अर्चिरादिना तत्प्रथितेः ॥ 4-3-1 ॥
विदुष उत्क्रान्तस्य नाडीविशेषेण … .. अन्यत्रापि सर्वत्राग्न्यादित्यादयः प्रत्यभिज्ञायन्ते ॥ 1 ॥
अर्चिरादिना तत्प्रथितेः । पादसङ्गतिमाह - विदुषः इति । ब्रह्मवित्संबन्धज्ञापनाय यथा इत्याद्युपात्तम् । शव्यम् - शवार्हम् । अनेकरूपत्वात् - क्रमभेदात् क्रमिभेदाच्चेति भावः ॥
राद्धान्ते - अल्पान्तरम् - संवत्सर स्थाने देवलोक श्रुतेरिति भावः । य एवमेतद्विदुः , ये चेमे अरण्ये श्रद्धां सत्यप्तुपासते इति श्रुतिर्मार्गैक्ये प्रमाणम् । प्रत्यभिज्ञानम् अनुग्राहकम् ॥
नेयं श्रुतिरनुपदिष्टमार्गविशेषोपासनविषया । मार्गभेदे सङ्कोचः , सङ्कोचान्मार्गभेदः इत्यन्योन्यश्रयणात् । ऐक्यं
तु प्रत्यभिज्ञसिद्धम् । अथैतयोः पथोः इति देवयानपितृयानमार्गद्वित्वश्रुतिस्वारस्याच्च मार्गौकत्वं सिद्धम् । एषां भाष्येऽनुक्तिः भाष्यान्तरोक्तत्वात् । सर्वपरविद्यासु ब्रह्मतत्प्रप्तिरूपफले प्रत्यभिज्ञातेऽपि गुणानन्त्यादुपसंहाराशक्तेः विद्यैक्यानुपगमः ; मार्गे तु द्वादशपदार्थानतिरेकेण चिन्तायोग्यत्वात् प्रत्यभिज्ञया ऐक्योपगमो युक्तः ॥
इति अर्चिराद्यधिकरणम् -1