब्रह्मणोऽपूर्णत्वास्थिरत्वशङ्काव्यावृत्त्यर्थं पूर्णत्वाप्रवर्त्तित्वगुणकतयैव चतुष्पाद्ब्रह्मण उपासनं विधीयते इति ॥ “त्रिपदा गायत्री” इति हि श्रुतिः, तत् कथं चतुष्पात्त्वमित्यत्राह चतुष्पदा चेति । गायत्रीशब्दस्य मुख्यार्थाविवक्षा कथमिति शङ्कायाम्, तथा हि दर्शनम् इति सूत्रखण्डं व्याचष्टे तथा ह्यन्यत्रापीत्यादिना । वाय्वन्निसूर्यचन्द्रसलिलानि प्राणवाक्यचक्षुःश्रोमिनांसि च दशसङ्खयत्वाद्विराट् । सदृशे सदृशान्तरवाचिशब्दप्रयोगः श्रुतिसमाधिरित्यर्थः । अन्नात्- अन्नञ्च तत् अत्ति चेत्यन्नात् ॥

ननु ज्योतिर्वाक्ये परमात्मलिङ्गाभावादाद्यं सूत्रं तस्यपरमात्मपरत्वसमर्थनार्थमिति सप्रयोजनम्, द्वितीयं तु किमर्थम् । छन्दोमात्रप्रिसिद्धस्यापि गायत्रीशब्दस्य परमात्मासाधारणसर्वात्मकत्वलिङ्गबलात् परमात्मविषयत्वं ह्याकाशाधिकरणनयेन सिद्धम् ॥ उच्यते; गायत्रीशब्दस्य स्वार्थप्रहाणेन ब्रह्मपरत्वे चतुष्पात्त्वमविवक्षितं स्यात् । तच्चोपदिश्यते । गायत्र्यवच्छिन्नब्रह्मपरत्वे सर्वात्मकत्वमनुपपन्नम् ॥ गायत्र्यवच्छिन्नब्रह्मणः सर्वात्मकत्वोक्तिः स्तुतिरिति चेत् ततोऽपि गायत्र्या एव स्तुतिः सर्वात्मकत्वोक्तिरिति वरमित्यधिकशङ्कापरिहारपरं सूत्रम् । गायत्रीशब्दस्य तत्सदृशब्रह्मपरत्वाच्चतुष्पात्त्वसर्वात्मकत्वोपपतिरिति परिहारः ॥

उपक्रमस्थगायत्रीशब्दानुरोधेन मन्त्रगतसर्वात्मकत्वमस्वारस्येन निर्वाह्यम्; न तु सर्वात्मकत्वानुरोधेनोपकमस्थगायत्रीपदास्वारस्यं न्याय्यमिति शङ्कायाम् उपक्रम एव गायत्रीपरत्वे स्वारस्यहानिरुच्यते ।

भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ पूर्वस्मिन् सूत्रे “पादोऽस्य” इति मन्त्रोक्तसर्वात्मकत्वानुपपत्तिरुक्ता; अत्र तु “गायत्री वा” इत्यादिब्राह्मणोक्तचतुष्पात्त्वानुपपत्तिरुच्यते । भूतम् आत्मवर्गः । पृथिवी अयं लोकः, कर्मार्जनभोगस्थानम् । तदुपकरणं शरीरम् । हृदयम् आत्मनः स्थित्यनुगुणः प्रदेशविशेषः । एवमुपक्रमस्यैव परमात्मपरत्वं दर्शितम् ।

यादवप्रकाशैस्त्विदं सूत्रं पादोऽस्येति मन्त्रवर्णोक्तभूतादिपादानुपपत्त्या ब्रह्मप्रतिपादनसमर्थनपरं व्याख्यातम् । “गायत्री वा इदं सर्वमित्यादिब्राह्मणं न चतुष्पात्त्वपरम्, किं तु सर्वभूतवाक्पृथिवीशरीरहृदयप्राणरूपविधाषदकपरम् । “सैषा चतुष्पदा षड्विधा” इति वाक्यञ्च षाड्विध्यानुवादेन चतुष्पात्त्वविधानपरम् । चतुष्पात्त्वं च पादोऽस्येति मन्त्रवर्णप्रतिपाद्यम् । तत्र

चेतनाचेतनरूपनिखिलविकारात्मा प्रथमः पादः । त्रिपादस्यामृतं दिवीति वाङ्मयप्राणमयमनोमयात्मानः त्रयः पादा उच्यन्ते” इति प्रतिपादितम् । तदनुपपन्नम् । कथम् । उच्यते ।

तत्र मन्त्रवर्णोक्तचतुष्पात्त्वपरत्वादपि ब्राह्मणोक्तार्थविषयत्वोपपत्तिः पूर्वमेव दर्शिता । किञ्च प्राथमिकगायत्रीवाक्यानुरोधेन पश्चादुदाहृतमन्त्रवर्णो नेय इति शङ्का तावदवतरति । सा च मन्त्रवर्णोक्तार्थस्य हेतुतयोपन्यासेऽप्यवतिष्ठते । उपक्रमस्थगायत्रीवाक्य एव परमात्मसाधकहेतुप्रदशर्नेन तु निवर्तत्षे ॥ स तु हेतुः सूत्रे नेत्यनेनाभिप्रेत इति चेत् न; शङ्कायाः परिहारस्य च उत्सूत्रत्वादपि शङ्कामात्रस्य उत्सूत्रस्य शब्दादेव परिहारसिद्धयनुगुणनिर्वाहस्य न्याय्यत्वात् । गायत्री वा इदं सर्वमित्यादिवाक्यस्य षाड्िवध्य(मात्र?) परत्वमप्ययुक्तम्; “सैषा चतुष्पदा षङ्िवधा” इति निगमनवाक्यस्य स्वरसतश्चतुष्पात्त्वषाङ्िवध्यनिगमनपरत्वप्रतीतेः ॥ ननु सर्वभूतवाक्पृथिवीशरीरहृदयप्राणाख्यपदार्थषट्कप्रतिपादनात् स्वारस्यभङ्गेनापि षाड्िवध्यनिगमनपरत्वमास्थेयमिति चेन्न; वाक्प्राणयोर्गानत्राणादिवत् अन्यार्थमुक्ततया भूतपृथिव्यादिवत् प्राधान्यतः प्रतिपाद्यत्वाभावेन पदार्थषट्कासिद्धेः । ब्रह्मणो गानत्राणाभ्यां गायत्रीशब्दवाच्यत्वोपपादनाय वाक् प्रस्तुता, शरीरस्य प्राणप्रतिष्ठात्वोपपादनाय प्राणप्रसङ्गः ।

