अन्तस्तद्धर्मोपदेशात् ॥ विषयं दर्शयति इदमिति । “य एष” इति प्रसिद्धवन्निर्देशात् ननुावादरूपता शङ्कया; अस्यार्थस्य प्रमाणान्तराप्राप्तत्वात्, “यदाग्नेयोऽष्टाकपालः” इतिवत् । आदित्यशब्दः, “दित्यदित्यादित्यपत्युत्तरदाणण्ण्यः” इति ण्यप्रत्ययान्तो मण्डलवाची । “य एष एतस्मिन् मण्डले पुरुषः, यश्चायं दक्षिणेऽक्षन्” इति वृहदारण्यके, “य एष एतस्मिन् मण्डलोऽर्चिषि पुरुषः” इति तैतिरीयके च पुरुषस्य मण्डलवर्त्तित्वश्रवणात् । हिरण्मयशब्दो रमणीयत्वपरः, “हिरण्मय इति रूपसामान्याच्चन्द्रमुखवत्” इति हि वाक्यकारः । दृश्यते योगिभिरित्यर्थः । “दृश्यते त्वग्य्रया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः” इति श्रुत्यैकार्थ्यात् । “य एवं वेद” इत्युत्तरत्रोपासनविधानदुपासनार्थमारोपितरूपपरमिदं वाक्यमिति नाऽऽशङ्कनीयम्; “न संदृशे तिष्ठति रूपमस्य” इत्युकत्वा, “हृदा मनीषा मनसाऽभिकलृप्तो य एनं विदुरमृतास्ते भवन्ति” इति, “यदा पश्यः पश्यते रुक्मवर्णम्” इति प्रकरणे “मनसा तु विशुद्धेन” इति च विशुद्धमनोग्राह्यत्वो(त्वेनो)क्तेः ।
आरोपिताकारो हि दुष्टमनोग्राह्यः । न च रूपमस्येति स्वरूपमुच्यते, षष्ठीस्वारस्यभङ्गप्रसङ्गात् । अतो विग्रहविशिष्टस्य विशुद्धमनोग्राह्यत्वात् विग्रहपारमार्थ्यम् । किञ्च दृश्यत इति वर्तमानव्यपदेशाच्च उपासनाया आरोपितत्वमयुक्तम् । आत्मन्यारोप्यमाणं हि गरुडत्वं न ततः पूर्वं केनाप्यवगम्यते । इह तूपासनविधानात्प्रागेव विद्यामानताऽनेन वर्तमानव्यपदेशेन प्रतीयते । अतो वास्तवत्वम् ॥ दृश्यत इत्यनेन पूर्वपूर्वोपासकप्रवाहैरारोपेणानुसंधीयमानत्वमुच्यत इति चेत् न; अशाब्दत्वात् । न ह्यारोपितं(ष्यं) दृश्यत इति श्रूयते ॥ दृश्यत्वमेवारोपितत्वमिति चेत् न; व्युत्पत्तिविरोधात् । “दृश्यते त्वग्रयया बुद्धया” इति दृश्यतयोक्तपरमात्मस्वरूपस्याप्यवास्तवत्वप्रसङ्गाच्च ॥ तन्मिथ्यात्वं प्रमाणविरुद्धमिति चेत् तुल्यम् ॥ “आदित्यवर्णं तमसः परस्तात्” इति तमसः परस्तात् स्थितस्य विग्रहस्य स्वरूपस्येव मिथ्यात्वं हि प्रमाणविरुद्धम् । अतो वास्तवत्वसिद्धिः । अशरीरत्वश्रुतेरवकाशो वक्ष्यते । तस्य यथेति । अस्य वाक्यस्य वाक्यकारेण षडर्थाः पूर्वपक्षतया(त्वेन) सिद्धान्तत्वेन चोक्ताः । तत्रार्थत्रयस्य पूर्वपक्षत्वं तत्स्वभावादेवावगतम् ।
कपिः- आदित्यः । “कपि चलने” इति धातोर्निष्पन्नः कपिशब्दः; कं पिवतीति च । “कपिर्विभस्ति तेज नम्” इति च वैदिकप्रयोगः । तस्य आसं मण्डलम् कप्यासम् । यथा आदित्यमण्डलं हृदयपुण्डरीकं च परमात्मन उपासनस्थानम् तथा तस्योपासकस्याक्षिणी अप्युपासनस्थानमित्येकोऽर्थः । अयं नोपपद्यते । तथा हि “अग्निश्चेन्द्रश्च” इतिवत् अपवादकचशब्दाद्यभावेऽपि समानविभकत्यन्तयोः पदयोः स्वतःप्राप्तसामानाधिकरण्यस्वारस्यभङ्गः । पुण्डरीकसदृशे हृदये पुण्डरीकशब्दो गौणः स्यात् । हृदयपुण्डरीकमिति प्रयोगस्तु पुरुषव्याघ्र इतिवत्, “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इति सूत्रविहितसमासत्वात् उपमानोपमेयवाचकशब्दसद्भावाच्च मुख्य एव । अत्र तु तदभावात् गौणत्वमवर्जनीयम्; उपासनस्थानमिति प्रथमान्तपदाध्याहारः; उपासकस्येति षष्ठ्यन्तपदाध्याहारश्च । तत्परिहाराय तस्येत्युपासकपरत्वे सति अप्रकृतपरामर्शित्वम्, अनन्तरवाक्यस्थषष्ठयन्तशब्दविरूपार्थता च स्यात् । दिव्याङ्गवर्णनप्रकरणानौचित्यञ्च । नामविधिवाक्यात्पूर्वे रूपकथनं ह्युचितम् । “य एष एतस्मिन् मण्डले पुरुषो यश्चायं दणिणेऽक्षन्” इति दक्षिणस्वाक्ष्णः उपासनस्थानत्वश्रवणात् अक्षिणी इति द्विवचनविरोधश्च । ऊर्ध्वमक्षिविद्याया उक्तत्वादिह तदुकत्यनपेक्षणाद अस्य वाक्यस्य पुनरुक्तिश्च । अन्तरादित्यविद्यायाम् “य एषोऽन्तरादित्ये” इति स्थानस्योक्तत्वात्, अक्षिविद्यायां च “य एषोन्तरक्षणि” इति स्थानस्योक्तत्वादुभयत्र स्थानविध्यपेक्षा नास्तीत्यनाकाङ्क्षितत्वादिदं वाक्यमनन्वितं स्यात् ।