०२ आत्मत्वोपासनाधिकरणम्

आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ 4-1-3 ॥

इदमिदानीं चिन्त्यते - किमुपास्यं … … अत उपासितुरात्मत्वेन ब्रह्मोपास्यमिति स्थितम् ॥ 3 ॥

आत्मेति तूपगच्छन्ति ग्राहयन्ति च । उक्तोपासनकर्मभूतं ब्रह्म किमयुतसिद्धिरूपसंबन्धविरहेण उपास्यम् , उत उपासितृशरीरकत्वेन इति शङ्कया सङ्गतिः । यथा पुरुषार्थ्योऽत इत्यधिकरणस्य श्रुत्यर्थाक्षेपेणोत्थानं , तथाऽस्याप्यभेदश्रुत्यर्थाक्षेपेणोत्थानम् । अन्य शब्दः शरीरात्मभावरूपसंबन्ध- रहितवाची । नायमस्मदीयः , अपि त्वन्यः इति संबन्धविशेषरहिते प्रयोगात् । उपासितुरात्मत्वे उपासितारं प्रति शरीरित्वेन उपास्योपासकभावेन जीवेश्वरयोः भूत्यराजतुल्यत्वावगमात् , पृथक्त्वधियो मोक्षोपायत्वाच्च भेदस्तात्त्विक इति उपायपरवाक्यबलात् अमेदश्रुत्याक्षेपोऽभिप्रेतः ॥

अयथाभूता स्यात् इति संसारित्वप्राप्तिरित्यर्थः ॥

राद्धान्ते - आत्म शब्दं विवृणोति - उ#ेपासिता इति । उपगच्छन्ति - गत्यर्थाः बुद्ध्यर्थाः । उपासते इत्यर्थः । उपासनविधिष्वेवाभेददर्शनात् उपसितृशरीरकत्वेनोपास्यमित्यर्थः । तर्हि भेदोपासनविधिविरोध इत्यभिप्रायतयोक्तम् - कथमभ्युपगच्छन्ति इति । सन्मूलाः इत्यादिभिरुपेतस्य य आत्मनि इत्यस्यार्थमाह - सर्वस्य इति । युक्तमिति उपपादयन्ति इत्यन्वयः ॥

एकत्वपृथक्त्वश्रुत्योरविरोधमाह - एवं च इति । तद्विशदयति - अहम् इति । तदुपपादयति - अधिकस्य इति । एषः इति पदं जीवपरम् , पुल्लिङ्गत्वात्; परस्य च देवता शब्दोक्तवात् । विशेषणमात्रमपूर्णम् ; विशिष्ट एव पूर्ण इत्यर्थः ॥ 3 ॥

इचि आत्मत्वोपासनाधिकरणम् - 2