तथा हि “गायत्री वा इदं सर्वं भूतम्” इति गायत्रीशब्दः चतुष्पाद्ब्रह्मपरः । सर्वभूतशब्दः आत्मपरः । आत्मवर्गस्य तत्पादत्वं सामानाधिकरण्येनोक्तम् । तस्यैव ब्रह्मणो गानत्राणादिभिः षाड्िवध्यञ्च विवक्षुः श्रुतिर्गानत्राणोपपादनाय वाग्रूपत्वमाहवाग्वै गायत्रीति । गायत्रीशब्दवाच्यं चतुष्पाद्ब्रह्म वाग्रूपविशिष्टमित्यर्थः । “रसोऽहमप्सु कौन्तेय” इत्यारभ्योच्यते, “शब्दः खे पौरुषं नृषु” इति । तथा भगवत्पराशरवचनम्, “शब्दभूर्तिधरस्यैतद्रूपं विष्णोर्महात्मनः” इति । ततः किं विवक्षितषाड्िवध्यस्येत्यत्राहवाग्वा इदं सर्वं भूतं गायति च त्रायते चेति । वाग्विशिष्टं परं ब्रह्म सर्वं भूतं गायति अभिधत्ते, हिताहितविधिनिषेधमुखेन त्रायते चेत्यर्थः । एवमेकः पादः, गानत्राणरूपविधाद्वयञ्चोक्तम् । तदनुवादपूर्वकं द्वितीयं पादं सामानाधिकरण्येनाह- या वै गायत्री इयं वा व सा येयं पृथिवीति । उक्ताकारविशिष्टप्रकृतधर्मिपरौ यत्तच्छब्दौ । या सर्वभूतरूपैकपादा गायत्री- गायत्र्याख्यं ब्रह्म, तदेव पृथिवीत्यर्थः । कथं पृथिव्या ब्रह्मात्मकत्वमित्यत्राह अस्यां हीति । ब्रह्मात्मकत्वादेव हि सर्वभूतप्रतिष्ठात्वम्; न हि केवलपृथिव्याः सवर्भूतधारणे शक्तिरित्यर्थः । प्रतिष्ठात्वञ्च नियतमित्याह- एतामेव नातिशीयत इति । पृथिर्वी भूतजातं नातिवर्तते, कर्मवश्यात्मनां नियमेन प्रतिष्ठात्वादशक्यातिक्रमणेत्यर्थः । पृथिवीमयब्रह्माण्डोदरे हि कर्तृभोक्तृवर्गः परिवतर्ते । एवं द्वितीयः पादः भूतप्रतिष्ठात्वतदनतिवर्त्यत्वरूपं विधाद्वयं चोक्तम् । अथ तृतीयं पादमाह- या वै सा पृथिवी इयं वाव सा, यदिदमस्मिन् पुरुषे शरीरमिति । पुरुषशब्दः शरीरविशिष्टजीवपरः । पृथिवीरूपपादविशिष्टा या, सा गायत्री- गायत्र्याख्यं ब्रह्म; सा शरीरम्, शरीराख्यपादविशिष्टेत्यर्थः । भूतपृथिव्योर्गायत्री- सामानाधिकरण्येन निर्दिष्टतया पृथिवीशब्दस्य ब्रह्मपर्यन्तत्वेन तदुपस्थापनक्षमत्वात्, अग्रयप्रायन्यायेन अत्रापि पादान्तरस्य तत्सामानाधिकरण्येन निर्देष्टुं युक्तत्वाच्च । शरीरस्य ब्रह्मात्मकत्वं प्राणप्रतिष्ठात्वतदनतिवर्त्यत्वाभ्याम् उपपादयति अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्त इति । चतुर्थं पादमाह- यद्वै तत् पुरुषे शरीरम्, इदं वाव तत् यदिदमस्मिन्नन्तःपुरुषे हृदयमिति । शरीराख्यपादविशिष्टं यत् गायत्र्याख्यं ब्रह्म तदेव हृदयमित्यर्थः । पूर्ववद्ब्रह्मात्मकत्वमुपपादयति- अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्त इति । प्राणाः- प्राणापानादयः; इन्द्रियाणि वा । तेषां हृदयसंबन्धिनाडीद्वारा हृदयप्रतिष्ठितत्वम् । प्राणशब्दस्य जीवपरत्वं केचिदाहुः । तदयुक्तम्; भूतप्राणशब्दयोरर्थवैषम्याभावेन तदभिमतषाड्िवध्यासिद्धेः । भूतपृथिवीशरीरहृदयवाक्प्राणैर्हि ते षाड्िवध्यं वदन्ति । एवं तृतीयचतुर्थौ पादौ प्राणप्रतिष्ठात्वतदनतिवर्त्यत्वरूपं विधाद्वयञ्चोक्तम् । एवमुक्तं चतुष्पात्त्वं षाड्िवध्यं च निगमयति- सैषा चतुष्पदा षडिधा गायत्रीति ।

नन्वेवं तर्हि ब्रह्मणः परिच्छिन्नत्वं स्यादिति शङ्कायाम्, उक्तस्य महिम्न एतावत्त्वप्रतिक्षेपिकामृचमुदाह- रति तदेतदिति । ब्रह्माभिप्रायेण नपुंसकत्वम् । तदेतत् चतुष्पात् षड्िवधं च ब्रह्मेत्यर्थः । “स भूमिं विश्वतो

वृत्वा” इत्युक्ता, “एतावानस्य महिमा अतो ज्यायांश्च पुरुषः” इति पुरुषसूक्ते श्रूयते । इह च पृथिव्यां भूतशरीरहृदयानि अन्तर्गतानि । अतस्तावानस्य महिमेत्यनेन पृथिवीतदन्तर्गतपदार्थैश्चतुष्पात्वरूपमहिमानुवादः । तावत्त्वं प्रतिषेधति- अतो ज्यायानिति । पादोऽस्येति । इहोक्तं पादचतुष्टयमेकपादस्थानीयम् । अतोऽतिरिक्ता त्रिपाद्विभूतिः । तस्मात् अतो ज्यायानित्युपपन्नमित्यर्थः । एवमस्या ॠचः परिच्छिन्नत्वशङ्काव्युदासार्थत्वं युक्तम्; अनन्तरमपि “तदेतत्पूर्णमप्रवर्ति । पूर्णामप्रवर्तिनीं श्रियं लभते, य एवं वेद” इति पूर्णत्वादिगुणकतयोपासनविधानात् ॥ नन्वेवं सति ब्राह्मणोक्तचतुष्पात्त्वविषयत्वाभावेन ब्राह्मणस्य ॠचश्चैकार्न्यं न सिध्येत् न; उभयोर्ब्रह्मविषयत्वात् ॥ यदि इयमृक् चतुष्पात्त्वविषया न भवति, तर्हि किमर्थे तदुदाहरणम् ॥ परिच्छिन्नत्वशङ्काव्युदासार्थमित्युक्तम् । तथा सत्येवार्थवत्त्वम् । न ह्युक्तमात्रज्ञापने प्रयोजनम् । न चेयमृक् पूर्वोक्तविवरणरूपा दृश्यते । किञ्च ॠचश्चतुष्पात्त्वान्तरपरत्वं परेषामप्यवर्जनीयम्; जाग्रदाद्यवस्थात्रयोपलक्षितं बाह्यशारीरहार्दरूपेण त्रेधा विभक्तकार्याकाशोपलक्षितं वा कारणस्वरूपं त्रिपादुच्यत इति तत्कृतयोजना । तत्र कथं सर्वभूतैर्जाग्रदाद्यवस्थात्रयत्रिविधाकाशोपलक्षितं वा कारणस्वरूपं त्रिपादुच्यत इति तत्कृतयोजना । तत्र कथं सर्वभूतैर्जाग्रदाद्यवस्थात्रयत्रिविधाकाशोपलक्षितरूपेण चतुष्पात्त्वं भूतपृथिवीशरीरहृदयैश्चतुष्पत्त्वञ्चैकरूपं भवति । चतुष्पात्त्वं हि बहुविधं श्रूयते, “चतुष्पाद्ब्रह्म वाक् पादः प्राणः पादः चक्षुः पादः श्रोत्रं पादः” इति । तथा “अग्निः पादो वायुः पाद आदित्यः पादो दिशःपादः” इति च । एवं ज्ञातमात्रज्ञापने प्रयोजनाभावात् पुरुषसूक्तप्रक्रियानुगुण्यात्, अनन्तरवाक्यानुगुण्यात्, ब्रह्मणो विविधचतुष्पात्त्वसंभवात्, चतुष्पात्त्वभेदस्य परपक्षेऽप्यवर्जनीयत्वाच्च यथोक्त एवास्या ॠचोऽर्थः ।

