कार्यं बादरिरस्य गत्युपपत्तेः ॥ 4-3-6 ॥
अर्चिरादिनैव गच्छति विद्वात् … …. अतोऽर्चिरादिराति वाहिकगणस्तमेव नयति ॥ 6 ॥
कार्यं बादरिरस्य गत्युपपत्तेः । सङ्गतिमाह - अर्चिरादिनैव इति । उपास्तिनयत्योः कर्म चतुर्मुखः । सर्वगतत्वात् सार्वज्ञ्यादिगुणपूर्तेः संबन्धस्य च क्वाचित्कत्बाभावात् न गत्यपेक्षा इति परिपूर्णादि पदाभिप्रायः उपास्तिवैयर्थ्यं - परिहपति - नित्यप्राप्त इति ॥ 6 ॥
विशेषितत्वाच्च ॥ 4-3-7 ॥
पुरुषोऽमानव एत्य ब्रह्मलोकान् … …. हिरण्यगर्भस्य समीपगमनमर्चिरादिना गतः प्रत्यभिसन्धत्ते ॥ 7 ॥
विशेषितत्वाच्च । 1 एतं ब्रह्मलोकम् इत्यत्र स्वीकृतकर्मधारय व्यावृत्यर्थमाह - बहुवचनेन च इति ॥ 7 ॥
नन्वेवं तत्पुरुषोऽमानवः स एनान् … ….
सामीप्यात् तु तद्व्यपदेशः ॥ 4-3-8 ॥
यो ब्रह्माणं विदधाति इति हिरण्यगर्भस्य … …. गत्यनुपपत्तिविशेषणादिभिः उक्तैर्हेतुमिः निश्चीयते इत्यर्थः ॥ 8 ॥
सामीप्यात् तु तद्व्यपदेशः । विशेषणादिभिः इति आदि शब्देन गत्युपपत्तिः ॥
8 ॥
अथ स्यात् अर्चिरादिना हिरण्यगर्भप्राप्तौ …. …
कार्यात्यये तदध्यक्षेण सहात परमभिधानात् ॥ 4-3-9 ॥
कार्यस्य - ब्रह्मलोकस्य अत्यये … … परामृतात् परिमुच्यन्ति सर्वे इति वचनाच्चावगम्यते ॥ 9 ॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् । अयमर्थः किंमानक इत्यत्राह - ते ब्रह्म इति । परामृतात् - परामृतं प्राप्य । ल्यब्लोपे पञ्चमी
॥ 9 ॥
स्मृतेश्च ॥ 4-3-10 ॥
स्मृतेश्चायमर्थोऽवगम्यते .. … कार्यमुपासीनमेवार्चिरादिको गणो नयतीति बादरेर्मतम् ॥ 10 ॥
स्मृतेश्च । परस्य - ब्रह्मायुषः ॥ 10 ॥
अत्र जैमिनिः पक्षान्तरपरिग्रहेण प्रत्यवतिष्ठते -
परं जैमिनिर्मुख्यत्वात् ॥ 4-3-11 ॥
परं ब्रह्मोपासीनानर्चिरादिर्नयति … … अप्राकृताश्च लोका नात्यन्ताय न सन्ति , श्रुतिस्मृतीतिहासपुराणप्रामाण्यात् ॥ 11 ॥
पक्षान्तरपरिग्रहेण - पूर्वपक्षादन्येन , न तु कृत्स्नसिद्धान्तेनेत्यर्थः । परं जैमिनिर्मुख्यत्वात् । निश्शेष इति । विद्यानिष्पत्तिः - विद्यायाः कार्यकरत्वदशापत्तिः । नितरां विकासो वा । नित्यत्वेऽपि काल विशेषापेक्षावत् सर्वगतत्वेऽपि देशविशेषापेक्षा युक्तेति भावः । उत्क्रान्त्यनुपपत्त्या न गतिरित्यत्राह - विदुषः इति . स्वेच्छापरिकल्पिताः - नित्येच्छापरिकल्पिताः । नात्यन्ताय इति न न सन्ति - न सन्ति इति न ; सन्त्येव अत्यन्तं सन्त्येवेत्र्यर्थः । तदक्षरे परमे व्योमन् इत्यादिमानदार्ढ्यं विवक्षितम् ॥ 11 ॥
दर्शनाच्च ॥ 4-3-12 ॥
दर्शयति श्रुतिः मूर्धन्यनाड्या … …. परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इति ॥ 12 ॥
दर्शनाच्च । उत्थाय इति । देवयानेन गतिसिद्धिः ॥ 12 ॥
यदुक्तं प्रजापतेः समां वेश्म प्रपद्ये … ….