“अन्तरादित्ये” इत्यादित्यमण्डलस्य स्थानतया विहितत्वात् “एवमक्षिणी” इत्यक्ष्णः स्थानत्वे विहिते सति स्थानभेदाद्रूपभेदेन विद्याभेदात् एकवाक्येन विद्याद्वयस्य विधातुमशक्यत्वाच्च वाक्यभेदः स्यात् । स चैकवाक्यत्वे संभवति नोपप.द्यते ॥ कप्यासं पुण्डीाकञ्च दृष्टान्ततया अनूद्य “एवमक्षिणी” इत्यक्ष्णः स्थानत्वस्य विधेयत्वं गम्यत इति चेत् तथा(दा?) च अन्तरादित्य इत्युप्रकमविरोधः ॥ उपक्रमेपि आदित्यमण्डलस्यानुवाद इति चेत् तथा सति इयमक्षिविद्यैव स्यात्
। तथा चान्तरादित्यविद्येत्याख्याविरोधः । अक्षिविद्यायामेतद्विद्योक्तरूपाद्यतिदोनुपपत्तिश्च । न केवलं कप्यासवाक्यमात्रस्य, अपि तु कृत्स्नाया अन्तरादित्यविद्यायाः पुनरुक्तिश्च स्यात्; उभयोरप्यक्षिविद्यात्वाविशेषात् ; रूपादिवैषम्याभावाच्च । तस्मादस्य वाक्यस्य उपासनस्थानविधिपरत्वमनुपपन्नम् ॥
कपिः मर्कटः; तस्य आसं जघनप्रदेशः; मर्कटपृष्ठसाम्यमुच्यत इति यावत् (यत्)तदप्ययुक्तम्; मर्कट पृष्ठं पुण्डरीकञ्च किमुपमानद्वयम्, उतैकोपमा । तत्रोपमाद्वित्वमयुक्तम्, स्वतः प्राप्तसामानाधिकरण्यपरित्यागप्रसङ्गात् ; श्लाध्यार्थेन निर्वाहे संभवत्यपि हीनोपमाश्रयणायोगाच्च । यद्येकोपमा, तथा सति मर्कटपृष्ठसदृशपुण्डरीकसदृशे इत्युक्तं स्यात् । तदा कप्यासपदस्य गौणता स्यादिति ।
कप्यासम्- ईषद्विकसितमित्यपरोऽर्थः । तत्रात्यन्तार्थानौचित्यं नास्त्येव; तथाप्यवयवशक्तया वा रूढ्या वा ईषद्विकासपरत्वं नास्तीति सोऽप्ययुक्तः । एवं शब्दार्थस्वभावपर्यालोचनायामिदमर्थत्रयं पूर्वपक्षतया वाक्यकाराभिप्रेतमित्यवगतम् ।
अर्थान्तत्रयं तूपपन्नम् । कं पिवतीति कपिः आदित्यः । तेन अस्यते क्षिप्यते विकास्यत इति कप्यासम् । तथाऽऽड वाक्यकारः, “आदित्यक्षिप्तं वा श्रीमत्त्वात्” इति । कं पिबतीति कपिः नालम्; तस्मिन् अस्ति इति कप्यासम् । अपचितादपि पङ्कजात् नालस्थपुण्डरीकस्य शोभातिशयोऽस्तीति सोऽत्र विवक्षितः । कं जलम् । आस उपवेशने इति धातुरपिपूर्वकः । “वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयोः” इति वचनात् अपेःअकारलोपः । कप्यासम्सलिलस्थमित्युक्तं भवति । एवमस्यार्थत्रयस्योपपन्नतया वाक्यकारेण सिद्धान्ततयोक्तत्वमभिप्रेत्य हि भगवता भाष्यकारेण वेदार्थसङ्ग्रहेऽभिहितम्, “गन्भीराम्भस्समुद्भूतसुमृष्टनालरविकरविकसितपुण्डरीकदलामलायतेक्षणः” इति ।
गेष्णौगानविशेषौ । अधिदैवतम्- देवतायामुपासनम् । अध्यात्मम्- आत्मन्युपासनम् । अध्या(अत्रा?)त्मशब्दो देहवचनः । अमुष्यआदित्यस्थस्य । आदित्ये तद्धर्मोपदेशादिति वा अक्षणि तद्धर्मोपदेशादिति वा न सूत्रितम्; अपि त्वन्तःशब्दः सूत्रकारेण प्रयुक्तः । अन्तःशब्दस्य “अन्तरादित्ये”, “अन्तरक्षणी” इत्युभयत्र श्रवणात् विद्याविद्वितयमपि सङ्गृहीतमित्यभिप्रायेणाक्षि विद्यावाक्यमप्युदाहृतम् ॥ संशयं दर्शयति तत्रेति । शरीरसंबन्धापहतपाप्मत्वादियोगात् संशयः । आदित्यादिशब्दाभिलप्यो जीव एवेति । यत्र यत्र प्रकरणेषु करणकलेवरावस्थशरीरसंबन्धेन जीवत्वशङ्का, तेषां प्रकरणानां सर्वेषां परमात्मपरत्वस्य प्रदर्शनार्थम् अयमधिकरणारम्भ इत्यभिप्रायेण आदिशब्दः प्रयुक्तः । अत एव हिरण्यगर्भादिजीवेभ्योऽन्य इति अधिकरणोपसंहारे, मध्येऽपि आदित्यादिजीव्यतिरिक्त इति चोक्तम् । वेदान्तवेद्यं कारणं ब्रह्म किं प्रकृष्टपुण्यो जीवः, उत नेति विचारः; तदर्थमानन्दमयः किं जीवः, उत परमात्मेति; तदर्थमन्तरादित्येऽन्तरक्षणि च वर्तमानः किं जीवः, उत परमात्मा; तदर्थं सशरीरत्वं जीवस्यैव, उत परमात्मनोऽपि संभवतीति; तदर्थं शरीरसंबन्धस्यैच्छत्वं संभवति, नेति; तदर्थं पाप्मोदितत्वादिश्रुतेः “अजायमानः” इत्यादिश्रुतिः आदित्यवर्णत्वादिश्रुतिश्च कथमैच्छत्वं ज्ञापयति, नेति; तदर्थमिह पाप्मशब्दः किं पापमात्रपरः उत पुण्यपापरूपकर्मपरः, अपहतशब्दः किं प्रध्वंसपरः उतात्यन्ताभावपरः, अजत्वादिश्रुतिः किं कर्मकृतजन्मविषयतया व्यवस्थापयितुं शक्यते नेति, आदित्यवर्णत्वादिश्रुतिः विग्रहस्य प्रकृतिप्राकृतविलक्षणत्वज्ञा(प्रा)पिका न वेति चतुर्धा संशयः । अत्र पूर्वे कल्पाः पूर्वपक्षाः । अपरे तु सिद्धान्ताः । यदा पाप्मशब्दः पापमात्रपरः, अपहतिः प्रध्वंसः, जन्मनिषेधश्च न कर्ममूलजन्मविषयः, विग्रहश्च न प्राकृतविलक्षणः तदानीं विग्रहसंबन्धस्येच्छामात्रमूलत्वासंवेन कर्मनिबन्धनतया परस्मिन्नसंभवेन जीवासाधारण्यादादित्यादिवर्ती पुरुषो जीव इति अन्तरादित्यवाक्यैकार्थ्यात् आनन्दवल्लीवाक्येऽपि जीवस्य प्रतिपाद्यत्वात् सर्वाणि कारणवाक्यानि प्रकृष्टपुण्योपचयजीवपराणीति पूर्वः पक्षः । यदा पाप्मशब्दः कर्ममात्रपरः, अपहतशब्दोऽत्यन्ताभावपरः, जन्मनिषेधन्च कर्ममूलजन्मविषयः, विग्रहश्च प्रकृतविलक्षणः तदानीं विग्रहस्यैच्छतया तस्य जीवात्परस्मिन् संभवाच्चाक्ष्यादित्यन्तर्वर्तिपुरुषः पर इति तदैकार्थ्यादानन्दवल्लीप्रतिपाद्यस्य परमात्मत्वमविचाल्यमिति तदैककण्ठ्यात् सर्वाणि कारणवाक्यानि परमात्मपराणीति राद्धान्ते पलफलिभावः ।
पूर्वपक्षमाह उपचितेति । जीवानामेव शरीरसंबन्धमुपपादयति कर्मानुगुणेति । कर्मकृतप्रियाप्रिययोगा र्थत्वं व्यतिरेकेणोपपादयति अत एव हीति । अत एव शरीरसंबन्धस्य कर्ममूलप्रियाप्रिययोगार्थत्वादेव हि कर्मसंबन्धरहितो मोक्षोऽशरीरतया प्राप्यत्वेनोच्यत इत्यर्थः । ज्ञानशक्तयादिकं लोककामेशितृत्वादिकञ्च कथं जीवस्य स्यादित्यत्राह संभवति चेति । तथा दर्शयति मनुष्येष्वपीति । अत्र, “स एको मानुष आनन्दः” इत्यादि अभिप्रेतम् । आदित्येन्द्रप्रजापतिप्रभृतीनां सर्वेषां कारणत्वश्रवणात् व्याहतिः स्यात्, पुण्यहेतुत्वात् क्षयित्वञ्च स्यादित्यत्राह अतो ब्रह्मादिष्विति । सर्वविधवाक्यानां जीवपरत्वमाह जगदित्यादिना । अपहतपाप्मत्वादिश्रुतयो नाकर्मवश्यतां वदन्ति, अपि तु केवलपुण्यहेतुकशरीरवतः पापराहित्यम्; पापहेतुकं पुण्यहेतुकं मिश्रहेतुकञ्चेति त्रिविधं शरीरम् इत्यभिप्रायेण उपचितपुण्यविशेष इत्युक्तम् । मोक्षशास्त्राणि । उपायपराण्युपेयपराणि चेत्यर्थः ॥
राद्धान्ते- सौत्रं प्रतिज्ञापरमन्तश्शब्दं व्याचष्टे अन्तरादित्य इति । द्वितीयसूत्रस्थान्यशब्दान्वयलब्धं साध्यधर्ममाह स जीवादन्य इति । तेन फलितमाह परमात्मेति । हेत्वंशमवतार्य व्याचष्टे कुत इत्यादिना । तद्धर्मोपदेशादिति तच्छब्दः परमात्मपरः । परमात्मनि सिद्धे तद्धर्मोपदेशः तद्धर्मोपदेशात्परमात्मत्वसिद्धिरिति परस्पराश्रयशङ्कायामाह जीवेष्वसंभवन्निति । जीवेष्वसंभवन्नयं धर्मो जीवातिरिक्तस्वाश्रयप्रतिपादकत्वं श्रुतेर्निश्चाययति । योग्यतापरामर्शसहकृतेयं श्रुतिः परमात्मानमभिधत इत्यर्थः । अपहतपाप्मत्वं पापहेतुकमिश्रहेतुकशरीरवत्त्वव्यावर्तकमित्यत्राह अपहतेति । यद्यपि, “सर्वेभ्यः पाप्मभ्य उदितः” इति विषयवाक्यम्, तथाप्यपहतपाप्मशब्दप्रयोगः श्रुत्यन्तरस्मरणार्थः । अपहतकर्मत्वमिति । पाप्मभ्य इति पाप्मशब्दः पुण्यपापरूपोभयविधकर्मपर इत्यर्थः । हिशब्दः