06 आनन्दमयाधिकरणम्

आनन्दमयोऽभ्यासात् ॥ कारणविषयस्य “तस्माद्वा एतस्मादात्मनः” इति वाक्यस्योत्तरत्र चोद्यपरिहारमुखेन उदाहरिष्यमाणत्वात् प्रथममात्मशब्दव्याख्यानोपक्रमभूतं “स वा एष पुरुषः” इत्यादिकमुपात्तम्, अत एव हि प्रबन्धान्तरे “तस्माद्वा” इत्यादिकमुदाहृतम् । तत्रेति - शारीरत्वानन्दप्राचुर्याभ्यां संशय इत्यभिप्रायः । सद्विद्यायां “जीवेनात्मने"तिसमानाधिकरण्यमत्र पूर्वपक्षोत्थानबीजमिति सूचनार्थं जीवशब्दाभिलपनीयादितिपदम् । किं कारणवादिनः सर्वे वेदान्ताः परिशुद्धप्रत्यगात्मस्वरूपपराः, उत तद्विलक्षणपराः । इति प्रथमविचारः । तदर्थमानन्दमयः किं परिशुद्धावस्थः प्रत्यगात्मा; उत परमात्मा ? इति । तदर्थमिह प्रतिपन्नः शारीरसम्बन्धः किं जीवात्मासाधारणः उत न ? तदर्थं मयट् किं स्वार्थकत्वविकारार्थकत्वयोरन्यतरवान्; उत प्राचुर्यार्थः तदर्थं किं विकाराद्यर्थानुगुण हेतवः अनुरोद्दव्याः उत प्राचुर्याद्यर्थानुगुणहेतवः ? विज्ञानमयशब्दः किं विज्ञानमात्रपरः, उत जीवपरः ?

तदर्थं तत्र मयट् किं स्वार्थिकः ? उत न ? तदर्थं “विज्ञानं यज्ञं तनुते” इति विज्ञानशब्दः किं ज्ञानमात्रे वर्त्तते, उत ज्ञानगुणके प्रत्यगात्मनि ? इति । पूर्वे कल्पाः पूर्वपक्षाः, इतरे तु सिद्धान्ताः । यदा विकारार्थत्वाद्यनुगुणहेतोरनुरोद्धव्यत्वेन मयट् स्वार्थिको विकारार्थो वा भवति, तदा निरतिशयप्राचुर्याप्रतिपत्तेरानन्दमात्रस्य जीवे सम्भवात्स्वतो जीवानुगुणतया प्रतिपन्नस्य शरीरसम्बन्धस्य जीवासाधारणत्वे विरोधाभावादानन्दमयो जीवः, यदा च श्लोकस्थविज्ञानशब्दो विज्ञानमात्रपरः तदा विज्ञानमयशब्दस्यापि स्वार्थिकमयडन्तत्वेन विज्ञानमात्रपरत्वाद्विज्ञानशब्दस्य बुद्धिपरत्वसम्भवात् तदन्तर आनन्दमयः प्रत्यगात्मेति पूर्वपक्षे फलफलिभावः । राद्धान्ते तु यदा प्राचुर्यार्थानुगुणहेतोरनुरोद्धव्यत्वेनानन्दमय इत्यत्र मयट् प्राचुर्यार्थः, तदानीमानन्दप्राचुर्यस्य निरवधिकतयाऽवगतस्य श्रुतिविरुद्धाश्रुतोपाधिकल्पनायोगेन स्वतो निरतिशयस्य जीवात्मन्यसम्भवात्तद्विरोधेन शरीरसम्बन्धस्य जीवासाधारणकर्ममूलत्वाभावाच्च नानन्दमयः प्रत्यगात्मा, यदा च श्लोकस्थविज्ञानशब्दो विज्ञानगुणके प्रत्यगात्मनि वर्तते तदा विज्ञानमयशब्दस्यापि

प्राचुर्यार्थमयडन्ततया प्रत्यगात्मवाचित्वाच्च तदन्तर आनन्दमयः परमात्मेति फलफलिभावः । पूर्वपक्षोत्थानमाक्षिपति - ननु चेति । सुखप्रतिपत्त्यर्थमन्नमयादीननुक्रम्येति । अनेन जगत्कारणप्रकरणस्याविच्छित्तिर्द्योतिता । तदेव जगत्कारणमिति वक्ष्यमाणपर्यालोचनया विभूतिप्रकर्षाधीनातिशयितानन्दस्याश्रयत्वोपपादकं सकलजगत्कारणत्वमिति भावः । ततः किमित्याह - जगत्कारणञ्चेति । ज्ञानशक्तयुपयोगज्ञापनाय जगत्कारणमिति पुनरुपादानम् । परिहरति - सत्यमिति चेतनत्वादावभ्युपगमः, जीवादतिरेके विवादः । सामानाधिकरण्यनिर्द्देशोऽस्तु, ततः किं जीवादवैलक्षण्यस्येत्यत्राह सामानाधिकरण्यमिति । ईक्षतिश्रवणाज्जीवविलक्षणत्वमुक्तमित्यत्राह - ईक्षेति । उपपद्यत एवेत्येवकारः अस्वारस्यसूचकः । साक्षित्वमेव ईक्षितृत्वमिति भावः । “भेदव्यपदेशाच्च” इति भेदव्यदेशं सिद्धान्तहेतुं वदता सूत्रकारेण ऐक्यव्यपदेशस्य पूर्वपक्षहेतुत्वं विवक्षितमित्यवगम्यते; एवमुत्थानोपपत्तेः सौत्रहेतुवशाच्च ऐक्यव्यपदेशः पूर्वपक्षहेतुतयोपन्यस्तः । एवं पूर्वाधिकरणेन जीवव्यतिरेकासिद्धेरधिकरणान्तरमारम्भणीयमिति -भावः । ननु “ब्रह्मविदाप्नोति पर"मित्यत्र ब्रह्म प्राप्य श्रूयते, अनन्तरं लक्षणं कथ्यते, तत्र सत्यत्वमानन्त्यञ्चान्तर्भूतम् ।

जीवस्य नित्यप्राप्तत्वात् प्राप्यत्वमनुपपन्नम्, ज्ञातत्वाल्लक्षणञ्च न वाच्यम्; सत्यत्वानन्तत्वरूपलक्षणविशेषश्च नैकरूपज्ञानस्य परिच्छिन्नस्य नोपपद्यते, अतः परमात्मैव प्रतिपाद्यत इति शङ्कां परिहरन् पूर्वपक्षमाह - अतो ब्रह्मविदिति । अतश्शारीरत्वश्रवणात्सामानाधिकरण्यबलेनैक्यस्य प्रतिपन्नत्वाच्चाचिद्वियुक्तस्वरूपप्राप्यतापरत्वं कल्प्यमित्यर्थः । लक्षणकथनं तत्प्रतिपत्त्यर्थं तद्विशेषोक्तिश्च अचिद्वियुक्ते स्वरूपे सम्भवतीत्याह - अचिद्वियुक्तेति । न केवलं शारीरत्वसामानाधिकरण्यबलादचिद्वियुक्तस्वरूपस्य प्राप्यत्वम्, किन्तु कण्ठोक्तं चेत्याह - तद्रूपेति । हिशब्दः श्रुतिप्रसिद्धिद्योतकः । यद्वा स्वरूपस्यैवौपाधिकाकारनिवृत्तिमात्रपरमोक्षशब्दस्वारस्यसूचकः । श्रुतिमेव दर्शयति - न ह वा इति । इति- श्रवणादिति शेषः । प्राप्यत्वानुगुणपुरुषार्थतां दर्शयन् निगमयति - अत इति ।

ननु नात्राचिद्वियुक्तजीवस्वरूपमुपदिश्यते “स वा एष पुरुषोऽन्नरसमयः” इति शरीरसम्बन्धश्रवणादपरिच्छिन्नानन्दत्वश्रवणाच्चेत्यत्राह - तथा हीति । शरीरमुपलक्षणमात्रम्, न तु विशेषणमिति तद्वियोगेनापरिच्छिन्नानन्दत्वादिकमुपदिश्यत इत्यर्थः । तदन्तरभूतां च बुद्धिमिति - प्राणमयमनोमययोर्मयट्प्रत्ययस्य स्वार्थिकत्वाद्विज्ञानमय इत्यत्रापि मयट् स्वार्थिकः, “विज्ञानं यज्ञं तनुते” इति मयडन्तत्वं विना वक्ष्यमाणत्वात्, “विज्ञानसाथिर्यस्तु” “बुद्धिं तु सारथिं विद्धि” इति बुद्धिविज्ञानशब्दयोरेकार्थत्वेन प्रयोगाच्च, विज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानं बुद्धिरिति भावः । किमर्थमन्नमयादिनिर्देश इत्यत्राह - तत्र तत्र बुध्द्यवतरणेति । अपरिच्छिन्नानन्दत्वमपि परिशुद्धात्मस्वरूपस्य सम्भवतीत्यर्थसिद्धम् । शारीरत्वश्रवणात् जीवसामानाधिकरण्याद्विज्ञानमयशब्दस्यान्तः करणपरत्वात्प्राप्यत्वादेः परिशुद्धस्वरूपेऽप्युपपन्नत्वाच्छरीरस्योपलक्षणत्वेन तद्वियुक्तस्वरूपेण प्राप्यत्वादिसम्भवान्मयट्प्रत्ययस्य स्वार्थिकत्वेन विकारपरत्वाभावाच्च परिशुद्धप्रत्यगात्मस्वरूपविषयमिदं वाक्यमिति पूर्वपक्षसङ्ग्रहः, तत्र द्वौ हेतू साधकौ, अन्ये तु शङ्कितदूषणान्यथासिद्धिरूपाः ॥

एवमानन्दमयशब्दस्य प्रत्यगात्मपरत्ववादिनं पूर्वपक्षिणं साङ्खयं मृषावादिपक्षस्थश्चोदयति - ननु चेति । तस्य पुच्छमिति षष्ठयाऽवयविसम्बन्धप्रतीतेस्सम्बन्धस्य द्विनिष्ठतया प्रतिष्ठातद्वद्भावेन च व्यतिरेकावगमादन्यत्वमित्यर्थः । परिहरति - नैवमिति । “अन्वयं पुरुषविधः” इति श्रुतिवाक्यस्मरणार्थं पुरुषविधत्वरूपितमित्युक्तम् । पुरुषविधत्वेन रूपितम् । अनतिरिक्तत्वमुपपादयति - यथेति । प्रकरणे स्वस्मादनतिरिक्तैस्स्वावयवैः पुच्छप्रतिष्ठात्वरूपणदर्शनादत्रापि पुच्छप्रतिष्ठात्वेन रूपितं ब्रह्म आनन्दमयादनतिरिक्तमित्यर्थः । षष्ठीनिर्देशः समुदायतदेकदेशत्वनिबन्धनतयोपपन्न इति भावः । ननु “आनन्द आत्मा” इत्यानन्दोऽवयवित्वेन रूपितः, न त्ववयवत्वेन तत्कथमुच्यते अवयवत्वेन रूपितानां पि्रयमोदप्रमोदानन्दानामिति । नैष दोषः, आत्मशब्दस्य स्ववाचित्वाभावात् । कायस्य मध्यभागो ह्यात्मशब्दवाच्यः “दशहस्त्या अङ्गुलयो दशपाद्या द्वावूरू द्वौ बाहू पञ्चविंश आत्मा” इत्यादौ तथा प्रयोगदर्शनात् । अत एव तस्यानन्द आत्मेति षष्ठया व्यतिरेकनिर्देशस्वारस्यं सिध्यति, तस्मादानन्दो मध्यभागत्वेन रूपितः । नन्वेवमपि पुच्छतया निर्दिष्टं ब्रह्मेत्यङ्गीकृतं स्यात् । ततः किम् ? तर्हि किं निरसनीयम् ? आनन्दमयस्याब्रह्मत्वम्; अतस्तन्निरासमुखेन पुच्छस्य तदन्तर्भावो अभिधीयते । हेत्वन्तरमाह - यदि चेति ।

ननु तस्माद्वा एतस्मादानन्दमयादन्योऽन्तर आत्मा ब्रह्मेत्यन्तरात्मतयैव भेदो वक्तव्य इति न ह्यस्ति नियमः, “पृथगात्मानं प्रेरितारम्” “पतिं विश्वस्य” इत्यादिवत् व्यावर्त्तकाकारान्तरेणाप्यन्यत्वप्रतिपादनसम्भवादित्याशङ्कयाह - एतदुक्तमिति । प्रकरणस्य तत्तदन्तरतयैवान्यत्वप्रतिपादनपरत्वात् तत्प्रकरणस्थेन वाक्येन तादृशेन भवितव्यमित्यर्थः । आत्मशब्दस्य श्रुत्यैव व्याख्यानं कृतमिति कथमवगम्यत इति शङ्कायां स्वोक्तस्य स्वयमेव व्याख्यानं प्रक

रणसिद्धमिति दर्शयितुमात्मशब्दनिर्दिष्टस्यैव ब्रह्मत्वोपपादनोपयोगितया च “ब्रह्मविदाप्नोती “त्याद्युक्तम् । तत्र ब्रह्मशब्दव्याख्यानं सत्यज्ञानादिवाक्यम् आत्मशब्दव्याख्यानमानन्दमये समाप्तमस्तु ततः किमानन्दमयस्यैव ब्रह्मत्व इति शङ्कायां ब्रह्मशब्देन प्रकृतस्यैवात्मशब्देन निर्द्दिष्टत्वं दर्शयति - तदेवेति । “तस्माद्वा एतस्मात्” इति । तदेत्तच्छब्दौ प्रकृतपरामर्शिनावित्यभिप्रायः । पुनश्चोदयति - ननु चेति । पूर्वं प्राधान्येनोक्तानामन्नमयादीनां श्लोकेषु तत्तच्छब्दैरेव निर्द्देशो दृष्टः, एवमत्राप्यानन्दमयः प्रधानश्चेत्तद्विषयश्लोकेऽपि तच्छब्देनैव निर्द्देष्टव्यम् । यद्वा यद्यानन्दमये आत्मशब्दव्याख्यानपरिसमाप्तिः तर्ह्यात्मशब्देन निर्देष्टव्यम्, तथा च न कृतम्, अपि तु ब्रह्मशब्देन निर्दिष्टम् । तस्मादानन्दमयस्य न प्राधान्यम् अतः पुच्छब्रह्मैव प्रधानप्रतिपाद्यमित्यर्थः । ब्रह्मशब्दस्यानन्दमयविषयत्वे सिद्धे ब्रह्मशब्देन निर्देशो न दोष इति शङ्कामर्थात्परिहरन् युक्तयन्तरमाह - न

चानन्दमयस्येति । आशङ्काशब्देनोदाहृतश्रुतिवाक्यद्वयस्थः चेदर्थो व्याख्यातः । सर्वलोकप्रसिद्धस्य दुरपह्नवत्वेनासद्भाव इव सद्भावेऽप्याशङ्कावादो न युक्त इत्यर्थः । परिहरति - नैवमिति । ब्रह्मात्मानन्दमयशब्दानामैकार्थ्ये निश्चिते आनन्दमयशब्दनिर्देशसमो ब्रह्मेशब्दनिर्देश इति स्फुटमितिबुद्ध्वा आनन्दमयप्राधान्ये युक्तिमाह - इदं पुच्छमिति । प्रकरणस्थपूर्वश्लोकानां पुच्छमात्रप्रतिपादनपरत्वाभावादयमपि श्लोको न पुच्छमात्रप्रतिपादनपर इत्यर्थः । प्रसिद्धानन्दस्य सद्भावासद्भावशङ्कानुपपत्तिं परिहरति - आनन्दमयस्येति । प्रतिबन्दीमभिप्रेत्याह - पुच्छब्रह्मणोऽपीति । “विज्ञानमानन्दं ब्रह्म” “आनन्दो ब्रह्म” इत्यादिवाक्येन ब्रह्मण आनन्दरूपत्वस्योक्तत्वात् आनन्दस्य च प्रसिद्धत्वात् न तस्य सद्भावासद्भावज्ञानाशङ्का युक्तेति चोदिते, तस्यानन्दरूपस्य ब्रह्मणोऽविदित्वमपरिच्छिन्नानन्दत्वादेव हि त्वयोपपादनीयम्, तदत्रापि तुल्यमित्यर्थः । शङ्ते - शिरः प्रभृतीति । परिहरति - ब्रह्मण इति । पुच्छत्वम्-अवयवविशेषत्वम् ।

प्रतिष्ठात्वम्-आधारत्वम् । ब्रह्मणोऽवयवित्वमनुपपन्नमिति चेत्, अवयवत्वमप्यनुपपन्नमित्यर्थः । अवयत्वं रूपणमात्रमिति शङ्कते - अथेति । परिहरति - हन्त तर्हीति । असुखादिति - असुखव्यावृत्तिविशेषाः शिरःप्रभृतित्वेन रूपिता इत्यर्थः । सत्यज्ञानादिवाक्येन सकलेतरव्यावृत्तत्वे सिद्धे किमत्र क्रियत इत्यत्राह - एवञ्चेति । सत्यशब्दनिर्दिष्टस्य ब्रह्मणः कस्यचिद्विकारत्वाभावादानन्दमयशब्दवाच्यत्वमप्ययुक्तमित्यत्राह - ततश्चेति । ततः उक्तानुपपत्तीनां परिहृतत्वादुपपत्त्यन्तरसद्भावाच्चेत्यर्थः । किञ्च “सोऽकामयत” इतिवाक्ये स इति पुल्लिङ्गतच्छब्देन कारणवस्तुनिर्द्देशाच्च आनन्दमयः परं ब्रह्म “तस्माद्वा एतस्मादात्मनः” इत्यात्मशब्दनिर्दिष्टात्माभिप्रायोऽयं पुल्लिङ्गनिर्द्देश इति चेन्न, व्यवहितादव्यवहितस्य ग्राह्यत्वेनानन्दमयस्य ग्राह्यत्वात् “ब्रह्मपुच्छं प्रतिष्ठा” इति वाक्यात्पश्चात्पठितस्य “तस्यैष एव शारीर आत्मा” इतिवाक्यस्थस्यात्मशब्दस्य व्यवधानाभावात्तदभिप्रायः स इति पुल्लिङ्गनिर्देशः, आनन्दमयस्त्वेतद्वाक्यापेक्षया व्यवहित इति न स परामृश्यत इति चेन्न; “तस्यैष एव शारीर आत्मा” इति वाक्यस्थस्यात्मनः सर्वपर्यायसाधारणत्वेन एतत्पर्यायस्य प्रधानप्रतिपाद्यत्वाभावात् सर्वनामशब्दस्य प्रधानपरामर्शित्वस्वारस्याच्च स इत्यानन्दमय एवोच्यते । “विज्ञानं ब्रह्मेति व्यजानात्” “आनन्दो ब्रह्मेति व्यजानात्” इत्यत्र “विज्ञानमयमात्मानमुपसङ्क्रम्य “आनन्दमयमात्मानमुपसङ्क्रम्य” इत्यत्र च स्थानप्रमाणेनानन्दानन्दमयशब्दयोरेकार्थत्वावगमादानन्दशब्दस्य परब्रह्मविषयत्वप्रसिद्धेश्चानन्दमयः परं ब्रह्म । न च “आनन्दो ब्रह्मे"त्यत्रानन्दशब्दोऽप्यानन्दमयशब्दवत् बाह्यकोशपर इति वाच्यम्, “अन्नं ब्रह्म” “प्राणो ब्रह्म” इत्यादिविज्ञानानन्तरमिव “आनन्दो ब्रह्म” इतिविज्ञानानन्तरं भृगोर्वरुणोपसत्त्यभावात् । न हि “तद्विज्ञाय पुनरेव वरुणां पितरमुपससार” इति पुनः श्रूयते । एतदुक्तं भवति “अन्नं ब्रह्मेति व्यजानात्” इत्यत्र किमन्नाद्युपलक्षितब्रह्मवेदनमुक्तम्; उत अन्नमयादौ ब्रह्मबुध्द्यवतरणम् ? आद्ये अन्नं ब्रह्मेति ज्ञानानन्तरं वरुणोपसत्तिर्न स्यात्, उपलक्षणभूतेन तेन ब्रह्मणः प्रतिपन्नत्वात् । द्वितीये

ह्यानन्दविषयब्रह्मबुद्धेर्यथार्थत्वं स्यात्, पुनर्वरुणोपसत्त्यभावादिति । किञ्च “आनन्दो ब्रह्मे"त्यत्रानन्दशब्दस्य ब्रह्मपरत्वं युष्माभिरेव व्याख्यातम्, उक्तं हि शंभा “या तु भार्गवी वारुणी विद्या आनन्दो ब्रह्मेति व्यजानादिति तस्यां मयटोऽश्रवणात् प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम्” इति । अतश्च “आनन्दो ब्रह्मे"त्यस्य वाक्यस्य परमात्मपरत्वात् स्थानप्रमाणेन “आनन्दमयमात्मान"मित्यत्र आनन्दमयशब्दोऽपि परमात्मपरः । आनन्दमयस्य शोध्यत्वञ्च तदनुगुणसंसारनिर्हरणादिरूपमिति चानुसन्धेयम् । प्रत्यगात्मस्वरूपमेवापरिच्छिन्नानन्दरूपञ्चेत् कथं जीवानां दुःखित्वसुखित्वतारतम्यञ्चोपलभ्यत इति शङ्कां च परिहरन् पूर्वपक्षमुपसंहरति - तस्मादिति । “तस्य प्रियमिति सम्बन्धवाचिन्या षष्ठया व्यतिरेकप्रतीतेर्ब्रह्मविषयस्योपरितनश्लोकस्य आनन्दमयविषयत्वाभावेन पुच्छतयोक्तब्रह्मण एव प्रधानत्वावगमात्, प्रियमोदादिरूपेण लोकविदितस्यानन्दमयस्य सद्भावासद्भावज्ञानाशङ्कानुपपत्तेर्निरवयवस्य परमात्मनोऽवयवित्वानुपपत्तेरविकारस्य विकारित्वानुपपत्तेः “तस्यैष एव शारीर आत्मा” इत्यानन्दमयविषयवाक्यावगतस्यात्मान्तरस्य परमात्मतया आनन्दमयस्य परमात्मत्वानुपपत्तेः “अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयो मे शुध्द्यन्ताम्” इति श्रुतस्य शोध्यत्वस्य नित्यशुद्धे परमात्मन्यनुपत्तेश्च नानन्दमयः परमात्मा, अपि तु पुच्छतया निर्दिष्टमेव ब्रह्म परमात्मेति पुच्छब्रह्मवादहेतुसङ्ग्रहः । प्रकरणस्य स्वस्मादनतिरिक्तैः स्वावयवैः शिरःपक्षादिरूपणपरत्वात्तदन्तरतया आत्मशब्दव्याख्यानस्यानन्दमये पर्यवसितत्वादन्नमयादिविषयाणां प्रकरणस्थश्लोकनां पुच्छवद्विषयत्वात् कारणत्वप्रतिपादके “सोऽकामयत” इत्यनन्तरवाक्ये स इति पुल्लिङ्गान्तेन प्रधानप्रकृतार्थपरामर्शिना तच्छब्देनाव्यवहितस्यानन्दमयस्यैव वक्तुं युक्तत्वात्, “आनन्दो ब्रह्म” इत्यानन्दशब्दस्य ब्रह्मपरत्वाभ्युपगमात् “आनन्दो ब्रह्मेति व्यजानात्” “आनन्दमयमात्मानमुपसङ्ग्रम्य” इत्यानन्दानन्दमयशब्दयोरेकार्थत्वेनानन्दमयशब्दस्यापि परब्रह्मपरत्वात् आनन्दमयशब्दतुल्यार्थानन्दशब्दवाच्यब्रह्मज्ञानानन्तरं वरुणोपसत्त्यश्रवणात् सूत्रस्वारस्यात्स्वस्मादनतिरिक्तस्वावयवैरेव शिरःपक्षपुच्छादिरूपणपरप्रकरणानुगुण्येन षष्ठीनिर्देशस्य समुदायसमुदायिभावनिबन्धनत्वोपपत्तेरानन्दमयात्मब्रह्मशब्दानामैकार्थ्येन तेष्वन्यतमेन तद्विषयश्लोके निर्देशस्य युक्तत्वादपरिच्छिन्नानन्दस्याप्रसिद्धत्वेन “आनन्दो ब्रह्मे"त्युक्ततयाऽभ्युपेतपुच्छब्रह्मण इव सद्भावासद्भावशङ्कासम्भवादवयवत्ववत् अवयवित्वेन रूपणसम्भवादानन्दमय इत्यत्र मयट्प्रत्ययस्य

