०७ तदधिगमाधिकरणम्

तदधिगम उत्तरपूर्वाघयोरश्लोषविनाशौ तद्व्यपदेशात् ॥ 4-1-13 ॥

एवं विद्यास्वरूपं विशोध्य … .. विद्यायाः दुश्चरितिविरति निष्पाद्यत्वावगमात् ॥ 13 ॥

तदधिगम उत्तरपूर्वाघयोरश्लोषविनाशौ तद्व्यपदेशात् । विद्याप्राप्तौ इति। उपासनप्रारम्भ इत्यनुक्तिः अतद्रूपविद्यानिप्पत्तेरपि सौत्रत्वाभिप्रायनिबन्धना । अश्लोषविनाशयोः उत्तरपूर्वाघ विषयत्वं यगोयताधीनम् । न हि संश्लिष्टस्य अश्लोषो युक्तः । अतस्तस्य नाश एव । उत्तरत्याश्लोषः । अननुमवेऽपि नाशो दृष्ट इत्यत्राह - न च इति ॥

राद्धान्ते - विषयभेदादविरोधं निदर्शयति - यथा इति । अश्लेषविनाशौ विवृणोति - अघस्य इति । उक्तस्योपपन्नत्वमाह - तदेवम् इति । स्वर्गादिस्वरूपेण साध्यमिति न तद्धेतुकर्मणः पापनिवर्तकत्वम् । अत्र तु प्रतिबन्धनिवृत्तिरेव साध्येति विद्या प्रायश्चित्ततुल्या । प्रारब्धोपासनस्य तत्समाप्तौ सर्वमहं क्षमिष्यामि इति सङ्कल्पः । अतो न सांपरायाधिकरणविरोधः । क्षान्तम् इति तदा सङ्कल्पः ॥ 13 ॥

इति तदधिगमाधिकरणम - 7