अथ चतुर्थपादत्वेनोक्तहृदयस्थाकाशस्य महत्त्वं वक्तुं बाह्याकाशस्य ब्रह्मतुल्यत्वं सामानाधिकरण्येनाह “यद्वै तद्ब्रह्मेति इदं वाव तत् योयं बहिर्धा पुरुषादाकाशः” इति । आकाशः स्वकायर्व्यापित्वामूर्तत्वाचलत्वादिभिर्ब्रह्मतुल्य इत्यर्थः । “अयं वाव सः योऽयमन्तःपुरुष आकाशः, अयं वाव स योऽयमन्तर्हृदय आकाशः” इति निर्दशो धर्मैक्याभिप्रायः । एवं हार्दाकाशमाहात्म्येन हृदयं स्तुतं भवति ।

एवं चतुष्पदः षड्िवधस्य ब्रह्मणः प्रपञ्चान्तर्भावेन परिच्छिन्नत्वास्थिरत्वशङ्काव्यावृत्त्यर्थं पूर्णत्वाप्रवर्तित्वगुणकतयोपासनं मोक्षफलकं विदधाति- तदेतदिति । तदेतत्-चतुष्पात् षड्िवधमित्यर्थ। । नात्र हृदयमात्रे ब्रह्मोपासनविधिः, सप्तम्यश्रवणात् ।

अथ ब्रह्मोपासनाङ्गत्वेन द्वारपोपासनं विधीयते तस्य ह वा एतस्य हृदयस्येत्यादिना । तत्र च प्राणवृत्तिविशेषाप्यायितचक्षुराद्यनुग्राहकाः आदित्यादय उपास्याः । न च हृदयस्येत्युक्तत्वात् द्वारपोपासनं हृदयोपासनाङ्गमिति वाच्यम्; किंतु प्रकृतचतुष्पाद्ब्रह्मोपासनाङ्गम् । हृदयस्येति निर्देशस्तु चतुर्थपादत्वेन हृदयस्याव्यवहितप्रकृतत्वात्, नाडीद्वारा चक्षुरादीनां तत्संबन्धित्वाच्च कृतः ॥

एवं गायत्रीविद्याप्रकृतस्य सकलफलप्रदस्य द्युसंबन्धिनः परस्य ज्योतिष आभिरूप्यकीर्तिमत्त्वरूपफलविशेषार्थं कौक्षेयज्योतीरूपत्वेनोपासनविधानाय, “अथ यदतः परो दिवो ज्योतिः” इत्यादि आरभ्यते ।

एवं वाक्प्राणयोरन्यार्थमुदाहृतत्वात् निगमनवाक्यस्वारस्याच्च भूतपृथिवीशरीरहृदयान्येव पादाः, गान-त्राण-भूतप्रतिष्ठात्व-तदनतिशय-प्राणप्रतिष्ठात्व-तदनतिशयाः षट् विधाः ॥ ननु “सैषा” इत्यादिवाक्यस्य षाड्िव-ध्यानुवादेन चतुष्पात्त्वविधानपरत्वे सति ॠचश्चतुष्पात्त्वोपदेशपरत्वं सिध्यति । ततश्च “तदेतदृचाऽभ्यनूक्तम्” इति घटकवाक्यस्वारस्यं भवेदिति चेत् तदयुक्तम्; प्रथमश्रुतस्य ब्राह्मणवाक्यनिगमनस्य स्वारस्यभङ्गेन पाश्चात्यसंदंशकवाक्यानुरोधानुपपत्तेः; अन्यार्थतया प्रस्तुतयोर्वाक्प्राणयोभूतपृथिव्यादितुल्यतापरिकल्पनस्योपक्रमस्वारस्य विरुद्धत्वाच्च । ॠगुपन्यासस्य प्रयोजनं तत्रोपपत्तयश्च दर्शिताः । न ह्येकरूपमेव ब्रह्मणश्चतुष्पात्त्वमिति नियन्तुंशक्यम्, चतुष्पात्त्ववैविध्यस्यान्यत्रापि श्रुतत्वात् ॥

किञ्च त्रिपाच्छब्दनिर्वाहश्च निरूपणीयः । तथा हि मनोमयवाङ्मयप्राणमयास्त्रय ईश्वख्यूहाः । तैस्त्रिप्रकारमवस्थितं ब्रह्म त्रिपादमृतं विवक्षितमित्युच्यते । तत्र तावत्