स्वार्थिकत्वेन प्राचुयर्ार्थत्वेन वा

विकारपरत्वाभावेन ब्रह्मणो निर्विकारत्वाविरोधात् “तस्यैष एव शारीर आत्मा” इति वाक्यस्यानन्यात्मत्वप्रतिपादनपरत्वात् “अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुध्द्यन्ताम्” इत्यत्र शोधनं तत्तद्वस्त्वनुगुणं कार्यमिति प्रत्यगात्मत्वपक्षे संसारनिर्हरणेन शोध्यत्वादतिरिक्तत्वपक्षे भगवतः कालुष्यशान्तिरूपशोध्यत्वस्य प्रपदनसाध्यस्योपपन्नत्वाच्चानन्दमयानतिरिक्तं पुच्छब्रह्मेत्यानन्दमय एव परमात्मेति पुच्छब्रह्मवादनिराकरणयुक्तिसङ्ग्रहः, अत्राद्यं हेतुषट्कं सिद्धान्तसाधकम्, इतरहेतुगणश्शङ्कितविपक्षयुक्तिपरिहारपरः ।

अस्मिन् पर्वपक्षे प्राप्ते सिद्धान्तसूत्रमवतारयति - एवं प्राप्त इति । तत्र प्रतिज्ञांशं साध्यसमर्पकपदेन पूरयन् व्याचष्टे- आनन्दमय इति । उत्तराधिकरणे “भेदव्यपदेशाच्चान्यः, इत्यन्यशब्दः प्रयुक्तः, इह तदाकर्षणलब्धार्थ उक्तः - परमात्मेति । यद्वा पूर्वाधिकरण सूत्रस्ययोः न अशब्दं इति पदयोः अनुषङ्गः लब्धार्थमाह - परमात्मेति । यस्मिन् शब्द एव प्रमाणं न भवति स ह्यशब्दः, स्वयम्प्रकाशप्रत्यक्षानुमानादिभिः सिध्यतो जीवस्यापि तदशब्दत्वमुपपद्यते, यथा आत्मसिद्धौ “एवमात्मा स्वतः सिध्यन्नागमेनानुमानतः । योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाशते” इति । यद्वा एतदधिकरणसूत्रस्थ एव नेतर इति साध्यांशोऽत्रापि विवक्षित इत्यभिप्रायेणोक्तं परमात्मेति । अन्तरात्मपरम्परासमाप्तिद्योतनाय अत्र परमात्मशब्देन धर्मि निर्द्देशः । अभ्यासादानन्दमयत्वं श्रुतौ प्रतीतम्, अत आनन्दमयत्वापेक्षया हेतुर्निर्देशशङ्काव्युदासाय साध्यांशे हेत्वाकाङ्क्षां दर्शयति - कुत इति । ननु भेदव्यपदेशस्य जीवादन्यत्वे स्फुटतरतया

निरपेक्षहेतुत्वात् स्ववाक्यस्थत्वाच्च स एव प्रथमं वक्तव्यः, न तु वाक्यान्तरस्थोऽनुग्राहकयुक्तयपेक्षोऽभ्यासः, । नैवम्; स्ववाक्यस्थाद्भेदव्यपदेशादपि स्वपदैकदेशमयड्वाच्यस्य प्राचुर्यस्योपपादनसापेक्षस्याप्यासन्नतरत्वात्तद्विवरणरूपस्य निरतिशयदशाशिरस्कस्याभ्यासस्यैव प्रथमं हेतुतया वक्तुं युक्तत्वात् । कस्याभ्यासादित्याकाङ्क्षां पूरयन् हेतुपदं व्याचष्टे - सैषानन्दस्येति । अभ्यासः-गुणनम्, आवृत्तिः । “यतो वाचो निवर्तन्ते” इत्यस्यार्थमभिप्रेत्य निरतिशयदशाशिरस्क इत्युक्तम् । “स एको ब्रह्मण आनन्दः, इति वाक्यस्यार्थमभिप्रेत्य अभ्यस्यमान इत्युक्तम् । शतगुणितोत्तरक्रमेण गुणितत्वादित्यर्थः । “स एको ब्रह्मण आनन्दः” इतिवाक्यस्य चतुर्मुखानन्दविषयत्वेन “यतो वाच” इत्यादिवाक्यस्यैव ब्रह्मानन्दविषयत्वाङ्गीकारेऽभ्यासादिति हेतोर्व्यधिकरणता स्यात् । किञ्च अयं ब्रह्मशब्दः परमात्मवाचकः, ब्रह्मशब्दस्य भगवत्येव मुख्यत्वात् “ब्रह्मविदाप्नोति” “अस्ति ब्रह्मेति” इत्यादिषु वाक्येषु परब्रह्मपरतयैव ब्रह्मशब्दस्य प्रयोगकरणात् “यतो वाचो निवर्तन्ते” इति पूर्वोत्तरयोर्वाक्ययोरानन्दप्रतिसम्बन्धिवाचिष्ठयन्तब्रह्मशब्दस्य परब्रह्मपरत्वदर्शनात् “सैषानन्दस्य मीमांसा” इति प्रकृतब्रह्मानन्दनिगमनस्यापेक्षितत्वात् “स यश्चायं पुरुषे” इति प्रकृतपरामर्शिनाऽनन्तरवाक्यस्थेन कारणपरतच्छब्देन पूर्ववाक्यस्थस्यास्य ब्रह्मशब्दस्य परब्रह्मपरत्वनिश्चयात्, अन्यथा चतुर्मुखस्य सर्वान्तरात्मत्वपरमकारणत्वप्रसङ्गात्, “तदप्येष श्लोको भवति” इति भगवदानन्दविषयश्लोकोत्थानस्य भगवदानन्दप्रसङ्गासापेक्षत्वात्, निरुपपदप्रजापतिशब्दस्य चतुर्मुखे स्वरसत्वात्, दक्षादिपरत्वे एकवचनस्वारस्याभावात् “देवानाम्” “देवगन्धवर्ाणाम्” इन्द्रस्य “बृहस्पतेः” इति बहुषु व्यक्तिषु बहुवचनस्यैकैकव्यक्तिषु च एकवचनस्य प्रकरणे प्रयुज्यमानत्वाच्च । तथा “स एक प्रजापतिलोक आनन्दो यश्च श्रोत्रियोवृजिनोऽकामहतोऽथ ते ये शतं प्रजापतिलोक आनन्दास्स एको ब्रह्मलोक आनन्दो यश्च श्रोत्रियोवृजिनोऽकामहतोऽथ एष एव पर आनन्द एष ब्रह्मलोकस्सम्राडिति होवाच” इति बृहदारण्यकवाक्यैकार्थ्याच्च, “स एको ब्रह्मण आनन्दः” इति वाक्यस्य परमात्मानन्दपरत्वं सिद्धम् न च स एक इति निर्देशात् ब्रह्मानन्दस्य परिच्छिन्नत्वम्, आधिक्यमात्रे वाक्यतात्पर्यात्, यथा “क्षिप्तेषुरिव सर्पति” इति वाक्यं सूर्यगतिमान्द्यनिवृत्तिपरम्, न त्विषुसाम्यपरम् सूर्यस्य निमेषमात्रे बहुयोजनातिलङ्घित्वस्य प्रमाणसिद्धत्वात्,

तथात्रापि पूर्वापरवाक्यादिभिरपरिच्छिन्नानन्दत्वसिद्धेः “स एकः” इति वाक्यस्य चतुर्मुखानन्दादाधिक्ये तात्पर्यमित्यवगम्यते । यद्वा “रोमकूपेष्वनन्तानि ब्रह्माण्डानि भ्रमन्ति ते” “अण्डानान्तु सहस्राणांसहस्राण्ययुतानि च। ईदृशानां तथा तत्र कोटिकोटिशतानि च “गङ्गायाः सिकता धारा यथा वर्षति वासरे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ।” इत्यादिभिरण्डानां तत्र तत्र चतुर्मुखानां चासङ्खयेयत्वावगमान्नियाम्यान्नियन्तुश्शतगुणा

नन्दत्वे कथिते चतुर्मुखेभ्यो असङ्खयातेभ्यः शतगुणानन्दतयाऽवगतस्य भगवतो अपरिच्छिन्नानन्दत्वमर्थसिद्धमिति; अतो यथोक्त एवार्थः । अभ्यस्यमान इति - अभ्यासशब्दः कर्मार्थघञन्त इत्यभिप्रायः । यद्वा भावार्थत्वेऽप्यानन्दस्याभ्यस्तत्वं फलितमिति तथोक्तम् । तच्च हेतोर्वैयधिकरण्यशङ्काव्युदासार्थम् । ननु गुणनम्-वर्द्धनम्, प्रजापत्यानन्दो हि शतगुणत्वेन वर्धते, न तु ब्रह्मानन्दः, सत्यम्, तथापि गुणितः प्रजापत्यानन्द एव ब्रह्मानन्द इत्युपचारेणोक्तिः, व्रीहिचतुष्टयं गुञ्जेतिवत् । गुणिततत्तदानन्दसदृशस्त्वेकदेशतया प्रतिपाद्यमानो ब्रह्मानन्द इत्यर्थः । यद्वा मुहुर्मुहुरुक्तिरभ्यासः, तेन तात्पर्यलिङ्गसत्त्वं सूचितम् । अस्त्वानन्दस्यापरिच्छिन्नत्वम्, ततः किमित्यत्राह - अनन्तदुःखेति । अनेन निरतिशयानन्दविरुद्धधर्मयोग उक्तः । परिमितेति निरतिशयानन्दाभाव उक्तः । विरुद्धधर्मोपलम्भादभावोपलम्भाच्चासम्भव इत्यर्थः । कथमसम्भवः? मुक्तस्यापरिच्छिन्नानन्दत्वं श्रुतमित्यत्राह - निखिलहेयेति । प्रत्यनीकत्वमत्र निवर्त्तकत्वं विवक्षितम् मुक्तस्यापि परमात्मप्रसादादेव हि हेयनिवृत्तिपूर्वकनिरतिशयानन्दप्राप्तिः, इह च स्वत एवापरिच्छिन्नानन्दत्वमवगम्यते, हेत्वश्रवणात् निरतिशयत्वश्रवणविरोधेन हेतुकल्पनायोगाच्च । न च मुक्तस्य स्वतोऽपरिच्छिन्नानन्दत्वम् “अथ सोऽभयं गतो भवति” “एष ह्येवानन्दयाति” “रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति” इति परमात्मायत्तत्वश्रुतेः । न ह्येवं परमात्मानन्दस्यान्याधीनत्वं श्रुतम् “श्रोत्रियस्य चाकामहतस्य” इति मुक्तः पृथङ्निर्दिश्यते । श्रोत्रियः-श्रुतवेदान्तः । अकामहतः-उपासनान्निवृत्तसमस्तक्लेशः “यश्च श्रोत्रियोवृजिनोऽकामहतः” इतिश्रुत्यन्तरम् । मुक्तस्य जगद्य्वापाराभावाच्च परस्यैव स्वतो निरतिशयानन्दयोगः । एवं निरतिशयानन्दस्य जीवात्मन्ययोग्यतारूपतर्कानुगृहीत आनन्दमयशब्दः परमात्मविषय इत्युक्तं भवति । न केवलं निरतिशयानन्दत्वरूपवस्तुसामर्थ्यानुगृहीतत्वाद्वैलक्षण्यमवगतम्, तत् कण्ठोक्तं चेत्याह - यथाहेति । ननु “भेदव्यपदेशा"दिति सूत्रस्य विषयवाक्यं हीदम् । तत्र व्याख्यास्यमानस्यास्य कथमिहोपादानमर्थोपपादनं च ? उच्यते; निरतिशयानन्दस्य जीवात्मन्ययोग्यतारूपस्तर्को ह्यानन्दमयशब्दस्य परमात्मविषयत्वव्यवस्थापक उक्तः, अस्य तर्कस्य अनेन वाक्येन गर्भितत्वात्तत्सूचकत्वेनेदं

वाक्यमत्रोपन्यस्तम्, अत्र हि एतस्मादितिपदेन “विज्ञानं यज्ञं तनुते । कर्माणि तनुतेऽपि च” इति पूर्ववाक्यप्रकृतकर्मवश्यत्वादिवैशिष्टयं जीवस्याभिप्रेतम्, धर्मिवाचिनापि मयडन्तेन विज्ञानमयशब्देन सर्वोपाधिविनिर्मुक्तं स्वाभाविकरूपमसङ्कुचितज्ञानमित्यवयवशक्तया दर्शितम् । अनेन वाक्येन स्वभावपरिशुद्धस्यापि जीवस्य कर्मकृतानन्तदुःखभाजनस्य निरतिशयानन्दासम्भवात् ततः परमात्मनो विलक्षणत्वं प्रतिपादितमित्यत्रेदमुपात्तम्, अस्मिन् वाक्ये विज्ञानमयशब्दस्य बुद्धिमात्रपरत्वं व्युदस्यति - विज्ञानमयो हीति । “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः” इति श्रुतिप्रसिद्धिद्योतको हिशब्दः । शब्दस्वारस्यानुग्राहकप्रत्यक्षप्रसिद्धिद्योतको वा, अहं जानामीति ज्ञातृत्वं ह्यात्मनः पतीयते । ज्ञप्तिवाचिनो विज्ञानमयशब्दस्य ज्ञायतेऽनेनेति व्युत्पत्त्याऽन्तः करणपरत्वमस्वरसमित्यभिप्रयन्नाह - न बुद्धिमात्रमिति । मात्रचा अभिप्रेतं प्रत्ययवैयर्थ्यं विशदयति - मयट्प्रत्ययेनेति । प्रकरणवशात्स्वार्थिकत्वमाशङ्कयाह - प्राणमये त्विति । अगत्या विकारप्राचुर्याद्यर्थान्तरासम्भवात् । पक्षे तद्वैषम्यमाह - इह त्विति । तद्वत इति - प्रातुर्यार्थत्वं सम्भवतीत्यर्थः । नात्र मयडर्थस्सम्भवति, ज्ञप्तिमात्रस्वरूपो ह्यात्मा, ज्ञातृत्वं हि काल्पनिकम्, मुक्तावस्थायां तदपि नास्तीत्याह - बद्ध इति । प्राणमयादौ स्वार्थिकत्वमभ्युपगम्य परिहार उक्तः । अथ तदेव नास्तीत्याह - प्राणमयादाविति । विज्ञानमयशब्दस्य तद्विषयश्लोकस्थविज्ञानशब्दसमानार्थत्वात् मयट् स्वार्थिक इत्यभिप्रायेण पृच्छति - कथं तर्हीति । उपपद्यतेन हि विज्ञानस्य विज्ञानान्तराश्रयत्वं सम्भवतीति भावः । विज्ञानमयशब्दस्य ज्ञातरि प्रवृत्तौ निमित्तं दर्शयति - ज्ञातुरेवेति । एवकारश्शङ्कितविरोधाभावद्योतकः, अपिशब्दः स्वरूपधर्मयोर्निमित्तसाधारण्यपरः । ज्ञातृशब्दतुल्यार्थतयाऽपि निर्वाहं दर्शयति - ज्ञानैकेति । ततः किमित्यत्राह - स्वरूपेति । स्वरूपनिरूपणधर्मशब्दाः अयुतसिद्धधर्मवाचिशब्दाः । आकृतिनयविषयतया सम्प्रतिपन्नं शब्दं

निदर्शयति - गवादीति । एवं सूत्रन्यायाभ्यां द्विधा निर्वाह उक्तः । अथ शाब्दमर्यादया द्विधा निर्वाहमाह - कृत्येति । प्रथमे कर्तृ

परत्वं कल्पनीयम् । द्वितीये गणान्तर्भावः कल्पनीय इत्युभयत्राश्रयणशब्दप्रयोगः । प्रत्यक्षानुगुण्यात् श्रुत्यन्तरप्रत्यभिज्ञानात् प्रथमश्रुतत्वात्प्रकृतिस्वारस्यात् प्रत्ययानर्थक्यानुपपत्तेश्च प्रबलविज्ञानमयशब्दानुरोधेन विज्ञानशब्दो निर्वाह्य इति भावः । स्ववाक्यस्थं युक्तयन्तरमाह - अत एवेति । अत एवविज्ञानशब्दस्य चेतनपरत्वादेवेत्यर्थः । यज्ञादिकर्तृत्वे श्रुते कथं विज्ञानशब्दवाच्यस्य चेतनत्वमित्यत्राह - बुद्धिमात्रस्येति । बोद्धुरेव हि कर्तृत्वं प्रत्यक्षश्रुतिभिस्सूत्रैश्च सिद्धमिति भावः । ननु सर्वेषां स्वव्यापारकर्तृत्वमस्ति । सत्यम्, नात्र तावन्मात्रं विवक्षितम्, किन्तु चेतनासाधारणः कर्तृत्वविशेषः प्रयत्नाधारत्वलक्षणः, यज्ञादिकर्तृत्वमिति ह्युक्तम् ।अत्र विज्ञानशब्दस्वारस्यमुभयोरप्यविशिष्टम्, यज्ञादिकर्तृत्वास्वारस्यं तु परस्याधिकम् । ननु “अद्यतेऽत्ति च भूतानि” इत्यन्नमय इव प्राकरणिकमौपचारिकं कर्तृत्वमुपकरणत्वाविशेषात् बुद्धेरपि स्यादित्यत्राह - अचेतनेषु हीति । बाधकाभावे सति उपचार एव दोषः, स च प्रकरणानुवृत्तश्चेत् सोढव्यः स्यात्, न च तदनुवृत्तिः, प्राणमये मनोमये च तस्य विच्छिन्नत्वादित्यभिप्रायः । विज्ञानशब्दस्य चेतनपरत्वे प्रयोगान्तरं दर्शयति - अत एव चेतनमिति । अत एव विज्ञानशब्दस्य चेतनपरत्वादेवेत्यर्थः । चेतनमचेतनं चेति - न ह्यन्तःकरणानन्तःकरणविभागोऽत्र क्रियते, किन्तु चिदचिद्विभाग एवेति भावः । कुत इत्यत्राह - निलयनत्वेति । अचिद्विकारविशेषस्यान्तःकरणस्य “जीवभूतां महावाहो ययेदं धार्यते जगत्” इति प्रकारेण चेतनधार्यस्य विश्वनिलयनत्वायोगात् परेण तस्य सत्यत्वानभ्युपगमाच्चेति भावः । विज्ञानशब्दस्य संवित्परत्वमप्ययुक्तम्, “अनुप्रविश्ये"त्यनेनानुप्रवेशश्रवणात् न हि संविद्रूप आत्मा आत्मान्तरव्याप्यतयाऽभिमतः परस्य । विज्ञानशब्दस्य चेतनपरत्वे प्रयोगान्तरं दर्शयति - तथेति । विज्ञानस्यात्मशब्दस्थाने श्रुतत्वादन्तःकरणपरत्वमनुपपन्नम् । न चात्म

शब्दोऽप्यन्तःकरणपरः, विज्ञानशब्दवत्तस्यापितत्रास्वरसत्वात् । यथा ज्ञायतेऽनेनति व्युत्पत्त्याऽऽश्रयणं विज्ञानशब्दस्य क्लिष्टम् तद्वच्चेतनव्यतिरिक्तेष्वात्मशब्दोऽपि ह्यस्वरसः । अन्तःकरणपरत्वे विज्ञानात्मशब्दयोर्द्वयोरप्यस्वारस्यम्, चेतनपरत्वे तु विज्ञानशब्दमात्रास्वारस्यम्, न तु द्वयोरिति विशेषः । अत्रात्मशब्दस्य परमात्मतया स्वाभिमतसंवित्परत्वञ्च परेण दुर्वचम्, “य आत्मनि तिष्ठन्” इत्यत्रात्मान्तरस्थितिश्रवणात्, आत्मान्तरव्याप्यस्य परमात्मत्वासिद्धेः, सर्वत्र प्रयुक्तस्य विज्ञानशब्दस्य ल्युट्प्रत्ययान्तत्वे विशेष्यानुगुणलिङ्गत्वादात्मविषयस्य तस्य कथं नपुंसकत्वमित्यत्राह - विज्ञानमिति । उपपादितमर्थं परमसाध्येन घटयति - तदेवमिति । तत्-उक्तोपपत्तिभिः । एवम्-विज्ञानशब्दस्य चेतनपरत्वसिद्धेरित्यर्थः । श्लोकस्थविज्ञानशब्दस्य ज्ञातृपरत्वोपपादनेन विज्ञानमयशब्दस्य ज्ञातृपरत्वमुक्तम् । अथ श्लोकस्य ज्ञातृपरत्वाभावेऽपि विज्ञानमयशब्दस्य ज्ञातृपरत्वमाह - यद्यपीति । मयड्रहितवाक्ये तदर्थः परित्यक्त इति तद्वत्यपि वाक्ये स न त्याज्य इत्यर्थः । तर्हि ब्राह्मणस्य श्लोकस्य च कथमैकार्थ्यमित्यत्राह - यथेति । पूर्ववाक्योक्तार्थैकदेशविषयत्वात् श्लोकस्य तदैकार्थ्यम्, यथाऽन्नमयविषयश्लोकस्येत्यर्थः । तन्मय इति श्रुतिवाक्यगतमयडर्थानुवादः । तद्विकार इति तद्य्वाख्यानम् । उक्तार्थजातस्य उत्सूत्रत्वशङ्कां परिहरन् व्याख्यास्यमानसूत्रोपयोगित्वञ्च दर्शयितुमाह - एतत्सर्वमिति । “तस्माद्वा एतस्माद्विज्ञानमयात्” इति वाक्यं जीवपरयोर्भेदप्रतिपादकं वदन् सूत्रकारो विज्ञानशब्दस्य ज्ञातृपरत्वं तदुपपत्तिश्च हृदि निदधदेव वदतीत्यर्थः । पूर्वपक्षे जीवसामानाधिकरण्यं शारीरत्वश्रवणं च हेतुद्वयमुक्तम्, तत्र सामानाधिकरण्यस्य भेदावहत्वमुपपादयितुं यदुक्तमित्यादिनोपदिश्यत इत्यन्तेनानूदितं पूर्वपक्षहेतुं दूषयति - तदयुक्तमिति । प्राकरणिकवाक्यैस्समानाधिकरणपदप्रातिपदिकांशेन च विरुद्धधर्माध्यासप्रतिपत्त्या