न च कार्ये प्रत्यभिसन्धिः ॥ 4-3-13 ॥
न याचं प्रत्यभिसन्धिः … … परमेव ब्रह्मोपासीनमर्चिरादिरातिवाहिको गणो नयतीति जैमिनेर्मतम् ॥ 13 ॥
न च कार्ये प्रत्यभिसान्धिः । स्फुटम् ॥ 13 ॥
इदानीं बादरायणस्तु भगवात् स्वमतेन सिद्धान्तमाह -
अप्रतीकालम्बनान् नयतीति बादरायणः
उभयथा च दोषात् तत्क्रतुश्च ॥ 4-3-14 ॥
अप्रतीकालम्बनान - प्रतीकालम्बनव्यतिरिक्तान् … … अचिन्मिश्रोपासने तत्क्रतुन्यायाच्चार्चिरादिना गतिर्ब्रह्मप्राप्तिश्च न विद्यते
॥ 14 ॥
अप्रतीकालम्बनात् नयतीति बादरायणः उभयथा च दोषात् तत्क्रतुश्च। जैमिनिमतात् को भेद इत्यत्राह - एतदुक्तम् इति । न च इत्यत्र प्रतीकालम्बन शब्दो गोबलीवर्दनयात् दृष्टयुपासकपरः , कार्यमुपासीनान् इति पृथगुक्तेः । तदेतदाह - इति । कार्यमुपासीनस्य कार्यमेव प्राप्यम् , न परं ब्रह्म ; तत्क्रतु नयात् । अतः परप्रापकोऽर्चिरादिर्न तस्येत्यर्थः ॥
अप्रतीकालम्बनान् नयति इति प्रतिज्ञ व्याहन्येन । तद्य इत्थम् इत्यस्य प्रतीका लम्बनविषयत्वात् इत्यत्राह - पञ्चाग्नि इति । ये च इत्युक्तयोर्द्वयोरपि अप्रतीकालम्बनत्वसाधनाय तत्क्रतुश्च इति सूत्रखण्डः । फलस्य यथोपासनत्वात् ब्रह्मप्राप्तिफलोपास्तिनिष्ठः पञ्चाग्निविदपि ब्रह्मोपासननिष्ठः । अतो ब्रह्मप्राप्त्यानुगुणयात् पृथङ्निर्देशवैयर्थ्योच्च यथोक्त एव तयोर्विभागाः । के पुनः प्रतीकालम्बना इत्यत्राह - नामादि इति ॥ 14 ॥
तमिमं विशेषं श्रुतिरेव दर्शयतीत्याह -
विशेषं च दर्शयति ॥ 4-3-15 ॥
यावन्नाम्नो गतं तत्रास्य यथाकामचारः … … प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानातिवाहिको गणो नयतीति सिद्धम् ॥ 15 ॥
इति कार्याधिकरणम् - 5
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये
चतुर्थस्याध्यायस्य तृतीयः पादः ॥
विशेषं च दर्शयति । नाम्नो गतम् - देवादिनामगोचरः । उपसंहरति - तस्मात् इति ॥
ब्रह्मणा सह इति स्मृतिः न अर्चिरादिगतपुरुषविषया । किं तु चतुर्मखलोकस्थयोगिविषया । ते ब्रह्म इत्यस्य च निषादस्थपतिनयात् ब्रह्माख्यलोके वर्तमानाः चरमदेहान्ते परामृतात् प्रसन्नात् ब्रह्मण एव हेतोः परिमुच्यन्ते इत्यर्थः । कर्मधारयस्य हेतौ पञ्चम्याश्च स्वारस्यात् ॥ 15 ॥
इति कार्याधिकरणम् - 5
इति हरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञाब्धवेदव्यासापर -
नामधेयेन श्रीमद्वारदाचार्यपादसेवासमधिगत श्रीमगवद्रामानुजविरचित -
शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां
श्रुतप्रदीपिकाथां चतुर्थाध्यायस्य तृतीयः पादः ॥
क़दृद्वद्धद्यण् घ्ठ्ठड्डठ्ठ