प्रसिद्धमनोवाक्प्राणानामचिद्विकारत्वान्नेश्वरव्यूहत्वममृतत्वं च संभवति । सप्तान्नब्राह्मणोक्तानां मनोवाक्प्राणानुग्राहकाणामग्न्यादित्यचन्द्राणां च कर्मवश्यत्वात् सृज्यत्वाच्च नेश्वरव्यूहत्वममृतत्वं च युज्यते । “चन्द्रमा मनसो जातः । चक्षोः सूर्यो अजायत । मुखादिन्द्रश्चाग्निश्च”, “भीषाऽस्माद्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च”, “असौ योऽपक्षयति असौ य आपूर्यति” इति तेषां सृज्यत्वकर्मवश्यत्वे हि श्रूयेते ॥ मनोवाक्प्राणशब्दवाच्यतयाऽभिमतानां सत्त्वतमोरजसां शक्तिरूपाणां प्रज्ञाशक्तिवाक्छक्तिक्रियाशक्तिशब्दवाच्यानाम्, द्युपृथिव्यपच्छब्दवाच्यतयाऽभिमतानां स्थूलानां सविकाराणां सत्त्वतमोरजसां चाधिष्ठातार ईश्वरांशास्त्रस्य ईश्वरव्यूहा इति चेत् तैरपि त्रिपात्त्वं दुर्वचम्; वाङ्मयप्राणमययोर्मनोमयादुत्पत्त्यभ्युपगमेन त्रयाणां नित्यत्वायोगेन त्रिपादमृतमिति निर्देशानुपपत्तेः ॥ तेषां शक्तिरूपेणामृतत्वमिति चेत् शक्तिरूपेणामृतत्वम्, “पादोऽस्य सर्वा भूतानि” इति पादत्वेनोक्तानां सर्वभूतानां सप्रकृतिकानामप्यस्तीति “त्रिपादस्यामृतं दिवि” इति वचनवैयर्थ्यं स्यात् । किञ्च “ईश्वरः पर आत्मा तपो ब्रह्म मनोमयः” इत्यारभ्य तस्य द्वौ व्यूहावाकाशशरीरः प्राणशरीरश्च । तयोरन्ये प्रत्येकमसंख्याताः प्रतिजीवमवस्थिता व्यूहाः” इत्युपनिषत्कल्पे भवद्भिरुच्यते । किमसङ््ख्येयानामीश्वरव्यूहानां जीवानामिव स्वत एव स्वरूपगतो भेदः, उताधिष्ठेयगतभेद एवेश्वरव्यूहभेद इत्युपचारादुच्यते? । प्रथमे, जीवबहुत्वेश्वरैकत्वश्रुतीनां वैयर्थ्यम्; समष्टयैक्यस्य व्यष्टिभेदस्य च जीवेश्वरयोस्तुल्यत्वात् । श्रूयते हि, “त्वमेकोऽसि बहूननुप्रविष्टः”, “अन्तः प्रविष्टः शास्ता जनानाम्”, “एकः सन् बहुधा विचचार”, “एको देवः सर्वभूतेषु गूढः”, “एको वशी निष्क्रियाणां बहूनामेकं बीजं बहुधा यः करोति”, “एको बहूनां यो विदधाति कामान्”, “यः पृथिवीमन्तरे सञ्चरन्” इत्यारभ्य बहुष्ववस्थानमुक्त्वा “एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः” इत्यादि । द्वितीये च पक्षे, किमीश्वरव्यूहाधिष्ठेयाः गुणाः, उत गुणशक्तयः? । प्रथमे, सत्त्वतमोरजसामुत्पत्तेः पूर्वं निर्गुणानां तेषामवस्थानवादो न घटते । उक्तं हि तत्त्वविचारणायां भवद्भिः, “यस्मादेषं प्रलयकालेऽप्यवस्थानमाम्नायते, तस्माद्गुणोत्पत्तेः प्रागष्येषामवस्थानान्निर्गुणा एते” इति । द्वितीये च, गुणप्रलयात्पश्चात् गुणशक्तीनामीश्वराधिष्ठेयत्वं नोपपद्यते । तासामधिष्ठानं हि कार्याभिमुखीकरणलक्षणं प्रेरणम् । तत् तदानीमस्ति चेत् आसर्गकालात् गुणानुत्पतिरनुपपन्ना ॥ कार्यानुत्पादनमपि ईश्वराधिष्ठानाधीनमिति चेत् तर्हि परमात्मनः स्वापे गुणशक्तीनां तदधिष्ठितत्वाभावात् कार्योत्पत्तिप्रसङ्गः । स्वापप्रबोधौ हीन्वरस्य त्वदभ्युपगतौ । अतः कार्यानुत्पादनस्येश्वराधिष्ठानानपेक्षत्वेन गुणशक्तीनामधिष्ठातृत्वाभावेन व्यूहभेदाभावात् गुणोत्पत्तेः प्राक् निर्गुणत्वेन त्रयाणां व्यूहानां कञ्चित्कालमवस्थानमयुक्तम् ॥ अधिष्ठेयभेदमनपेक्ष्य स्वत एव भेदश्चेत् त्रित्वस्यानादित्वात् मनोमयात् इतरयोरुत्पत्तिरनुपपन्ना ।

किञ्च तिसृष्वपि ईश्वरव्यष्टिषु किं प्रमाणम्? ॥ “एतन्मयो वा अरे अयमात्मा वाङ्मयो मनोमयः प्राण मयः” इति श्रुतिरिति चेत् न; जीवस्य मनोवाक्प्राणोपकरणित्वप्रतिपादनपरत्वात् तस्याः ।

तथा हि “यत् सप्तान्नानि मेधया तपसाऽजनयत् पिता” इति परमात्मनः सङ्कल्पात् देहिनामुपजीव्यत्वादन्नशब्दवाच्यानां सप्तानामुत्पत्तिमुक्वा, तत्र प्रसिद्धान्नं दर्शपूणमासौ पयश्चेत्यन्नचतुष्टस्य मानुषदेवतिर्यक्षु विनियोगमुक्वा, “त्रीण्यात्मनेऽकुरुत” इत्यवशिष्टान्नत्रयस्य सर्वविधप्रवृत्तिहेतुत्वात् सामान्येन सर्वभोक्तृवर्गशेषमकरोदित्युक्त्वा, “अन्यत्रमना अभूवं नादर्शम् । अन्यत्रमना अभूवं नाश्रौषम् ।… कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येततसर्वं मन एव” इति प्रसिद्धं मन एव प्रतिपादितम् । कामादीनां मनःकार्यत्वात् सामानाधिकरण्यम् । “यः कश्च शब्दो वागेव” इति सामानाधिकरण्यमपि शब्दस्य वागिन्द्रियाधीनोच्चारणत्वनिबन्धनम् । अतः शब्दोच्चारणकारणं प्रसिद्धवागिन्द्रियमेवोक्तम् । “प्राणोऽपानो व्यान उदानस्समानोऽनः इत्येतत्सर्वं प्राण एव” इति पञ्चवृत्तिप्राण एव स्पष्टमभिहितः । एतन्मयः इत्येतच्छब्दश्च प्रकृतमनोवाक्प्राणपरः । “अयमात्मा” इत्ययंशब्दविशेषित आत्मा च प्रसिद्धो जीवः; न तु परमप्रकृतः परमात्मा । तस्य जीवस्य त्रिविधोपकरणवत्त्वमेतन्मय इति प्रतिपादितम् । पश्चात् “त्रयो लोका एत एव” इत्यादिना तेषां प्रशंसा कृता । “यत्किञ्च विज्ञातं वचस्तद्रूपं वाग्धि विज्ञाता । वागेवैनं तद्भूत्वाऽवति” इति यद्वाग्व्यवहाराद्विज्ञातम्, तत् सर्वं वाचो रूपम् अवच्छेदकम् । वाक् विज्ञाताविमायमानं सर्वं वागधीनम् ।

उपचारात् सामानाधिकरण्यम् । वागेवैनं तद्भूत्वाऽवति । यद्वाचा विज्ञातं विज्ञातं वस्तु पुरुषस्योपकरोति, तद्भूत्वा- तद््रूपेण वागेवोपकरोतीत्यर्थः ।…विजिज्ञास्यम्-..इति चिन्तनीयम् । पूर्ववद्योजना । यच्चिन्तितं देवतादिकम् उपकरोति, तद्भूत्वा मन एवोपकरोतीत्यर्थः । …

