११ दक्षिणायनाधिकरणम्

अचश्चायनेऽपि दक्षिणे ॥ 4-2-19 ॥

निशि मृतस्यापि विदुषो ब्रह्मप्राप्तौ … … धर्प्रवर्तनाय उत्तरायणप्राशस्त्यप्रदर्शनार्थः तथाविधाचारः ॥ 19 ॥

अचश्चायनेऽपि दक्षिणे । सङ्गत्यादि स्पष्टम् । निशि दक्षिणणायने च मृतस्य देहस्य चरमत्वं न स्यात् । तथा सति हि बन्धककर्माभाव इति चेन्न - दक्षिणायने मृत

स्यापि वाक्यशेषे ब्रह्मणो महिमानमाप्नोति इति ब्रह्मप्राप्तिश्रवणादिति भावः ॥

न च अथ यो दक्षिणे इत्यधिकार्यन्तरविषयम् , अप्रस्तुतत्वात् ; महिमानावभिजयति इत्यैक्यप्रतीतेश्च । न च महिमानौ विद्वान् इत्यन्वयः ; विद्वच्छब्दस्य तस्यैवं विदुषः इति प्रकृताधिकारिपरत्वात् जयतेः सकर्मकत्वस्य स्वतः प्राप्तत्वात् लोकमभिजयति इत्यादि श्रौतप्रयोगाच्च ॥ 19 ॥

ननु च विदुषो मुमूर्षून् प्रति … ….

योगिनः प्रति स्मर्येते स्मार्ते चैते ॥ 4-2-20 ॥

नात्र मुमूर्षून् प्रति … … विद्यानिष्ठान् प्रति विधीयते , न मुमूर्षून् प्रति मरणकालविशेषः ॥ 20 ॥

इति दक्षिणायनाधिकरणम् - 11


इति श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थस्याध्यायस्य द्वितीयः पादः ॥

अनन्तरसूत्रमवतारयति - ननु च इति । योगिनः प्रति स्मर्येते स्मार्ते चैते । स्मार्त पदार्थमाह - स्मृति इति । स्मर्तव्यतयेत्यर्थः । स्मर्तुम् इति तत् स्फुटीकृतम् । उपक्रमाख्यावयवात् महावाक्यस्वारस्यप्राबल्यमभिप्रयता अन्ते मध्ये च मार्गपरत्वं दर्शतम् ॥ 20 ॥

इति दक्षिणायनाधिकरणम् - 11


इति श्रिहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदेव्यासापर -

नामधेयेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -

शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विरचितायां

श्रुतप्रदीपिकायां चतुर्थस्याध्यायस्य द्वितीयः पादः ॥

च्र्ण्त्द्धड्ड घ्ठ्ठड्डठ्ठ