भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते ॥ 4-1-19 ॥
ययोः पुण्यपापयोः अश्लेषविनाशावुक्तौ … .. सुहृदोगह्णन्ति , पापं च द्विषन्त इति निरवद्यम् ॥ 19 ॥
इति इतरक्षपणाधिकरणम् - 11
इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये
चतुर्थस्याध्यायस्य प्रथम्#ः पादः ॥
भोगेन त्वितरे क्षपयित्यवाऽथ संपद्यते । सङ्गतिः स्फुटा । राद्धन्ते - पूर्वपक्षबीजं परिहरति - तस्य तावत् इति । अत्र देहतदवधी म श्रुतौ । धूत्वा इत्यत्र देहः श्रुतः , न त्ववधिः । एकवचनं जात्यभिप्रायम् यथा विधूय पापम् इत्यभिप्रेत्य अवधिनियमाश्रवणात् इत्युक्तम् ॥
पूर्वाधिकरणेषूक्तमर्थं सुग्रहत्वाय संक्षिपति - तदेवम् इति ॥ 19 ॥
इति इतरक्षपणाधिकरणम् - 11
इति श्रीहरितकुलतिलकवाग्विजयिसूनुना श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापर -
नामधेनेन श्रीमद्वरदाचार्यपादसेवासमधिगत श्रीभगवद्रामानुजविरचित -
शारीरकमीमांसाभाष्यहृदयेन श्रीसुदर्शनसूरिणा विलिखितायां
श्रुतप्रदीपिकायां चतुर्थस्याध्यायस्य प्रथमः पादः ॥
च्ड्ढड़दृदड्ड घ्ठ्ठड्डठ्ठ