भेदसिद्धेः कालात्ययापदिष्टहेतुरिव परोक्तहेतुर्न साध्यसाधक इति दूषणं वक्तुं तत्पदोपस्थाप्यविशेषसमर्पकैः प्राकरणिकवाक्यैः पराभिमतैक्यविरुद्धभेदसिद्धिं दर्शयति - जीवस्येति । प्रलयदशायामुपसंहृतकरणकलेबरस्य कर्मवश्यस्य सङ्कल्पमात्रेण विचित्रजगत्सर्गायोगात् बद्धस्य स्रष्टृत्वमनुपपन्नमित्यर्थः । शुद्धावस्थस्य सम्भवतीत्यत्राह - शुद्धेति । उक्तं विपरीतुं शङ्कते - कारणेति । समानविभक्तयवगतैक्योपपत्तिः कथमित्यर्थः । कथं वेति - प्रातिपदिकावगतविशेषणान्वयः कथमित्यर्थः । निरस्तेत्यादिपदैस्तत्पदप्रातिपदिकावगतविशेषणान्वयो दर्शितः “तदैक्षत” “असृजत” इति यथासङ्कल्पं जगत्सृष्टिश्रवणेन सत्यसङ्कल्पादिगुणानामतिरोहितत्वावगमात् तिरोधायकहेयसम्बन्धानर्हत्वमर्थसिद्धमित्यभिप्रायेण निरस्तनिखिलदोषगन्धत्वमुक्तम् । जगद्य्वापारौपयिकगुणान्तराणामन्यत्र कण्ठोक्तानां सद्विद्यायां गतिसामान्यनयादर्थसिद्धत्वमभिप्रेत्योक्तमनवधिकेति । त्वंपदप्रातिपदिकावगतविशेषणान्वयो दर्शितः नानाविधेति । जीवस्वरूपत्वम्जीवेन सह स्वरूपैक्यम् । जीवत्वमित्युक्ते जीवशरीरकत्वप्रतिपत्तिश्च सम्भवतीति तद्य्वावृत्त्यर्थं जीवस्वरूपत्वमित्युक्तम् । साक्षात् पराभिमतं पदद्वयावगतविशेषणपरित्यागपक्षं दूषयिष्यन् सम्भावितं पक्षद्वयं शङ्कते अन्यतरस्येति । तत्त्वंपदप्रतिपन्नविषणयोरन्यतरस्येत्यर्थः । विकल्पयति - कस्येति । प्रत्यक्षसिद्धागमसिद्धत्वन्तत्पदावगतविशेषणजातं दुस्त्यजमिति भावः । सहेतुकमविरुद्धं परेण प्रथमशिरःपरिग्रहं शङ्कते - हेयप्रत्यनीकेति । हेयम्-दुःखम् । मिथ्याप्रतिभासः-भ्रान्तिज्ञानम् । स्वतश्शुद्धस्य पटस्यौपाधिकमालिन्यवत् परमार्थतो निर्मलस्य स्फटिकस्याध्यासादरुणिमवच्च ब्रह्मणो निर्दोषकल्याणगुणैकतानत्वं हेयसम्बन्धश्च स्वाभाविकौपाधिकविभागेन परमार्थापरमार्थविभागेन वा अविरुद्धम्, उभयोरपि

स्वाभाविकत्वसत्यत्वाभ्युपगमे हि विरोध इति शङ्काभिप्रेता । दूषयति- विप्रतिषिद्धमिति । विप्रतिषेधमुपपादयति - अविद्याश्रयत्वमिति । न केवलं दुःखमेव हेयम्, अपि तु

तद्धेतत्प्रतिभासावपि हेयावित्यर्थः । ततः किमित्यत्राह - तत्सम्बन्धित्वमिति । अविद्यातत्कार्यदुःखतत्प्रतिभासरूपहेयानामाश्रयत्वं तत्प्रत्यनीकत्वञ्च विरुद्धमित्यर्थः सम्बन्धमिथ्यात्वादविरोधं शङ्कते - तथापीति । तथापि अविद्यादीनां हेयत्वेऽपि । तस्य आश्रयत्वरूपसम्बन्धस्येत्यर्थः । दूषयति - मिथ्याभूतमपीति । आश्रयत्वं मिथ्याभूतमप्यपुरुषार्थ इत्यर्थः । अपुरुषार्थत्वमुपपादयति - यन्निरसनायेति । ततः किमित्यत्राह - निरसनीयेति । एतदुक्तं भवति, मिथ्यात्वं किमत्यन्ताभावः, उत ज्ञानबाध्यत्वम् ? प्रथमे निरसनीयाभावात्तन्निरासाय शास्त्रारम्भो न स्यात् । द्वितीये च मिथ्याभूतस्यापुरुषार्थत्वमस्ति, न वा ? न चेन्निरसनीयत्वाभावाच्छास्त्रारम्भवैयर्थ्यम्, अपुरूषार्थत्वमस्ति चेद्धेयप्रत्यनीकत्वव्याघातो दुष्परिहर इति । तद्विरोधेऽपि हेयसम्बन्धस्य श्रुतिबलादभ्युपगन्तव्यत्वं शङ्कते - किं कुर्म इति । परिहरति - श्रुतोपपत्तय इति । अनुपपन्नम्तर्कपराहतम् । विरुद्धम्-प्रमाणविरुद्धम् । “अपहतपाप्मा” “विशोको विजघत्सः” “एष हि सर्वेभ्यः पाप्मभ्य उदितः” “अनश्नन्नन्यः” “अनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशम्” “अनार्तां देवतां प्रपद्ये” इत्यादिश्रुतिविरोधः । एकस्मिन् हेयप्रत्यनीकत्वहेयास्पदत्वादिविरुद्धधर्मान्वयानुपपत्तिस्तर्कविरोधः । शिरोऽन्तरं शङ्कते - अथेति । दूषयति - हन्तैवमिति । शास्त्रस्य प्रयोजनपर्यवसायित्वाभावादप्रामाण्यं प्रसजेदित्यर्तः । परस्य सिद्धान्तभूतमुभयप्रहाणं शङ्कते - अथैतदिति । परिहरति - अहो भवतामिति । अर्थनिष्कर्षोपयुक्तपदद्वयवाक्यैतत्प्रकरणप्रकरणान्तरोपनिषदन्तरप्रमाणान्तरतर्कसामानाधिकरण्यनिरूपणं पर्यालोचनम् । प्रथममेतत्प्रकरणोपक्रमविरोधं दर्शयति - एकेति । सर्वसत्यत्वेऽपि कथं

सेत्स्यतीत्यत्राह - यथैकेति । परमार्थविषयमिथ्याविषयत्वे ज्ञानयोर्वैरूप्यं स्यादिति भावः - तदन्तर्गतञ्चेति । परिषद्ज्ञानेन तद्गतः पुरुषा हि ज्ञाता भवन्ति, न तु तद्बहिष्ठा इति भावः । ज्ञानस्य तदर्न्गतत्वं तद्विषयान्तर्गतत्वम् । यद्वा तदर्न्गतम् सर्वमिति शेषः । परमार्थविषयं तदन्तर्गतमित्युक्तमर्थं व्यतिरेकेणोपपादयति - न हि परमार्थेति । न हि शुक्तिरजतयोरेकधीविषयत्वमित्यर्तः । एकत्वसर्वत्वावस्थाभेदे सत्यपि धर्मैक्यादेकविज्ञानेन सर्वविज्ञानमुपपद्यते, ज्ञातत्वसर्वत्वे ह्येकाश्रयत्वर्तिनी, न हि ज्ञातत्वविशिष्टाकारेण सर्वत्वम्, सर्वत्वविशिष्टाकारेण ज्ञातत्वं वा, प्रागेवायं मया ज्ञात इत्यपि हि धर्मिमात्रस्यैव ज्ञातत्वम्, न त्वेतदवस्थाविशेषविशिष्टस्य, देशकालादिभेदात् । न हि पूर्वमेतत्कालादिविशिष्टतया ज्ञातत्वम् ब्रह्मैकमेव सत्यमिति ज्ञाते अन्यन्मिथ्यात्वेन ज्ञातं स्यादिति शङ्कते - अथोच्येतेति । परिहरति - न तर्हीति । सर्वं मिथ्यात्वेन ज्ञातं भवतीति वा सर्वं निवृत्तं भवतीति वा श्रूयेतेत्यर्थः । एवञ्चार्थे सति मिथ्यात्वेनेतिपदस्याध्याहारः, धर्म्यन्तरविषयतया ज्ञानशब्दयोर्वैरूप्यम्, स्वरसतः प्राप्तं हि ज्ञानैकरूप्यम्, तच्च भज्यते, ज्ञातं भवतीति ज्ञातृज्ञेयतदवच्छिन्नज्ञानाभावान्निवृत्तिलक्षणा चेति दोषत्रयमभिप्रेतम्, श्रूयमाणान्वयप्रकारस्य परविरुद्दतामाह - येनेति । एवं प्रतिज्ञावाक्यास्वारस्यमुक्तम् । अथ दृष्टान्तवाक्याननुगुणत्वमाह - कारणतयेति । अघटितत्वमुपपादयति - मृतिपण्डेति । न हि शुक्तिज्ञानाद्रजतनिवृत्तित्वमृत्पिण्डज्ञानात् घटादिनिवृत्तिनिर्दर्शितेति भावः । दृष्टान्ताविरोधं शङ्कते - तत्रापीति । प्रसिद्धवदुपन्यासानुपपत्त्या दूषयति - मृद्विकारस्येति । मृद्विकारासत्यत्वमनुमानादिनाऽवगतमित्यत्राह - न चेति । अननुगृहीतमिति ज्वालैक्यबुद्धिवदापातप्रतीतिमात्रजनकं विवक्षितम् । उपरितनवाक्यापर्यालोचनां दर्शयति - तथेति । सदायतनत्वफलितं स्वप्रवर्त्त्यत्वं स्वेनैव जीवनञ्च । प्रशासनेन हि धारणम्; धृत्या च तज्जीयनम् । निषेधाय गुणानुवाद इति शङ्कायाः व्युदासायाह - शास्त्रैकेति । न हि विधेरनुवादित्वमिति भावः । श्रुत्यन्तरापर्यालोचनां दर्शयति - तत्सम्बन्धितया प्रकरणान्तरेष्वपीति । अपहतपाप्मत्वादिरूपा निरस्तनिखिलदोषतेत्यर्थः । अपूर्वतालक्षणं गुणेषु तात्पर्यलिङ्गं दर्शयितुं सकलेतरप्रमाणविषया इत्युक्तम् । ततः किमित्याकाङ्क्षां पूरयन् पदद्वयपर्यालोचनाभावं दर्शयति - एवमिति ।

एवमनन्यगोचरानन्तविशेषविशिष्टप्रकृतेत्यनेन प्राकरणिकवाक्यविरोधो विवक्षितः । प्रकृतब्रह्मपरामर्शितच्छब्दस्येत्यनेन यत्र क्वापि प्रकृताकारविशिष्टपरामर्शितया तच्छब्दव्युत्पत्तिविरोध उक्तः । त्वंपदस्यापि वस्तुमात्रपरत्वे मुख्यार्थप्रहाणमाह - त्वंपदञ्चेति । स्वाभिमुखश्चेतनः त्वंशब्दार्थः । आभिमुख्यं च स्ववाक्यबोध्यत्वम्, बोध्यत्वं चाज्ञस्य संसारिणः स्वतः प्राप्तमिति भावः । तसाद्बोधनार्हतोपयोग्याकारविशिष्टः त्वमर्थः । अतः स परित्यक्तौ भवति । प्रमाणतर्कापर्यालोचना पूर्वोक्तेत्याह - निर्विशेषेति । पदद्वयनिमित्तप्रहाणे निर्विशेषत्वस्य बुद्धिस्थत्वात्तदनुपपत्तिरूपकर्तापर्यालोचनं दर्शितम् । सामानाधिकरण्यबलान्निविर्शेषवस्त्वमभगयुपगम इति शङ्कायां पदद्वयलक्षणालक्षणं दूषणमाह - एवञ्चेति । एवञ्च सति - निर्विशेषस्वरूपोपस्थापनपरत्वे मुख्यार्थसंबन्धितया वस्तुमात्रावबोधनेऽभ्युपगते लक्षणास्वीकार इत्यर्थः ॥

अथ परमतमुपन्यस्यति - अथोच्येति । समानाधिकरणवृत्तानामित्यादि ग्रन्थः पक्षविषयसङ्ग्रहरूपः । विशेषणांशे तात्पर्यासंभवादिति । अन्यथा विशेषणबहुत्वादेकार्थत्वासिद्धेरिति भावः । पूर्वमप्युक्तादेवेत्येवकाराभिप्रायः । प्रथमसूत्रे हि बहुश उक्तः । यद्वा अन्यनैरपेक्ष्यपर एवकारः । न लक्षणप्रसङ्ग इति । वाच्याबहिर्भूत

प्रतिपादनादिति भावः । एवं पक्षविषये सङ्क्षेपेणोक्तमर्थमुपपादयति - यथेत्यादिना । तत्र

महाभाष्योक्तेऽप्युदाहरणे विशेषणांशे तात्पर्यासम्भवं सिद्धं कृत्वा उदाहृतः । कथं तत्र विशेषणांशाविवक्षेत्यत्राह - तद्विवक्षायामिति । प्रसक्तस्यानिष्टतां दर्शयति - तत्त्विति । युगपदभिधाने उद्वेश्योपादेयविभागहानिप्रसङ्गात् पदद्वयप्रकृत्युपस्थापितविशिष्टैक्ये समानविभक्तया प्रतिपाद्यमाने विशेष्यांशस्येव विशेषणभूतजातिगुणांशयोरप्यैक्यप्रसङ्गाच्च क्रमेणाभिधानपक्षोऽभ्युपगन्तव्य इति हृदि निधायाह - न हीति । क्रमपक्षेऽपि पूर्वपदप्रतिपन्नाकारविशिष्टस्य पदान्तरप्रतिपन्नाकारविशिष्टवस्तुतादात्म्यं किं समानविभक्तया बोध्यम् ? उत पूर्वपदप्रतिपन्ने विशिष्टे विशेषणान्तरान्वय ? इति विकल्पमभिप्रेत्य प्रथमे विशेषणभूतजातिगुणयोरप्यैक्यप्रसङ्गं सिद्धं बुद्ध्वा द्वितीये शिरस्योन्यसमवायप्रसङ्गमाह - जातिगुणयोरिति । तात्पर्यबहिष्टस्यापि विशेषणस्योपयोगं दर्शयन् फलितमाह - अत इति । नीलोत्पलमित्यत्र विशेषणान्वये स्फुटेपि तात्पर्याभाव उक्तः, तत्र विशेषणान्वयस्यास्फुटत्वाद्विशेषणान्वये स्पष्टतात्पर्याभावमुदाहरणान्तरं दर्शयति - तथेति । विशिष्टवाचिनश्शब्दस्य विशिष्टपरित्यागेन विशिष्टैकेदेशतया तत्सम्बन्धिनि विशेष्यस्वरूपमात्रे वृत्तिर्लक्षणैव स्यादित्यत्राह - यद्यपीति । परिहरति - तथापीति । वाच्येऽर्थे न हि शक्तिविषयाद्विशिष्टाद्बहिर्भतं विशेष्यमिति भावः । प्रधानांशस्येति - तात्पर्यविषयतया धर्मितया च प्रधानस्य विशेष्यांशस्यावर्जनादप्रधानविशेषणत्यागेऽप्यङ्गुल्यादिविकले पुरुषशब्दस्येव न लक्षणेति भावः । मुख्यार्थत्वे तुल्येऽपि विशिष्टप्रतिपादनदशातो वैलक्षण्यं दर्शयति - अपि त्विति । अविवक्षामात्रमिति - अशक्ये क्वचिद्य्वापाराभावात् व्यापारविषयांशेऽपि न ह्यशक्तिरिति भावः । पूर्वं पक्षे लक्षणाभाव उक्तः, इदानीं सपक्षे विशादीकृतो भवति । विशेषणाविवक्षायामस्वारस्यं स्यादित्यत्राह - सर्वत्रेति । सामानाधिकरण्यमुत्पत्तेरीदृशत्वान्नास्वारस्यम्,

व्युत्पत्त्यननुरोधे सति ह्यस्वारस्यम्, अत ऐकार्थ्यव्युत्पत्तिविरोधिविशेषणविवक्षायामेवास्वारस्यमिति भावः । इमं पूर्वपक्षं प्रतिक्षिपति - तदिदमसारमिति । प्रथमं चरमोक्ततया बुद्धिस्थं व्युत्पत्त्यन्तराश्रयणं निरस्यति - सर्वेष्वेवेति । सर्वेषु-समानाधिकरणेषु व्यधिकरणेषु च वाक्येष्वित्यर्थः । गामानय कां बधानेत्यादिव्यधिकरणवाक्येषु, न हि

प्रतिवाक्यं पदानामर्थभेदव्युत्पत्तिकल्पनम् “कॢप्तकल्प्यविरोधे तु युक्तः कॢप्तपरिग्रहः” इति न्यायेन कॢप्तव्युत्पत्त्यैव स्वार्थबोधनसम्भवे व्युत्पत्त्यन्तरकल्पनानुपपत्तेः, तथा समानाधिकरणवाक्येष्वपि न पदानां व्युत्पत्त्यन्तरं प्रवृत्तिनिमित्ताविशिष्टार्थविषयं कल्पनीयमिति भावः । व्युत्पत्त्यन्तराभावेऽपि वाक्यानां परस्परवैषम्यसम्भवोपपादनपरं व्युत्पत्तिसिद्धार्थसंसर्गविशेषमात्रमितिपदम् । व्युत्पत्तिसिद्धार्थसंसर्गविशेषाद्वाक्यवैषम्यम्, न तु प्रकृत्यंशस्य व्युत्पत्त्यनवगतार्थान्तरकल्पनादित्यभिप्रायः । एवं सर्ववाक्यसाधारणं रूपमुक्तम्, अनेन समानाधिकरणवाक्येषु फलितमर्थमाह - तत्रेति । तत्र - तेषु वाक्येषु । समानाधिकरणपदानां विशिष्टैकार्थप्रतीतिहेतुत्वमुदाहरणेन दर्शयति - यथेति । प्रत्यक्षविषयं परोक्षविषयञ्च उदाहरणद्वयम्, अत एव ह्यानीयते प्रतीयत इत्युक्तम्, कारकविभक्त्यन्तत्वं न सामानाधिकरण्यविरोधीत्यभिप्रायेण नीलमुत्पलमानयेत्युक्तम् । नीलिमादिविशिष्टमेवानीयत इति । समानाधिकरणपदसमुदायो वस्तुमात्रप्रत्यायकश्चेत् वस्तुमात्रत्वाविशेषादनीलमप्यानीयेतेत्यभिप्रायः । किञ्च समानाधिकरणपदानां विशेषणपरित्यागे को हेतुः । समानविभक्त्यावगतमैक्यमिति चेन्न । प्रातिपदिकावगतविशेषणान्वयबलात् समानविभक्तिरैक्यं न प्रतिपादयेत् । तदेव युक्तम्; विभक्त्यर्थादपि प्रातिपदिकार्थप्राधान्यात्, “अदितिः पाशान्” “ग्रहं संमार्ष्टि” इत्यादिषु हि विभक्त्यर्थोऽनादृतः । ऐक्यविषयप्रयोगदर्शनादैक्यविषयमिति चेत्; विशेषणान्वयेऽपि प्रयोगदर्शनाद्विशेषणान्वयमपि प्रतिपादयति । शाब्दप्रतीतिर्वस्तुमात्रस्यैव; विशेषणान्वयस्तु प्रत्यक्षबलात् स्वीक्रियते । प्रत्यक्षागोचरे तु यथाशब्दं न विशेषणप्रतीतिरिति चेन्न । विशेषणान्वयः शाब्दप्रतीतिविषयः ऐक्यं तु प्रत्यक्षबलादङ्गीक्रियत इति किं न स्यात् । प्रत्यक्षागोचरेऽपि देवदत्तः श्यामो युवेत्यादिप्रयोगेष्वैक्यधीदर्शनादैक्यं शब्दप्रतीतिविषय इति चेत् - तत्रैव परोक्षविषयप्रयोगे विशेषणान्वयस्यापि प्रतीतेर्विशेषणान्वयः शाब्द एव; न प्रत्यक्षसिद्ध इति । इत्थं प्रत्यक्षपरोक्षविभागरहितं समानाधिकरणपदानामनेकविशेषणविशिष्टैकार्थबोधकत्वं दृश्यत इति चरमपर्वाभिप्रायेणोदाहरणद्वयं दर्शितम् । तस्मात्, “य एव लौकिकास्त एव वैदिकाः” इति लोकवेदाधिकरणन्यायेन वेदान्तवाक्येष्वपि पदद्वयावगतविशेषणापरित्यागेनैवार्थः प्रतिपत्तव्य इत्याह - एवं वेदान्तेति । अन्योन्यसमवायप्रसङ्गं परिहरति - न चेति । अरुणाधिकरणे विस्तरेण परिहारो वक्ष्यत इति अत्र संक्षिप्तः । न हि, यथाऽनुपपत्तिः स्यात् तथा वक्तव्यमिति भावः । युगपदभिधानं हृदि निधाय सर्वैर्विशेषणैः स्वरूपमेव विशेष्यमित्युक्तम् ।

सर्वविशेषणैः स्वरूपस्य विशेष्यत्वेऽनुगुणं सामानाधिकरण्यलक्षणमित्याह - तथा हीति । न हि विशेषणान्तरविशिष्टाकारे विशेषणान्तरान्वप्रतिपादनं सामानाधिकरण्यमित्युक्तमित्यर्थः । सामानाधिकरण्यलक्षणग्रन्थं विवृणोति - अन्वयेन निवृत्त्या वेति । अन्वयरूपार्थस्य व्यावृत्तिरूपार्थत्वं न कल्प्यम्, यथाव्युत्पत्ति अन्वयमुखेन व्यावृत्तिमुखेन वा वस्तुनः पदान्तरप्रतिपाद्याकारादाकारान्तरयुक्तताप्रतिपादनं समानाधिकरणपदसमुदायकार्यमित्यर्थः । तत्रोदाहरति - यथेति । अन्वयमुखेनानेकप्रवृत्तिनिमित्तवैशिष्टयोहाहरणं - श्यामो युवेति । व्यतिरेकमुखेनानेकाकारान्वयोदाहरणम् अदीन इत्यादि । दीनत्वम् - अभास्वरमन स्कत्वम् । कृपणत्वम्-निर्धनत्वम् । अत्रायमर्थः, क्रमेणाभिधाने व्यधिकरणवाक्येष्वपि करणकारकविशिष्टेऽधिकरणकारान्वयः स्यात्, तद्विशिष्टे इतरकारकान्वयो वा प्रसतेदित्यन्योन्यविशेषणविशेष्यभावचोद्यं व्यधिकरणवाक्येऽपि समानम् । तत्र यः परिहारस्य एवात्रापि, तथापि “पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम् । न्यायसम्पादितव्यक्ति पश्चाद्वाक्यार्थबोधकम्” । इत्युक्तप्रकारेण स्मरणदशायां सर्वैः पदैः पृथक् पृथक् स्वार्थस्मरणान्न विशेषणानामन्योन्यसमवायप्रसङ्गः, परामर्शदशायां चोपपन्नं भवति यथा तथा परामर्शान्नायं प्रसङ्गः । पश्चाद्युगपत्सर्वैः पदैर्वाक्यार्थबोधनान्न मिथस्समवायप्रसङ्गः, तस्मात्समानाधिकरणपदैर्युगपत्तत्तत्प्रवृत्तिनिमित्तविशिष्टैकविशेष्यप्रतिपादनेन क्रमाभावान्नान्योन्यसमवाय इति । सर्वैर्विशेषणैः स्वरूपमेव विशेष्यमिति ग्रन्थे अयमर्थोऽभिप्रेतः, अत्र सामानाधिकरण्यलक्षणग्रन्थोपादानेन अन्यदपि चोद्यं परिहृतं भवति, युगपदभिधाने विशिष्टयोरैक्यं समानविभक्तिः प्रतिपादयतीति विशिष्टैक्यवत् विशेषणैक्यमपि स्यादिति चोद्यम् । अत्र परिहारः, “एकस्मिन्नर्थे वृत्तिस्सामानाधिकरण्यम्” इति समानविभक्तया विशेष्यस्यैवैक्यप्रतिपादनान्न विशेषणैक्यमिति । ननु विशेषणे विशेष्ये चाविशेषणे प्रातिपदिकेनावगते सति

