अत एव प्राणः ॥ विषयमाह इदमिति । मूर्द्धा ते व्यपतिष्यत् आत्मसत्ता न लभ्येतेत्यर्थः । किं वेदान्तवेद्यः प्रसिद्धः प्राणः, उत परमात्मा; तदर्थं प्राण इति होवाच, प्राणमेवाभिसंविशन्तीत्युक्तः प्राणः किं प्रसिद्धः, उत परः; तदर्थं किं प्राणशब्दा रूढः, उत यौगिकः; तदर्थं भूतजातस्य प्रसिद्धप्राणायत्तस्थितिप्रवृत्तित्वमस्ति, उत न इति विचारः । यदाऽस्ति, तदा रूढत्वात् विषयवाक्यस्थप्राणशब्दः प्रसिद्धप्राणपर इति सर्ववेदान्तवेद्यः प्रसिद्धः प्राण इति पूर्वपक्षे फलितम् । राद्धान्ते तु यदा प्राणायत्तस्थितिप्रवृ त्तित्वं नास्ति, तदाऽवयवशक्तया विेयवाक्यस्थप्राणशब्दः परमात्मपर इति सर्ववेदान्तवेद्यः परमात्मेति फलफलिभावः । अक्षरार्थमाह अत्रेति । आकाशशब्दावदित्यत्र रूढिप्राबल्यतत्परिहारादिकं पूर्वोक्तं
सर्वमनुसन्धेयम् । न हि प्रत्युदाहरणं न्यायोऽतिदेष्टव्यः । अतिदेशस्य हि प्रयोजनम् अधिकाशङ्कापरिहारः । अतः सूत्रकाराभिमतामधिकाशङ्कां दर्शयति कृत्स्नस्येति । अत्र अविरोधशङ्कया प्रत्यवस्थानं विरोधफुटीकरणं चानुसन्धेयम् । स्थितिप्रवृत्त्यादीत्यादिशब्देन निवृत्तिरुच्यते; प्रवृत्तिहेतुभूतज्ञानचिकीर्षे च । स्थितिप्रवृत्तिहेतुत्वेनोत्पतिकारणत्वमर्थसिद्धमिति भावः । यद्वा “यदा वै पुरुषः स्वपिति प्राणं तर्हि वागष्येति, प्राणं चक्षुः, प्राणं श्रोत्रम्, प्राणं मनः । यदा प्रबुद्धयते, प्राणादेवाधि पुनर्जायन्ते” इति प्रसिद्धवन्निर्देशरहिंतया श्रुत्या प्राणस्य अप्ययोद्गमनहेतुत्वावगमश्च आदिशब्देन विवक्षितः । अस्मिन् प्रकरणे उद्गीथप्रतिहारयोर्देवतात्वेन अन्नादित्यावुक्तौ । तयोश्चाब्रह्मत्वात् प्राणोऽपि ब्रह्मव्यतिरिक्तः प्रसिद्ध एव ग्राह्य इतीदं भाष्येऽनादृतम्; प्रकरणोक्तानाम् अन्नमयादीनामब्रह्मत्वेऽपि कारणस्य परब्रह्मत्वमानन्दवल्ल्यां समर्थितमिति प्रकरणमात्रस्य पूर्वपक्षावलम्बनत्वेन बुद्धावनारोहात् । जगत्कारणतयेति । संसृष्टं प्रति कारणत्वं संभवतीति भावः ॥
अधिकं परिहारं दर्शयति परिहारस्त्विति । आदिशब्दोक्त आकाशादिः । “प्राणं तर्हि वागप्येति” इत्यादि श्रुतिरिन्द्रियाव्यापारविषया । प्राणशब्दस्य परब्रह्मवाचित्वं कथमिति शङ्कां परिहरन् अधिकरणार्थमुपसंहरति अत इति ।
वृत्ताधिकरणद्वयस्य अवान्तरपेटिकात्वं दर्शयति अतः प्रसिद्धेति ॥
वर्तिष्यमाणाधिकरणद्वयस्य पेटिकान्तरत्वमाह अतः परमिति । वस्त्वन्तरासाधारणैः शब्दैर्जगत्कारणे निर्दिश्यमानेऽपि कारणत्वाभिधायिनां वाक्यानां विशेषपर्यवसानं कृतम् । अथ कारणत्वाक्षेपकलिङ्ग(विशेष)वाचिनां वाक्यानामभिमतविशेषपर्यवसानमुच्यत इत्यवान्तरपेटिकाभेदस्तत्सङ्गतिश्चेत्यर्थः । ज्योतिश्शब्देनावान्तरसङ्गतिश्च द्योतिता । प्राणः वायुविशेषः; आदित्यादिज्योतिः तेजोविशेषः; अतः आकाशप्राणज्योतिषां क्रमो युक्त इति ॥ नन्वाकाशादिशब्दत्रयं परमात्मपरमिति सिद्धान्तितम् ॥ सत्यम्; तथापि प्रसिद्धयनुसारिण्या पूर्वपक्षदृष्ट्या सङ्गत्युपपत्तिः । येन केनापीति न लिङ्गाल्पत्वं विवक्षितम्; किन्तु उदाहृतविषयवाक्यप्रतिपन्नोऽयमेव गुणः कारणत्वाक्षेपक इति गुणविशेषानियम इति भावः । उभयोः पेटिकयोरनुयायिनमाकारं दर्शयति अर्थान्तरप्रसिद्धैरपीति ।