अविज्ञातम् …इति । पूर्वसुकृतवशादचिन्तितं यदुपकरोति, तद्भूत्वा प्राण उपकरोतीत्यर्थः । एवं प्रशस्य त्रया णाम् अधिष्ठानानि अधिष्ठातंश्च दर्शयति “तस्यै वाच” इत्यादिना । वाचः वागिन्द्रियस्य पृथिवी शरीरमायतनम् । जिह्वागोलकस्थं पार्थिवांशमाश्रित्य वागिन्द्रियं तिष्ठतीत्यर्थः । ज्योतीरूपमयमग्निः- ज्योतिर्मयमधिष्ठातृदेवतास्वरूपमग्निरित्यर्थः । यावत्येव वाक् तावती पृथिवी तावानयमग्निरिति । यत्र यत्र वागिन्द्रियं तत्र तत्र तदधिष्ठानतया पृथिव्यस्ति, अधिष्ठातृतया अग्निरप्यस्तीत्यर्थः । अथैतस्य मनसो द्यौः शरीरमिति । इह द्युशब्द आकाशमात्रपरः; न तु लोकविशेषपरः, अनुपपत्तेः । न हि स्वर्गलोक एव मनसोऽधिष्ठानम्; मनुष्याणाममनस्कत्वप्रसङ्गात् । द्युशब्दो हि लोकविशेष नभोमात्रे च वर्तते । “सुरलोको द्योदिवौ द्वे स्त्रियाम्”, “द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्” इति हि नामानुशासनम् । अतः आकाशमात्रविवक्षा । तत्रापि सामर्थ्यात् हृदयाकाशे पर्यवस्यति । हृदयच्छिद्ररूपाकाशः आयतनमित्यर्थः । ज्योतीरूपतमित्यादेः पूर्ववत् । तौ-अग्न्यादित्यौ । मिथुनं समेताम्-मिथुनीभावमगच्छताम् । ततः प्राणोऽजायत । अयमस्याभिप्रायः- आदित्याधिष्ठेयमनःपूर्विका अग्न्यधिष्ठेयवाक्प्रवृत्तिः, तदुभयपूर्विका पञ्चवृत्तिप्राणाधीना शरीरप्रवृत्तिरिति । प्राणस्यासपत्नत्वम् चक्षुरादिषु स्वसदृशस्वप्रतिस्पर्धिविरहितत्वम् । अथैतस्यप्राणस्याऽऽपश्शरीरमिति । “प्राणा वा आपः” इति हि श्रुतिः । “पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम्” इत्यायुर्वेदविदः । अतः प्राणस्य आप आयतनम् । ज्योतीरूपमित्यादि । पूर्ववत् । मनःप्राणयोरभिमानिदेवतान्तर श्रवणेऽपि श्रुतित्वाविशेषादेवमपि संभवतीत्यभ्युपगन्तव्यम् । आनन्त्यं प्रतिशरीरं मनआदिव्यष्टिभेदात् । स एत संवत्सर इत्यादिना चन्द्रमाः षढ्ढोता स ॠतून् कल्पयाति” इति प्रकारेण सर्वर्तुप्रवर्तकतया संवत्सारसंज्ञस्य रात्र्यधीनोपचयापचयान्वितकलामयस्य प्राणाधिदैवस्य चन्द्रस्य प्रजारक्षकत्वम्, “सौम्यो वै देवतया पुरुषः” इति प्रक्रियया पुरुषस्य चन्द्राधीनत्वं तद्वेदनफलञ्चोक्तम् । पश्चात् मनोवाक् प्राणानां व्यापारस्य परलोकेऽभ्यधिकत्वं वक्तुम्, “अथ त्रयो वाव लोकाः” इत्यादिना लोकत्रयं प्रस्तुत्य, पुत्रे विन्यस्तभारस्य तत्मुखेनैहलौकिकार्थप्राप्तिं केवलकमर्णाऽन्तरिक्षप्राप्तिं काम्यविद्याविशेषेण देवलोकप्राप्तिञ्चाभिधाय, प्रैष्यतो मनुष्यस्याध्ययनयज्ञादिकं श्रेयः सर्वं पुत्रेण संपाद्यमिति तस्मिन्निहितभरत्वमुक्त्वा, अयं यदैवंविदस्माल्लोकात् प्रैति, अथैभिरेव प्राणैस्सह पुत्रमाविशति इत्युक्तम् । पुत्रो भूत्वा यज्ञादिकम् अयमेव करोति पुत्रकृतं सर्वं परलोकगतस्य पितुः स्वानुष्ठितसुकृतवत् उपकारकं भवतीत्यर्थः । अथैनमेते दैवाः प्राणा अमृता आविशन्तीति एवं पुत्रे निक्षिप्तभरं परलोकगतं पुण्यकर्माणं पुरुषंदैवाः प्राणा अमृता आविशन्तीति एवं पुत्रे निक्षिप्तभरं परलोकगतं पुण्यकर्माणं पुरुषं दैवाः प्राणशब्दवाच्याः मनआदयः आविशन्तीत्यर्थः । तदेव प्रपञ्चयतिपृथिव्यै चैनमित्यादिना । शापानुग्रहसमर्था वाक् दैवी वाक् । अमोघसङ्कल्पमानन्दैककारणं मनो दैवं मनः । अप्रतिहतगगनगमनादिव्यापारहेतुः प्राणो दैवः प्राणः । एते पृथिवीद्युसलिलरूपाधिष्ठानेभ्योऽग्न्यादित्यचन्द्ररूपाधिष्ठातृदेवताभ्यश्चास्य संभवन्ति । देवताप्रसादादेवास्य मनोवाक्प्राणा एवंविधा भवन्तीत्यर्थः । एवं जीवोपकरणानां तेषां परलोके शक्त्यतिशयमुक्त्वा, “स एवंवित् सर्वेषां भूतानामात्मा भवति” इति वागिन्द्रियादिदेवताविज्ञानप्रकषर्णास्य सर्वभूतान्तर्वर्तिज्ञानसामर्थ्यं तस्य दुःखासंस्पर्शञ्चाभिधायोपसंहृतम् ।

अत्र द्युपृथिव्यप्शब्दानां मनोवाक्प्राणशब्दानाञ्च सत्त्वतमोरजोवाचित्वाभावात् प्रज्ञाशक्तिवाक्छक्तिक्रियाशक्तिवाचित्वाभावाच्च तदधिष्ठात्रीश्वरव्यूहप्रतिपादनमनुपपन्नम् ॥ शब्दस्वारस्याभावेऽप्यर्थानुपपत्त्या तादृगर्थपरत्वमाश्रयणीयमिति चेत् का पुनरत्रानुपपत्तिः ॥ “यावती वाक् तावती पृथिवी” इत्यादिवाक्यैः पृथिव्यादीनां व्याप्त्यवगमात् प्रसिद्धपृथिव्यादिपरत्वमनुपपन्नमिति चेन्न; वागिन्द्रियादिभिस्तदधिष्ठानभूतानां पृथिव्यादीनां तुल्यदेशत्वमात्रप्रतिपादनात् । इन्द्रियसमष्टेरपि हि न व्याप्तिमत्त्वम्, कायर्ाणां तत्त्वानां दशगुणकारणपरिच्छिन्नत्वेनेन्द्रियसमष्टेरहङ्कारतत्त्वपरिच्छिन्नत्वात् ।

ननु तलवकारिणां श्रुतौ “नासदासीन्नो सदासीत् तदानीम्, नासीद् रजो नो व्योमापरो यत् । किमाव रीवः कुह कस्य शर्मन् अम्भः किमासीद्भहनं गभीरम्” इति । “तस्मिन्नसति सति न कस्मिश्चन सति ॠतं ज्योतिष्मदुदप्लवत; तपो ज्योतिष्मदुदप्लवत । तद्यदृतमिति वाक् सा यत्सत्यमिति प्राणसतः यस्तप इति मनस्तत् तेषामन्नमेव ज्योतिरासीत् तान्येकमभवन् । तदेकं भूत्वाऽन्नेन ज्योतिषाऽप्यायत । तद्यथा मध्वष्ठीला वा स्वासिक्तास्या वृतिर्वैव(म्?) । तदैक्षत हन्त प्राणं करवै” इत्यादिना तेषामृतसत्यतपश्शब्दवाच्यानां वाक्प्राणमनसां प्रलयेऽप्यवस्थानात् (वस्थानवचनात्?) सत्त्वाद्यधिष्ठातार ईश्वरव्यूहा एव मनआदिशब्दवाच्या इति चेत्