समानविभक्तिर्विशेष्यमात्रैक्यपरा, न तु विशेषणैक्यपरेति किं नियामकमिति चेत्; समानविभक्तिरैक्यबोधिका, न तु भेदबोधिकेति किं नियामकम् ? व्युत्पत्तिरिति चेत् साऽत्रापि तुल्या । किञ्च पदान्तरासमानाधिकृते घट इतिपदे प्रयुक्ते तत्स्था विभक्तिः प्रातिपदिकावगतानां विशेषणविशेष्यतत्सम्बन्धानामैक्यं न प्रतिपादयति विशेष्यमात्रैक्यमेव प्रतिपादयतीति किं नियामकम् ? प्रत्यक्षमूला हि व्युत्पत्तिः, प्रत्यक्षञ्च विशेष्यमात्रैक्यं दर्शयति, न तु विशेषणविशेष्यतत्सम्बन्धानामैक्यम्, अतः प्रत्यक्षमूला व्युत्पत्तिर्नियामिकेति चेत्, सैवाऽत्रापि नियामिकेति तुल्यमिति । एवं सर्वत्र व्युत्पत्तिसिद्धोऽर्थ एव स्वीकार्यश्चेन्न क्वचिदपि वृत्त्यन्तरकल्पनं

व्युत्पत्त्यन्तरकल्पनं वा स्यादित्यत्राह - यत्र त्विति । विशेषणद्वयमिति त्रित्वादेरप्युपलक्षणम्, व्युत्पत्तिसिद्धार्थस्वीकार एव सर्वत्र स्वतः प्राप्तः, तस्य प्रमाणविरोधादन्वयायोग्यत्वे सति वृत्त्यन्तरकल्पनं प्राप्तम्, तदसम्भवे व्युत्पत्त्यन्तरकल्पनम्, गोशब्दस्य किरणवाचित्वे वृत्त्यन्तराभावाद्धि शक्तिकल्पनम्, यदा वृत्त्यन्तरकल्पनं तदानीमप्यन्यतरपदस्यामुख्यत्वकल्पनम्, तावतैव विरोधसमनात्, न पुनस्सर्वेषां पदानाम्, तात्पर्यनिश्चायकाभावप्रसङ्गात् । गौर्वाहीक इति प्रयोगे गौपदस्यैव ह्यमुख्यत्वम्, न तु वाहीकपदस्यापि अन्यतरपदस्य वृत्त्यन्तरकल्पनेऽपि न निर्विशेषवस्तुपरत्वम्, मुख्यवृत्त्युपनीतविशेषणानन्वयेऽपि वृत्त्यन्तरोपनीतविशेषणान्वयादित्यभिप्रायः । नीलोत्पलादिवाक्येषु वृत्त्यन्तरकल्पनहेतुरेव नास्तीत्याह - नीलेति । विशेषणभेदेन विशेष्यभेदं शङ्कते - अथ मनुष इति । विशेषणप्रतिसम्बन्धित्वम् विशेषणविशिष्टता । एकविशेषणप्रतिसम्बन्धित्वेन निरूप्यमाणमिति भावप्रधाननिर्देशः । निरूप्यमाणत्वं विवक्षितम् । एकविशेषणप्रतिसम्बन्धित्वं विशेषणान्तरप्रतिसम्बन्धित्वात् विलक्षणमित्यर्थः । यद्वा एकविशेषणप्रतिसम्बन्धित्वेन निरूप्यमाणं वस्तु विशेषणान्तरप्रतिसम्बन्धित्वाद्धेतोस्तस्माद्विशेषणान्तरविशेष्यात्पदार्थाद्विलक्षणमित्यर्थः । विशेषणप्रतिसम्बन्धित्वभेदाद्विशेष्यस्वरूपभेदं निदर्शयति - घट-पटयोरिवेति । यथा घटत्वविशिष्टतायाः पटत्वविशिष्टतायाश्च भेदेन तद्विशिष्टयोर्घटपटयोर्विशेष्ययोर्भेदः तथा विशेषणान्तरान्वयस्यान्यविशेषणान्वयस्य च भेदेन तद्विशेष्ययोश्च भेदः समानविभक्तिनिर्देशे सत्यप्यवर्जनीय इति सामानाधिकरण्यं न विशिष्टैक्यप्रतिपादनक्षममित्यर्थः । न विशिष्टप्रतिपादनपरत्वमिति - विशेषणान्वयप्रतीतेरवर्जनीयत्वेऽपि न तत्र तात्पर्यमिति भावः । विशेषणत्यागे तत्प्रतिसम्बन्धिविशेष्योपस्थापनायोगात्तदैक्यमपि दुष्प्रतिपादमित्यत्राह - अपि त्विति । तात्पर्याविषयस्यापि विशेषणस्य परामर्शदशाप्रतीतिमात्रेण तद्विशेष्यप्रतीतिसिद्धेस्तदैक्यप्रतिपादनं सम्भवतीत्यर्थः । परिहरति - स्यादेतदिति । यत्रायोग्यत्वमभ्युपगतं तत्रापि विशेषणत्वमेव ह्ययोग्यत्वे प्रयोजकम्, अतो नीलत्वादिविशेषणमपि विरुद्धं स्यादित्यत्राह - अयोग्यता चेति । प्रमाणान्तरसिद्धेति - न पुनर्विशेषणत्वप्रयुक्तमयोग्यत्वमिति भावः । प्रमाणान्तरमपि घटत्वपटत्वयोर्भिन्नाधिकरणत्व

लक्षणं विरोधमवगमयति, नीलत्वोपलत्वयोरपि स विरोधस्तुल्यः, षट्पदे कुमुदे च पृथक्दर्शनादित्यत्राह - नीलमुत्पलमित्यादिष्विति । न केवलं भिन्नाश्रयत्वमात्रं विरोधः, अपि तु तन्नियमः, न च नीलत्वोत्पलत्वयोस्तादृशविरोधः, क्वचित्सहप्रतीतत्वादिति भावः । दण्डित्वेति - दण्डादिकं युतसिद्धम्, रूपादिकमयुतसिद्धम्,

#13 lines are missing.

अथोभयपदविशेषणाविवक्षायामपि सामानाधिकरण्ये सोऽयं देवदत्त इत्यादिषु दृश्यत इति यदुक्तम्, तत् प्रतिवक्ति सोऽयमित्यादिना । विरोधाभावात्- मुख्यार्थभूतविशेषणद्वयसंबन्धे विरोधाभावात् । प्रथमं कालद्वयसंबन्धविरोधाभावमुपपादयति देशान्तरेति । वस्तुविशेषणतया निर्दिष्टवपि देशान्तरसंबन्धसंनिहितदेशसंबन्धौ अतीतवर्तमानकालोपाधितया विवक्षितौ । इदञ्च कालोपाध्यन्तराणामुपलक्षणम् । अतीतवर्तमानशब्दौ अतीतवर्तमानकालसंबन्धिपरौ । देशान्तरसंबन्धितयाऽतीतस्य देशान्तरसंबन्धाद्युपाध्यवच्छिन्नातीतकालसंबन्धिनः, संनिहितदेशसंबन्धाद्युपाधिमद्वर्तमानकालसंबन्धाविरोधादित्यर्थः । अतीतत्वञ्चान्यापेक्षया विवक्षितम्; न तूभयकालानुगतवस्त्वपेक्षया । एतदुक्तं भवति- एकस्य कालद्वयासंबन्धं वदतोऽतीतत्ववर्तमानत्वविरोधो विवक्षितः; स किं प्रध्वस्तस्य वर्तमानत्वविरोधो विवक्षितः? स नास्ति, प्रध्वंसानभ्युपगमात् । यदि अतीतोपाधिमत्कालसंबन्धिनो वर्तमानत्वविरोध उच्यते तत् निरूप्यम् । किं स्वापेक्षयाऽतीतोपाधिमत्कालसंबन्धित्वम्, उतान्यापेक्षयाऽतीतोपाधिमत्कालसंबन्धित्वम्? । न प्रथमः, स्वापेक्षयाऽतीतोपाधिमत्कालसंबन्धित्वाभावात् घटादेः । न द्वितीयः, एकक्षणसंबन्धस्यापि विरोधप्रसङ्गात् । एकस्य वस्तुन एकोऽपि हि क्षणः स्वापाश्चात्ययत्किञ्चिदुपाध्यपेक्षयाऽतीतो भवति । अतोऽन्यापेक्षया अतीतोपाधिमत्कालसंबन्धिनो वर्तमानत्वमविरुद्धम् । एवमेकस्य स्वप्रागभावस्वद्वंसोपहितकालसंबन्धस्यैव विरुद्धत्वात् अन्यापेक्षयाऽतीतागाम्युपाधिमत्कालसंबन्धे तदभावाच्च स्वाभावानुपहितकालद्वयसंबन्ध एकस्य वस्तुन उपपन्न इति । युकत्यन्तरञ्चाह अत एवेति । अत एव कालद्वयसंबन्धाविरोधादेव । उपपाद्यते- सौगतान् प्रतीति शेषः । सौगतमतनिरासकस्य कालद्वयसंबन्धविरोधाभ्युपगमो विरुद्ध इत्यर्थः । तदेवोपपादयति अन्यथेति । अन्यथा कालद्वयसंबन्धविरोधेन । प्रतीतिविरोधेवस्तुस्थिरत्वविषयप्रतीतिविरोधे । सर्वेषां क्षणिकत्वमेव स्यादिति । एकस्य देशद्वयकालद्वयान्वयविरोधे देशकालान्तरसाध्यफलसाधनविधानम् आत्मनित्यत्वोपदेशश्चाप्रमाणं स्यादित्यभिप्रायः ॥ देशद्वयसंबन्धविरोधं परिहरति देशद्वयेति । परिच्छिन्नस्य वस्तुनः स्वानवच्छिन्नदेशसंबन्धौ यौगपद्य एव विरुध्यते; न तु क्रमभावित्वे इत्यर्थः ।

एवं लोकसिद्धस्य नीलोत्पलादिसमानाधिकरणपदप्रयोगस्य विशेषणविवक्षा स्थापिता । एवं प्रवृतिनिमित्तभेदेनैकार्थपर्यवसायित्वं समानाधिकरणपदानां वैदिकप्रयोगसिद्धं चेत्याह यत इति । अनेन वस्तुमात्रपत्वे अरुणाधिकरणसिद्धान्तन्यायविरोधश्चोक्तः स्यात् । यतः अत एवेति लौकिकप्रयोगसिद्धवत्कारोकत्या पूर्वोक्तस्वपक्षपरपक्षसाधनदूषणानि अरुणाधिकरणे(ण) विवक्षितानीति भावः ॥

अरुणयैकहायन्येत्यादिवाक्ये पदानां न सामानाधिकरण्यमित्यत्राह तदुक्तमिति । अर्थैकत्व इत्यादि सूत्रस्यान्यथा व्याख्यातत्वात् न सामानाधिकरण्यपरत्वमित्यत्राह तत्रैवमिति । एवमिति । अस्मदुक्तावेव पूर्वपक्षसिद्धान्तौ सूत्रकाराभिप्रेताविति भावः । किमत्र अरुणयेति पदोक्तमारुण्यमेकहायनमात्रान्वयि, उत प्राकरणिकसर्वद्रव्यान्वयि इति प्रथमो विचारः; तत्रारुणयेति पदं किमेकहायन्येत्यादिपदैरेकवाक्यतया अन्वेति, उत भिन्नवाक्यतया स्थितमिति तदर्थविचारः । इदं विचारद्वयं पूर्वमीमांसाव्याख्यातृभिरभ्युपेतम् । अधिकस्तदर्थविचार उच्यते- किमरुणयेत्यादिपदानि व्यधिकरणानि, उत समानाधिकरणनि इति; पुनस्तदर्थविचारः कारकविभक्त्यन्तत्वं किं सामानाधिकरण्यविरोधि, उताविरोधि इति । विरोधीति पूर्वपक्षः, अविरोधीति सिद्धान्तः । यदा विरोधि, तदा सामानाधिकरण्याभावेनैकवाक्यत्वाभावात् प्राकरणिकसर्वद्रव्यान्वयतीति पूर्वपक्षे फलफलिभावः । अविरोधे सामानाधिकरण्येन वाक्यभेदाभावादेकहायन्यन्वयनियम इति सिद्धान्ते फलफलिभावः अस्माकं तु पूर्वपक्षे सिद्धान्ते च अरुणयेति पदस्य द्रव्यपर्यन्तत्वमनुयायि । परेषां तु गुणमात्रपर्यन्तत्वमुभयत्रानुयायि । आकृत्यधिकरणे गुणवाचिशुक्लादिपदानां जातिवाचिगवादिशब्दवत् द्रव्यपर्यन्तत्वं निर्णीतम् । “आक्षिप्तद्रव्ये गुणजाती” इति हि टीकाकारः । तत्र चात्र च को विशेष इति चेत् एकैकप्रातिपदिकार्थनिरूपणमाकृत्यधिकरणे; अत्र त्वनेकप्रातिपदिकस्थसमानविभकत्यर्थनिरूपणमिति भेदः । ननु गुणवाचिपदस्य द्रव्यपर्यन्तत्वे एतदधिकरणपूर्वपक्षोत्थानं न स्यात् । गुणमात्रपर्यन्तत्वे हि गुणस्य कारकतया निर्दिष्टस्य क्र(क्रि?)यान्वयस्य

द्रव्यान्वयस्य च एकवाक्येन बोधियितुं अशक्यत्वेन वाक्यभेदात् प्राकरणिक सर्वद्रव्यान्वयीति पूर्वपक्षोत्थानं स्यात् । द्रव्यपर्यन्तत्वे त्वेकहायनीपदसामानाधिकरण्येन विशिष्टकरणैकत्वात् तस्य क्रयान्वयमात्रस्य एकवाक्येन बाधियितुं शक्यत्वेन वाक्यभेदाभावात् एकहायनीमात्रान्वयीति वाक्यभेदायतपूर्वपक्षानुदय इत्याशङ्कयाह यद्यपीति । आकृतेरिव गुणस्यापि द्रव्यप्रकारतैकस्वभावत्वात् तद्वाचिशब्दो यद्यपि द्रव्यमात्रपयर्न्तः, तथाप्येकहायनीत्वाश्रयद्रव्यविशेषपर्यन्तत्वं न सिध्यतीत्यर्थः । कुत इत्यत्राह एकहायन्या क्रीणाति, तच्चारुणयेत्यर्थद्वयविधानासंभवादिति । न च वाच्यम् । अरुणयेति इदं क्रीणातिनाऽन्वेति; द्रव्यविशेषाकाङ्क्षायां स विशेषः स्वावाक्यस्थैकहायनीपदोपस्थापितं द्रव्यं भवतीति; क्रयस्यैकहायन्यवरुद्धतयाऽरुणापदविभागे साकाङ्क्षत्वाभावात्; आकाङ्क्षोत्थापकचशब्दद्वन्द्वाद्यभावाच्च । अत आरुण्यस्य क्रयान्वयद्वारा नैकहायन्यन्वयः । स किं पदयोःसामानाधिकरण्येन उत वैयधिकरण्येन स्ववाक्यस्थतया । न तावत् पदद्वयसामानाधिकरण्येन एकहोयन्यन्वयनियम आरुण्यस्य संभवति, कारकविभकत्यन्तत्वप्रयुक्तानुपपत्त्या विशेषणविवक्षानुपपत्त्या च सामानाधिकरण्यायोगात् । तत्र यद्यपि विशेषणविवक्षायां विशेषणभेदेन विशेष्यभेदो जन्माद्यधिकरणन्यायेन परिहृतः ; विशेषणैक्यान्योन्यसमवायादयश्च पूर्वमेव परिहृताः तथापि कारकविभकत्यन्तत्वप्रयुक्तानुपपत्तिः स्थिता । कारकविभक्तिर्हि क्रियान्वयबोधोपक्षीणत्वान्न परस्परान्वयबोधं जनयितुं शक्नोति । परस्परान्वयो(ये?) हि विशेष्यैक्यम् । एवं विशेषणविवक्षाकारकविभकत्यन्तत्वप्रयुक्तानुपपत्तिभिर्न सामानाधिकरण्यम् । अतोऽरुणयैकहायन्येति पदद्वयं पृथक्करणवाचीत्येतावत् सिद्धं कृत्वा, वैयधिकरण्ये सति स्ववाक्यस्थतया आरुण्यस्यैकहायन्यन्वयनियमेऽनुपपत्तिरुच्यते । एकहायन्या क्रीणातीति वाक्येन एकहायन्याः क्रयस्य च संबन्धः प्रतिपन्नः । तच्च क्रयणमरुणया कर्तव्यमिति वाक्येनैकहायनीसाध्यत्वविशिष्यरूपेण क्रयणमरुणद्रव्यसाध्यमिति प्रतिपन्नम् । तत्पदं ह्येकहायनीसाध्त्वविशिष्टक्रयणोपस्थापकम् । तत्र द्रव्यांशस्य तत्साध्यक्रयणस्य च पूर्वप्रतिपन्नत्वेनानूदितत्वात् एकहायनीद्रव्यस्यारुणिमसंबन्ध एव विधेयः । एवञ्चैकहायन्या क्रयः साध्यः, तया चारुणया भवितव्यमित्युक्तं भवति । ततश्चैकहान्याः क्रयसंबन्धोऽरुणिमसंबन्धश्चेत्यर्थद्वयस्यैकवाक्येन विधानासंभवादित्यर्थः । ततः किमित्यत्राह ततश्चेति । वाक्यभेदे सति स्ववाक्यस्थत्वाभावादवान्तरप्रकरणेन वा महाप्रकरणेन वा द्रव्यविशेषनिश्चये वासोयजमानादिसर्व द्रव्याणां प्रकरणान्वयाविशेषात् क्रीणातीति वाक्यं मित्वा अरुणयेति पदं प्राकरणिक सर्वद्रव्यपयर्न्तं स्वार्थमरुणिमानमभिदधादीत्यर्थः । अरुणयोति स्त्रीलिङ्गनिर्देशः कथमित्यत्राह अरुणयेतीति । पूर्वपक्षमुपसंहरति तस्मादिति ॥

अत्राभिधीयत इति । अस्मिन् पूर्वपक्षे प्राप्ते सूत्रकारः स्वसिद्धान्तमाहेत्यत्रः । सूत्रमुपादते अर्थैकत्व इति । सूत्रस्याक्षरार्थमाह अरुणयेत्यादिना ।कयोरर्थैकत्वे इत्याकाङ्क्षायां शब्दस्यार्थप्रतिसम्बन्धित्वात् पदविशेषयोः संनिहितविषयवाक्यस्थत्वाच्च आरुण्यविशिष्टद्रव्यैकहायनीद्रव्यवाचिपदयोरित्यध्याहृतम् । पदद्वयसंनिधिज्ञापनार्थम् अरुणयैकहान्येतीत्युक्तम् । आरुण्यविशिष्टमेकहायनीत्वविशिष्टं च द्रव्यम्, तद्वाचिपदयोः सामानाधिकरण्येन तत्तद्विशेषणद्वारैकविशेष्यवृत्तित्वादर्थैकत्वे सिद्धे इत्यर्थः । द्रव्यगुणयोरैककर्म्यादित्येतत् व्याचष्टे एकहायनीद्रव्यारुण्यगुणयोरित्यादिना । गुणान्वयस्य क्रयान्वयस्य च वाक्यबोध्यत्वे वाक्यभेदप्रसङ्गो विरोध उक्तः,

गुणान्वयस्य प्रातिपदिकसिद्धत्वान्न वाक्यबोध्यत्वम्, नार्थसिद्धत्वञ्च । अतः क्रयान्वयबोधनमेव वाक्यकृत्यमित्यभिप्रायेणारुणयेतिपदेनैवेत्युक्तम् । क्रयाख्यैककमर्ान्वयाविरोधादिति । वाक्यभेदप्रसङ्गरूपविरोधाभावादित्यर्थः । नियमः स्यादित्येतद्वयाचष्टे अरुणिम्न इत्यादि । सर्वद्रव्यसाधारणप्रकरणानपेक्षत्वाद्वाक्यस्थतयैव नियमसिद्धिरित्यर्थः । अत्र गुणद्रव्ययो;विशेषणविशष्यभावः प्रातिपदिकावसेयः, विशेष्यैक्यं सामानाधिकरण्यावसेयम्, क्रयान्वयो वाक्यावसेय इति वाक्यस्य क्रयान्वयबोधनमेव कृत्यम् । तस्मादेकस्मिन् वाक्येऽर्थद्वयविधानप्रसङ्गाभावात् वाक्यभेदाभावेनारुण्यं न प्राकरणिकसर्वद्रव्यान्वयि, अपि त्वेकहायनीमात्रान्वयीति सूत्रार्थः । वैयधिकरण्येन पदयोरर्थभेद इति पूर्वपक्षे प्राप्ते अर्थैकत्व इत्युक्तम् । द्रव्यगुणयोः क्रयान्वये द्वारद्वारिभावेन विना तदयोगाद् द्वारान्वयद्वार्यन्वयरूपार्थयोर्भिन्नत्वात् वाक्यभेदप्रसंभ्गरूपविरोधः स्यादिति शङ्कायाम् ऐककर्म्यादित्युक्तम् । एकहायन्यन्वयानियम इति पूर्वपक्षे

नियमः स्यादित्युक्तमिति । अत्र गुणसंबन्धः प्रातिपदिकावसेयोऽस्तु; ततः किं वाक्यभेदायत्तानियमपरिहारस्येति शङ्कायां सूत्राक्षरयोजनायां सङ्ग्रहेणोक्तमर्थं विवृणोति यदीत्यादिना । किमारुण्यस्यद्रव्यमात्रान्वये वा द्रव्यविशेषान्वये वा वाक्यबोध्ये तद्भेद उच्यते इति विकल्पे, द्रव्यमात्रान्वयस्य प्रातिपदिकावसेयत्वमाह अरुणयेतीति । यदि गुणगुणिसंबन्धः प्रातिपदिकावसेयः, तर्हि सामानाधिकरण्यस्य किं कृत्यमित्यपेक्षां शमयन् द्वितीयं शिरः प्रतिवक्ति एकहाय पदेति । तस्यैकहायनीत्वमात्रम् अरुणिमविशिष्टद्रव्यस्यैकहायनीत्वाश्रयत्वम्; विशष्यैक्यमित्यर्थः । अनेन आकृत्यधिकरणारुणाधिकरणयोः प्रतिपाद्यभेदश्चोक्तो भवति । प्रातिपदिकस्य धर्मिपर्यन्तत्वमाकृत्यधिकरणार्थः, अनेकप्रातिपदिकस्थसमानविभक्तेर्विशेष्यैक्यपरत्वप्रतिपादकमरुणाधिकरणमिति । कथं गुणसंबन्धो न सामानाधिकरण्यावसेय इत्यत्राह विशिष्टद्रव्यैक्यमेव हि सामानाधिकरण्यस्यार्थ इति । विशिष्टैक्यमित्युक्ते विशेषणांशत्यैक्यं मा भूदिति विशिष्टद्रव्यैक्यमित्युक्तम् । द्रव्यशब्देन विशष्यांशो विवक्षितः । एतदुपपादकत्वेन सामानाधिकरण्यलक्षणग्रन्थमाह भिन्नेति । न हि विशेषणविशेष्यवाचिनोः पदयोः विशेषणविशेष्यभावसंबन्धे वृत्तिः सामानाधिकरण्यमित्युक्तमित्यर्थः । एवं र्प्रातिपदिकेन गुणान्वयः, समानविभकत्या परस्परान्वयः, वाक्येन क्रयान्वयश्च बोध्यत इति कृत्यत्रयमुक्तम् । एतत् परैरभ्युपेतमित्याह अत एवेति । किञ्च द्रव्यपर्यन्ताभिधानेऽप्येकहायनीपदेन वाक्यस्य निराकाङ्क्षत्वादरुणयेति पदं न तत्रान्वेतीति शङ्का च परिहृता भवति । अर्थवादाधिकरणेऽर्थवादनैरपेक्ष्येण विधेरेव प्रवतर्कत्वात् विधिवाक्येनार्थवादस्य नैकवाक्यत्वमिति शङ्कायाम्, अर्थवादस्य श्रूयमाणत्वात् तत्रापि विधेराकाङ्क्षाऽस्तीति कल्प्यम्; तस्मादुत्थापिताकाङ्क्षोऽर्थवादः विधिनैकवाक्यतयाऽन्वित इति निश्चितः । तत्र तैरेवोक्तमुदाहरणमिदम्, रक्तः पटो भवतीति । तत्र हि पटो भवतीत्येतावता निराकाङ्क्षत्वेऽपि वाक्यस्य, प्रयुक्तं रक्तपदं कीदृशः पट इत्युत्थापिताकाङ्क्षमन्वेति । एवमात्रापि अरुणयेतिपदं श्रूयमाणमुत्थापिताकाङ्क्षत्वादेकवाक्यतयाऽन्वितमिति भावः । अत एव कृत्यत्रयस्यापि यथोक्तप्रकारत्वादेव । रक्तः पटो भवतीति वाक्ये यथोक्तप्रकारेण कृत्यत्रयं दर्शयति पटस्येति । रक्तः पट इत्यादिवाक्ये विशेषणस्यैकत्वात् तदुत्थापिताकाङ्क्षमन्वेति । बहूनि विशेषणानि समस्तपदोक्तानि चेत्, अन्वितानि स्युः; न तु व्यस्तपदोक्तानि; अत्र तु पदानि व्यस्तानि । तत्र प्रथमान्तत्वात् सामानाधिकरण्यम्; अत्र तु पदानि कारकविभकत्यन्तानि । तस्मान्नात्र सामानाधिकरण्यमिति शङ्कात्रयमभिप्रेत्याह एवमेकेनेति । पदेन समस्तेन व्यस्तेन वेति । कारकविभकत्यन्तेन प्रथमान्ते वेति चात्राभिप्रेतम् । तत्र प्रथमान्तबहुविशेषणान्वये उदाहरणमाह देवदत्त इति । देवदत्तः श्याम इत्यादिकमुदाहरतोऽयं भावः । रक्तः पट इति पदद्वयम- चिद्वाचकम्, अरुणयेतिपदं चेतनवाचकमिति वैषम्यं यथा न प्रयोजकम्, तथा प्रथमान्तत्वकारकविभकत्यन्तत्ववैषम्यमप्यप्रयोजकमिति । अन्तरङ्गबहिरङ्गविशेषणे अप्येवमित्यभिप्रायेण दण्डी कुण्डलीत्युक्तम् । कारकविभकत्यन्तैकपदान्वयोदाहरणमाह शुक्लेन वाससेति । कर्मकारकमुदाहरति नीलमुत्पलमिति । समस्तोदाहरणमाह नीलोत्पलमिति । कारकविभकत्यन्तानेकपदान्वयोदाहरणमाह गामिति । सम्प्रदानकारकविषयं वैदिकं चोदाहरणमाह अग्न्य इति । पुरोडाशमष्टाकपालमिति कर्मकारकमपि सिद्धम् । एवमरुणयेत्यादिवाक्येऽपि तुल्यमित्याह एवमिति ।