परमात्मप्रकरणेषु पापशब्दस्य पुण्यपापपरत्वप्रसिद्धिं सूचयति । “नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युनर् शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते” इति(?) “स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्”, इत्यादिश्रुतयो ह्यस्मिन्नर्थे प्रमाणम् । “स्युः पाप्मानः कालजरामृत्युशोकादयः सङ्खयातत्वात्” इति वाक्यकारवचः । अलौकिकत्वे सति अनिष्टफलसाधनत्वरूपप्रवृतिनिमितयोगादुपपन्नं च पुण्यस्यापि पापशब्दाभिधेयत्वम् । उक्तं हि मुमुक्ष्वपेक्षया स्वर्गादीनामनिष्टफलत्वम्, “अमूनि यानि स्थानानि देवानां परमात्मनः” इत्यारभ्य, “एते वै निरयास्तात स्थानस्य परमात्मनः” इति, “क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वा- सुदेवेति मुक्तिबीजमनुत्तमम्” इति च । पाप्मशब्दव्याख्यानमुखेन बद्धव्यावृत्तिरुक्ता; अथापहतशब्दव्याख्यानमुखेन मुक्तव्यावृत्तिमाह कर्मेति । जीव्यावृत्तिं स्फुटयति कर्माधीनेति । अपहतपाप्मशब्दोऽसङ्कोचात् स्वस्मिन् परत्र च पाप्मनामपघातकत्वं स्वतःसिद्धं वदतीति हेयप्रत्यनीकत्वसिद्धिः ॥
नन्वपहतशब्दः प्रध्वंसपरः । उत्पन्नस्यैव प्रध्वंसः । अतः प्रध्वस्तपाप्मत्वश्रवणात् परमात्मनः कर्मसंबन्ध स्य प्राग्विद्यमानत्वं गम्यते । अतश्च प्रध्वस्तपाप्मनः परमात्मनो मुक्तादवैलक्षण्यं स्यात् । यदि नित्यासंस्पृष्टपाप्मत्वं विवक्षितम्, तदत्यन्तमशाब्दम् परस्य कुर्वतो वा अकुर्वतो वा पाप्मासंस्पृष्टत्वम् । प्रथमे व्याधातः, कर्तृसमवेतत्वात् क्रियायाः । द्वितीये त्वस्मदादेरवैलक्षण्यम् । न ह्यकृतेन कमर्णा कश्चिल्लिप्यत इति ॥ उच्यते । परस्य तावत्
पाप्माभावपराणि वाक्यानि विविधानि श्रूयन्ते “सर्वेभ्यः पाप्मभ्य उदितः” इति पाप्मभ्य उदयः श्रूयते; अपहतपाप्मेति पाप्मनामपहतिः श्रुता; “नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतम्, सर्वे पाप्मानोऽतो निवर्तन्ते” इति तरतेः प्राप्तिवाचित्वादप्राप्तिर्निवृत्तिश्च श्रूयते; “स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान्” इति कर्मफलास्पर्श उच्यते । तत्र प्रथममुदितशब्दस्य मुख्यार्थोऽनुपपन्नः, विभोः परस्य पाप्मान्वितदेशादूर्द्धगमनायोगात् । तस्मादश्लेषलक्षणा युक्ता । तत्राकृतकर्माश्लेषस्य सर्वसाधारणस्य प्रतिपादनवैयर्थ्यं स्यात् । अतः कृतानामपि कमर्णामश्लेषपरत्वं तस्य वाक्यस्याभ्युपगन्तव्यम् । क्रियायाः कर्तृसमवेतत्वेन स्वरूपासंश्लेषस्य व्याघातदेव फलासंश्लेषपरत्वमाश्रयणीयम् । तत्र हेत्वकथनात् तिरोधानाविर्भावयोः निष्प्रमाणकत्वाच्च तस्य स्वाभाविकत्वं नित्याविर्भूतत्वञ्च सिद्धम् । अपहतशब्दश्च हिसारूपधात्वर्थासंभवात् विनाशं लक्षयन् क्रियास्वरूपस्य नश्वरतया स्वरूपनाशप्रतिपादनवैयर्थ्यात्
फलजननशक्तिविशिष्टरूपेण नाशं प्रतिपादयति । यथा “सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा3 इति नाशशब्दो दानस्य फलजननशक्तिहार्नि प्रतिपादयति, तद्वत् । अत ईश्वरेण कृतानि पुण्यपापसजातीयानि कर्माणि न शुभाशुभफलजननशक्तानि स्युः । ईदृशमपहतपाप्मत्वञ्च पूर्वोक्तन्यायान्निरुपाधिकं नित्याविर्भूतञ्चाभ्युपगन्तव्यम् । “स न साधुना कर्मणा” इत्यत्रापि असाधुकर्मफलास्पर्शः तत्प्रायश्चितरूपसाधुकर्मनिबन्धन इति शङ्का च साधुकर्मप्रतिषेधेनैव निरस्ता । न च साधुकर्महतिस्तस्यापि निवर्तकविद्याबलादिति शङ्कनीयम्, ध्यानकर्तृत्वानुक्तेः । “उदेति ह वै सवर्ेभ्यः पाप्मभ्यो य एवं वेद” इति तस्य ध्येयत्वश्रवणाच्च । साधुकर्मनिषेधादेव ध्यानकर्तृत्वमपि निषिद्धं भवति । यज्ञादिकमुपासनात्मकञ्च