०१ वागधिकरणम्

वाङ्मनसि दर्शनाच्छब्दाच्च ॥ 4-2-1 ॥

इदानीं विदुषो गतिप्रकारं चिन्तीयितुम् … … मनसा वाक् संयुज्यते , न तु तत्र लीयते , इति परिहर्तव्यम् ॥ 1 ॥

वाङ्मनसि दर्शनाच्छब्दाच्च । देहस्थितौ विद्याफलमुक्तम् । अथ गत्युपक्रमरूपोत्क्रान्तिश्चिन्त्यते इति 1पादसङ्गतिः । कथञ्चित् - वाक्प्रवृत्ति - हेतुत्वरूपावस्थालक्षणयेति भावः ॥

राद्धान्ते - दृश्यते हि इति । प्रवृतस्वकार्ये दारुणि निवृत्तस्वकार्यस्याग्नेरिव वाचो मनस्यन्तर्भाव इति भावः । यदुक्तम् इति । वाक्संपत्ति शब्दयोर्द्वयोरप्यमुख्यत्वात् परमसंपत्तिशब्दास्वारस्यमित्यर्थः । न च तत्राप्यत्यन्तास्वारस्यम् । दर्शनशब्दौ समुच्चित्यहेतू ॥ 1 ॥

अत एव सर्वाण्यनु ॥ 4-2-2 ॥

यतो वाचो मनसा संयोगमात्रं …. … अपुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः इति ॥ 2 ॥

अत एव सर्वाण्यनु । अनु - पश्चात् ॥ 2 ॥

इति वागधिकरणम् - 1