ननु कारकविभक्तेः क्रियान्वयबोधोपक्षीणत्वान्न परस्परान्वयबोधकत्वम् ॥ उच्यते । कारकविभक्तिः क्रियान्वयबोधिका स्यात् । किमत्रायोगव्यवच्छेद एव उतान्ययोगव्यवच्छेदश्च । अयोगव्यवच्छेदमात्रं न विरुद्धम् । अन्ययोगव्यवच्छेदश्चेत् तर्हि क्रियान्वयबोधोपक्षीणा कारकविभक्तिः “पशुना यजेत” इत्यादिषु सङ्खयान्वयमपि न बोधयेत् ॥ कारकविभक्तित्वाकारात् क्रियान्वयबोधनम्, एकवचनत्वद्विवचनत्वाकारात् सङ्खयान्वयबोधनमित्याकारभेदादविरोध इति चेत् समानविभक्तित्वाकारविशेषेण तद्वत् परस्परान्वयमपि बोधयेत् ॥ नन्वेकपदस्था कारकविभक्तिर्युगपत् सङ्खयान्वयं क्रियान्वयञ्च बोधयतीति तुल्यबलत्वान्नान्योन्यासहत्वम् । परस्परान्वयस्तु पदान्तरपरामर्शसापेक्ष इति विलम्बितत्वात् स बाधित इति चेत् किं विलम्बितत्वाविलम्बितत्वमात्रमेव प्राबल्यदौर्बल्यहेतुः? तर्हि प्रत्यक्षमेकमेव प्रमाणम्; अन्यद्दुर्बलं स्यात्; तत्सापेक्षत्वेन विलम्बितत्वात् । तस्माद्विजयी लोकायतिकः । किञ्च श्रुतिरेव प्रमाणम्, न स्मृतिः, विलम्बात् ।

श्रुतिलिङ्गादिष्वपि श्रुतिरेव प्रमाणम्, न लिङ्गादि; विलम्बादेव । प्रथमाविभकत्यन्तेषु चैकपदस्थैकवचनादिना प्रागेव सङ्खयान्वयप्रतीतेः पदान्तरस्थसमानविभक्तिपरामर्शसापेक्षसामानाधिकरण्यासिद्धिः स्यात् । इहापि द्रव्यगुणयोः पराभिमत आर्थः परस्परान्वयो न सिध्येत्; शब्दतः प्रथमावगतक्रियान्वयापेक्षया तस्य आर्थत्वेन चरमावगतत्वाभ्युपगमात् ॥ नैवम्; विरोधे सति हि विलम्बिताविलम्बितयोर्बाध्यबाधकभाव इति चेत् तर्ह्यत्रापि क्रियान्वयसङ्खयान्वयवत् परस्परान्वयस्यापि विरोधाभावात् विलम्बाविलम्बावकिञ्चित्करौ अत्राविरोधः परैरभ्युपेतः; पश्चादार्थान्वयः सिध्यतीति सिद्धान्तोक्तेः ॥ न केवलमविरोधमात्रात् परस्परान्वयसिद्धिः, प्रयोगस्य नियामकत्वात् कारकविभकत्यन्तपदानां सङ्खयान्वयेन सह क्रियान्वयबोधने हि प्रयोगो दृश्यत इति चेत् तथा परस्परान्वयबोधनमपि प्रयोगसिद्धमिति चरमयुकत्यभिप्रायेण प्रथमान्तकारकविभकत्यन्तबहूदाहरणमुदाहृतं देवदत्तश्श्याम इत्यादिकम् । यथैकवचनादीनामेकत्वादिसङ्खयान्वयबोधकत्वं प्रथमान्तेषु कारकविभकत्यन्तेषु चाविशिष्टमङ्गीक्रियते, उभयत्राविशेषेण प्रयोगदशर्नात् समानविभक्तेरप्यविरुद्धार्थैक्यबोधकत्वमुभयत्राविशेषेण प्रयोगदर्शनादङ्गीकरणीयमित्यर्थः । एवं कारकविभक्तिप्रयुक्तानुपपत्तिः परिहृता । तथा विशेषणविवक्षायां यत् अनुपपत्तित्रयम्, तत्र विशेषणभेदे विशेष्यभेदो जन्माद्यधिकरणन्यायेन परिहृत इति नात्र विवक्षितः, विशेषणैक्यपरिहारः प्रागुक्तोऽत्रानुसन्धेयः । अथान्योन्यसमवायः परिहर्तव्यः, विशिष्टमुपस्थाप्य”, “विशिष्टोऽर्थ एक इति ज्ञापयित्वा” इति ल्यबक्त्वत्वान्तनिर्देशेन कृत्यत्रयस्य क्रमभावित्वं प्रतीयते ततश्चान्योन्यसमवायप्रसङ्ग इति । तत् अपनोद्यम्; करणकारकविभकत्यन्तसामानाधिकरण्यं वदतः सूत्रकारस्य तावन्मात्राभिप्रायत्वशङ्का च निवार्या; अतस्तदर्थमाह एतदुक्तं भवतीति । “पदजातं श्रुतं सर्वं स्मारितानन्वितार्थकम्” इति न्यायेन युगपद्वोधनात् क्रमभावित्वाभावान्न विशेषणान्तरविशिष्टे विशेषणान्तरान्वयविधानेन विशेषणानामन्योन्यसमवायप्रसङ्ग इत्यर्थः । यौगपद्यकथनेन पूर्वं ल्यबन्त निर्देशः कृत्यत्रयभेदनिर्वाहकपरामर्शक्रमप्रकटनार्थमित्युक्तं भवति । तत्तत्कारकप्रतिपत्तिवेलायामित्यनेनेदं सूत्रं सर्वकारकविभकत्यन्तपदप्रदर्शनार्थमिति दर्शितम् । इत्यादिषु न कश्चिद्विरोध इत्यन्वयः । विरोधोऽन्योन्यसमवायादिर्विवक्षितः ।

युगपत्प्रतिपन्नमित्यनेन तत्र परिहारो विवक्षितः । यथा काष्ठैरित्यादिकं वदता समानाधिकरणपदविषयचोद्यपरिहाराः व्यधिकरणवाक्येऽपि समाना इति प्रतिबन्दी अभिप्रेता । अयमर्थः- व्यधिकरणानि पदानि तत्तत्कारकविशिष्टां क्रियां किं युगपत् क्रमेण वा प्रतिपादयन्ति । यौगपद्ये, उद्देश्योपादेयविभागाभावप्रसङ्गः । अनेककारकविशिष्टक्रियैकत्वे विशेष्यक्रियैक्यवत् विशेषणभूतकारकैवयमपि स्यात् । क्रमेण चेत् कारकान्तरविशिष्टक्रियायां कारकान्तरान्वयविधानं स्यात् । तदा काष्ठस्थाल्यादेरन्योन्यसमवायप्रसङ्गेन काष्ठस्य स्थाली अधिकरणं स्थाल्याः काष्ठमधिकरणं (काष्ठं करणं?) वा स्यात् । न तदस्ति । विशेष्यभूतक्रियाया एवैकत्वं वाक्यप्रतिपाद्यम्; न तु विशिष्टस्य । अतो न विशेषणभूतकारकैक्यप्रसङ्गः । सर्वकारकैः क्रियाया एव विशेष्यत्वेन नान्योन्यसमवायप्रसङ्ग इति चेत् तथा समानविभक्तेर्विशेष्यांशमात्रैक्यपरत्वान्न विशेषणैक्यम् । प्रत्यक्षमूला व्युत्पत्तिरत्र नियामिका । यथा पट इत्येकपदप्रयोगे तत्स्थमेकवचनं न विशेषणविशेष्यैक्यं प्रतिपादयति, किन्तु विशेष्यैक्यमेव । तत्र नियामिका व्युत्पत्तिः । इहापि तद्वत् । युगपत् सर्वैर्विशेषणैरेकस्यैवार्थस्य विशेष्यत्वेन न विशेषणानामन्योन्यसमवायप्रसङ्गश्चेति । एवं सूत्रकाराभिप्रेतपूर्वपक्षराद्धान्तौ अभिहितौ ॥

अथ परोक्तपूर्वपक्षराद्धान्तयोरनुयायिनमर्थं तत्तदसाधारणार्थं च व्युदस्यपि यत्त्वित्यादिना । कृष्णो गच्छति”, 2श्वेतमालभेत” इत्यादिषु गुणवाचिपदानां गुणिपर्यन्तत्वं तैरभ्युपेतमाकृत्यधिकरणन्यायात् । तत्रोपात्तद्रव्यकवाक्यस्थत्वं गुणवाचिपदानां गुणमात्रपर्यन्तत्वे प्रयोजकमभ्युपेतम्; पटस्य शुक्ल इत्यादिषु तथा दर्शनात् । पटः शुक्ल इत्यादिषु उपातदद्रव्यकवाक्यस्थत्वेऽपि तदपवादकसामानाधिकरण्यात् गुणिपर्यन्ताभिधानमिति चाभ्युपेतम् । तत्र गुणमात्रपर्यन्तत्वे यत् प्रयोजकमुक्तम्, तदभ्युपगम्य प्रकृते गुणमात्रपर्यन्तत्वं दूषयति तन्नोपपद्यत इति । कुत इत्यत्राह लोकवेदयोरिति । कारकविभकत्यन्तत्वस्य सामानाधिकरण्याविरोधित्वोपपादनमुपजीव्य इदं दूषितम् ।

गुणिपर्यन्तत्वापवादकमुपात्तदद्रव्यकवाक्यस्थगुणवाचिपदत्वं यत्, तस्यापवादरूपसामानाधिकरण्यस्य अरुणयेत्यादिवाक्ये विद्यमानत्वोपपादनात् केवलगुणाभिधायित्वमयुक्तमित्यर्थः । एवं परोक्तप्रयोजकाभ्युपगमेन तत्साध्यप्रयोज्यं गुणमात्रपर्यन्तत्वं दूषितम् । अथ तदुक्तं प्रयोजकं दूषयति उपात्तद्रव्यकेति । तत्र हेतुमाह पटश्शुक्ल इत्यादिविष्वति । गुणमात्रपर्यन्तत्वे गुणिपर्यन्तत्वेऽपि साधारणमुपात्तद्रव्यकवाक्यस्थगुणवाचित्वं गुणमात्रपर्यन्ततायाः प्रयोजकं न भवतीत्यर्थः । ननु न तस्य प्रयोजकत्वहानिः, अपवादेन हि क्वचित् गुण्यभिधानमित्यत्राह पटस्येति । असमानविभक्तिनिर्देशः प्रयोजक इत्यर्थः । असमानविभक्तिनिर्देशः- असमानाया विभक्तेर्निदेशः । न समानविभक्तिनिर्देशाभावः; श्वेतो यातीत्यादिष्वपि गुणमात्रपर्यन्तत्वप्रसङ्गात् । व्यभिचारिणः प्रयोजकत्वकल्पनं व्यभिचारस्थले तदपवादकल्पनं चायुक्तम्; अव्यभिचारिप्रयोजकसद्भावादित्यभिप्रायः ॥ गुणमात्रपर्यन्तत्वे, नेदमपि प्रयोजकमसाधारणम्, पटस्य शुक्लो भाग इत्यसमानविभक्तिनिर्देशेऽपि गुणिपयर्न्तत्वादिति चेत् तत्राह तत्रैव पटस्येति । अयमर्थः- पटशब्देन असमानविभक्तिनिर्देशेऽपि शुक्लशब्दस्य विशष्यवाचिभागशब्देनासमान विभक्ति निर्देशाभावात् न तस्य गुणमात्र पर्यन्तत्वे प्रयोजकत्व भङ्गः, यथा प्रत्वत्पक्षे गुणमात्रपरत्वापवादकाभिमत भागशब्दसामानाधिकरण्यात् न तस्य धर्मिपर्यन्तरत्वात् प्रयोजकत्वहानिरिति । किञ्च न केवलमुपात्तद्रव्यकवाक्यस्थताया व्यभिचार एव; कल्पनागौरवमप्यस्ति परमते । “श्वेतमालभेत” इत्यादिषु गुणवाचिपदस्य गुणिपर्यन्तत्वमुक्तम् । पटस्य शुक्ल इत्यादिषु तदपवादकत्वेन उपात्तद्रव्यकवाक्यस्थत्वमभ्युपेतम् । तस्याप्यपवादकत्वेन पटः शुक्ल इत्यादिषु सामानाधिकरण्यमुक्तमिति प्रयोजकत्रयकल्पनाऽस्ति । अस्मत्पक्षे तु “श्वेतमालभेत, “पटः शुक्लः” इत्यादिप्रयोगेषु अपृथक्सिद्धधर्मवाचित्वादेव गुणिपर्यन्तत्वं सिद्धम्; पटस्य शुक्ल इत्यत्र असमान विभक्तिनिर्देशकृतं गुणपर्यन्तत्वमिति प्रयोजकद्वयमेवेति । इदमर्थसिद्धमिति न कल्पनागौरवंकण्ठोक्तम् ।

एवं परस्य पूर्वपक्षसिद्धान्तानुगतमरुणयेति पदस्य गुणमात्रपरत्वं निरस्तम्; अथ पूर्वपक्षासाधारणा र्थस्य स्वसिद्धान्तयुकत्या परिहृतत्वं वक्तुमाह यत्पुनरिति । एकहायन्यवरुद्धतया एकहायन्या निराकाङ्क्षत्वात् । विभागे साकाङ्क्षत्वे सत्येव ह्येकवाक्यत्वम्; इह तदभावान्न क्रयान्वय इत्यर्थः । तस्य परिहृतत्वं दर्शयति तदपीति । नीलं शुक्लमित्यादिव्यावृत्त्यर्थं विरोधिगुणरहितशब्दप्रयोगः । गुणपदस्यैव गुणिपर्यन्तत्वेन गुणविशिष्टमेकं करणमिति अरुणिम्नो द्रव्यद्वारा क्रयान्वयात् क्रयान्वयासंभवोऽनुपपन्न इत्यर्थः । राद्धान्तासाधारणमर्थं दूषयति राद्धान्ते चेति । “संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते” इति न्यायेन वाक्यैकत्वे कथञ्चित् संभवति वाक्यभेदाश्रयणायोगात् , “गुणे द्रव्यव्यपेक्षे च द्रव्ये च गुणकाङ्क्षिणि” इति न्यायेन द्रव्यगुणयोः परस्परापेक्षत्वात् नष्टाश्वदग्धरथन्यायेनार्थादन्वय इति तद्राद्धरतः । तदयुक्तम् शाब्दान्वयसिद्धेरित्यर्थः । स्वोक्ताधिकरणार्थमुपसंहरति अतो यथोक्त एवार्थ इति ।

किञ्च “गुणे शुक्लादयः पुंसि” इति गुणपर्यन्तत्वे पुल्ँलिङ्गतायाः प्राप्तत्वादरुणयेति स्त्र्यन्तपदस्य गुणमात्रपरत्वं दुर्वचम् । किञ्च पूर्वपक्षश्चात्यन्ताभासः । भिन्नवाक्यमिति हि पूर्वः पक्षः । तथा सति अरुणयेति पदं नोपात्तद्रव्यकवाक्यस्थं भवति । उपात्तद्रव्यकवाक्यस्थत्वे सिद्धे हि गुणमात्रपर्यन्तत्वसिद्धिरिति ॥ वाक्यभेदेपि “अरुणयैकहायन्या” इति प्रत्यासत्त्यतिशयादेकवाक्यतुल्यतया उपात्तद्रव्यकवाक्यस्थत्ववमिति चेत् संनिधिविशेषादेकवाक्यस्थत्वफलभूतगुणमात्रपर्यन्तत्वसिद्धिश्चेत्, तत एव एकवाक्यस्थताफलभूतैकहायन्यन्वयनियमोऽपि स्यादिति वाक्यभेदहेतुकस्य पूर्वपक्षस्यानुदय एव स्यादिति । राद्धान्तोऽपि दुस्स्थः; एकहायन्या आरुण्येन च क्रयः साध्य इत्येकक्रियायाः करणद्वयसाकाङ्क्षत्वकल्पकस्य चशब्दस्य द्वन्द्वसामासस्य चाश्रवणात् । अत इमौ पूर्वपक्षराद्धान्तौ, अतिदुस्स्थतया, सूत्रकाराभिमताविति वक्तुमयुक्तम् । अतोऽस्याधिकरणस्य यथोक्तावेव पूर्वपक्षराद्धान्तौ सूत्रकाराभिमौ ॥

एवमस्तु; ततः किं प्रस्तुतसामानाधिकरण्यस्येत्यत्राह तस्मादिति । तस्मात् सामानाधिकरण्यस्य अनेकविशेषणविशिष्टैकार्थपरत्वस्य लोकवेदसिद्धत्वात् । ईदृशं सामानाधिकरण्यं परपक्षे न संभवति, पदद्वयावगतगुणहानादित्याह तत्त्विति । जीवब्रह्मभेदमनभ्युपगच्छतो न संभवतीति प्रतिज्ञाया उपपादनार्थमनाद्यविद्येत्यादिकम् अशेषहेयप्रत्यनीकेत्यादिकं च विशेषणमुभयत्र प्रवृत्तिनिमित्तफलतयोक्तम् ।

कर्मवश्यो निग्राह्योऽनुग्राह्यश्च जीवः निग्राहकोऽनुग्राहकश्च परात्मा भवितुं नार्हतीत्येषां विशेषणानामभिप्रायः । मुक्तिदशायामैक्यशङ्कलव्युदासार्थं शुद्धयशुद्धयुभयावस्थादित्युक्तम् । न हि निग्रहदशायां निग्रहकर्तुर्नरपतेरन्यः पुरुषोऽनुग्रहदशायामनुग्राह्योऽयमनुग्रहकृता तेन नृपेणाभिन्नो भवतीति भावः । स्वेतरेवैलक्षण्यं तृणादेरप्यस्तीति तद्वयावृत्त्यर्थमुभयलिङ्गत्वेन वैषम्यमुक्तम् अशेषेत्यादिना । निर्विशेषवादिना इत्येतावता पर्याष्तत्वेऽपि स्वपक्षमनभ्युपगच्छतो दूषणवचनं कुदृष्टिपक्षत्रयेऽपि दूषणसाम्यज्ञापनार्थम् ॥ तच्छब्दावगतविशेषणाभ्युपगमवत् त्वंशब्दावगतविशेषणमभ्युपगन्तव्यम्; तथा सति ब्रह्मणो दुःखित्वादिप्रसङ्ग इति शङ्कते अभ्युपगच्छतोऽपीत्यादिना । परिहरति नैतदिति । कुत इत्यत्राह त्वमिति । एवेति । तत्पदप्रतिपन्नस्य जीवविलक्षणस्यैवेति भावः । जीववाचित्वेन व्युत्पन्नस्य पदस्य तदन्तर्यामिपरत्वं लाक्षणिकम्; तत् कथं परस्यैवाभिधानादित्युक्तमित्यत्राह एतदुक्तमिति । द्वारद्वारिभावविपर्ययशङ्काव्युदासार्थोऽयमारम्भः । वेदव्युत्पतिसिद्धं सर्वशब्दानां परमात्मवाचित्वमप्युपपादयति सच्छब्देत्यादिना । सामानाधिकरण्यबलात् तत्त्वम्पदावगविशेषाः स्वीकार्याः । ब्रह्मणो निर्दोषत्वमङ्गलास्पदत्वादि श्रुत्यन्तरसिद्धश्च ।

