१० अग्निहोत्राद्यधिकरणम्

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ 4-1-16 ॥

इतरस्याप्येवमसंश्लेषः इति … … दूषितान्तःकरणस्य विद्योत्पत्तिरेव न स्यात् ॥ 16 ॥

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् । सङ्गतिमाह - इतरस्य इति । पूर्वत्र ऊर्ध्वरेतस्स्वदर्शनात् नित्यानित्यसंयोगविरोधात् , इह सुकृत फलाश्लेषाच्च अननुष्ठेयत्वं परिहृतमिति न पुनरुक्तिः ॥

राद्धन्ते - तर्हि सकृदनुष्ठेयमित्यत्राह - विद्यायाश्च इति ॥ 16 ॥

यदि अग्निहोत्रादिसाधुकृत्या …. ….

अतोऽन्यापि ह्येकेषामुभयोः ॥ 4-1-17 ॥

अतः अग्निहोत्रादिसाधुकृत्यायाः … … विद्यया अश्लेषविनाशश्रुतिश्च तद्विषया ॥ 17 ॥

अनन्तरस्य शङ्कामाह - यद्यग्निहोत्रादि इति । द्विषन्तः इत्यादेर्विषयो मृग्यः । उत्तराघस्याभुक्तत्वात् अनारब्धफलत्वाच्च बिशयत्वोपपत्तेः अतः सुहृदः इत्युपात्तम् ॥

अतोऽन्यापि ह्येकेषामुभयोः । प्राक्कृतं वृष्ट्यन्नदिहेतोः पश्चात्कृतं च प्रतिबद्धफलं पुण्यं विषय इत्यर्थः ॥ 17 ॥

अनुष्ठितस्यापि कर्मणः फलप्रतिबन्ध …..

यदेव विद्ययेति हि ॥ 4-1-18 ॥

यदेव विद्यया करोति तदेव … … सुहृदः साधुकृत्याम् इति शाट्यायनकम् ॥ 18 ॥

अनन्तरसूत्रसङ्गतिमाह - अनुष्ठितस्यापि इति । पूर्वोक्तम् - पृथग्घ्यप्रतिबन्धः फलम् इत्युक्तम् ॥

यदेव विद्ययेति हि । स्फुटम् ॥

इति अग्निहोत्राद्यधिकरणम् - 10