न प्रतीके न हि सः ॥ 4-1-4 ॥
मनो ब्रह्मेत्युपासीत …. … प्रतीकस्योपासितुरात्मत्वाभावान्न तथाऽनुसन्धेयम् ॥ 4 ॥
न प्रतीके न हि सः । उक्तमात्मतया उपासनम् । प्रतीकेष्वपि तथा कार्यं न वेति सङ्गतिः । ब्रह्म शब्दनिर्देशात् तदेवोपास्यम् । मनः - आदि तु दृष्टिविशेषणमिति पूर्वपक्षः ॥
राद्धान्ते - उपास्यं हि ब्रह्मेत्यत्राह - प्रतीकोपासनेषु इति । ब्रह्म शब्दः कथमित्यत्राह - ब्रह्म तु इति ॥ 4 ॥
ननु अत्रापि ब्रह्मैवोपास्यम् … …
ब्रह्मदृष्टिरुत्कर्षात् ॥ 4-1-5 ॥
मनआदिषु ब्रह्मदृष्टिरेव युक्ता …. … भृत्ये तु राजदृष्टिरभ्युदयाय
॥ 5॥
अनन्तरस्यावतारायाह - ननु इति । ब्रह्मदृष्टिरुत्कर्षात् । न मन आद्यचिनमात्रमुपास्यं , किं तु अभिमानिदेवतेति न विरोधः ॥ 5 ॥
इति प्रतीकाधिकरणम् -3