कर्म हि साधुकर्मशब्दाभिलापा र्हम् । अतः प्रायश्चित्तादिभिर्विनैव कर्मफलाश्लेष इति अपहतपाप्मशब्दस्थो हन्तिधातुश्च हानिपरः; न प्रध्वंसपरः । नैतं सेतुमित्यत्रापि कृतानामेव कर्मणां फलजननशक्तिमत्ववेषेण प्राप्त्यभाव उच्यते । अतो निरुपाधिकमपहतपाप्मत्वं नाम कर्मवश्यतागन्धरहितत्वम् । न च परमात्मनि फलजननासमर्थस्य तत्कृतकर्मणः तं प्रति न पाप्मत्वमिति श्रुतिवाक्यस्थपाप्मशब्दस्यामुख्यत्वमिति वाच्यम्; “अनन्तख्याति निर्वीर्यं जरयामास तद्विषम्”, “जपन् विषधरो हरः” इत्यादिषु निगीर्णजीर्णविषान् ईन्वरादीन् प्रति विषशब्दस्येव मुख्यत्वोपपत्तेः । क्षेत्रज्ञेषु प्रत्यवायकरपापसजातीयानां कर्मणां स्वलीलाकृतानामपि फलजननशक्तिप्रतिभटत्वं नाम कश्चिदयमीश्वरस्य स्वभावविशेषः । परिशुद्धात्मस्वरूपविषयस्याप्यपहतपाप्मशब्दस्यायमेवार्थः । स तु तस्य तिरोधानार्हः प्रतिबन्धनिवृत्तावाविर्भवति, ईश्वरस्य तु तिरोधाननर्हो नित्याविर्भूत इति विशेषः । अतोऽपहतपाप्मत्वविषयश्रूतीनां यथोक्त एवार्थ इति तेन धर्मेण अन्तरादित्येऽवस्थितस्य भगवतो जीववैलक्षण्यसिद्धिः ॥
गुणान्तराणामपि जीवेष्वसंभवं दर्शयति तत्पूर्वकं स्वरूपोपाधिकमिति । अपहतपाप्मत्वपूर्वकत्वात् स्वरूपोपाधिकम्; स्वाभाविकमित्यर्थः । एवं प्रसिद्धाप्रसिद्धयोरर्थयोरेकनिमित्तसंभवे प्रसिद्धवाचिनैकेनैव शब्देनोपादनार्हत्वमिह व्युत्पादितम् । आदित्यान्तर्वर्त्तिनोऽपहतपाप्मत्वगुणयोगेन आनन्दवल्लीदहरविद्यासुबालोपनिषत्प्रतिपाद्यस्येह प्रत्यभिज्ञानात् तत्र तत्रोक्ता गुणा अप्यस्यैव हिरण्मयपुरुषस्य धर्मा इत्यभिप्रायेण सत्यसङ्कल्पत्वादिकं सर्वभूतान्तरात्मत्वञ्चेत्युक्तम् । अपहतपाप्मत्वपूर्वकसत्यसङ्कल्पत्वादौ श्रुतिं दशर्यति एष आत्मेति । तत्पूर्वकसर्वभूतान्तरात्मत्वे श्रुतिमुदाहरति एष सर्वभूतान्तरात्मेति । तत्तदन्तरत्वेन आत्मत्वव्याख्यानपरस्यानन्दवल्लीवाक्यस्य नारायणपरत्वज्ञापनार्थं च एष सर्वभूतान्तरात्मेति वाक्योपादनम् । केषुचिद्वाक्येषु अपहतपाप्मत्वपूर्वकगुणविधानात् सर्वशाखाप्रत्ययन्यायेन वाक्यान्तरेष्वपि तत्पूर्वकत्वं विवक्षितमित्यभिप्रायेणाह सोऽकामयतेतिे । जगत्कारणत्वमेव वेदान्तवेद्यस्य ब्रह्मणो लक्षणम्; कारणञ्चेत् सत्यसंकल्पम्; सत्यसङ्कल्पत्वं चेत्
अपहतपाष्मत्वपूर्वकम्; तच्च नारायणप्रत्यभिज्ञापकं सुवालोपनिषदैकर्थ्यादिति भावः । वाङ्मनसेति परिच्छेदकासिद्धिमाह । पूर्वपक्षमनुवदति यत्त्विति । परिहरति तदसदिति । शास्त्रैकप्रमाणके वस्तुनि लोकदृष्टव्याप्तिमूलस्तर्को न कर्मवश्यत्वसाधक इत्यभिप्रायेणाह न हीति । कल्पकस्यान्यथासिद्धमाह सत्यसङ्कल्पस्येति । सत्यसङ्कल्पस्य कर्मनैरपेक्ष्यम् अपहतपाप्मत्वपूर्वकसत्यसङ्कल्पत्वश्रुत्युपपादनेन समर्थितम् । अत एव, “स एष ये चामुष्मात्पराञ्चो लोकाः तेषां चेष्टे देवकामानां च”, “स एष ये चैतस्मादर्वाञ्चो लोकाः, तेषाञ्चेष्टे मनुष्यकामानाञ्च” इति आदित्याक्षिपुरुषविषयवाक्यद्वयेन प्रतिपन्नमैश्वर्यम् अनवच्छिन्नम्; तदवच्छेदे शङ्कयमानेऽपि सोऽवच्छेदोऽप्यैच्छतयाऽन्यथासिद्ध इति फलितत्वान्न कण्ठोक्तम् ।
विग्रहविषयाया असंभवं शङ्कते अथोच्येतेति । हेयत्वसूचकस्त्रिगुणात्मकशब्दः; “सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः । गुरु वरणकमेव तमः” इत्युक्तेः । इच्छाया अभावेऽपि कर्मपारवश्याज्जीवस्य तत्संबन्धसंभवमभिप्रेत्याह कमर्ेति । कर्मावरणहेतुः स्वस्वरूपानभिज्ञस्येति विशेषणम् । परिहरति स्यादिति । स्वाभिमतेत्युक्ते, अभिमतत्वमयोग्येऽपि संभवतीति, तद्वयावृत्त्यर्थमाह अनुरूपेति । कुत इत्यत्राह अप्राकृत इति । परमात्मस्वरूपं हि निरतिशयानन्दरूपम्; सर्वज्ञत्वात् तच्च जानात्येवेति स्वरूपादन्यत्र भोग्यत्वज्ञानं न वक्तुं युक्तम् । अतः सर्वज्ञस्य तस्य विग्रहे स्पृहणीये स्वरूपस्य भोग्यतावैकल्यं स्यादित्यत्राह
