आवृत्तिरसकृदुपदेशात् ॥ 4-1-1 ॥
तृतीयेऽध्याये साधनैः सह विद्या … … वेदनादिशब्दैरभिधीयते इति निश्चीयते ॥ 1 ॥
आवृत्तिरसकृदुपदेशात् । अध्यायसङ्गतिमाह - तृतीये इति । स्वोपयोग्यर्यैः सह विद्या चिन्तिता । अथ फलचिन्तेति सङ्गतिः । विद्याविषये प्रागनिरूपितांशः प्रथमं निरूप्यते साध्यसाधनभावसंबन्धज्ञापनार्थं प्रीतिरूपत्वात् फलरूपताज्ञापनार्थं च । अश्रुताऽप्यावृत्तिः क्कचित् क्रियते इत्यत्राह - न च इति ॥
राद्धान्ते - एकैकोपनिषदि प्रयोगो दर्शितः पर्यायत्वं च इत्यादिना । बहूपनिषत्सु प्रयोगं दर्शयति - तथा इति । अत्र छागपशुनयोऽभिप्रेतः । ततः किमित्यत्राह - ध्यानं च इति ॥ 1 ॥
लिङ्गाच्च ॥ 4-1-2 ॥
लिङ्गं - स्मृतिः । स्मृतेश्चायमर्थो … … तस्मादसकृदावृत्तमेव वेदनं शास्त्रार्थः ॥ 2 ॥
लिङ्गाच्च स्पष्टम् ॥ 2 ॥
इति आवृत्त्यधिकरणम् - 1