वायुमब्दादविशेषविशेषाभ्याम् ॥ 4-3-2 ॥
अर्चिरादिनैव गच्छन्ति विद्वांसः …. … योऽयं पवत एष देवानां गृहाः इति ॥ 2 ॥
वायुमब्दादविशेषविशेषाभ्याम् । सङ्गितिः स्फुटा । संशयं वक्त्तुं स्थलं शोधयति - तत्र इत्यादिना । मासानन्तरं संवत्सरदेवलोकयोः क्रमं निश्चित्य देवलोकवाय्वोः संशयः । विशेषाभावाच्च इति । अब्ददेवलोकयोः पञ्चम्युक्तक्रमसाम्येऽपि , अब्दस्य मासानन्तरत्वे न्यूनकालानन्तरमधिककाल निवेशरूपो विशेषः प्रागुक्तः इह तु न तथेत्यर्थः ॥
राद्धान्ते - देवलोक शब्दः सामान्यशब्दः । लोकपरत्वव्यावृत्त्यर्थमाह - वायुश्चासौ इति ॥ 2 ॥
इति वाय्वधिकरणम् - 2