३ वरुणाधिकरणम्

तटितोऽधि वरुणः संबन्धात् ॥ 4-3-3 ॥

कोषीतिकिनां , स एतं देवयानं … …. वरुणादुपरीन्द्रादीर्निवेशयितव्य इति ॥ 3 ॥

तटितोऽधि वरुणः संबन्धात् । निरूपितनिरूपणीयांश ज्ञापनार्थं पूर्वोक्तक्रमेषु कौषीतकिवाक्याविगानम् , विगीतांशे तस्य दौर्बल्यं चाह - कैषीतकिनाम् इत्यादिना । उपदेंशावैयर्थ्याय इति । क्रमिबाधात् क्रमबाधो न्याय्य इति भावः । इन्द्रप्रजापती अपि इति । क्रमद्वयभङ्गात् एकक्रमभङ्गो वरमिति भावः ॥

राद्धान्ते - सलिसादधो विद्युत , तस्याः स्फुटदृश्यत्वात् । तयोरिव तदभिमानिदेवतयोः संबन्ध इत्यर्थः । मेघोदरे तटिदन्वयोऽस्तु ; कथं तेन पाठक्रमं बाधित्वा तटिदुपरि वरुणनिवेशः ? कथं वा इन्द्रप्रजापत्योस्तत्रावकाश इत्यत्राह - एतदुक्तम् इति । अर्थक्रमस्य पाठक्रमाद्बलीयस्तया तटिदुपरि वरुणः । कौषीतकिपाठानुरोधात् आगन्तूनामन्ते निवेशनयात् तदुपरि इन्द्रप्रजापती इत्यर्थः ॥ 3 ॥

इति वरुणाधिकरणम् - 3