०५ आसृत्युपक्रमाधिकरणम्

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ 4-2-7 ॥

इयमुत्क्रान्तिः किं विद्वदविदुषोः … …. यो ब्रह्मानुभवः तद्विषयमित्यभिप्रायः ॥ 7 ॥

समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य । भाव्यधिकरणार्थद्वयस्य विद्वदविदुषोः समानत्वे सत्यपि , अस्याधिकरणस्य तदीर्ध्वभावित्वा भावः तदर्थस्य बिदूत्स्वविगीतत्वात् । अतो विगीतांशस्य समानत्वमुपपाद्यते इति सङ्गतिः ॥

राद्धान्ते -उत्क्रान्तौ सत्यां हि समानत्वमित्यत्राह - विदुषोऽपि हि इति । अथ समानत्वमुपपादयति - सा च इति ॥ 7 ॥

तदापीतेः संसारव्यपदेशात् ॥ 4-2-8 ॥

अवश्यं च तत् - अमृतत्वम् … …. अकृतं कृतात्म ब्रह्मलोकमभिसंभवानि इति च ॥ 8 ॥

तदापीतेः संसारव्यपदेशात् । चरमदेहावधि विलग्बश्रुत्या जीवन्मुक्त्त्ययोग उक्तः ॥ 8 ॥

सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ 4-2-9 ॥

इतश्च विदुषोऽपि बन्धः … … सूक्ष्मशरीरमनुवर्तते । अतश्च बन्धो न दग्धः ॥ 9 ॥

सूक्ष्मं प्रमाणतश्च तथोपसलब्धेः । इह सूक्ष्म देहस्थित्या तदयोग उक्तः॥

नोपसर्देनातः ॥ 4-2-10 ॥

अतः यदा सर्वे प्रमुच्यन्ते … … वचनं न बन्धोपमर्देनामृत्वं वदति ॥ 10 ॥

नोपमर्देनातः । अत्र उपासनध्रुवानुस्मृतित्व दर्शनरूपत्वप्रीतिरूपत्वाप्रयाणानुवृ

त्तिसुदुष्कर्म धूनननाडीविशेषनिष्क्रमणमार्गविशेष सूक्ष्मदेहस्थित्यादिविषयबहुश्रुतिभिः तदयोगोऽभिप्रेतः । प्रधानयुक्त्त्यनन्तरं पूर्वसूत्रेण निगमनं कृतम् । तथाऽभ्युच्चययुक्तिरुच्यते ॥ 10 ॥

अस्यैव चोपपत्तेरूष्मा ॥ 4-2-11 ॥

अस्य - सूक्ष्मशरीरस्य क्वचित् … … आसृत्युपक्रमात् समानोत्क्रान्तिरिति सुष्ठूक्तम् ॥ 11 ॥

अस्यैव चोपपत्तेरूष्मा । सन्तापयति इत्याद्युक्तस्य भष्मणः सार्वत्रिकत्वात् , इह काचित्कोप्मोपलम्भः सूक्ष्मदेहस्य काचित्कस्योत्क्रन्तिमत्त्वादित्यर्थः । परमप्रकृतं निदमयति - तस्मात् इति ॥ 11 ॥

पुनरपि विदुष उत्क्रान्तिः न …. ….

प्रतिषेधादिति चेन्न शारीरात् स्पष्टो ह्योकेषाम् ॥ 4-2-12 ॥

यदुक्तं विदुषोऽप्युत्क्रान्तिः … …. भूतसूक्ष्मवज्जीवं परिष्वज्यगच्छन्ति - इति प्रतिपादयतीति निरवद्यम् ॥ 12 ॥

प्रतिषेधादिति चेन्न शरीरात् स्पष्टो ह्येकेषाम् । तैजोमात्राः - भूतसूक्ष्मांशान् । हृदयम् - हृदयादपक्रामतीत्यर्थः । अकामयमानादि पदत्रयम् एषणात्रयराहित्यपरम् ॥

राद्धान्ते - तस्य इत्यादि । षष्ठ्यन्ततच्छब्दनिर्दिष्टः शारीरोऽस्तु , तत्संबन्धिनां प्राणानामुत्क्रान्त्यपादानं शरीरमेवेत्यर्थः । षष्ठ्याः करणतद्वत्तालक्षणसंबन्धपरत्वमभ्युपगम्य परिहरति - न इति । अप्रस्तुतधर्मिणोऽपादानत्वस्य च क्लृप्तेः वरं प्रस्तुतस्यैंवापादानताकॢप्तिरित्यर्थः । षष्ठ्या एवापादानतापरत्वं वैयर्थ्यशक्तिभ्यामुपपादयति - किं च इति । प्रसङ्गस्या निष्टत्वे सति हि निषेध्यत्वमित्यत्राह - ततश्च इति । ग्रहः - रज्जुः । मृत्युम् - अग्निपपजयतीत्यर्थः । तर्हि कथं प्राणानुत्क्रान्तिरित्यत्राह - अविदुपस्तु इति

॥ 12 ॥

स्मर्यते च ॥4-2-13 ॥

स्मर्यते च विदुषोऽपि मूर्धन्यनाड्या … …. ब्रह्मलोकमतिक्रम्य तेन यति परां गतिम् ॥ 13 ॥

स्मर्यते च । स्पष्टम् ॥ 13 ॥

इति आसृत्युपक्रमाधिकरणम् - 5