सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ 3-4-46 ॥
तस्माद्ब्राह्मणः पाण्डित्यं …. …. पाण्डित्यादिकं मौनतृतीयं विद्यायाः सहकार्यन्तरं विधीयते ॥ 46 ॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् । पूर्वं यज्ञादिः
शमादिश्च सहकारी निरूपितः । तद्वत् सहकार्यन्तरं निरूप्यते इति सङ्गतिः । मौन शब्दो हि मननार्थः । अत उक्तम् ज्ञानार्थत्वात् इति । विधीयते इति । पदार्था उक्ताः । वाक्यार्थमाह - एतदुक्तम् इति । ज्ञानार्थत्वात् अनुवाद इत्यत्राह - मौनं च इति । पक्षेण इति व्याख्येयम् । अनुवादस्य नैरर्थ्यात् पाक्षिकौऽप्यर्थो विधित्वानुगुणः स्वीकार्य इत्यर्थः ॥
पाण्डित्यबाल्यमौनब्राह्मण शब्दार्थः कः ? तस्मात् ब्राह्मणः , अथ ब्राह्मणः इत्यत्र ब्राह्मणस्य पाण्डित्यादिकं ,
पाण्डित्यादिकेन च ब्राह्मण्यम् इति व्याहतिरित्यत्राह - तदेवम् इति । प्रथमब्राह्मणशब्दो विद्वम्नात्रविषयः । द्वितीयस्तु विद्याकाष्टाप्राप्तिविषयः । परिपूर्तिः कल्याणगुणैः । उभयलिङ्गत्वमुक्तं पदाभ्याम् । अप्राप्तं वेदनम् इति निर्दोषत्वकल्याणगुणयोः काष्ठाज्ञानम् । तदुपदेशैकलम्यम्। तत् पाण्डित्यम् । अमौनं पाण्डित्यबाल्ययज्ञादिकम् ॥ 46 ॥
अथ स्यात् - यदि सर्वेष्वाश्रमेषु … …
कृत्स्नभावात् तु गृहिणोपसंहारः ॥ 3-4-47 ॥
तुशब्दश्चोद्यं व्यावर्तयति । … … सर्वाश्रमधर्मप्रदर्शनार्थो गृहिणोपसंहार इत्यभिप्रायः ॥ 47 ॥
अनन्तरमवतारयति - अथ स्यात् इति । कृत्स्नभावात् तु गृहिणोपसंहारः । छान्दोग्ये ब्रह्मविदो गार्हस्थ्येन स्थितिवचनं प्रदर्शनार्थम् । बृहदारण्यकविरोधादित्यर्थः ॥ 47 ॥
तथा एतस्मिन्नपि वाक्ये …. ….
मौनवदिनरेषामप्युपदेशात् ॥ 3-4-48 ॥
सर्वेषणाविनिर्मुक्तस्य भिक्षाचरण …. … मौनतृतीयः पाण्डित्यादिः विद्यासहकारित्वेन विधीयते इति ॥ 48 ॥
सङ्गत्यर्थमिममर्थं संक्षिपन् अनन्तरसूत्रमवतारयति - तथा इति । मौनवदितरेषामप्युपदेशात् । एवंविध शब्दः ईषणात्यागादिपूर्वकत्वपरः । अधिकरणार्थं निगमयति - अतः इति ॥ 48 ॥
इति सहकार्यन्तरविध्यधिकरणम् - 12