न; अस्यां श्रुतौ प्रलयेऽप्यवस्थानाप्रतीतेः । उत्प्लवनञ्च न स्थितिः ; किंतु उद्गमनम्; तेनोत्पत्तिरेवावग म्यते; यथा अब्धेस्तरङ्गोद्गम इति, कारणात्कार्योदय इति च । न ह्युद्गमनादिशब्दैः क्वचिदप्वस्थानं प्रतीयते । अत्र प्रसिद्धवागाद्युत्पत्तौ प्रतिपाद्यमानायामाख्यातपदानां कारकपदानां च स्वरसता स्यात् । इतरत्र अस्वारस्यमेव । “तेषामन्नमेव ज्योतिरासीत्” इत्यत्र ज्योतिश्शब्दः ओजश्शब्दवत् प्रवृत्तिसामर्थ्यपरः । त्रिविधकरणानामप्यन्नमेव प्रवृत्तिसामर्थ्यहेतुरित्यर्थः । करणत्रयेणापि हिेयज्ञादिकर्मनिष्पत्तिः । अनन्तरं “तदैक्षत” इति तच्छब्दश्च सृष्टिप्रतिपादनाक्षिप्तकारणब्रह्मपरः । एवं प्रलयदशायामप्यवस्थानश्रवणरूपापवादाभावात् मनआदिशब्दो नेश्वरव्यूहपरः ।

यत एवम्, तस्मात् सप्तान्नसृष्टौ “तौ मिथुतं समेतां ततः प्राणोऽजायत । स इन्द्रः । स एषोऽसपत्नः” इति वाङ्मयव्यूहपत्नीकात् मनोमयादीश्वरात् प्राणमयव्यूहोत्पत्तिरुच्यत इति चानुपपन्नम् ॥

ननु बृहदारण्यक एव षष्ठेऽध्याये, “इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः । तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव । परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः । अथैतद्वामेऽक्षणि पुरुषस्य रूपम्, एषाऽस्य पत्नी विराट् । तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः” इत्यत्र दक्षिणाक्षिप्रतिष्ठितस्य पुरुषस्य वामाक्षिगतं पुरुषरूपं पत्नीत्वेनोच्यते । अतोऽत्र वाङ्मयपत्नीको मनोमयः प्रतिपादित इति ॥ न; “ततः प्राणोऽजायत स इन्द्रः” इति मिथुनोत्पन्नस्येन्द्रशब्दवाच्यत्वावगमात्; इह च पत्नीवतः पुरुषस्येन्द्रशब्दवाच्यत्वावगमाच्च । ततश्चेन्द्रशब्दवाच्यप्राणमयस्य वाङ्मयः पत्नी प्रसजेत्, न तु मनोमयस्य । मनोमयस्य वाङ्मयपत्नीकत्वं प्राणमयस्य तदुत्पन्नत्वमपि हि भवदभिमतम् ।

तस्मादत्रायमर्थः- दक्षिणाक्षिस्थः पुरुषोत्तमः; “य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्” इति दक्षिणाक्षिस्थस्य आदित्यान्तरवस्थितत्वश्रवणात् तस्य च पुण्डरीकाक्षत्वात् । “इन्द्रं निचिक्युः परमे व्योमन्”, “इन्द्रो मायाभिः” इत्यादिषु परमपुरुषस्य इन्द्रशब्दवाच्यत्वं च सिद्धम् । वामाक्षिस्था तत्पत्नी साक्षाल्लक्षमीरेव; इन्द्रशब्दवाच्यस्य पत्नीत्वेन प्रतीतेः । तैत्तिरीयके च, “राडसि बृहती श्रीरसीन्द्रपत्नी धर्मपत्नी” इतीन्द्रपत्न्याः श्रीशब्दवाच्यत्वावगमात् । किञ्च हृदयगुहायामवस्थानमनयोरिह श्रूयते, “तयोरेष संस्तावो य एषोऽन्तहृॅदय आकाशः” इति । संस्तावः-अधिकरणे घञ् । संस्तावः स्थानम् (संस्तवस्थानम्?) । संस्तवः परिचयः; सहवासः । “पद्मकोशप्रतीकाशम्” इत्यारभ्य, “तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः” इति नारायणस्य हृदयस्थितिश्रवणादत्रापि श्रियः पतिर्नारायण एव प्रतिपादित इति वाङमयपत्नीकपुरुषप्रतिपादनमसङ्गतम् ।

तलवाकारिश्रुतावपि ईश्वरव्यूहत्रयप्रतिपादनाभावात् अधमषर्णसूक्तेऽपि न तत्प्रतिपादनम् (इति वाङ्मयपत्नीकपुरुषप्रतिपादनमसङ्गतम्); अपि तु तपश्शब्दःपरमात्मपरः ; “यस्य ज्ञानमयं तपः” इति तपश्शब्द

मानवाचित्वात् परस्य ज्ञानगुणसारत्वेन ज्ञानशब्दस्येव धर्मिपर्यन्ताभिधानोपपत्तेः । तस्मात् ॠतशब्दसत्यशब्दवाच्ययोर्यज्ञादिकर्मतद्भोक्तृचेतनवर्गयोरुत्पत्तिः; वाक्प्राणयोर्वा, “तद्यदृतमिति, वाक् सा । यत्सत्यमिति प्राणस्सः” इति श्रुतेः । यद्वा ॠतं यर्थाथशब्दः, सत्यमवाध्योऽर्थः । नामरूपे उत्पन्ने इत्यर्थः । अतो मिथःकार्यकारणभावेनावस्थितं वाङ्मयादिव्यूहत्रयं निष्प्रमाणकम् ।

किञ्च वाङ्मयपत्नीकात् मयोमयात् प्राणमयोत्पत्तिः किं प्रलयदशायां महदादिसर्गात्पूर्वभाविनी, उत महदादिसर्गानन्तरभाविनी? । तत्र प्रथमशिरो निष्प्रमाणकत्वान्निरस्तम् । द्वितीये तु ब्रूमः “वाङ्मयः पृथिवीश रीरो लयपरिणामशक्तिमधितिष्ठति । तमः पृथिवीत्युच्यते । लयपरिणामशक्तिः वागिति, मोक्षस्थानमिति च”