सर्वमुपपन्नमिति । कथमुपपन्नमित्यत्राह एतदुक्तमिति । स्वतस्सर्वज्ञस्य सर्वशक्तेर्ज्ञानार्थं प्रवृत्त्यर्थञ्च करणानपेक्षत्वात् न देहापेक्षा; रूपादिमत्त्वे च प्राकृतत्वं स्यात्; नित्यत्वे चानित्यबह्ववतारासंभवः; तिर्यगादिरूपपरिग्रहे, “वाचिकैः पक्षिमृगताम्” इत्यादिप्रकारेण तन्मूलकर्मसंबन्धः स्यात् इति शङ्कापरिहारार्थञ्च एतदुक्तमित्यारम्भः । यथा परस्य ब्रह्मणो धमिर्स्वरूपं स्वाभाविका गुणाश्च प्रामाणिकत्वादङ्गीक्रियन्ते, तथा विलक्षणं शरीरमभ्युपगन्तव्यमित्यभिप्रायेणाह परस्यैवेति । स्वाभिमतेति । करणानपेक्षज्ञानक्रियस्यापि परस्य भोगार्थो विग्रहः । निरतिशयानन्दस्यापि तस्य प्रीतिविशेषापेक्षा घटते, प्रभूतानन्दानामप्यानन्दान्तरोपक्षादर्शनादिति भावः । एकरूपेति । हेयप्रतिभटत्वमङ्गलाकारत्वाद्याकारेणैकरूप्यम् । शरीरत्वादस्मदादिशरीरवत् दुःखावहमित्यादितर्कागोचरत्वमभिप्रयन्नाह अचिन्त्येति । अचिन्त्यत्वे हेतुमाह दिव्येति । अनेन दिव्यशब्देन विलक्षणद्रव्यत्वमुक्तम् । रूपादिमत्त्वात् प्राकृतत्वं धर्मिग्राहकमानबाधितमिति भावः । द्वितीयेन दिव्यशब्देन विलक्षसंनिवेशत्वम् । यथा, “तद्विश्वरूपवैरूप्यं रूपमन्यत् हरेर्महत्” इति । अद्भुतत्वम् प्रतिक्षणमभिनवत्वम् । नित्येति । सावयवत्वादनित्यमित्याद्यनुमानं धर्मिगाहकप्रमाणबाधितमिति भावः । कल्याणाकरत्वेऽपि हेयमिश्रत्वशङ्काव्युदासार्थो निरवद्यशब्दः । निरतिशयाः- वक्ष्यमाणसर्वगुणाः । आदिशब्देन पराक्रमादयो विवक्षिताः । नित्यत्वे कथमनित्यबह्ववतारसंभवः; कथञ्च निकृष्टदेवादिसाजात्यमित्यत्राह तदेवेति । तदेव- अप्रच्युतसंनिवेशमेवेत्यर्थः । संस्थानाशैथिल्येऽपि देवाद्यनेकदेहोत्पादकत्वं चतुर्मुखदेहे दृष्ट परमात्मविग्रहे युज्यत इति भावः । “नित्याऽलिङ्गया स्वभावसंसिद्धिरिन्द्रियाकारा अङ्गप्रत्यङ्गव्यञ्जनवती” “उज्जहारात्मनः केशौ सितकृष्णौ”, “अंशांशेनावतीर्योर्व्याम्”, “समस्तशक्ति रूपाणि तत् करोति जनेश्वर”, कल्पे “कल्पे जायमानः स्वमूर्त्या”, सोंऽशो विष्णुमयं स्थानम्” इत्यादि अत्रानुसन्धेयम् ।
उपासकानुग्रहोपयुक्ता गुणा उच्यन्ते अपारेति । कारुण्यम्- परदुःखासहिष्णुत्वम् । सौशील्यम्- महतो मन्दैः सह नीरन्ध्रेण संश्लेषस्वभावत्वम् । वात्सल्यम् दोषानादरहेतुः स्नेहः; यथा मातुः पुत्रे । औदार्यम्- दातृप्रतिगृहीतृविभागबुद्धिरहितं दातृत्वम् । एते सौलभ्योपयुक्ता गुणाः । अथ परत्वमुच्यते निरस्तेति । परत्वसौलभ्ये अप्युपास्यत्वोपयोगिनी । मनुष्यादिसाजात्येऽपि तत्प्रयुक्तशोकमाहाद्यस्पृष्टत्वमभिप्रयन्नाह निरस्तेति । जीवानुप्रवेशेषु शोकादयो जीवांशगताः । साक्षादवतारेष्वभिनयमात्रम् । निखिलशब्देन चिदचिद्गता दोषा विवक्षिताः । शोकाद्यस्पर्शहेतुमाह अपहतेति । अर्वाचीनात्मव्यावृत्त्यर्थः परमात्मशब्दः । प्रधानव्यावृत्त्यर्थः । तत्समानाधिकृतः परब्रह्मशब्दः । पुरुषोत्तमशब्दो वैलक्षण्यपरः । नारायणशब्दो घटकः । यथा परमात्मपरब्रह्मशब्दौ सामान्यशब्दावेकविषयौ, यथा पुरुषोत्तमनारायणशब्दौ विशेषशब्दावेकविषयौ तथा सामान्यविशेषशब्दाः एकविषया इति भावः । अत्र स्वरूपस्य भोग्यत्ववैकल्यशङ्का च परिहृता भवति । स्वसंबन्धिभोग्यत्वं स्वस्य न भोग्यताविरोधि; अपि तु स्वभोग्यत्वतिशयावहम्; ;यथा स्वसंबन्धिगुणगणभोग्यत्वम् । न हि स्वसंबन्धिनामप्यामोदकरस्य कस्तूरिकादेरामोदवैकल्यम्; अपि तु तत्पौष्कल्यमेव तथा स्वसंबन्धिाद्विग्रहभोग्यत्वमपि स्वभोग्यत्वातिशयावहमिति ।