अतस्तदविरोधायान्तर्यामिपरत्वं युक्तमिति तत्त्वम्पदसामानाधिकरण्यमुख्यत्वनिर्दोषत्वश्रुत्यन्यथानुपपत्त्यभिप्रा येण निरस्तनिखिलेत्यादिविशेषणमुक्तम् । सच्छब्दाभिहितमिति कारणवस्तुवाचिसच्छब्दः कारणत्वानुगुणगुणान्वितवस्तुपर इति भावः । बहु स्यामितीति । यथा “दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत” इत्यत्र लिङ्वाच्येन ग्राहकेण परमापूर्वेण संनिधिसमाम्नातेषु पदार्थेष्वविशेषेण स्वशेषतया गृहीतेषु, तत्र प्रोक्षणावधातगोत्वादेः परमापूर्वं प्रति शेषत्वं व्रीहिगवादिद्वारकम्, यागादेस्तु तच्छेषत्वमद्वारकं च कैश्चिन्निश्चीयते तथा, बहु स्यामिति ग्राहकग्रहणेन तेजःप्रभृतिसर्वनामरूपेषु सामान्येन परमात्मीयतयाऽवगतेषु तत्रानुप्रवेशपूर्वकनामरूपव्याकरणश्रुत्यादिभिः सद्वारकमध्यवसीयत इत्यनुसन्धेयम् । यथा उपबृंहणेषु “गुणवान्”, “तमेवङ्गुणसंपन्नम्” इत्यविशेषोक्तेषु भगवद्गुणेषु “समः समविभक्ताङ्गः स्निग्धवर्णः” इत्युक्तानां स्निग्धवर्णत्वादीनां “धर्मज्ञस्सत्यसन्धश्च” इत्युक्तानां सत्यसन्धत्वादीनाञ्च गुणानां दिव्यविग्रहद्वारकत्वमद्वारकत्वञ्च दृश्यते तथेहापि ईश्वरशरीरभूतचिदचिद्द्वारकोऽद्वारकश्च गुणान्वयो यताश्रुति स्वीकार्य इति भावः । बहु स्यामिति । बहुनामरूपभाक्भवेयमित्यर्थः । तेजोवन्नप्रमुखमिति । प्रमुखशब्देन तत्त्वान्तरसृष्टिर्विवक्षिता । देवादिविचित्रसंस्थानसंस्थित इति च वक्ष्यमाणचिदचिदंशविभागार्थं जगदाकारकथनम्; न तु जीवानुप्रवेशपूर्वावस्थाकथनम् । परमात्मन एव कृत्स्नजगच्छरीरित्वं चेत् कथं जीवात्मनः शरीरित्वमिति शङ्का अपनोद्यते चेतनमिति शब्देन । चेतनत्वं शरीरित्वे प्रयोजकमित्यर्थः । चेतनमित्यनेन विज्ञानञ्चाविज्ञानं चेत्यत्र विज्ञानशब्दस्य ज्ञातृवाचित्वं दर्शितम् । जीववगर्शब्देन “विज्ञानम्”, “जीवेन” इति चैकवचनम्, “नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्” इत्यादिभिरैकार्थ्यात् ;जाताविति व्याख्यातं भवति । “अनेन जीवेन” इत्यत्रानेनेति निर्देशस्याभिप्रायविवरणं स्वकर्मानुगुणेष्विति । जीवविशिष्टपरमात्मविशेषणेदंशब्दस्य जीवद्वारकवैचित्र्यपरत्वात् । जीववैचित्र्यस्य च कर्मवैचित्र्याधीनत्वात् । जीवकर्तृक प्रवेशव्यावृत्त्यर्थं स्वेच्छयैवेत्युक्तम् । पारतन्त्र्यं स्वातन्त्र्यञ्चानुप्रवेशहेतुवैषम्यमित्यर्थः । एवम्भूतेषु द्वारद्वारिभावेन व्यवस्थितेषु चिदचिदात्मकेष्वित्यर्थः । स्वपर्यन्तेषु देवाद्याकरेषु सङ्घातेषु तत्तद्देवाद्यवस्थाः तत्तद्वाचिशब्दांश्चाकरोदित्यर्थः । “नामरूपे व्याकरोत्” इत्युक्ते नामरूपव्याकरणस्य परमात्मपर्यन्तत्वस्यास्फुटत्वात् तत् विशदयति एवमिति । पूर्वं ल्यबन्तनिर्दिष्टानां क्रियाणां क्रमविवक्षाराहित्यं चानेन प्रदर्श्यते । एवंरूपसङ्घातस्य चिदचिदीश्वरात्मकस्य सङ्घातस्येत्यर्थः । एवं स्वरूपसंघातस्येति पाठे अयमर्थःस्वं (च?) रूपं च स्वरूपे; तत्संघातः (स्वम्, स्वीयं रूपञ्च स्वरूपम् । तस्य सङ्घातः) स्वशब्देन शरीरी ईश्वर उच्यते; रूपशब्देन चिदचिद्वस्तुनी । शरीरिशरीररूपसङ्घातस्येत्यर्थः । वस्तुत्वम् देवादिवस्तुत्वम् । जीवेनात्मनेत्यत्र जीववैलक्षण्यस्यास्पष्टत्वात् आत्मशब्दस्यानेकार्थसाधारण्याच्च तत् विवृण्वन् स्वपरपक्षसाधारणमन्वयार्थं तावदाह अनेनेति । मयेत्यात्मशब्दव्याख्यानम् । आत्मशब्दस्यास्मद्वाचित्वे सति हि ब्रह्मात्मकत्वं दर्शितं भवति । स्वरूपैक्य्शङ्कां व्युदस्यति ब्रह्मात्मकत्वं चेति । इदं सवर्मिति निर्दिष्टं चेतनाचेतनवस्तुद्वयमिति । अत्र सर्वशब्दस्यासङ्कोचोऽभिप्रेतः । “तदनुप्रविश्य सच्च

त्यच्चाभवत्…विज्ञानञ्चाविज्ञानञ्च” इत्यनन्तरवाक्येन सर्वशब्दस्य स्वतःप्राप्तमसङ्कुचितत्वं स्थापितमित्याह इदं सर्वमिति । “अनुप्रविश्य नामरूपे व्याकरवाणि” इत्यत्र नामरूपव्याकरणस्यानुप्रवेशपूर्वकत्वं गम्यते; “तत् सृष्ट्वा तदेवानुप्राविशत्” इत्यनुप्रवेशस्य सृष्टिपूर्वकत्वं गम्यते; तस्मान्नात्र पौवर्ापर्यविवक्षा; समानकर्तृकत्वमेवात्र विवक्षितम् । “तस्य त्वष्टा विदधदूरूपमेति” इति वाक्ये सृष्टयनुप्रनुवेशयोः समानकालीनत्वगमात् । तस्मात् भाष्येऽप्यनुप्रविश्येति ल्वबन्तनिर्देशोऽनुप्रवेशसृष्टयोर्विविच्य ज्ञापनार्थ इत्यवगन्तव्यम् । सृष्ट्वाऽनुप्राविशदिति स्थित्यर्थानुप्रवेशो वा । एवं नामरूपव्याकरणप्रकार उक्तः । ततः

किं प्रस्तुतस्येत्यत्राह अत एवमिति । अतः उदाहृतश्रुतिवाक्यात् । एवम् परमात्मपर्यन्तनामरूपव्याकरणप्रतिपादनात् ॥

सर्वशब्दानं परमात्मपर्यन्तत्वे मानं दर्शितम् । देहवाचिशब्देष्वाकृतिनयसञ्चारणेन परमात्मपर्यन्तत्वमुपपादयिष्यन् शरीरत्वाक्षेपकं वाक्यं दर्शयति किञ्चेति । ततः किमित्यत्राह एवञ्चेति । न केवलमात्मशब्देन शरीरत्वं गम्यम्, अपि तु शरीरत्वं शरीरलक्षणेन कण्ठोक्तं चेत्याह तथा च श्रुत्यन्तराणीति । “अन्तः प्रविष्टः शास्ता” इति सर्वात्मशब्दविवरणम् । विशेषणद्वयेन नृपनभोव्यावृत्तिः । भगवतो नियन्तृत्वकथनात् तदेकनियाम्यत्वं शरीरलक्षणमुक्तं भवति । जगत् परमात्मशरीरमस्तु; ततः किं प्रस्तुतस्य सामानाधिकरण्यस्य । शरीरात्मभावो हि भेदरूपतया सामानाधिकरण्यस्य विरोधीत्यत्राह अतश्चेतनवाचिन इति । अतः चिदचिदात्मकजगतः परमात्मशरीरत्वात् । शरीरभूतचेतनवाचिपदानां तच्छरीरिपरमात्मवाचित्वं कथमिति शङ्कायां शरीरवाचिपदानां शरीरिपर्यन्ताभिधायित्वदर्शनादित्याह यथेति । शरीरिपर्यन्तं वैदिकप्रयोगं दर्शयति चत्वार इति । देवशब्दस्य शरीरिपर्यन्तत्वं स्पष्टयति देवा भवन्तीति । देवत्वं गच्छन्तीत्युक्तम्; न तु देवं गच्छन्तीति । देवशब्दस्य शरीरमात्रपरत्वे शरीरत्वं गच्छन्तीत्युक्तं स्यात् । ततश्च देहात्मैक्यमुक्तं स्यात् । अतः शरीरित्वं गच्छन्तीत्यभ्युपगन्तव्यम् । अतो भावप्रत्ययान्तत्वं प्रकृतिभूतदेवशब्दस्य शरीरिपर्यन्तत्वज्ञापकमित्यर्थः । शरीरवाचिपदानं शरीरिपर्यन्तबोधकत्वमपि लाक्षणिकमित्यत्राह शरीरस्येति । शरीरवाचिनां प्रकारिपर्यन्तत्वं जातिगुणवाचिपदानामिव आकृत्यधिकरणन्यायसिद्धमित्यर्थः । जातिगुणवाचिनां द्रव्यपर्यन्तवाचित्वं कथमित्यपेक्षायामाकृत्यधिकरणन्यायं विवक्षुः तदर्थं प्रथमं प्रकारप्रकारिणौ विविच्य दर्शयति प्रकारो हि नामेति । तद्वाचिशब्दस्य प्रकारिपर्यन्तत्वमुपपादयति तस्येति । तस्य तद्वस्त्वपेक्षत्वेन प्रकारस्य प्रकार्यपेक्षस्वरूपस्थितित्वेन, तत्प्रतीतेः प्रकारस्य यथावस्थितस्वरूपप्रतीतेः, तदपेक्षत्वात् प्रकारिसापेक्षत्वात्, तस्मिन्नेन पर्यवसानं युक्तमिति, प्रकारप्रतीतेः प्रकारिण्येव पर्यवसानं युक्तमिति, प्रकारवाचिशब्दः प्रकारिणि पर्यवस्यतीत्यर्थः । “शब्देशक्तेर्विशेषणमात्रविषयत्वेऽप्यर्थसामर्थ्याद्विशेष्यांशबोधनम् । अतोऽर्थसामर्थ्यसचिवा शब्दशक्तिर्विशिष्टार्थबोधसामग्री । तच्च बोधनं मुख्यकोटिनिविष्टम् । यथा संस्कारसचिवेन्द्रियजन्यमपि प्रत्यभिज्ञानमिन्द्रियप्रसूतत्वात् प्रत्यक्षमेव, न स्मृतिर्भवति तथात्र मुख्यत्वम् । अतः शब्दशक्तिः प्रवृत्तिनिमित्तमात्रे पर्यवस्यति, विशेष्यबोधनमर्थसामर्थ्यात्” इति केचिदाहुः । तदयुक्तम्; शब्दशक्तेः विशेष्यपर्यन्तत्वाभावे निष्कर्षकशब्देऽप्यर्थसामर्थ्याद्विशेष्यपर्यन्तधीप्रसङ्गात् । रूपग्रहणे नयनशक्तिः, रूपिज्ञानमर्थसामर्थ्यजन्यं (न्यमिति?) स्यात् । तदभ्युपगमे गन्धशब्दादिग्रहणे सति अर्थसामर्थ्यात् पृथिवीगगनादिप्रतिपत्तिश्च स्यात् । न च तथा प्रतीतिरस्ति ॥ जात्यादिशब्दशक्तिर्जात्यादिस्वरूपमात्रविषया, गवादिशब्दशक्तिर्द्रव्यपरतन्त्रजात्यादिविषयेति निष्कर्षकानिःकर्षकशब्दविभाग इति चेत् तर्हि शब्दशक्तेः प्रकारिविषयत्वमभ्युपगतं स्यात् । धर्मिपरतन्त्ररूपतावगतेर्धमिर्प्रतिपत्तिसापेक्षत्वात्; शब्दशक्तेस्तत्प्रतिपविहेतुत्वाच्च । किञ्च “वचसां वाच्यमुत्तमम्”, “नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती” इत्यादिवचनस्वारस्यं च शब्दशक्तेरेव विशेष्यपर्यन्तत्वे सिध्यति । ततो विशेष्यपर्यन्ता शब्दशक्तिरित्यत्र तात्पर्यम् । एवं न्यायशिक्षा कृता । इत्थं प्रमाणोपपत्तिसिद्धत्वात् सर्वशब्दानां परमात्मैव वाच्य इति परमात्मवाचितत्पदेन त्वंपदसामानाधिकरण्यं मुख्यवृत्तमित्याह अत एवेति । पर्यवस्यन्तः । पूर्वं क्वचिद्व्यापृतस्य तत्रानुपरम्य तदंन्वयिनि अन्यत्र व्यापारः पर्यवसानमिह विवक्षितम्; न तु व्यापरोपरमः । व्यापारोपरमवाचित्वे सति अपर्यवस्यन्त इति पदच्छेदः । यद्वा पर्यवस्यन्तः पर्यवस्थांतु प्रवृवा इत्यर्थः ।

परमात्मप्रकारत्वाच्चेत्यन्तेन पूर्वोक्तन्यायः सञ्चारितः नामरूपव्याकरणश्रुतिः प्रमाणत्वेन पूर्वोदाहृता

अत्राभिप्रेता ॥ विशेषणवाचिशब्दो विशेष्यपर्यन्तोऽस्तु, न तु विशेषणवाचिशब्दस्य परमविशेष्यवाचिशब्देन सामानाधिकरण्यं दृष्टमिति चेत् उच्यते । यथा नैल्यगुणगतावान्तरजातिवाचिनीलशब्दो नैल्यगुणद्वारा तद्वि शिष्टे पर्यवसितः उत्पलशब्देन समानाधिकरणो दृश्यते, तथा गवादिशब्दा गोत्वादिजातिवाचिनस्तद्विशेष्यपिण्डद्वारा तद्विशिष्टचेतने पर्यवसिताः खण्डादिशब्दैः समानाधिकरणा दृश्यन्ते तद्वत् । उक्तं प्रयोजकमतिव्याप्त्या दूषयन् चोदयति नन्विति । परिहरति नैवमिति । प्रयोगदर्शनमविशिष्टमित्यभिप्रायेण द्रव्यं वेत्युक्तम् । सामानाधिकरण्ये मत्वर्थीयप्रत्ययानपेक्षे इति भावः । हेतुमाह अन्योन्यस्मिन्निति । व्यभिचारात् । साध्यस्य सामानाधिकरण्यस्य जातिवाचिमात्रं गुणवाचिमात्रं चातिलङ्घय वृत्तेरित्यर्थः । जातिर्वा गुणो वा मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्ये प्रयोजकमिति किमिति नाभ्युपेतम्? ॥ मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्यस्य जातिगुणवाचिशब्दयोरविशेषेण प्रयोगदर्शनादिति चेत् तर्हि शरीरवाचिशब्दानामपि मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्येन प्रयोगदर्शनात् सर्वप्रयोगविषयानुयायि प्रयोजकं वाच्यमिति भावः । जातिगुणयोरन्यतरत्वञ्च अव्याप्तमित्यर्थः । इदमव्याप्तम्; प्रकारत्वञ्चातिव्याप्तम् तत् किं प्रयोजकमित्यत्राह यस्येति । तदपृथक्सिद्धिस्थितिप्रतीतिभिरिति । सिद्धिः सत्ता, प्रमाणसंबन्धयोग्यत्वरूपा । स्थितिः- तदनुवृत्तिः । अपृथक्शब्दः सिध्द्यादिसाधारणः । प्रतीतिशब्देनापृथक्प्रतीतेः स्वतः प्राप्तत्वं विवक्षितम् । प्रकारतैकस्वभाववस्तुवाचिशब्दत्वं मत्वर्थीयप्रत्ययनिरपेक्षसामानाधिकरण्ये प्रयोजकमित्यर्थः । निष्कर्षकशब्दान्यत्वे सतीति विशेष्टव्यम् । मत्वर्थीयप्रत्ययसापेक्षसामानाधिकरण्ये हेतुं पक्षे तदभावज्ञापनाय दर्शयति यत्र पुनरिति । इति निरवद्यमिति । मत्वर्थीयप्रत्ययसापेक्षदण्डकुण्डलादिव्यावृत्तं मत्वर्थीयप्रत्ययनिरपेक्षसर्वप्रयोगविषयानुयायिप्रयोजकं सिद्धमिति नाव्याप्त्यादिदोष इत्यर्थ। । इति निरवद्यमित्यनेन सहोपलम्भनियमादेः प्रयोजकत्वशङ्कापरिहारादिः प्रथमसूत्रोक्तोऽभिप्रेतः । परिहृतचोद्येन शिक्षितेन न्यायेन परमसाध्यसिद्धिमाह तदेवमिति । तत् चोद्यस्य परिहृतत्वात् । एवम्- पूर्वं शिक्षितप्रकारेण । “ऐतदात्म्यमिदं सर्वम्” इति पूर्वमेव वैयधिकरण्येन ब्रह्मात्मकत्वं सर्वस्य विहितम् । तस्य सामानाधिकरण्येन जीवविशेषे उपसंहारः । यथा, “स त आत्मान्तर्याम्यमृतः” इति जीवविशेषे कृत्स्नस्य ब्रह्मशरीरत्वं वैयधिकरण्येनोपसंहृतम्- तद्विदित्यर्थः । अनेन उद्देश्योपादेयविभागनिबन्धनचोद्यपरिहारोऽभिप्रेतः । त्वम्पदप्रतिपन्नदोषभाकत्वप्रसङ्गस्य परिहृतत्वं दर्शयति- यद्वा अपुरुषार्थस्य ब्रह्मणि अस्पर्शाय हि शरीरशरीरि भाव उक्तः । तथापि तत्संसर्गात् तत्प्रसङ्ग इत्यत्राह एवञ्च सतीति । जीवशरीरगतधर्माः जीवमिव, जीवधर्माः परमात्मानं न स्पृशन्तीत्यर्थः । पूर्वं यानि दूषणानि परमते स्वोक्तानि, तानि स्वपक्षे नायान्तीत्याह अत इत्या दिना । अतः सामानाधिकरण्यस्य शरीरशरीरिभावनिबन्धनत्वोपपादनात् । अयं हेतुः प्रकरणाविरोधादीनामपि साधारणः । पदद्वयावगतविशेषणापरित्यागेन विशेष्यैक्यात् सामानाधिकरण्यस्य मुख्यत्वसिद्धिः । प्रकरणावि रोध इति । “तदैक्षत”, “ऐतदात्म्यमिदं सर्वम्”, “अनुप्रविश्य नामरूपे व्याकरवाणि”, इत्यादिवाक्याविरोध इत्यर्थः । सर्वश्रुत्यविरोध इति भेदश्रुतिघटकश्रुत्यविरोध उक्तः । अविद्यादिदोषगन्धाभावश्चेति उभयलिङ्गत्वश्रुतिसिद्धार्थविरोधाभाव उक्तः । पूर्वपक्षिणा जीवानतिरेकसाधकतयोक्तस्य जीवसामानाधिकरण्यस्य राद्धान्तानुगुणत्वमाह अत इति । अतः तत्वम्पदयोः प्रवृत्तिनिमित्तस्यावश्याश्रयणीयत्वात् त्वंशब्दावगतधर्माणां ब्रह्मणि साक्षादन्वयविरोधेन जीवद्वाराऽन्वयात् द्वारभूतजीवात् द्वारिणो ब्रह्मणो वैलक्षण्यसाधकं सामानाधिकरण्यमित्यर्थः । उक्तमर्थं परमप्रकृतेन सङ्गभयति इति विज्ञानमयादिति । इति शब्दो हेतौ ॥ पूर्वपक्षे जीवानतिरेकसाधकतयोक्तस्य जीवसामानाधिकरण्यस्य भेदावहत्वादेतदधिकरणसाध्यमानन्दमयस्य जीवादन्यत्वं सुस्थमित्यर्थः ॥

अथ शारीरत्वश्रवणं पूर्वपक्षहेतुमनुवदति यदुक्तमिति । परिहरति तदयुक्तमिति । ननु प्राणमयपर्यायस्थशरीरात्मशब्दो मनोमयपरः, मनोमयपर्यायस्थस्तु विज्ञानमयपरः, तत्तदन्तरसद्भावज्ञापपनपरत्वाच्छारीरात्मशब्दस्य; अतः सर्वत्र शारीरात्मत्वं परमात्मन एवेति कथमवगतमिति पृच्छति कथमिति । प्रतिवक्ति तस्माद्वा इत्यादिना । अन्नमये शारीरात्मत्वकण्ठोकत्यभावात्, प्राणमये “तस्यैष

एव शरीर आत्मा यः पूर्वस्य” इत्युक्तत्वाच्च तस्य वाक्यस्यार्थं विवक्षुः तत्सङ्घटनायाह तस्माद्वा इति । आकाशादिसृष्टेः पश्चाद्धि जीवस्य करणकलेवरसृष्टिः । अतः ततःपूर्वं जीवस्य सृष्टयक्षमत्वादाकाशादिस्रष्टृत्वं जीववैलक्षण्यसाधकम् । तस्य जीवविलक्षणस्याऽऽत्मशब्देनाभिधानादात्मशब्दस्य पुत्रादिवत् सप्रतियोगिकत्वात् अन्नमयादीनां परमात्मशरीरत्वमर्थादवगतमित्यर्थः । शरीरत्वं कण्ठोक्तं चेत्याह यस्य पृथिवीति । अत इति । श्रुत्यन्तरेषु शरीरत्वस्य कण्ठोक्तत्वात् “तस्माद्वा” इत्यादिवाक्ये आत्मशब्दनिर्देशेन अन्नमयादीनां शरीरत्वस्यार्थसिद्धत्वाच्च परमात्मैवान्नमयस्यात्मेत्यवगत इत्यर्थः । एवमात्मशब्दनिर्दिष्टः परमात्मैवान्मयस्यात्मेति “यः पूर्वस्य” इत्युत्तरत्रानुवादस्य पुरोवादनिर्वाहः कृतः । उपादित्सितस्य तस्यैष इति वाक्यस्य प्राणमयपरत्वज्ञापनायाह प्राणमयं प्रकृत्येति । तद्वयाचष्टे पूर्वस्येति । य इति प्रसिद्धवन्निर्देशः श्रुत्यन्तरसिद्धिमेतत्प्रकरणसिद्धिञ्च ज्ञापयतीत्यभिप्रायेण श्रुत्यन्तरसिद्धः परमकारणभूत इति विशेषणद्वयमुक्तम् । उक्तमर्थं मनोमयादावतिदिशति एवमिति । आनन्दमयस्य परमात्मत्वमयुक्तम्, तस्याऽऽत्मान्तरश्रवणादित्यत्राह आनन्दमये त्विति । अनन्यात्मत्वं दर्शयितुम् । “पतिं विश्वस्यात्मेश्वरम्”, “न तस्येशे कश्चन”, “नान्योऽतोऽस्ति द्रष्टा” इत्यादिवत् अयं निर्देश इत्यर्थः । अत्रोपपत्तिजिज्ञासया पृच्छति तत् कथमिति । अनन्यात्मत्वप्रदशर्नार्थत्वं कथमित्यर्थः । परिहरति विज्ञानमयस्यापीति । आनन्दमयं प्रति श्रूयमाणे “यः पूर्वस्य” इति वाक्ये पूर्वशब्दविवरणार्थं विज्ञानमयस्येत्युक्तम् । विज्ञानमयशारीरात्मनः परमात्मत्वे सिद्धे ह्यान्दमयशारीरात्मनः परमात्मत्वसिद्धिरिति शङ्काव्युदासाय विज्ञानमयस्यापीत्युक्तम् ॥ पूर्वोक्तयाप्राणमयादावुक्तया । ततः किमित्यत्राह एवं सतीति । अभ्यासावगतपरमात्मभावस्येति । “आनन्दं ब्रह्मणो विद्वान्” इति पूर्वमभ्यस्तस्याऽऽनन्दस्य ब्रह्मसंबन्धित्वनिर्देशात्, ब्रह्मणश्च “आनन्दो ब्रह्म” इत्यानन्दशब्दवाच्यत्वात्, “आनन्दो ब्रह्मेति व्यजानात्” इत्यानन्दशब्दवाच्यस्थाने “एतमानन्दमयमात्मानमुपसङ्क्रम्य” इत्यानन्दमयशब्दनिर्देशेन आनन्दानन्दमयशब्दयोः पर्यायत्वाच्च आनन्दमयस्य परमात्मभावोऽवगत इत्यभिप्रायः ।