इत्युक्तमुपनिषत्कल्पे । तत्रैव, “प्राणमयोऽप्च्छरीरः क्रियाशक्तिमधितिष्ठति । रज आप उच्यन्ते क्रियाशक्तिः प्राणः” इति चोक्तम् । यदि तमोरजश्शक्तयधिष्ठातारौ वाङ्मयप्राणमयौ, तदा वाङ्मयपत्नीकात् मनोमयात् प्राणमयोत्पत्तिं वदता चतुमर्ुखोत्पत्तेः पूर्वमेव रुद्रोत्पत्तिरुक्ता स्यात् । तत् श्रुतिविरुद्धम् । महोपनिषदि, “तत्र ब्रह्मा चतुर्मुखोऽजायत” इति ब्रह्मसृष्टिमुक्त्वा “अथ पुनरेव नारायणः सोऽन्यं कामं मनसा ध्यायीत । तस्य ध्यानान्तःस्थस्य ललाटात् त्र्यक्षश्शूलपाणिः पुरुषोऽजायत” इति रुद्रसृष्टेः पश्चात्तनत्वश्रवणात्; सुबालोपनिषदि, “ललाटात् कोधजो रुद्रोऽजायत” इति रुद्रस्य चतुमर्ुखललाटोत्पन्नत्वश्रवणात् ; शैलालिब्राह्मणे रुद्रस्य चतुमुखसृष्टाग्न्यादिजीववदुत्पन्नत्वश्रवणात्; शतपथे चाष्टमूिूर्तब्राह्मणे, संवत्सरशब्दावाच्येन प्रजापतिना रुद्रसृष्टेः श्रुतत्वात्, तद्रोदनपरिहाराय तेन तस्य नाममूर्त्यष्टकप्रदानप्रतिपादनाच्च ।

ननु श्वेताश्वतरे, “विश्वाधिको रुद्रो महर्षिर्हिरण्यगर्भं जनयामास पूर्वम्” इति श्रूयत इति चेत् तदपि भवत्पक्षे विरुद्धम्; अनन्तरमेव, “वेदाहमेतंत पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात्”, “महान् प्रभुर्वै पुरुषः सत्त्वस्यैष प्रवर्तकः”, “अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा”, “सहस्त्रशीर्षा पुरुषः” इत्यादिषु वाक्येषु, “एतं महान्तं पुरुषम्”, “एष महान् पुरुषः इति प्रकृतरुद्रपरामर्शिना एतच्छब्देन महापुरुषशब्दसामानाधिकरण्यात्, “यदेष आकाश आनन्दो न स्यात्” इत्यानन्दशब्दसमानाधिकरणाकाशशब्दस्य प्रसिद्धाकाशप्रहाणेन परमात्मपरत्ववत् रुद्रशब्दस्यापि प्रसिद्धार्थप्रहाणेन महापुरुषपरताया न्याय्यत्वात्, सत्त्वप्रवर्तककविषयस्य वाक्यस्य तमोधिष्ठातृवाङ्मयपरत्वाभावात्, पुरुषसूक्तवाक्योपादानेन पुरुषोत्तमविषयत्वस्य स्फुटत्वाच्च परमपुरुषादेव हिरण्यगर्भोत्पत्तेस्तत्र प्रतिपाद्यमानतया वाङ्मयपत्नीकत्वप्रसङ्गाभावात् । यथा “मृत्युनैवेदमावृतमासीत् अशनायया । अशनाया हि मृत्युः । तन्मनोकुरुत, आत्मन्वी स्यामिति । सोऽर्चन्नचरत् । तस्यार्चत आपोऽजायन्त” इत्यारभ्य अशनायलक्षणात् मृत्योरम्बुपृथिव्यग्नीनां सृष्टिप्रतीतावपि न प्रसिद्धमृत्योः क्षुधो वा पृथिव्यादिप्रपञ्चकारणत्वमभ्युपगन्यते; “भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः”, “मृत्युर्यस्योपसेचनम्”, “तच्छ्रेयो रूपमत्यसृजत क्षत्रम्, यान्येतानि देवता क्षत्रणीन्द्रो वरुणस्सोमो रुद्रः पर्जन्यो यमो मृत्युरीशानः” इति परमात्मसृज्यत्वसंहार्यत्वनियाम्यत्वश्रवणात् एवं ब्रह्मसृष्टस्य रुद्रस्य न ब्रह्माणं प्रति स्त्रष्टृत्वमिहोच्यत इत्यभ्युपगन्तव्यम् । शैलालिब्राह्मणशतपथसुबलोपनिषदां तु नैवमर्थान्तरपरत्वं वक्तुं शक्यम् ।

नन्वेवमपि कल्पभेदेन सृष्टिप्रकार इत्यास्थेयम् ॥ नैवम्; त्वदभिमतसृष्टिप्रकारस्य स्फुटश्रवणाभावात्; आकाशादीनामपि कल्पभेदेन परमकारणत्वकल्पनाप्रसङ्गात् । श्रुतिविरोधेन कल्पनानुपपत्तेश्च । अतो वाङ्मयरुद्रपत्नीकान्मनोमयात् प्राणमयहिरण्गर्भोत्पत्तिः श्रुतिविरुद्धा ।

किञ्च वाङ्मयो लयपरिणामशक्तिमधितिष्ठति; लयपरिणामशक्तिश्च वागिति कथ्यते; मोक्षस्थानमिति च ।

मोक्षस्थानं परमाकाशः । स च प्रकृतेस्तमश्शब्दवाच्याया आद्यावस्था इति च भवद्भिरुच्यते । तथा तत्त्वविचारणायामुक्तम्, “परमाकाशो नाम प्रकृतेराद्यावस्था” इत्युपक्रम्य, “सा च तमोवस्थापन्ना प्रकृतिः परस्मादात्मनो विभागरूपं विकारं प्रतिपद्यते । स एव परमाकाशः । स एव मुक्तानामीश्वरस्य च स्थानं शब्दपरिणामशक्तियुक्तत्वाद्वागिति चोच्यते; अक्षरमिति च” इति । यदि अव्यक्ततमसोर्मध्यपठितमक्षरं परमाकाशः, स तावन्नाद्यो विभागः, “तम एकीभवति”, “मृत्युर्वै परे देव एकीभवति”, “तस्मात् तमः सञ्जायते” इति तमस एव विभागश्रवणात् । विभक्तात् तमसो ह्यक्षरविभागः । तमस्तस्मादक्षररूपेण जायत इति योजना त्वस्वरसा । “अक्षरं तमसि लीयते” इति लयश्रवणविभागः । “अक्षरं तमसि लीयते” इति लयश्रवणविरुद्धा च ।

तच्चाक्षरं न मुक्तानामीश्वरस्य च स्थानम्; तस्याव्यक्ताद्यपेक्षया अक्षरत्वेऽपि तमसि लयश्रवणेन क्षरत्वात्, “तदक्षरे परमे व्योमन्” इति परमव्योम्नः क्षरणाभावाच्च ॥ तत्रोप्यापेक्षिकमक्षरत्वमिति चेन्न; तत्र स्वारस्यमञ्जकप्रलयश्रवणाभावात् ॥ तमसो विभक्तमक्षरमेव तत्राक्षरशब्देन प्रत्यभिज्ञाप्यत इति चेन्न; वर्णानुपूर्वीसादृश्येऽप्यन्यविशेषणतया प्रयुक्तेनाक्षरशब्देन विशेष्यसमर्पकाक्षरशब्दार्थस्य प्रत्यभिज्ञानाभावात् । न ह्यरुणः पट इति वाक्यस्थोऽरुणशब्दो रविरथस्थस्थमरुणं प्रत्यभिज्ञापयति । किञ्च स्वप्रकरणे, “विश्वं पुराणं

