आसीनः संभावत् ॥ 4-1-7 ॥
मोक्षसाधनतया वेनान्तशास्त्रैः …. … प्रतत्रनिवृत्तये सापाश्रये आसीनः कृर्यात् ॥ 7 ॥
आसीनः संभवात् । अनन्तरयोः प्रासङ्गिकत्वात् ततः पूर्वेण सङ्गतिमाह - मोक्ष इति । आसिकावचनं मनोनुकूलताभिप्रायमिति पूर्वपक्षः । तदवश्यंभावात् तत्परिहारः ॥ 7 ॥
ध्यानाच्च ॥ 4-1-8 ॥
निदिध्यासितव्यः इति ध्यान … … विजातीय प्रत्ययान्तराव्यवहितमेकचिन्तनमित्युक्तम् ॥ 8 ॥
ध्यानाच्च । ध्यान शब्दो भावप्रधानः ॥ 8 ॥
अचलत्वं चापेक्ष्य ॥ 4-1-9 ॥
निश्चलत्वं चापेक्ष्य पृथिव्यन्तरिक्ष … … निश्चलत्व मुपासकस्य आसीनस्यैव संभवेत् ॥ 9 ॥
अचलत्वं चापेक्ष्य । आपः - तटाकादिजलम् । ऐकाग्र्यकार्यनिश्चलतया साम्यम् ॥ 9 ॥
स्मरन्ति च ॥ 4-1-10 ॥
स्मरन्ति चासीनस्यैव ध्यानं … … उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये इति ॥ 10 ॥
स्मरन्ति च । स्पष्टम् ॥ 10 ॥
यत्रैकाग्रता तत्राविशेषात् ॥ 4-1-11॥
एकाग्रतातिरिक्तदेशकाल … … मनोऽनुकूले इति वाक्यशेषात्
॥ 11 ॥
यत्रैकाग्रता तत्राविशेषात् । कालः इति । तिथ्यादिनियमो नेत्यर्थः
॥ 11 ॥
इति आसीनधिकरणम् - 5