अथोक्तार्थे प्रमाणान्याह यतो वा इमानीत्यादि । जगत्कारणत्वधर्मिस्वरूपविषयप्रमाणोपन्यासो दृष्टान्तार्थः । गुणविभागकथनं वादिविवादशमानार्थं दृष्टान्तार्थञ्च । विद्युतः- विद्युद्वर्णात् । “आदित्यवर्णम्”, “रुक्मवर्णम्” इति वाक्यसरूपार्थस्वीकारस्योचितत्वात् । “आदित्यवर्णो विग्रहश्च न प्राकृतः ; “तमसः परस्तात्” इति श्रुतेः । अतिसूक्ष्मप्रकृतिर्हि तमः; अतस्तत्कार्यवैलक्षण्यसिद्धिः । अन्यथा स्वरूपस्य तमसोऽन्यत्वकथनं स्यात्, तदानीं परस्तादिति अस्तातिप्रत्ययस्य आदित्यवर्णतोक्तेश्च वैयर्थ्यं स्यात् । अतो विग्रहविशिष्टस्यैव तमःस्पर्शाभावोक्तिरिति विग्रहवैलक्षण्यसिद्धिः । प्राकृतहेयेति । क्वचित् सतो हि क्वचिन्निषेधः । अतो निषेध्यहेयगुणानां प्रकृतितत्संश्लिष्टजीवेषु विद्यमानत्वं प्राकृतेत्यादिना शब्देन दर्शितम् । विग्रहविशेषविधानदर्शनात् विग्रहसामान्यनिषेधः तद्वयतिरिक्तविषयः; न हिंस्यातिवत्; निर्गुणमितिवच्च । विशेषनिषेधदर्शनात् देहसामान्यनिषेधो विशेषे पर्यवस्यति, “पशुना यजेत” इति पशुशब्दवत्, निर्गुणशब्दवच्चेति तात्पर्यम् । पूर्वोक्तमर्थं वक्ष्यमाणवचनस्यैतदर्थविषयताज्ञापनार्थमनुवदन् पूर्वोक्तसंस्थानशब्दं विवृणोति
तदिदमिति । परमकारुणिक इति । देवादिसाजात्यं न कर्मनिबन्धनम्, उपासकानुग्रहार्थत्वादित्यर्थः । श्रुतिं दर्शयति तदिदमिति । अजायमान इति कर्महेतुकसुखाद्यर्थप्राकृतदेहसंगतिरूपजन्मनिषेधः । बहुधा विजायत इति च इच्छाहेतुकजगद्रणार्थाप्राकृतविग्रहाधिष्ठानरूपजन्मविधिः ॥
ननु अजायमान इति परमार्थजन्मनिषेधः, बहुधा विजायत इत्यपरमार्थजन्मविधिः स्यात् ॥ न; कृत्स्नमिथ्यात्ववादिपक्षे प्रयोजनाभावात् । प्रपञ्चमिथ्यात्ववचनेनैव ईश्वररूपमिथ्यात्वमपि हि सिद्धम्; किं विशेषतोऽभिधानेन? विहितस्य निषेधायोगाच्चायुक्तम् । मानान्तरागोचरं जन्माभिधाय तदेव कथं निषिध्यते ॥ स्वरूपस्याजत्वम्; शरीरद्वारा बहुभवनं चोच्यत इति चेत् न; स्वरूपनित्यत्वदेहाद्वारकजन्मनोः जीवानामपि समान तया, “तस्य धीराः परिजानन्ति योनिम्” इति अनन्तरवाक्यप्रतिपन्नवैलक्ष्यानुपपत्तेः । सर्वसाधारणलोकविदितजन्मप्रकारवैजात्ये सत्येव ह्येवं वक्तुं युक्तम् । न हि देवदत्तस्य जन्म धीरैरेव परिज्ञायत इति वक्तव्यम्; यज्ञदत्तजन्मनो वैलक्षण्याभावात् ॥ स्वरूपेणाजस्य विचित्रसमस्तजगद्रूपेण बहुभवनमुच्यत; तद्धि जीवेषु न संभवतीति चेन्न “सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् यदास्ते” इति पूर्वानुवाकेऽभिधाय, “तस्य त्वष्टा विदधत् रूपमेति” इत्यस्मिन्नप्यनुवाके जगद्रूपेण बहुभवनस्योक्तत्वात् । एवमर्थान्तरपरत्वे सति आनर्थक्यप्रसङ्गात् तत्परिहारायास्याः श्रुतेरवतारपरत्वमभ्युपगन्तव्यम् । तथाऽस्याः श्रुतेरवतारविषयत्वे सत्येव, “अजोऽपि सन्” इत्याद्युपबृंहणैकार्थ्यं सिध्येत् । अतोऽस्य वाक्यस्य यथोक्त एवार्थः ।
उपबृंहणैकार्थ्यं दर्शयति स्मृतिश्चेति । “अजोऽपि सन्”, “संभवामि” इति विधिनिषेधयोरपि यथोक्त एवार्थः । उपासकानुग्रहार्थत्वं कथमत्रावगम्यत इत्यत्राह साधव इति । आनुषङ्गिक इति । “विनाशाय च दुष्कृ