तमसः परस्तात्” इति, समानप्रकरणे च, “आदित्यवर्णे तमसः परस्तात्”, “ते ह नाकं महिमानस्सचन्ते”, “आदित्यवर्णे तमसस्तु पारे” इति मुक्तात्मेश्वरस्थानस्य तमसःपरत्वश्रवणात् तमसोऽर्वाचीनस्याक्षरस्य न तत्र प्रत्यभिज्ञा ॥ “तमसः परस्तात्” इति परस्वरूपस्य तमोवैलक्षण्यमुच्यत इति चेत् न; दिग्देशकालेष्वस्तातिप्रत्ययस्य विहितत्वेन वैलक्षण्यमात्रपरत्वस्य क्लिष्टत्वात् स्थानविशेषस्य संनिहितत्वाच्च तमसः परत्वस्य देशविशेषवर्तिपरमात्मविशेषणत्वोपपत्तेः । “तमसस्तु पारे” इति पारशब्दश्चावधिवाचकः, न तु वैलक्षण्यवाचकः । अतस्तमसः परस्य स्थानस्येह प्रत्यभिज्ञानाभावात् तमोविभागरूपमक्षरं न मुक्तात्मपरमात्मस्थानम् । तमोविभागरूपं चाक्षरं न वाङ्मयाधिष्ठेयम्, तस्याक्षरस्य ब्रह्मरुद्रसृष्टेः पूर्वभावित्वात् । “यः पृथिवीमन्तरे सञ्चरन्” इत्यारभ्य, “योऽक्षरमन्तरे सञ्चरन् यस्याक्षरं शरीरम्”, “यस्य मृत्युः शरीरम्” इत्युक्ता “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति तस्याक्षरतत्कारणभूतमृत्युशरीरकस्य नारायणत्वप्रतिपादनाच्च । तस्यैवान्तरात्मत्वश्रवणात् वाङ्मयोऽन्तरात्मेति चानुपपन्नम् । अत एव हिरण्यगर्भस्य प्राणमयान्तर्यामित्वं च निरस्तम्; नारायणस्यैव ह्यन्तर्यामित्वं श्रुतम् । हिरण्यगर्भस्य महत्तत्त्वाभिमानित्वं तु ब्रह्माण्डान्तर्गतव्यष्टिशरीरविषयं क्वचिदुक्तमिति मन्तव्यम्; परमकारणत्वाभावात् । अग्नीन्द्रादीनां वाक्पाण्याद्यभिमानित्ववत् । “सर्वभूतान्तरात्मा” इत्यत्र सर्वभूतशब्देन ब्रह्मरुद्रयोरपि जीवान्तर्भावः “तस्माद्विराडजायत । विराजो अधिपुरुषः”, “त्र्यक्षः शूलपाणिः पुरुषोऽजायत”, “इन्द्रो वरुणस्मोमो रुद्रः”, “स ब्रह्मा स शिवः सेन्द्रः” इतीन्द्रवत् कार्यत्वादिश्रवणात् । एवमेव ह्युपबृंहितं भगवता व्यासेन ब्रह्मरुद्रसंवादे, “ममान्तरात्मा तव च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् ॥”, “अहं ब्रह्मा आद्या ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः । मत्तो जगत् स्थावरजङ्गमं च सर्वे वेदाः सरहस्याश्च पुत्र” इति ।

अत एव मानवे धर्मशास्त्रेऽपि, “योऽस्यात्मनः कारयिता” इत्यादिवचनानि च न भवदभिमतवाङ्मयप्राणमयविषयाणि, श्रुत्यनुसारित्वात् स्मृतिवचनानाम् । अत एव “मनोमयः प्राणशरीरो भारूपः सत्यङ्कल्प आकाशत्मा,” “प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म” इत्यादिश्रुतयश्च न भवदभिमतपरिपाटीप्रतिपादिकाः, स्ववाक्यस्वारस्याभावात् श्रुत्यन्तरविरोधात् अनुपपन्नत्वाच्च । यत ईश्वरस्य न प्रलयकालो व्यूहत्रयं प्रामाणिकम्, अत एव ब्रह्मरुद्रयोर्वाङ्मयप्राणमयव्यूहत्वं च दूरोत्सारितम् । स्मृतयश्च श्रत्यनुरोधेन वर्णनीयाः ; अशक्यवर्णनाश्चेत् अनादणीयाः ॥

एवं वाङमयादिव्यूहत्रयकल्पनस्य निर्मूलत्वात् “त्रिपादस्यामृतं दिवि” इति वाक्यस्य यादवप्रकाशैरभिहितार्थोऽनुपपन्नः । तस्मात् भूतादिपादेत्यादिसूत्रस्य भाष्यकाराभिमत एवार्थ उपपन्न इति स्थितम् ॥ 27 ॥

उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ यथा वृक्षाग्रे श्येन इति । सप्तमी अन्तर्वहिरधरोर्ध्वभागस्थितिसाधारणी, पञ्चमी तु उपरिस्थित्यसाधारणां । अत उभाभ्यां स्थानावि(स्थानवि)शेषादुपरि स्थितिरेव विवक्षितेति भावः । सूत्रार्थे परमसाध्येन घटयति तस्मादिति । न खल्वात्मस्वरूपे दीप्तिरस्ति; तत् कथं “ज्योतिर्दीप्यते” इत्युक्तज्योतिश्शब्दाभिधेयत्वमिति शङ्कां परिहरन् अधिकरणार्थं निगमयति एतावानिति । पुरुषसूक्तवाक्योपादानं विग्रहविशेषज्ञापानार्थम् ॥ 28 ॥

अवान्तरसङ्गतिमाह निरतिशयेति । ज्योतिश्शब्दाभिधेयमिति । आकाशप्राणतेजसां क्रमोपपत्तेः “अत एव प्राणः” इत्यस्यानन्तरं ज्योतिश्चरणाभिधानादित्यधिकरणं सङ्गतिमिति भावः । प्रसिद्धवन्निर्दिष्टमिति । अनेनाधिकरणयोः पौर्वापर्यनियम उक्तः । “सर्वाणि ह वा इमानि भूतानि” इति पूर्वस्मात् पूर्वाधिकरणद्वयविषयवाक्ययोः प्रसिद्धवन्निर्देशो दृश्यते । अत्रापि, “अथ यदतः” इति यच्छब्देन प्रसिद्धवन्निर्देशो दृश्यते । तस्मात् ज्योतिरधिकरणं पूर्वाधिकरणद्वयेन सङ्गतम् । एवं सति उत्तराधिकरणस्य ज्योतिरधिकरणानन्तरभावित्वं प्राप्तमिति भावः । अवान्तरपेटिकानुगतमर्थमाह कारणत्वव्याप्तेति । पूर्वाधिकरणे परमपुरुषस्य ज्योतिश्शब्दाभिधेयत्वमुक्तम्; तदयुक्तम्; परमपुरुषादन्यस्येन्द्रादि शब्दवाच्यस्य

वेदान्तप्रतिपाद्यत्वादिति शङ्कया सङ्गतिरित्यर्थः । तत्र कारणत्वाक्षेपकलिङ्गभूयस्त्वमनुसन्धेयम् ॥