०७ अविभागाधिकरणम्

अविभागो वचनात् ॥ 4-2-15 ॥

सेयं परमात्मनि संपत्तिः … … पुनस्तत्राव्यक्तादिसृष्ट्यवचनाच्च

॥ 15 ॥

अविभागो वचनात् । सङ्गतिः स्पष्टा । तेजः शब्दस्य जीवामात्रपरत्वे लक्षणा , संपत्तिशब्दार्थवैरूप्यं च । अतः सुषुप्ताविव न विशेष्यांशस्य लयः । नापि विशिष्टस्य , सूक्ष्मदेहशैथिल्येन विशेषणभूत भूतसूक्ष्माणां तत्समष्टौ लयायोगात् , तत एव तमसि लयायोगात् । सूक्ष्मदेहारंभाय पुनः अव्यक्तादिसृष्ट्यवचनात्, तदनारंभे गत्यनुपपत्तेश्च संपत्तिः संसर्गमात्रमित्यर्थः । अव्यक्तादिसृष्ट्यवचनाच्च इति कल्पकाभावश्चोक्तः ॥

इति अविभागाधिकरणम् - 7