अभ्यासावगतपरमात्मभावत्वं पुच्छब्रह्मवादनिरासयुक्तीनामुपलक्षणतयोक्तम् । “ब्रह्म पुच्छं प्रतिष्ठा” इति पुच्छब्रह्म प्राधान्येन निर्दिष्टं चेत्, “सोऽकामयत” इत्यनन्तरवाक्येऽपि तच्छब्देन पुच्छब्रह्म परामर्शनीयम् । तदयुक्तम्; स इति पुल्लिङ्गनिर्देशात् ॥ “आत्मन आकाशः सम्भूतः” इत्यात्मशब्दाभिप्रायः पुल्ँलिङ्गत्वनिर्देश इति चेन्न; व्यवहितादव्यवहितस्यानन्दमयस्यैव परामर्शनीयत्वात् ॥ “तस्यैष एव शरीर आत्मा” इत्यनन्तरपूर्वोक्तस्यात्मनः पुल्ँलिङ्गनिर्देशेन परामर्श इति चेन्न; तस्यान्नमयादिसर्वपर्यायसाधारणत्वेन एतत्पर्याय(स्य)प्रधानप्रतिपाद्यत्वाभावात् । अतः प्रधानप्रतिपाद्याव्यवहितानन्दमय एव स इति परामृश्यते । अतः कारणभूतः स एव परमात्मेति । एवंविज्ञानमयस्य जीवस्यान्तरतया व्यपदेशात्, अभ्यासावगतपरमात्मभावात्, तदन्तरत्वेनात्मशब्दव्याख्यानपर्यवसानभूमित्वात्, आत्तमशब्दवाच्यस्याऽऽदावेव जगत्कारणत्वेनोक्तत्वात्, अनन्तरकारणवाक्ये “सोऽकामयत” इति पुल्ँलिङ्गनिर्देशात्, पुच्छतया निर्दिष्टब्रह्मणोऽप्यानन्दमयानतिरिक्तत्वात्, वक्ष्यमाणसूत्रस्थहेतुभिश्चाऽ्रनन्दमयः परमात्मेत्यवगतम् । तस्य च परमात्मन आत्मान्तरवत्त्वम्, “आत्मेश्वरम्”, “न तस्येशे कश्चन”, “नान्योऽतोस्ति द्रष्टा” इत्येवमादिश्रुतिविरुद्धमुपपत्तिविरुद्धञ्च ।

आकाशादिसृज्यवर्गपरमकारणत्वादिना शारीरात्मनः परमात्मत्वगतम् । एवमानन्दमयस्य शारीरात्म नश्च परमात्मत्वे सति परमात्मद्वित्वासंभवात् परमात्मन आत्मान्तरवत्त्वव्याघाताच्च, “तस्यैष एव शारीर आत्मा” इत्युक्तिः आत्मेश्वरमित्यादिवत् तस्यानन्यात्मत्वज्ञापनार्थेत्यर्थसामर्थ्यादवगम्यत इत्यर्थः ।

शारीरात्मत्वं परमात्मन एव मुख्यमित्याह एवञ्चेति । निरुपाधिक इति । क्वचित्कदाचित्किञ्चित्प्रति कर्मानुगुणं हि कश्चिदात्मा भवति, अयं तु सर्वेषां सर्वदा सर्वत्राकर्मवश्यः स्वतआत्मेति निरुपाधिक इति भावः । तदेवोपपादयति अत एवेति । अभियुक्तैः- भगवद्वोधायनादिभिः । “संहितमेतच्छारीरकम्” इति वृत्तिकारवचः । सूत्रार्थमुपसंहरति अत इति ॥ 13 ॥

मुखान्तरेणानन्दमयशब्दस्य परमात्मपरतामाक्षिप्य प्रतिवक्ति विकारेत्यादिना सूत्रेण । तत्र पूर्वपक्षमुपन्यस्यति आहेत्यादिना । मयटो विकारवाचित्वमुपपादयति मयड्वैतयोरित्यादिना । विकारार्थत्वस्य

ज्ञापनार्थं मयड्वैतयोरित्युक्तम् । एतयोः “तस्य विकारः”, “अवयवे च प्राण्योषधिवृक्षेभ्यः” इति प्रकृतयोर्विकारावयवयोरिति हि तस्यार्थः । अयमर्थः- “प्राग्दीव्यतोऽण्” इत्यधिकारसूत्रम् । अस्मिन्नर्थद्वयेपि वृद्धसंज्ञानां शरादिगणान्तर्गतानां च मयडेव, नाण्प्रत्यय इत्यपवदति, “नित्यं वृद्धशरादिभ्य” इति सूत्रम् । “वृद्धिर्यस्याचामादिस्तत् वृद्धम्” इति सूत्रेण आनन्दशब्दस्य वृद्धसंज्ञकत्वाद्विकारार्थे मयूटप्रत्ययो विहित इति । सिद्धान्तच्छायया चोदयति नन्विति । स एवायं भविष्यतीति । विकारार्थत्वेऽपि जीवात्मनि विकारासंभवात् विकारपरत्वं त्वन्मतेऽप्यनुपपन्नमिति भावः । अग्न्यप्रायन्यायेन परिहरति नैवमिति । अतः- उपक्रमदर्शनात् ॥ औचित्यात्- उपक्रमप्रतिपन्नस्वीकारौचित्यात् । प्राचुर्यार्थत्वेऽप्यभिमतासिद्धिमाह प्राचुर्येति । जीवादनन्यत्वे हेतुमाह तथा हीति । दुःखमिश्रत्वे हेतुमाह आनन्दस्येति । प्राचुर्यार्थस्वभावात् प्रतियोगिन्यपेक्षिते सुखप्रतिसंबन्धितया साहचर्यप्रसिद्धदुःखगताल्पत्वस्य प्रतियोगित्वमिति भावः । ततः किमित्यत्राह दुःखेति । उभयथाऽपि जीवत्वसिद्धौ किमिति विकारार्थत्वमाद्रियत इत्यत्राह अत इति । अतः- प्राचुर्येऽपि जीवान्यत्वासिद्धेः औचित्यस्याधिकत्वाच्च विकारार्थत्वमेव ग्राह्यमित्यर्थः । प्रयोगप्राचुर्यमाह किञ्चेति । अवयवार्थादपि प्राचुर्यार्थे प्रयोगबाहुल्यात् तद्वयावृत्त्यर्थं प्रतमतरमिति तरपः प्रयोगः । प्रसिद्धमप्ययोग्यंन ग्राह्यमिति शङ्कायां जीवस्य विकारत्वमुपपादयति जीवस्य चेति । तर्ह्यजत्वनित्यत्वादिविरोध इत्यत्राह तस्येति । स्वत आनन्दरूपस्य तस्य दुःखित्वाद्यवस्थायोगो जीवत्वम् । अतः आनन्दविकारो जीवः । आनन्दात्मकस्वरूपापेक्षया नित्यत्वादिवाद इत्यर्थः । शङ्कायाः सूत्रस्थत्वात् अनुभाष्येत्युक्तम् ।

सूत्रमुपादत्ते विकारशब्दान्नेति चेन्न प्राचुर्यादिति । द्वितीयस्य नञो निषेध्यं पूर्वपक्षिमतस्योपपन्नत्वमित्यभप्रायेण नैतद्युक्तमित्युक्तम् । प्रतिज्ञां हेतुपदेन घटयितुमाकाङ्क्षां दर्शयति कुत इति । कस्मिन् कस्य प्राचुर्यमित्यपेक्षायामाह परस्मिन्निति । न केवलं प्रातुर्यरूपार्थसद्भावेनालम्, शब्दशक्तिश्चापेक्षितेति शङ्कायां सूत्राभिप्रेतार्थमाह प्राचुर्यार्थे चेति । मयट्प्रत्ययस्य प्रातुर्यार्थत्वमपि संभवतु, तथाऽपि विकारार्थत्वपरित्यागे को हेतुरित्यत्राह एतदुक्तमिति । अभ्यस्यमानानन्दयोगः उत्तरसूत्रगतानामन्येषामपि हेतूनां प्रदर्शनार्थः । अयोग्यत्वं त्यागहेतुरित्यर्थः । बाधकसद्भावाद्विकारार्थत्वं त्यज्यते चेत्, पूर्वोक्तसाधकसद्भावात् तत् स्वीक्रियतामिति शङ्ककायाम्, परेण विकारार्थत्वस्वीकारसाधकतयोक्तमग्रयप्रायन्यायं प्रयोगप्राचुयर्ं च परिहरति औचित्यादिति । औचित्यम्- प्रकरणौचित्यम् । तत् लिङ्गबाध्यम् । प्रयोगप्रसिद्धिरपि गङ्गापदादिष्वर्थविरोधेन बाधिता । अतः उभयमपि प्रमाणान्तराबाधितत्वे सत्येवार्थसाधकम् । अत्र त्वर्थविरोधान्न साधकमित्यर्थः । अर्थविरोधात्- आनन्दमये जीव

त्वविकारत्वयोः पूर्वोक्तादसंभवादित्यर्थः । प्रकरणरूपमौचित्यमेव नास्तीत्याह किञ्चेति । अर्थात्, मयट्प्रत्ययस्य विकारवाचित्वं प्रकरणविवक्षितमिति शङ्कामपि शमयन् प्राणमयशब्दस्यार्थमाह अत इति । (प्राणवृत्तिमत्तामात्रेण?) प्राणशब्दोऽननरूपवृत्तिमात्रपरः । मयट्प्रत्ययः प्राचुयर्ेण सह संबन्धमभिदधाति । तत्र संबन्धमात्रपरत्वेन प्रथमयोजनायां प्राणनवृत्तिमानित्यर्थः । कृत्स्नमुख्यार्थत्यागादपि मुख्यार्थैकदेशाङ्गीकारो न्यान्य इति भावः । यद्वा प्राणा(प्राणाना?)ख्यवृत्तिविशेषसंबन्धित्वमात्रेण । प्रत्ययस्यानर्थक्यादमुख्यार्थत्वं वरमिति भावः । उचिततमं योजनान्तरमाह प्राणापानादिष्विति ॥

पूर्वपक्षयुकत्यन्तरमनुवदति यदुक्तमिति । आनन्दप्राचुर्यप्रतियोगि तत्समानाश्रयं दुःखाल्पत्वमेव, आश्रयान्तरगतस्यानन्दप्राचुर्यस्याश्रयान्तरगतमानन्दाल्पत्वं न प्रतियोगितामर्हति, स्वाश्रयगतदुःखाल्पत्वस्यैवान्तरङ्गत्वेन ग्राह्यत्वादिति पराभिप्रायः । दूषयति-तदसदिति । प्रमाणान्तरविरुद्धप्रतियोग्यपेक्षत्वं न युक्तम्; अपि तु प्राणान्तरसिद्धप्रमाणान्तराविरुद्धप्रतियोग्यपेक्षत्वमेव युक्तमिति परिहर्तुं प्रचुरशब्दस्यार्थान्तरसद्भावव्यावृत्त्यर्थमाह तत्प्रचुरत्वं हीति । ततः किमित्यत्राह तच्चेति । तर्हि व्यवच्छेद्याभावे प्रत्ययवैयथ्यर्मित्यत्राह अपि त्विति । यदि प्राचुर्यवाचिमयूदप्रत्ययः स्वयं नार्थान्तरसद्भावे प्रमाणम्, तर्हि तत्सद्भावः केनावगम्यत इत्यत्राह इतरेति । ततः किमत्यपेक्षायां पराभिमतप्रतियोग्यभावो ब्रह्मणि प्रमाणसिद्ध इत्याह इह चेति । तर्हि ब्रह्मणि

प्रमाणविरुद्धप्रतियोगिदुःखान्वयद्योतको मयर्डर्थंस्त्यज्यताम्; इतरथा तस्यानन्दप्रातुर्यस्य प्रतियोगि किमित्यत्राह तत्रैतावदिति । प्रमाणान्तरसिद्धार्थान्तरप्रतियोगिकं प्रातुर्यमभिदधतो मयूदप्रत्ययस्य स्वयमर्थान्तरसाधकत्वाभावात् ब्रह्मणि च दुःखसंबन्धस्य प्रमाणबाधितत्वात् जीवानन्दाल्पत्वस्य लोकसिद्धत्वाच्च ब्रह्मानन्दप्राचुर्यप्रतियोगि जीवानन्दाल्पत्वमिति अर्थात्सिद्धमित्यर्थः । जीवानन्दाल्पत्वस्य प्रतियोगित्वं न केवलमर्थसिद्धम्, अपि तु कण्ठोक्तं चेत्याह उच्यते चेति । अयमर्थः- यदि सजातीयाल्पत्वं समानाश्रयं प्रतियोगि तत् व्याहतम् । यदि विजातीयं समानाश्रयम्, तत् प्रमाणान्तराधीनसद्भावासद्भावम् । अन्याश्रयमपि सजातीयं विजातीयं वा प्रतियोगि मानान्तरावसेयम् । तत्र च- यथा तेजःप्रचरो गभस्तिमानित्युक्ते तेजःप्राचुर्यस्य चन्द्रादिगतं सजातीयतेजोमान्द्यं प्रतियोगि; न तु गभस्तिमद्गततिमिराल्पत्वादि । तद्धि प्रमाणबाधितम्; इतरत् प्रमाणसिद्धम् । तारतम्यवाचिनः शब्दस्य सजातीयप्रतियोगिज्ञापनपरत्वं स्वारसिकम् । बलवत्तर इत्युक्ते पुरुषान्तरबलं हि प्रतियोगितया प्रतीयते; न तु स्वगतं विजातीयं ज्ञानम् । अतोऽन्तरङ्गत्वं विफलम्- एवं ब्रह्मणि समानाश्रयमानन्दविजीायदुःखाल्पत्वरूपं प्रतियोगि श्रुतिनिषिद्धम्; अन्याश्रयं सजातीयाल्पत्वलक्षणं प्रतियोगि श्रुत्यैव सिद्धमिति ॥

जीवस्यानन्दविकारत्वमनुवदति यच्चोक्तमिति । आनन्दविकारत्वम् मयड्वाच्यमित्यर्थः । दूषयति तदपीति । स्वरूपान्यथाभावलक्षणविकारर्थत्वमेव मयटो व्युत्पत्तिसिद्धम् । तच्चात्र नास्तीत्यर्थः । ज्ञानानन्दौ जीवस्य स्वरूपञ्चेत् कथं दुःखाज्ञानसंभव इत्यत्राह संसारदशायांत्विति । सूत्रार्थं प्रकृतार्थेन सङ्गमयति अत इति ॥ प्रसिद्धतरमुख्यार्थासंभवे तदनुग्राहकहेत्वननुरोधेन संभवदनतिप्रसिद्धमुख्यार्थानुग्राहकहेतूनामनुरोद्धव्यत्वमस्मिन् प्रकरणे व्युत्पाद्यमिति स्फुयम् ॥ 14 ॥ हेत्वन्तरञ्चाह सूत्रकारः ॥

तद्धेतुव्यपदेशाच्च । पूर्वोक्तमानन्दप्राचुर्यमप्यनेनोपपादितं भवति । अनितरसुकरमोक्षप्रदानक्षमत्वं हि नितरामानन्दहेतुर्भवति । किञ्च घनप्रचुरो हि पुरुषोऽन्यस्मै तदभिप्रेतं धनं ददातीति सूत्रानन्तर्यम् । अस्य सूत्रस्य विषयवाक्यमाह को ह्येवेति । श्रुतेरर्थमाह एष एवेति । अन्यात् प्राण्यादिति भोगापवर्गसुखहेतुत्वमुक्तम् । यद्वा सताहेतुत्वं सुखहेतुवं चोक्तम् । पूर्वोक्त एव सम्यगर्थः । फलितहेतुमाह अतश्चेति । कर्मकर्त्रैक्यं न संभवतीति हेतुः । आनन्दशब्दवाच्यस्य ह्यानन्दयितृत्वमुक्तम्, न त्वानन्दमयस्येत्यत्राह आनन्दमय एवेति ॥ 15 ॥ एवमानन्दमयपदप्रकृतिप्रत्ययार्थविषयं सूत्रश्रयं प्रवृत्तम् । अथानन्दवल्लीम् आदिमध्यान्ततोऽनुसंघाय अर्थं निष्क्रष्दुकामः प्रथमनुपक्रमस्थहेतुमवतारयति इतश्चेति ।

मान्त्रवर्णिकमेव च गीयते ॥ अक्षरार्थमाह सत्यमिति । शाब्द एवार्थः, न तु उच्छब्दः फलित इति ज्ञापयितुं वर्णशब्दः । ततः किमित्यत्राह तत्त्विति । ब्रह्माणस्थपरशब्दप्रत्यभिज्ञापनाय परं ब्रह्मेत्युक्तम् । मान्त्रवर्णिकस्य जीवादन्यत्वं कथमित्यत्राह तथा हीति । प्राप्यत्वमस्तु, ततः किं मान्त्रवणिर्कब्रह्मणो जीवादन्यत्वे इत्यपेक्षायां ब्राह्मणमन्त्रयोर्घटकं वाक्यमाह तदेषाभ्युक्तेति । तत् व्याचष्टे तदिति । तत्पदं ब्रह्मवाचि । अभिमुखीकरणं चेतनधर्म इति तद्वयावृत्त्यर्थमाह प्रतिपाद्यतयेति । एषेति पद्य विशेष्यमाह ॠगिति । उक्तेति कथिते पौरुषेयत्वशङ्का स्यादिति तद्धयुदासार्थमाह अध्येतृभिरिति । किमुक्तं भवतीत्यत्राह ब्राह्मणेति । श्रुतिषु मन्त्राणां प्राबल्यं केचिद्वदन्ति; तद्वयुदासार्थमाह ब्राह्मणोक्तेति । ब्राह्मणोक्तार्थविशदीकरणरूपो मन्त्र इति प्रयोजकम् । सङ्ग्रहेणोक्तस्य विस्तरेण कथनं विस्तृतस्य प्रतिपत्तिसौकयर्ाय सङ्ग्रहेण कथनमपि वैषद्यावहम् । नित्यनिर्दोषत्वाविशेषात् मन्त्रब्राह्मणयोः प्राबल्यदौर्बल्यविभागोऽनुपपन्न इति भावः । एवं मन्त्रवर्णेन जीवब्रह्मभेदसिद्धिं फलितां दशर्यति जीवस्येति । प्राप्तुरस्योपासकात्मस्वरूपस्य, प्राप्तव्यस्य परब्रह्मणश्च कथमैवयमित्यर्थः । मान्त्रवर्णिकं ब्रह्म जीवादन्यदस्तु; अस्यैवानन्दमयत्वं कथमित्यत्राह अनन्तरञ्चेति पूर्वस्मिन् अस्मिन्नपि सूत्रे चशब्दो हेतुसमुच्चये । विकारशब्दादिति सूत्रे स्वतन्त्रहेत्वन्तराभावान्न चशब्दः । तद्धि

“आनन्दमयोऽभ्यासात्” इति सूत्रशेषम् ।

उत्तरसूत्रस्य शङ्कामाह अत्राहेति । अत्र- उपासकप्राप्यभेदेऽभिहिते सतीत्यर्थः । तस्यैवेति । कारणाविद्या आच्छादिका अविद्या, कार्याविद्या विक्षेपिका अविद्या च विवक्षिता समस्तशब्देन । गन्धशब्देनापारमार्थ्यं फलितम्; अपुनःसंबन्धो वाऽभिप्रेतः । शुद्धम्- कर्मतत्फलान्वयरहितम् । निर्विशेषत्वमेवोपपादयति तदेवेति । ज्ञानपदेन निर्विशेषत्वमर्थसिद्धम् । ज्ञानस्य ज्ञानान्तराश्रयत्वाद्ययोगात् । वाङ्मनसनिवृत्तिवचनाच्च निर्विशेषत्वसिद्धिमाह तदेव चेति । तदेव- शुद्धस्वरूपमेव । उपासकप्राप्यभेदोऽवस्थाभेदेनाप्युपपन्न इति न जीवविलक्षणत्वसिद्धिरित्यर्थः ॥ 16 ॥

नेतरोऽनुपपत्तेः ॥ इतरशब्दस्य सप्रतियोगिकत्वात् परमात्मन इत्युक्तम् । अनुपपत्तेरित्यस्मिन् पदे पञ्चम्यर्थं पश्चाद्वक्ष्यन् अनुपपत्तिस्वरूपमाह तथेति । निरुपाधिकं विपश्चित्त्वमिति । कर्मविशेषेन्द्रियाद्यनपेक्षत्वं निरुपाधिकत्वम् । इह चोपाधिरस्ति चेत्, स वक्तव्यः । तदभावादेव तदनुक्तिरिति केवलविपश्चिच्छब्दो निरुपाधिकं विपश्चित्त्वमाहेत्यर्थः । न केवलं निरुपपदत्वात् विपश्चित्त्वस्य निरुपाधिकत्वमर्थसिद्धम्; श्रुतिसिद्धमपीत्याह इदमेवेति । मुक्तस्य निरुपाधिकविपश्चित्त्वं संभवतीति शङ्कायाम् किं भवदभिमतमुक्तस्य विपश्चित्त्वोपपत्तिः, उतास्मदभिमतमुक्तस्येति विकल्पमभिप्रेत्य स्वाभिमतस्य मुक्तस्य तदनुपपत्तिः इदमेवेत्यादिभाष्येणोच्यते । विपश्चिच्छब्दार्थे ज्ञाते हि, जीवे तदनुपपत्तिर्वाच्येत्यत्राह विविधमिति । तर्हि विपश्यच्चिदिति वक्तव्यमित्यत्राह पृषोदरादित्वादिति । “पृषोदरादीनि यथोपदिष्टम्” इति पाणिनिः । पृषच्छब्दावयवतकारलोपवत् यच्छब्दलोपः । पाणिनिवत् आप्ततममुनिभिः कृतनिर्वाहत्वात् ईदृशशब्दानां साधुत्वस्य पाणिन्यभिमतत्वमनेन ज्ञातं भवति । अतो विविधं पश्यच्चेतनत्वं विपश्चित्त्वमित्यर्थः । चिच्छब्दस्य ज्ञानवाचित्वे विविधंपश्यच्छित्त्वमिति बहुव्रीहिः । स्वपक्षे मुक्तस्य निरुपाधिकविपश्चित्त्वायोग उक्तः; अथ पराभिमतमुक्तस्य विपश्चित्त्वायोगमाह निर्विशेषेति । विपश्चि(पश्य?)त्त्व मात्रमेव न संभवतीत्यभिप्रायेण सुतरामित्युक्तम् । न संभवतीतीत्यत्र इतिशब्दः सूत्रस्थपञ्चमीव्याख्यानम् । न केवलं विपश्चिच्छब्दमात्रासङ्गतिः, सर्वप्रमाणविरोधश्चेत्याह न केनापीति । आर्थगुणनिषेधपरस्य सत्यज्ञानादिवाक्यस्य परिहारः प्रथमसूत्रोक्तोऽनुसन्धेयः । “यतो वाच” इत्यस्य वाक्यस्य निर्विशेषपत्वं व्युदस्यति यतो वाच इत्यादिना । यदीत्यनुज्ञा(न)प्रदर्शनम् (नार्थम्) । तर्हि किमवगमयेदित्यपेक्षायाम् न केवलमिष्टाबोधकत्वम्, किंत्वनिष्टबोधकत्वं चेत्यभिप्रयन्नाह अपि त्विति । कथमस्यानिष्टत्वमित्यत्राह तथा च सतीति । मनसोऽप्यगोचरत्वेन सर्वप्रमाणागोचरत्वं सिद्धं कृत्वा प्रमाणान्तरागोचरत्वमप्युजीपव्य तुच्छत्वमापादितम् । किं सर्वधा वाङ्मनसनिवृत्तिरुच्यते, उत इयत्तागोचरवाङ्मनसनिवृत्तिः? । द्वितीयशिरसोऽभ्युपगमो वक्ष्यत इति प्रथमशिरसि तुच्छत्वमुक्तम् । ब्रह्मविदाप्नोति परमिति पूर्वापरवाक्यविरोधात् ब्रह्मणस्तुच्छत्वं व्याहतमित्यत्राह ब्रह्मविदिति । व्याहतार्थं श्रुतिर्न प्रतिपादयतीति चेत् तत् निर्विशेषपरत्वेऽपि तुल्यमित्यभिप्रायेण तत्तद्वाक्यप्रतिपन्नात् गुणानाह विपश्चित्त्वमित्यादिना । “ब्रह्मणा विपश्चिता”, “आकाशः संभूतः”, “रसों वै सः”, “एष ह्येवानन्दयाति”, “सोऽकामयत बहु स्यां प्रजायेय”, “तदनुप्रविश्य”, “अथ सोऽभयं गतो भवति”, “भीषाऽस्माद्वातः पवते”, “स एको मानुष आनन्दः” इत्येतेषां वाक्यानामर्थो विपश्चित्त्वमित्यादिना उक्तः । शतगुणितोत्तरक्रमेणेति । निर्विशेषत्वं विवक्षितं चेत् गुणापकर्षो वाच्यः, गुणप्रकर्षमुक्तवा वाङ्मनसनिवृत्त्यभिधानमानन्त्यविवक्षाकृतमित्यभिप्रायः । अन्यच्चेति आदित्यमण्डलान्तवर्तित्वादिकं विवक्षितम् । एवम्पूर्वापरवाक्यव्यातिपरिहारार्थं स्वरूपमङ्गीक्रियते चेत्, तद्वत् गुणाश्च स्वीकार्या इत्युक्तं भवति । एवं प्रकरणविरोध उक्तः; अथ स्ववाक्यविरोधमाह यतो वाच इति । यच्छब्दनिर्दिष्टमानन्दमित्यत्र “कश्चै(स्यै)ष मौनः” “यतो न वेदाः” इति सनत्सुजातोक्तश्लोकद्वयैकाथ्यर्मनुसन्धेयम् । व्यतिरेकनिर्देशेन- भेदनिर्देशेन; वैयधिकरण्येनेत्यर्थः । यच्छब्देनानन्दनिर्देशः आनन्दशब्देन प्रतिनिर्देशः, ब्रह्मसंबन्धित्वनिर्देशश्च वागविषयत्वे व्याहताः स्युः; विद्वानिति । तद्वेदनाभिधानं मनोगोचरत्वाभावे व्याहतं स्यादित्यर्थः । अनर्थकं वाच्यनन्तर्गतं च स्यादिति । अनर्थकम् व्याहतार्थे स्यात् । व्याहतिपरिहारोऽभिमतश्चेत्, ब्रह्म न शब्दवाच्यमितीदं समुद्रघोषादिवत्