ताम्” इति च शब्दोऽन्वाचयपर इति भावः समुच्चयः समप्रधानयोः; अन्वाचयः प्रधानानुषङ्गिकयोः । दुष्कृद्विनाशस्यानुषङ्गिकत्वमुपपादयति सङ्कल्पेति । प्रकृतिसंबन्धभ्रमनिवृत्त्यर्थं व्याचष्टे प्रकृतिं स्वामितीति । स्वभावः- निरुपाधिकधर्मः । अनेन विग्रहश्च स्वाभाविक इत्युक्तं भवति । अपारमार्थिकत्वभ्रमनिवृत्त्यर्थं व्याचष्टे आत्ममाययेति । नैखण्टुकाः- वेदनिघण्टुकाराः । तन्मूलभूतप्रयोगश्च, “यावन्तः पांसवो भूमेः सङ्खयाता ;देवमायया” इति । स्वोक्तार्थवैशद्यार्थमाह आह चेति । अयमपि तस्यैव धर्मः । एवंरूपरूपमपि जीवादन्यत्वसाधकमित्यर्थः । तद्धर्मोपदेशादिति सौत्रधर्मशब्देन एवंरूपरूपवत्त्वमपि विवक्षितमिति भावः । सूत्रार्थमुपसंहरति अत इति । हेत्वन्तरमाह ।
भेदव्यपदेशाच्चान्यः ॥ अयमन्यशब्दः पूर्वापरसूत्रेष्वप्यन्वेतव्यः । आदित्याख्यजीवाद्भेदव्यपदेशे श्रुतिमाह य आदित्य इति । आदित्यपर्यायोपादानं प्रकरणस्थजीवान्तरविषयपर्यायाणां प्रदर्शनार्थम् । आदित्यादीत्यत्रादिशब्दोपात्तदेवताविशेषेभ्यो भेदव्यपदेशश्च अत एव दर्शितो भवति । तत्र हि प्रकरणे, “यस्सर्वेषु देवेषु तिष्ठन्” इति पर्याये सर्वदेवताभ्यो भेदो व्यपदिश्यते । आसां देवतानां मुक्तावस्थायामपि ताभ्यः परमात्मनो भेदज्ञापनार्थं निष्कृष्टात्मनः परमात्मनियाम्यत्वादिप्रतिपादकं पर्यायमुदाहरति य आत्मनीति । कारणवस्थायामपि भेदज्ञापनार्थमाह यस्याक्षरमिति । अक्षरम्- अचित्समष्टिसंसृष्टा पुरुष(जीव) समष्टिः । मृत्युः- चित्समष्टिसं- सृष्टाचित्समष्टिः ॥
देवकामानां चेष्टे इति वाक्यमस्य सूत्रस्य विषयतयोपात्तं यंदवप्रकाशैः । तन्नात्यन्तोचितम्; इन्द्रादीनामपि स्वावरदेवकामनिष्पादकत्वसंभवेन क्षेत्रज्ञवैलक्षण्यसाधकत्वाभावात् देवकामेशनस्य । आदित्यपुरस्कारेणोत्थिते पूर्वपक्षे तमादित्यं कण्ठोक्त्या निर्दिश्य तदितरदेवतानां तस्य च नियाम्यत्वं व्याप्यत्वमज्ञत्वं चोक्तवा नियन्तृत्वव्यापित्वसार्वज्ञ्यैः परमात्मनस्तेभ्यः स्फुटारभेदव्यपदेशपरप्रकरणस्य विषयतयोदाहरणं ह्यत्यन्तोचितम् ॥
शरीरसंबन्धावच्छिन्नैश्वर्यश्रवणसिद्धकमवश्यत्वात्, लोककामेशत्वादीनां सुकृतप्रकर्षेणोपपत्तेः, पाप्मोदयश्रवणस्य पापसंबन्धनिवर्तकत्वेन पुण्यसंबन्धनिवर्तकत्वाभावाच्च पूर्वः पक्षः । मोक्षप्रकरणेषूभयकर्मविषयपाप्मशब्दप्रयोगश्रुत्यन्तरैकार्थ्यप्रवृत्तिनिमित्तयोगैः पाप्मशब्दस्योभयपरत्वेन
कर्मवश्यत्वनिषेधात्, तत्पूर्वकगुणान्तराणामपि जीवेष्वसंभवात्, हेतुतः फलतो द्रव्यतश्च विलक्षणविग्रहयोगस्य जीववैलक्षण्यसाधकत्वात्, आदित्यादिजीवेभ्यो भेदव्यपदेशाच्च परमात्मेति राद्धान्तः । अधिकरणार्थमुपसंहरति अत इति ॥
॥ इति अन्तरधिकरणम् ॥
अथ चिदचिद्विलक्षणस्य वस्तुनो वेदान्तवेद्यत्वनिर्णयात् तदुत्तराधिकरणमनारम्भणीयमिति शङ्कां परि हरन् पेटिकाभेदतत्सङ्गती आह यतो वा इमानीत्यादिना । सद्ब्रह्मात्मादिसाधारणशब्दानां जगत्कारणवाचिनामर्थस्वभावादभिमतविशेषपर्यवसानं कृतम् । वस्त्वन्तरविरोपासाधारणत्वेन व्युत्पन्नैरपि शब्दैः जगत्कारणे निर्दिष्टे तषमपि अर्थस्वभावात् अभिमत विशेष पर्यवसानं क्रियत इत्यर्थः । पूर्वं संशयव्युदासः कृतः; अथ विपर्ययव्युदासः क्रियत इति यावत् । लिङ्गाच्छ्रुतेबर्लीयस्त्वात् कारणविशेषे आकाशादिपदश्रुत्या निश्चिते सति, लिङ्गात् तद्विरुद्धविशेषनिश्चयोऽनुपपन्न इति पूर्वपक्षोत्थानादधिकरणस्यारम्भणीयत्वं सिद्धमिति भावः । पादशेषेणेति । पादशेषोऽधिकरणचतुष्टयात्मकः । तत्र प्रथमे वस्त्वन्तरप्रसिद्धशब्दविशेषेण प्रत्यवस्थानम्; अर्थविरोधेन परिहारः । अर्थाविरोधशङ्काया प्रत्यवस्थानं द्वितीये; विरोधोद्घाटनमुखेन परिहारः । विरोधिलिङ्गाभवेनाल्पानुकूललिङ्गसद्भावेन च प्रत्यवस्थानं तृतीये; स्ववाक्ये विरोधिलिङ्गाभावेऽप्युपक्रमवाक्यस्थविरोधिलिङ्गप्रदर्शनेन सिद्धान्तः । उपक्रम एवानुकूललिङ्गभूयस्त्वेन प्रत्यवस्थानं चतुर्थे, तन्निरासेन सिद्धान्त इति भिदा । अनेनाधिकरणसङ्गतिश्च फलिता ॥