वाक्यमेव न स्यादित्यर्थः । वाक्यत्वे व्याहतिरनिवार्येति भावः । ब्रह्मणोऽशब्दगोचरत्वं (त्वे?) “ब्रह्म न शब्दगोचरः इत्यनेनापि शब्देन व्याहतं स्यादिति चाभिप्रायः ॥ सत्यं ज्ञानमिति स्वरूपस्य सत्यत्वं कण्ठोक्तम्, न गुणानाम्; अतस्तन्निषेध इति चेत् न; तत्र सत्यपदेन ह्यविकारित्वमुक्तम्, न तु मिथ्यात्व्यवावृत्तिः । मिथ्यात्वव्यावृत्तिरुक्ताऽस्तु; तथापि गुणानां च सत्यत्वं दुरपह्रवम्, प्रमाणसिद्धत्वात् । प्रामाणिकत्वं हि सत्यत्वम् । किञ्च गुणानां सत्यत्वं कण्ठोक्तम्, “सत्यकामः सत्यसङ्कल्पः”, “त इमे सत्याः कामाः”, “एतांश्च सत्यान् कामान्” इत्यादिभिः । अतः स्वरूपवत् गुणा अपि स्वीकार्याः; प्रमाणोपपत्तिसाम्यात् । अतो वाङ्मनसनिवृत्तिर्न निर्विशेषत्वनिबन्धना ॥ ननु न शब्देन मुख्यवृत्त्या प्रतिपाद्यते ब्रह्म; अपि तु लक्षणया । अतः यतो वाच इति मुख्यवृत्तिविषयो निषेध इति विषयविभागान्न व्याहतिरिति चेत् न; निवर्तन्त इत्येकस्य वाक्यस्य मुख्यत्वायानेकवाक्यलक्षणाश्रयणायो गात् । “भूयसां स्यात् बलीयस्त्वम् (सधर्मत्वम्?)” इति न्यायादेकवाक्यस्वारस्यभङ्गेन अनेकवाक्यस्वारस्यं ह्युवर्तनीयम् । किञ्च अत्र “न हिंस्यात् सर्वा भूतानि”, “अग्नीषोमीयं पशुमालभेत” इतिवत् विषयविभागेनोभयमुख्यत्वं सिध्यति चेत् तदेव हि युक्तम् । लोके च गामानय बलीवर्दं विनेति (बलीवर्दं नेति?) विषयविभागो मुख्यत्वानुरोधी दृश्यते । अविरुद्धार्थः क इत्यपेक्षायां विषयविभागं दर्शयति अत इति । वाङ्मनसनिवृत्तिरस्ति चेत् कथं वेदनवचनमित्यत्राह एवमिति । इयत्तारहितत्वेन वेदनमुच्यत इत्यर्थः । अनुपपत्तेरिति सौत्रपदस्य

विपश्चिच्छब्दोक्तसर्वज्ञत्वानुपपत्तिरर्थ उक्तः; अथ सर्वशक्तित्वानुपपत्तिमर्थान्तरमाह किञ्चेति । इदं सूत्रं मान्त्रवर्णिकसूत्रोक्तहेत्वन्यथासिद्धिपरिहारपरतया तच्छेषमिति स्वतन्त्रहेतुपरत्वाभावात् चशब्दाप्रयोगः । एवेमनेन सूत्रद्वयेनोपक्रमस्थहेतुरनुसंहितः; अथ मध्यगतं स्फुटतरं हेतुमनुसन्धतेऽनन्तरसूत्रेण । आनन्दमयस्य जीवादन्यत्वं स्ववाक्यैकदेशमयङन्तपदवाच्यनिरतिशयानन्दयोगेन प्रथमसूत्रेणोपपादितम् । अतोऽस्य स्वाक्यस्थहेतुश्चोक्तो भवति ॥17 ॥

भेदव्यपेदशाच्च । यदि जीवात्मस्वरूपं शुद्धावस्थं ब्रह्म, तर्हि अन्नमयादेरिवैकावस्थायां भेदव्यपदेशो न संभवति; तस्मादन्नमयादिभिरिव जीवेनैक्यं ब्रह्मणो न संभवतीत्यर्थः । विज्ञानशब्दस्यान्तःकरणपरत्वानुपपत्त्यादिकं पूर्वोक्तमिहानुसन्धेयम् । अथोपसंहारस्थहेतुमाह ॥ 18 ॥

कामाच्च नानुमानापेक्षा ॥ कैश्चित् प्रधानव्यावृत्तिपरमिदं सूत्रं व्याख्यातम् । तत्पक्षोऽतिदुस्स्थत्वात् नानूद्य दूषितः । पूर्वाधिकरणे अचिद्व्यावृत्तिः कृता । प्रधानत्वशङ्काहेतुश्चास्मिन्ननुवाके नास्ति; अपेक्षाशब्दवैयर्थ्यञ्च स्यादिति । जीवस्येति । अत्यन्तमचिदनपेक्षत्वे स्वरूपपरिणामप्रसङ्गः । देहातिरिक्ताचिदनपेक्षत्वं देवादिसृष्टौ चतुर्मुखादीनामप्यस्ति । अतस्तत्परिहारार्थमाह इह चेति । सङ्कल्पहेतुभूतकरणकलेवरावस्थाचित्संसर्गापेक्षा नास्तीत्यर्थः । देहानपेक्षं सत्यसङ्कल्पत्वकार्यं स्त्रष्टृत्वमाविर्भूतगुणाष्टकस्य मुक्तस्यापि श्रूयत इति शङ्कां परिहरन्, “सोऽकामयत” इति वाक्यादुपरितनहेत्वन्तरमाह ॥19 ॥

अस्मिन्नस्य च तद्योगं शास्ति । कस्मिन् कस्य केन योगं किं शास्तीत्यपेक्षायामक्षरार्थमाह अस्मिन् आनन्दमय इति । अस्मिन्निति विषयसप्तमी । ब्रह्मानुभवरूपानन्दस्य ह्यवच्छेदकं ब्रह्म । शास्तिशब्दार्थः कः, शास्त्रं किम्, एतत्सूत्रार्थस्य हेतुत्वं कथमित्यत्राह रसो वै स इति । “रसो वै स” इति शास्त्रमुक्तम् । उच्यमान इति शास्तिशब्दार्थ उक्तः । हेतुत्वमुपपादयति यल्लाभादिति । हेतु त्वस्य स्फुटतरत्वात् सूत्रे हेतुत्वानिर्देश इत्यभिप्रायेण अनुन्मत्तः को ब्रवीतीत्युक्तम् । मान्त्रवर्णिकसूत्रेऽपि हेतुत्वानिर्देशस्यायमेवाभिप्रायः ॥

कथमानन्दमये जीवस्यानन्दयोगं वदति शास्त्रम्, आनन्दे ह्यानन्दयोगे वदनीति

शङ्कायामानन्दानन्दमयशब्दयोरेकविषयत्वमाह एवमिति । कथमानन्दशब्दस्यानन्दमयवाचित्वमित्यपेक्षायां विज्ञानशब्दनिर्वाहे पूर्वोक्तन्यायमिहातिदिशति यथा विज्ञानेति । अत्र पूर्वोक्तहेतवोऽनुसंधेयाः । स्वरूपस्यानुकूलवेदनीयत्वादानन्दशब्दो धर्मिपरः; धर्मपत्वेऽप्यपर्यवसानाद्धमिर्पर इति भावः । व्यतिरेकनिर्देशं हेतुमाह अत एवेति । अत एव आनन्दानन्दमयशब्दयोरेकविषयत्वेनेत्यर्थः । हेत्वन्तरमाह अत एवेति । स्थानप्रमाणमाह उत्तरे चेति । पूर्वानुवाके एतदनुवाकोर्ध्वभागे च मयडन्तपदनिर्दिष्टानाम् अत्र मयूड्रहितपदनिर्देशप्रकरणे आनन्दशब्देन प्रतिपादनात् आनन्दमय एवानन्दशब्दवाच्य इत्यर्थः । आनन्दशब्दवाच्यस्य परमात्मत्वं हि पराङ्गीकृतम् ।

तद्धेतुव्यपदेशाच्च, अस्मिन्नस्य च तद्योगं शास्ति इति सूत्रयोरियं भिदा पूर्वत्र सामान्येन समस्तसुखहेतुत्वम्; उत्तरत्र मोक्षहेतुत्वञ्चोक्तमिति । तदा “को ह्येवान्वात् कः प्राण्यात्” इत्यत्र अन्यात्प्राण्यादिति पदाभ्यां सत्ताहेतुत्वं सुखहेतुत्वं चोक्तं भवति । यद्वा पूर्वसूत्रमुपायपरम्, एतत्तु उपेय परमिति भिदा; “आनन्दयाति”, “रसो वै सः” इति तादृशत्वप्रतीतेः । तदा अन्यात्प्राण्यादिति पदाभ्यां सांसारिकसुखहेतुत्वं मोक्षहेतुत्वं चोक्तं भवति । अथवा अन्यादिति सत्ताहेतुत्वं प्राण्यादित्यविशेषेण त्रैवर्गिकापवर्गिकसकलसुखहेतुत्वम् ।

अधिकरणार्थमुपसंहरति अत इति । जीवसामानाधिकरण्यं शरीरसंबन्धः शोध्यत्वं विकारश्रवणं प्राप्यत्वानन्त्यादीनामवस्थाभेदेनोपपत्तिः ज्ञानस्वरूपत्ववाङ्मनसनिवृत्त्यभिधानरूपार्थगुणनिषेधश्च आनन्दमयस्य प्रत्यगात्माव्यतिरिक्तत्वे हेतुः । खतस्सिद्धनिरतिशयदशाशिरस्कानन्दाभ्यासः आनन्दयितृत्वं भयाभयहेतुत्वं समस्तप्रशासितृत्वं प्राप्यत्वं निरुपाधिकविपश्चित्त्वं बद्धमुक्तयोरसंभावितमाकाशादिसमस्तजगत्कारणत्वं बद्धदशायामेव विज्ञानमयाज्जीवाद्भेदव्यपदेशः करणकलेवराद्यनपेक्षसत्यसङ्कल्पत्वम् मुक्तानां निरतिशयभोग्यत्वं च सिद्धान्तहेतुः । शरीरशरीरिभावः तस्य निरुपाधिकत्वं प्रसाद्यत्वं प्राचुर्यसंभवः बद्धदशायामेव भेदव्यपदेशस्यावस्थाभेदेन निर्वाहानुपपत्तिः, प्रभाप्रभावन्न्यायेन स्वरूपतो धर्मतश्च ज्ञानत्वोपपत्तिः वाङ्मनसनिवृत्तेरियत्ताराहित्यनिबन्धनत्वं (च?) पूर्वपक्षयुक्तिपरिहारहेतवः ।

षष्ठयाऽन्यत्वमवेदि नैनमवदत् श्लोको नचाज्ञाता ज्ञातस्यास्य तथापि नावयविता तस्यान्य आत्मा श्रुतः ।

शोध्यत्वं च विकारवाचकवचः तद् ब्रह्म पुच्छं भवेत् न त्वानन्दमयः स चान्नमयवत् कोशो कहिः कथ्यते ॥

पुल्ँलिङ्गान्तप्रधानप्रकृतपरवचो रूपणं चाप्यनन्यै। श्लोकाः पुच्छं न चाहुः स्वरसमपि हि न सूत्रमन्योऽन्तरो न ।

षष्ठयादिश्चांशभावात् निरतिशयतया रूपणात् आनुरूप्यात् पर्यायत्वात् अनन्यात्मकवचनतया पुच्छहेतुः

परास्तः ॥

॥ इति पुच्छब्रह्मवादतन्निराससङ्ग्रहः ॥

भास्करीये तु अभ्यासादिति पदस्यानन्दशब्दाभ्यासादित्यर्थ उक्तः । कथमानन्दशब्दाभ्यासस्य परमात्मत्वसाधकत्वमित्यपेक्षायाम् आनन्दशब्दस्य कारणविषयत्वात् निरतिशयानन्दविषयत्वाच्चेति वक्तव्यम् । तत्र हेत्वन्तरसाकाङ्क्षस्य हेतुत्वोक्तेरपि निराकाङ्क्षस्य हेतुत्वपरत्वं युक्तम् । नेतरोऽनुपपत्तेरित्यत्र च संसारिजीवादन्यत्वोपपादनमयुक्तम्, निरतिशयानन्दयोगिनो मान्त्रवर्णिकस्य ब्रह्मणः संसारित्वशङ्काया अभावात् । भेदव्यपदेशाच्चेति सूत्रस्यापि “रसं ह्येवायं लब्ध्वाऽ्रनन्दी भवति” इति लब्धृलब्धव्यभावेन भेदोपपादकत्वमुक्तम् । ततोऽपि विज्ञानमयादन्य इत्यन्यत्वव्यपदेशस्यैव हेतुत्वोक्तिपरत्वमत्यन्तोचितम्; भेदव्यपदेशशब्दस्वारस्यात् । कामाच्चेत्यादिसूत्रं च न प्रधानव्युदासपरम्; अपेक्षाशब्दवैयर्थ्यात्; निरतिशयानन्दयोगिनः प्रधानत्वशङ्काया हेत्वभावात् । तृतीयसूत्रचरमसूत्रगतयोस्तच्छब्दयोरानन्दपरतया एकरूपार्थवाचित्वं युक्तम् । “यदा ह्यैवैष” इत्यादिवाक्यविषयतया निर्वाहे तन्न सिध्यति । वक्ष्यमाणमपि दूषणमिहानुसन्धेयम् ॥

यादवप्रकाशीये च अभ्यासादिति पदस्य ब्रह्मशब्दभ्यासपरत्व(मुक्त?)मयुक्तम्; विज्ञानमयपर्यायेऽपि “ब्रह्म ज्येष्ठमुपासते विज्ञानं ब्रह्म चेद्वेद” इति ब्रह्मशब्दस्य अभ्यस्ततया हेत्वनैकान्त्यात् । तद्धेतुव्यपदोच्चेत्यस्य

प्राचुर्यस्य हेतुव्यपदेशादित्यर्थो न युक्तः, तद्विषयस्य “एष ह्येवानन्दयाति” इति वाक्यस्यानन्दहेतुत्वप्रतिपादकस्य प्राचुर्यहेतुवाचित्वाभावात्; प्रथमप्रकृतस्य साध्यस्य हेत्वन्तरवाचित्वाभावेन च शब्दाननन्वयाच्च । नेतरः, भेदव्यपदेशादित्यनयोरनुपपत्तिः पूर्ववत् । कामाच्चेत्यादिसूत्रे च “अधीहि भगवो ब्रह्म” इति ब्रह्मविषयाया विद्यायाः, “सैषा भार्गवी वारुणी विद्या परमे व्योमन् प्रतिष्ठिता” इति परमव्योमविषयत्वावगमात् परमाकाशस्य चाचेतनस्य प्रधानाविलक्षणत्वात् अचेतनस्य स्वकार्यापेक्षया कारणत्वसंभवाच्च ब्रह्मशब्दवाच्यं प्रधानमित्याशङ्कय निराक्रियत इति यदुक्तम् तदयुक्तम्; परमव्योमप्रतिष्ठितत्वमात्रेण तद्विषयत्वासिद्धेः । न हि ब्राह्मणभूयिष्ठदेशे वेदविद्या प्रतिष्ठितेत्युक्ते तस्यास्तद्देशप्रतिपादकत्वम् ॥ “परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति परमाकाशस्य ब्रह्माधारत्वावगमात् तस्य ब्रह्मत्वशङ्कानिराकरणमस्मिन् सूत्रे क्रियत इत्यप्ययुक्तम् । “मान्त्रवर्णिकमेव च गीयते” इति मन्त्रवर्णं विषयीकुर्वता सूत्रेणैवास्याः शङ्कायाः प्रतिहतौदयत्वात् । नापि सत्यत्वज्ञानत्वत्रिविधपरिच्छेदविरहादयः परमाकाशस्य सामस्त्येन संभवन्ति । अपेक्षाशब्दवैयर्थ्यं च पूर्ववत् । चरमसूत्रमप्येवं व्याख्यातम् अस्मिन् ब्रह्मणि प्रतिबुद्धस्यास्य जीवस्य तद्योगं परमात्मप्राप्तिं दर्शयति “सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता” इति, तथा “यदा ह्येवैष” इत्यादिवाक्यैश्चास्मिन् निष्ठां गतस्यास्य “अथ सोऽभयं गतो भवति” इति ब्रह्मप्राप्तिरुच्यत इति । तदनुपपन्नम्; मन्त्रवर्णोदितायाः परमात्मविदस्तत्प्राप्तेः, मान्त्रवर्णिकमेव च गीयत इति सूत्रेणैव दर्शितत्वात् इह तदुक्तयनपेक्षणात् । “यदा ह्येवैष” इत्यादिवाक्योक्ताभयप्राप्तिहेतुत्वञ्च तद्धेतुव्यपदेशाच्चेति सूत्रेणैव दर्शितमिति इह तदुक्तिरनपेक्षिता । तद्विषयभूतवाक्योक्तमानन्दयितृत्वं हि मोक्षानन्दहेतुत्वम् । मोक्षानन्दश्च संसारभयनिवृत्तिपूर्वकः । तस्मादानन्दयितृत्ववाक्यासन्नतरवाक्योक्तमभयप्राप्तिहेतुत्वं मोक्षप्रदत्वान्तर्भूतमिति न पृथग्घेतुः ॥ आनन्दयातीति वाक्ये आनन्दहेतुत्वमुक्तम् । ब्रह्म प्राप्तस्यैवचानन्दः । अतोऽस्मिन् वाक्ये अभयशब्दवाच्यब्रह्मप्राप्तिरुच्यत इति चेत् न; तस्य ब्रह्मशब्दसामानाधिकरण्याभावात्; “अथ तस्य भयं भवति” इत्युक्तभयाभावप्राप्तेरेव “अथ सोऽभयं गतो भवति” इत्युच्यमानत्वाच्च । अतो भयनिवृत्तिपूर्वकनिरतिशयानन्दहेतुत्वं तद्धेतुव्यपदेशादित्यन्तर्भूतमिति न पृथग्वक्तव्यम् । अतो मोक्षप्रदत्वेऽभिहिते मुक्तप्राप्यत्वकथनं प्राप्तेर्निरतिशयानन्दत्वरूपविशेषकथनं चात्यन्तापेक्षितमिति तदेव वक्तव्यम् । अतः सूत्राणां यथोक्त एवार्थः ॥ इति आनन्दमयाधिकरणम् ॥

अथावान्तरसङ्गतिमाह यद्यपीति । कारणवादिवाक्यानां परमात्मपरत्वं हि निरूप्यते; तत्र कारणवाक्यत्वाभावेऽपि कथमन्तरादित्यविद्याऽत्र निरूप्यत इति चेत् उच्यते, आनन्दमयाधिकरणशेषतयेति ॥ कथमुपनिषद्भेदे सत्यपि तच्छेषतया निरूपणम् ॥ इत्थम् । आनन्दवल्लयाम्, “स यश्चायं पुरुषे यश्चासावादित्ये स एकः” इत्यानन्दमयस्यैव आदित्यमण्डलवर्तित्वमुक्तम् । छान्दोग्यप्रतिपादितस्य आदित्यान्तर्वर्तिनो देहसंबन्धेन जीवानतिरेके सति आनन्दवल्लयामपि जीवानतिरिक्त आदित्यान्तर्वर्तिपुरुष उक्तः स्यादिति आनन्दमया जीव एवेति शङ्कायां तच्छेषत्वेन उत्तराधिकरणारम्भ इति । अधिकरणभेदः उक्तन्यायाविषयभूतोपनिषद्भेदहेतुकः । ननु “तस्यैष एव शारीर आत्मा” इति वाक्यप्रतिपन्नशरीरसंबन्धस्य (?) परिहृतत्वात् शारीरत्वश्रवणहेतुकजीवत्वशङ्का नोपपद्यत इति चेत् उच्यते । तत्र ह्यन्नमयादीनां शरीरत्वमुक्तम् । न हि ते प्रत्येकं करचरणादिसंस्थानवन्तः । तैः संबन्धश्चाधिष्ठात्रधिष्ठेयभावलक्षणः शेषशेषिभावलक्षणो वा येन केनापि प्रकारेणोपपद्यते । अत्र तु, “हिरण्यश्मश्रुर्हिरण्यकेशः” इत्यादिना करचरणादिसंस्थानकं शरीरं श्रूयते । तस्य च कमर्कृतत्वं लोकप्रसिद्धम् । अतः उपकरणोपकरणित्वलक्षणसंबन्धश्चार्थसिद्धः ॥ ननु तत्राप्यन्नमयस्यात्मत्वश्रवणादात्मप्रतिसंबन्धिनः शरी रस्य करचरणादिमत्त्वात् तत्कृतजीवत्वशङ्कापि तत्रैव निरस्तेति चेन्न ; प्राणमयादीनां करचरणादिमत्त्वाभा वात्; अन्नमयस्य तु तथाविधत्वे सत्यपि तं प्रति विज्ञानमयस्यैव शरीरित्वात्, विज्ञानमयं प्रति शरीरिण आनन्दमयस्य करचरणादिमच्छरीरकत्वाभावात् । शरीरमात्रेण संबन्धमात्रनिबन्धनशङ्कैवतत्र निरस्ता । अत्र त्वानन्दमयस्यैव आदित्यान्तर्वर्तिनः करचरणादिमत्त्वं प्रतीयते । अतः पूर्वाधिकरणे शरीरमात्रेण संबन्धमात्रश्रवणादुत्थितायां जीवत्वशङ्कायां निरस्तायां पुनः

करचरणादिसंस्थानकदेहविशेषेणोपकरणोपकरणित्वलक्षणसंबन्धविशेषावगमेन जीवत्वशङ्का स्यादिति तन्निरासार्थमानन्दमयाधिकरणशेषत्वेन एतदधिकरणारम्भ इति । अयमर्थो यद्यपीत्यादिसङ्गतिग्रन्थेऽभिप्रेतः ॥